विष्णुधर्मोत्तरपुराणम् · अध्याय 3.286.290
3.286
हंस उवाच ॥
सर्वकर्मप्रधानस्य व्यवसायस्य मानदाः ॥
मूलमेकं विनिर्दिष्टं संकल्पो नात्र संशयः
संकल्पमूलः कामो वै ज्ञानं संकल्पबन्धनम् ॥
संकल्पबन्धना वेदा धर्मः सङ्कल्पबन्धनः
संकल्पबन्धनश्चार्थो मोक्षः संकल्पबन्धनः ॥
संकल्पबन्धनं सर्वं जगदेतच्चराचरम्
आदौ निश्चित्य यत्कर्म मनसा बुद्धिमान्नरः ॥
युनक्ति व्यवसायेन पश्चाज्ज्ञेयः स पंडितः
यावन्तो निश्चितास्त्वर्था मनसा केनचित्क्वचित् ॥
तावन्न शक्यते कर्तुं संकल्पोऽतः परो मतः
संकल्पितानां मनसा तु पूर्वं सिद्धिः प्रदिष्टा व्यवसाययुक्ता ॥
कार्याणि सर्वाणि ततस्तु लोके संकल्पमूलानि वदंति सन्तः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संकल्पनिर्वचनो नाम षडशीत्युत्तरद्विशततमोऽध्यायः
3.287
ऋषय ऊचुः ॥
नैःश्रेयसपदावाप्तौ प्रत्याहारस्त्वयेरितः ॥
धारणाध्यानयोगश्च समाधिरपि चोत्तमा
भूय एव त्वमाचक्ष्व नृणां संसारसारिणाम् ॥
हितार्थमुत्तमं मार्गं लोकद्वयसुखावहम्
॥ हंस उवाच ॥ ॥
अग्निर्मुखं देवतानां सर्वभूतपरायणम् ॥
तस्य शुश्रूषणादेव सर्वान्कामान्समश्नुते
सा मूर्तिः परमा विष्णोस्तद्दत्तं प्राप्नुते रविः ॥
सूर्याद्वृष्टिस्ततस्त्वन्नमन्नात्प्रभवते जगत्
अधःप्रवर्षिणो देवा भौमास्तूर्ध्वं प्रवर्षिणः ॥
ऊर्ध्वप्रवर्षिणं मुख्यं भौमं दत्तं हुताशने
ॐकारं पूर्वमुद्दिश्य यांयां विप्रस्तु देवताम् ॥
हविर्जुहोति सा तस्य प्रीता भवति नित्यदा
वह्निदत्तेन हविषा तृप्तिमायान्ति देवताः ॥
तास्तृप्तास्तर्पयन्त्येनं नरं कामसमृद्धिभिः
सूर्ये होमः परः पुण्यस्तेन स्वर्गे महीयते ॥
तस्मादष्टगुणं पुण्यमिध्मभिः प्राप्नुयाद्धुते
तस्माद्दशगुणं सस्यैर्व्रीहिभिर्द्विगुणं ततः ॥
तावदेव तथा पुण्यं होमे सिद्धार्थकैः स्मृतम्
यवैश्चतुर्गुणं तस्मात्तिलैर्दशगुणं ततः ॥
तावदेव फलं ज्ञेयं बिल्वैर्दशगुणं ततः ॥
पद्मैश्च तावदेवोक्तं दध्ना क्षीरेण च द्विजाः ॥
परमान्नेन धर्मज्ञा घृतेनाष्टगुणं ततः
मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः ॥
स्वाहावसाने जुहुयाद्ध्यायन्वै मन्त्रदेवताम्
यया त्वङ्गुलिपर्वाणि पूर्यन्ते तावदाहुतिः ॥
अङ्गुष्ठमात्रं स्थौल्येन वितस्तिश्चेध्म इष्यते
दुःस्वप्ने च दुरिष्टे च दुर्निमित्ते तथैव च ॥
नास्ति होमसमन्त्राणं तथा पापविनाशनम्
होमेन पापं पुरुषो जहाति होमेन नाकं च तथा प्रयाति ॥
होमस्तु लोके दुरितं समग्रं विनाशयत्येव न संशयोऽत्र
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु होमविधिवर्णनो नाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः
3.288
हंस उवाच ॥
दैवाधीना प्रजाः सर्वा देवायत्तमिदं जगत् ॥
सुखदुःखे मानुषाणां देवायत्ते तथैव च
देवैर्विहितमश्नन्ति मनुष्यास्तु शुभाशुभम् ॥
तस्मात्सर्वप्रयत्नेन देवपूजापरो भवेत्
देवाश्च भक्त्या तुष्यन्ति श्रद्धया परया तथा ॥
पूजिताः शुचिना चैव देवास्तुष्यन्ति नान्यथा
देवशुश्रूषया स्वर्गो देवशुश्रूषया सुखम् ॥
देवशुश्रूषया राज्यं मोक्षं चाप्यथवाप्यते
देवताः कामयन्तीह तथा भक्तं जनं सदा ॥
भक्तानुकम्पिनो देवाः परत्रेह तथा ध्रुवम्
त्राणं कुर्वन्ति भक्तस्य ध्रुवं देवा द्विजोत्तमाः ॥
देवतोषादवाप्नोति यान्कामान्मनसेच्छति
जातप्रभृति यं देवं भक्त्या नित्यमथार्चयेत ॥
अन्तकाले तु संप्राप्ते सोऽपि त्राता भवेद् ध्रुवम्
किं वा पापविहीनस्य क्षिप्रं तुष्यन्ति देवताः ॥
तस्मात्पापं न कर्त्तव्यं नरेण त्रिदशाश्रयात्
देवाश्रितानां पापानां क्षिप्रं पापं विनश्यति ॥
नत्वेव पातकं कर्म वृथा तेषां प्रजायते
तथा बहु फलं लोके कथितं त्रिदशाश्रयम् ॥
सर्वान्समर्चयेद्देवानेकं वा देवमाश्रयेत्
देवार्चां श्रद्धया कृत्वा ध्रुवं तल्लोकमाप्नुयात् ॥
कृत्वा देवगृहं विप्रा नरस्तल्लोकमाप्नुयात्
परमाणूनि यावन्ति भवन्ति सुरवेश्मनः ॥
तावतोऽब्दानवाप्नोति तल्लोकान्नात्र संशयः
यावद्वारं करोतीह देववेश्म सुधासितम् ॥
जन्मान्तराणि तावन्ति यशसा स विराजते
प्रतिपाद्य तथा भक्त्या ध्वजं त्रिदशवेश्मनि ॥
निर्णुदत्याशु पापानि महापातकजान्यपि
चित्रकर्म तथा कृत्वा गन्धर्वै सह मोदते ॥
देवमाल्यापनयनाद्गोदानफलमाप्नुयात्।
पापैर्विमुच्यते सर्वैः प्रोक्षणाद्देववेश्मनः ॥
सम्मार्जनात्तथा पापं व्यपोहति न संशयः
कामानभीष्टानाप्नोति देववेश्मोपलेपनात् ॥
सुधारेखान्वितं कृत्वा मर्यादां नातिवर्तते
वर्णकैश्चित्रितं कृत्वा सौभाग्यं महदाप्नुयात् ॥
गन्धर्वत्वमवाप्नोति गन्धैरभ्युक्ष्य मानवाः
पुष्पैर्विकिरणं कृत्वा रूपवानभिजायते ॥
अभ्यज्य देवप्रतिमां सर्वदुःखैर्विमुच्यते
विरूक्षयित्वा तामेव पापेभ्यो विप्रमुच्यते ॥
ओषधीभिस्तथा स्नाप्य नासत्यैः सह मोदते
लोके प्रजापतेर्याति वेदैः संस्नाप्य देवताम् ॥।
पुष्पोदकेन स्नपनात्सौभाग्यं महदश्नुते
फलोदकेन संस्नाप्य सफलां विन्दते क्रियाम् ॥
नागवल्लीजलैः स्नाप्य नागलोकं स गच्छति
रत्नोदकेन स्नपनाद्धानदं लोकमाप्नुयात् ॥
गन्धोदकेन मुख्येन गन्धर्वैः सह मोदते
तीर्थोदकेन पुण्येन स्वर्गलोकमवाप्नुयात् ॥
तथानुलिप्य गन्धैश्च शक्रलोके महीयते
विभूषणप्रदानेन राजा भवति भूतले ॥
राजलिङ्गप्रदानेन राजा भवति हि क्षितौ
वस्त्रदानेन लोकेऽस्मिन्सुवेशस्त्वभिजायते ॥
देवे माल्यप्रदानेन परा लक्ष्मीं समश्नुते
धूपप्रदानेन तथा गतिमग्र्यामवाप्नुयात् ॥
दीपदानेन चक्षुष्मान्प्रकाशश्चैव जायते
ऊर्ध्वां गतिमवाप्नोति सर्वत्र च तथाग्र्यताम् ॥
देवताभ्यस्तथा विप्रा निवेद्यान्नमतन्द्रितः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
परितोषमथायाति देवता बलिकर्मणा
तास्तुष्टास्तर्पयन्येनं सर्वकामसमृद्धिभिः ॥
हृद्यपानप्रदानेन तृप्तिमाप्नोति शाश्वतीम्
देवतानां नमस्कारात्किञ्चित्पापं प्रणश्यति ॥
तथैवाभ्यधिकं पापं प्रणिपातेन नश्यति
ततोऽप्यभ्यधिकं किञ्चित्कृत्वा देवे प्रदक्षिणाम् ॥
स्तुतिक्रिया देवतानां सर्वकामफलप्रदा
।
गीतेन देवतास्तोषमुपयान्ति द्विजोत्तमाः ॥
तथा वाद्येन नृत्येन पुरुषस्य विशेषतः
नृत्तं गीतं तथा वाद्यं स्वयमाचरते द्विजा ॥
देवसालोक्यमाप्नोति पुरुषस्य विपश्चितः
वाचनादितिहासानां पापमोक्षमवाप्नुयात् ॥
मूल्येन कारयेद्गीतं गन्धर्वत्वमथाप्नुयात्
वाद्यं दत्त्वाथ धर्मज्ञं वसूनां लोकमश्नुते ॥
नृत्तेन लोकमाप्नोति शङ्करस्य महात्मनः
इतिहासप्रदानेन बुद्धिमाञ्जायते नरः ॥
आहुतिं देवमुद्दिश्य यो ददाति हुताशने
स देवस्तर्पयत्येनं कामैर्वा तेन तर्पितः ॥
देवमुद्दिश्य विप्राणां यो ददातीह भोजनम्
स देवः प्रीतिमानस्य कामानिष्टान्प्रयच्छति ॥
देवमुद्दिश्य यत्किञ्चिद्ब्राह्मणेभ्यः प्रदीयते
तदेव प्राप्यते लोके प्रसन्ने त्रिदशे बहु ॥
यानं शय्यासनं छत्रं पादुके चाप्युपानहौ
वाहनं गां च धर्मज्ञास्त्रिदशभ्यो ददाति यः ॥
एकैकस्मादवाप्नोति वह्निष्टोमफलं नरः
दत्त्वा फलानि देवेभ्यः सफलां विन्दते क्रियाम् ॥
निवेद्य सस्यानि तथा गतिमाप्नोत्यनुत्तमाम्
नैति देवस्तथा प्रीतिं दानैर्नृत्यैस्तथा फलैः ॥
प्रीतिमेति यथा विप्राः स्वाश्रितानान्तु पूजनैः
देवता नैव तुष्यन्ति दानेन बहुधा द्विजाः ॥
यथा भक्त्या तु तुष्यन्ति तस्माद्भक्तिं समाश्रयेत्
घृतपूर्णानि पात्राणि दत्त्वा श्राद्धे तथा नरः ॥
दीर्घं जीवितमाप्नोति न रोगैश्चाभिभूयते
मधुपूर्णानि पात्राणि दत्त्वा सौभाग्यमाप्नुयात् ॥
यथाकथञ्चित्पात्राणां दानाद्भवति सत्तमाः
पात्रं नु सर्वकामानां नात्र कार्या विचारणा ॥
पुष्पवृक्षप्रदानेन गृहमाप्नोति मानवः
फलवृक्षप्रदानेन ग्रामस्याधिपतिर्भवेत् ॥
गृहप्रदानाद्धवति खेटकाधिपतिस्तथा
गृहं शय्यासनोपेतं यानवाहनसंयुतम् ॥
धनधान्ययुतं स्फीतं दासीदाससमाकुलम्
सर्वकामयुतं रम्यं प्रदाय श्राद्धकर्मणि ॥
स्वर्गलोकात्परिभ्रष्टो राजा भवति पार्थिवः
पितॄनुद्दिश्य यद्दानं किञ्चिदेव प्रयच्छति॥
तस्याभ्यधिकमाप्नोति पुण्यं तेषां प्रसादतः
तस्माच्छ्राद्धानि कार्याणि तीर्थेष्वायतनेषु च ॥
दानानि चैव देयानि पितॄनुद्दिश्य शक्तितः
श्राद्धेषु पुष्टिं मनुजा लभन्ते श्राद्धेन विप्रास्त्रिदिवे च वासः॥
श्राद्धं प्रयत्नेन ततश्च कुर्यात्स्वकल्पसूत्राभिहितं यथावत्
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पितृपूजाविधानं नामाष्टाशीत्युत्तरद्विशततमोऽध्यायः
3.289
हंस उवाच ॥
शूद्राणां दैवतं वैश्या वैश्यानां क्षत्रियास्तथा ॥
ब्राह्मणाः क्षत्रियाणां च तेषामपि हुताशनः
गुरुदेवो ब्रह्मचारी नार्यश्च पतिदेवताः ॥
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा
वैश्वदेवं गृहे कृत्वा सायं प्रातः समाहितः ॥
पिण्डनिर्वपणं कृत्वा भिक्षां दत्त्वा तु भिक्षवे॥ ॥
सत्कृत्य भिक्षादानेन गोदानफलमाप्नुयात् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि
गृहस्थमुपजीवन्ति प्रजाः स्थावरजङ्गमाः ॥
गृहस्थः पोषणं कुर्यान्मृतानां जीवतामपि
पोषणान्नित्यमेवेह तेन स्वर्गे महीयते ॥
कीटः पतङ्गः पतितः शत्रवो द्विजपुङ्गवाः
गृहिणा नावमन्तव्या वैश्वदेवे ह्युपस्थिते ॥
अतिथिं पूजयेद्यत्नागृहस्थो गृहमागतम्
उत्थायास्य व्रजन्पूर्वे गोदानफलमाप्नुयात् ॥
आसनं च तथा दत्त्वा स्थानलाभं नरोत्तमः
कृत्वा च कुशल प्रश्नं बुद्धिमाञ्जायते नरः ॥
पादशौचेन तस्याथ श्रान्तसंवाहनेन च
वीजनाच्चामरेणापि तालवृन्तेन वीजनात् ॥
पादाभ्यङ्गप्रदानेन दीपदानेन वाप्यथ
रात्रौ शयनदानेन तथा संवाहनेन च ॥
एकैकस्मादवाप्नोति गोदानफलमुत्तमम्
उपास्यैनं कथाभिश्च यशसा योगमाप्नुयात् ॥
संश्राव्य चेतिहासानि तथैनं च तदिच्छया
नाकलोकमवाप्नोति गीतनृत्योत्सवादिभिः ॥
पूजयित्वा तथाप्नोति गन्धर्वत्वमसंशयम्
प्रतिश्रयप्रदानेन सर्वान्कामान्समश्नुते ॥
मृदं च दन्तकाष्ठं च दत्त्वा शौचोदकं तथा
काले यथासुखं दत्त्वा सौभाग्यं महदाप्नुयात् ॥
प्रताप्य चैनं शीतार्तं सर्वत्र सुखमश्नुते
अभ्यङ्गपूर्वकं दत्त्वा तस्य स्नानमतन्द्रितः ॥
आरोग्यरूपलावण्यधनधान्यमुपाश्नुते
दत्त्वा सकलमुख्यानि स्नानानि द्विजसत्तमाः ॥
नासत्यलोकमाप्नोति नात्र कार्या विचारणा
सुगन्धीनि तथा दत्त्वा गन्धर्वैः सह मोदते ॥
कंकणस्य प्रदानेन सौभाग्यं महदश्नुते
अतिथिस्नापनात्पुण्यं दशगोदानजं भवेत् ॥
किमिच्छुकेन संयोज्य वाजपेयफलं लभेत्
स्वेच्छितं च प्रदायास्य तदेवाक्षयमश्नुते ॥
सर्वशक्त्या नरस्तस्मादतिथिं पूजयेत्सदा
तृप्तोऽतिथिर्यत्पुरुषस्य किञ्चिद्विचिन्तयत्येव महानुभावः ॥
तत्सर्वमाप्नोत्यचिरेण तस्मात्पूज्योऽतिथिर्धर्मपरेण नित्यम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वतिथिपूजा नामैकोननवत्यधिकद्विशततमोऽध्यायः
3.290
॥ हंस उवाच ॥ ॥
ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ॥
ब्राह्मणेभ्यः परं नास्ति भूतं किंञ्चिज्जगत्त्रये
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम् ॥
ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः ॥
ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्यतमाः सदा
एषामश्नन्ति वक्त्रेण देवताः पितरस्तथा ॥
ऋषयश्च महाभागाः किम्भूतमधिकं ततः
यदेव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति ॥
तदेवाप्नोति धर्मज्ञा बहु जन्मनिजन्मनि
तालवृन्तानिलेनैवं श्रान्तसंवाहनेन च ॥
उन्मार्जनेन गात्राणां तथाप्यञ्जनकर्मणा
पादशौचप्रदानेन पादयोः शौचनेन च ॥
परिचर्यया यथाकाममेकेनैव द्विजोत्तमाः
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥
ब्राह्मणाज्ञां शुभां कृत्वा नाकलोके महीयते
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ब्राह्मणशुश्रूषा नाम नवत्यधिकद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0