विष्णुधर्मोत्तरपुराणम् · अध्याय 3.291.295
3.291
॥ हंस उवाच ॥
गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥
यथा देवा यथा वेदा ब्राह्मणाश्च यथा द्विजाः
तथा गावो विनिर्दिष्टाः सर्वलोकसुखावहाः ॥
एकैकं ब्राह्मणं ज्ञेयं तयोर्यज्ञः प्रतिष्ठितः
विप्रेषु मन्त्रास्तिष्ठन्ति गोषु सन्तिष्ठते हविः ॥
गवां दानं द्विजश्रेष्ठा दुष्कृतान्यपकर्षति
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम् ॥
पवित्रमेतन्निर्दिष्टं नराणां शोधनं परम्
मङ्गल्याश्च पवित्राश्च रक्षोघ्ना रोचनास्तथा ॥
तासां शृङ्गोदकं विप्रा जाह्नवीसलिलोपमम्
गवां काण्डूयनान्मर्त्यः सर्वं पापं व्यपोहति ॥
तासां ग्रासप्रदानेन महत्पुण्यमवाप्नुयात्
तासां च प्रचरं कृत्वा तथैव सलिलाशयम् ॥
स्वर्गलोकमुपाश्नन्ति बहून्यब्दगणानि तु
तासां प्रचारभूमिं तु कृत्वा प्राप्नोति मानवः ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम्
तासामावसथं कृत्वा नगराधिपतिर्भवेत् ॥
तथा लवणदानेन सौभाग्यं महदश्नुते
आतुरां पङ्कलग्नां वा चोरव्याघ्रभयार्दिताम् ॥
मोक्षयित्वा द्विजश्रेष्ठास्त्वश्वमेधफलं लभेत्
तासामौषधदानेन विरोगस्त्वभिजायते ॥
विप्रमोच्य भयेभ्यश्च न भयं विद्यते क्वचित्
क्रीत्वा चण्डालहस्ताच्च गोमेधस्य फलं लभेत् ॥
गोपकस्त्वस्य चान्यस्य क्रीत्वा हस्तात्तथैव च
कृत्वा शीतातपत्राणं तासां स्वर्गमवाप्नुयात् ॥
उत्थितासूत्थितस्तिष्ठेद्विष्ठितासु च विष्ठितः
भुक्तवत्सु तु चाश्नीयाज्जले पीते पिबेत्तु च ॥
गोमूत्रेणाचरेत्स्नानं गोपुरीषात्तथा यवैः
शरीरयात्रां कुर्वीत गोरसैरथ वा द्विजाः ॥
एतद्धि गोव्रतं मासात्सर्वकल्मषनाशनम्
एकां गां धारयेन्मासं दद्यात्तस्यास्तथा यवान् ॥
गोमयात्तान्समश्नीयान्मासमेकमतः शुचिः
मासान्ते तां तथा धेनुं दद्याद्विप्राय भक्तिमान् ॥
व्रतमेतत्समुद्दिष्टं सर्वकल्मषनाशनम् ।
राजसूयाश्वमेधाभ्यां व्रतमेतत्तथाधिकम् ॥
व्रतेनानेन चीर्णेन कामानिष्टानवाप्नुयात्
विमानेनार्कवर्णेन ब्रह्मलोकं च गच्छति ॥
विनापि गोप्रदानेन व्रतमेतन्महाफलम्
त्रिरात्रं सप्तरात्रं वा शक्तिं ज्ञात्वा तथा स्वकाम्॥
गवां निर्हारनिर्मुक्तैर्वृत्तिं कृत्वा तथा यवैः
पापमोक्षमवाप्नोति पुण्यं च महदश्नुते ॥
रजश्च गोखुरोद्भूतं सर्वकल्मषनाशनम्
यादृशात्तादृशाद्देशान्नात्र कार्या विचारणा ॥
मङ्गल्यं च पवित्रं च तदलक्ष्मीविनाशनम्
गवां हि परिवासेन भूमिः शुद्धिमवाप्नुयात् ॥
तद्धि शुद्धं यदा वेश्म यत्र तिष्ठन्ति धेनवः
तासान्निःश्वासवातेन पुरं नीराजनं भवेत् ॥
तासां संस्पर्शनं पुण्यं दुःस्वप्नाघविनाशनम्
ग्रीवामस्तकसन्धौ तु तासां गङ्गा प्रतिष्ठिता ।
सर्वदेवमया गावः सर्व तीर्थमयास्तथा
तासां लोमानि पुण्यानि पवित्राणि तथा द्विजाः ॥
गोमयेनोपलिप्तं तु शुचि स्थानं प्रकीर्तितम्
अग्न्यागारसुरागारान्गोमयेनोपलेपयेत् ॥
गोमये तु सदा लक्ष्मीः स्वयमेव व्यस्थिता
गोमूत्रे च तथा गङ्गा दधिक्षीरघृतेषु च ॥
सदा व्यवस्थितं सोमं रोचनायां सरस्वती
विष्णुर्यज्ञः समाख्यातः स च गोषु प्रतिष्ठितः ॥
तस्माद्गावो विनिर्दिष्टा विष्णुरेव पुरातनैः
पूज्यास्तास्तु नमस्कार्याः कीर्तनीयाश्च तास्तथा ॥
तासामाहारदानं च कार्यं शुश्रूषणं तथा
शुश्रूषणेनेह गवां द्विजेन्द्राः प्राप्नोति लोकानमलान्विशोकान्॥
तस्मात्प्रयत्नेन गवां हि कार्यं शुश्रूषणं धर्मपरैर्मनुष्यैः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० मुनीन्प्रति हंसगीतासु गोशुश्रूषा नामै कनवत्यधिकद्विशततमोऽध्यायः
3.292
हंस उवाच ॥
यो दयावान्स पुरुषो निर्घृणो राक्षसो मतः ॥
राक्षसानामपि घृणा विद्यते द्विजसत्तमाः ॥
निर्घृणाः प्रतिपद्यन्ते घोरं नरकमञ्जसा ॥
वधबन्धपरिक्लेशान्मानुष्येऽथ लभन्ति ते
व्याध्यार्ता दुःखिता दीना दरिद्राश्च भवन्ति ते ॥
दयान्विता विराजन्ते नाकमासाद्य मानवाः
तस्माद्दयावता भाव्यं तृणेष्वपि विपश्चिता ॥
तृणान्यपि सजीवानि तेषां कुर्यान्न पीडनम् ॥
कीटे पतङ्गे च पशौ दया कार्या तथा मृगे ॥
वर्णोत्तमे वर्णहीने पतिते वर्णसङ्करे
सर्वत्रैव दया कार्या सर्वकामफलप्रदा ॥
व्रतानामपि सर्वेषां श्रेष्ठमेकं दयाव्रतम्
दुःखार्तं प्राणिनं किञ्चिदुःखान्मोक्षयते द्विजाः ॥
वह्निष्टोमफलं प्रोक्तं नात्र कार्या विचारणा
परिचर्यां तथा कृत्वा सान्त्वयेत्प्राणिनो द्विजाः॥
ब्रह्मलोकमवाप्नोति दयावान्तेन कर्मणा
श्लेष्ममूत्रपुरीषाणां व्याधितस्याजुगुप्सकः ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
मृतस्य वाप्यनाथस्य न जुगुप्सन्ति ये नराः ॥
कुर्वन्ति चैव संस्कारान्ते नराः स्वर्गगामिनः
अग्निदाहाज्जलाच्छस्त्रात्तथान्यस्मादुपद्रवात् ॥
प्राणिनो मोक्षणं कृत्वा स्वर्गलोके महीयते
बन्धनात्प्राणिनः कृत्वा मोक्षणं च तथा द्विजाः॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
यस्माद्धि प्राणिनं दुःखात्पुरुषो मोक्षयेत्क्वचित्॥
न तद्दुःखमवाप्नोति यत्रयत्राभिजायते
सर्वभूतेषु यो दानं चैकसत्त्वे च या दया ॥
सर्वसत्त्वप्रदानाद्धि दया ज्ञेया महाफला
दयान्वितानां त्रिदशेन्द्रलोका दयान्वितानां च पितामहस्य ॥
दयान्वितानां च समस्तकामा लोकद्वये विप्रवरा प्रदिष्टाः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दयावर्णनो नाम द्विनवत्यधिकद्विशततमोऽध्यायः
3.293
॥ हंस उवाच ॥ ॥
दाक्षिण्यं परमं लोके नृणां संवननं परम् ॥
दाक्षिण्ययुक्तस्य तथा परेषां प्रियकारिता
प्रियाण्याचरते यस्तु परेषां मनुजोत्तमः ॥
समाप्नोति प्रियाण्येव लोकयोरुभयोर्द्विजाः
प्रत्यक्षं च परोक्षं च परेषामाचरेत्प्रियम् ॥
प्रियेण विप्रियं हंति प्रियेण प्रियमाप्नुयात्
मृदुना दारुणं हन्ति मृदुना हंति मार्दवम् ॥
सर्वं हि मृदुना हन्ति तस्मात्तीक्ष्णतरो मृदुः
मृदोरिह वदान्यस्य देवा निघ्नन्ति शात्रवान् ॥
अभिचारः स शत्रूणां नरस्य मृदुता तथा
नरेण मृदुना दग्धा मार्दवेनाभितस्तु ये ॥
न प्ररोहंति ते विप्रा बीजा दग्धा यथा तथा
दाक्षिण्यमेकं सुभगत्वहेतुर्दाक्षिण्यमेकं त्रिदिवस्य हेतुः ॥
दाक्षिण्यमास्थाय जयेदरातीन्दाक्षिण्ययुक्तस्तु सदा भवेच्च
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दाक्षिण्यवर्णनो नाम त्रिनवत्यधिकद्विशततमोऽध्यायः
3.294
॥ हंस उवाच ॥ ॥
संरोहतीषुणाविद्धं वनं परशुना हतम् ॥
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्कृतम्
मित्राणि यांति शत्रुत्वं नरस्याप्रियवादिनः ॥
अनर्थाः स्वयमायांति मृतो नरकमृच्छति
तस्माद्भाव्यं मनुष्येण स्मितपूर्वाभिभाषिणा ॥
प्रत्यक्षं च परोक्षं च सर्वेषां प्रियभाषिणाम्
मित्रतां यांति रिपवो नराणां प्रियभाषिणाम् ॥
रक्षांस्यपि निगृह्यन्ते पुरुषैः सान्त्ववादिभिः
प्रियवाक्यात्परं लोके नास्ति संवननं परम् ॥
प्रियो भवति लोकानां प्रियवादी तथा नरः
प्रियंवदानां सकलं जगदेतत्स्थितं वशे ॥
प्रियंवदानां शत्रुत्वे नास्ति कश्चिज्जगत्त्रये
प्रियंवदाः सौख्यमिहाप्नुवंति प्रियंवदा नाकमथ प्रयांति ॥
प्रियंवदाः सर्वमथाप्नुवंति प्रियंवदः स्यादत एव नित्यम्
इति श्रीविष्णुधर्मोत्तरे तृ० खंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रियंवदप्रशंसा नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः
3.295
॥ हंस उवाच ॥
अलसानां मनुष्याणां सदा दुःखं दरिद्रता ॥
आलस्यं पातकं लोके आलस्यं भूतिनाशनम्
नाधिगच्छन्ति भोक्तव्यमलसा ये नराधमाः ॥
अलसानां मनुष्याणां प्राप्तोप्यर्थो विनश्यति
तस्मान्नित्यं मनुष्येण दाक्ष्यं कार्यं विजानता ॥
दक्षः सर्वमवाप्नोति यत्किञ्चिन्मनसेच्छति
धर्मे चार्थे च कामे च मोक्षे च द्विजसत्तमाः ॥
भाजनं सर्वकालेषु दक्ष एव सदा नरः॥॥
आकृष्य दक्षः केशेषु विमुखामपि च श्रियम् ॥
स्वीकरोति महाभागा दक्षे सर्वं प्रतिष्ठितम्
उत्थानधीरः पुरुषो वाग्वीरानधितिष्ठति ॥
उत्थानधीरं वाग्धीरा रमयन्त उपासते
उत्थानवानेव दिवं प्रयाति उत्थानवानेव परं पदञ्च ॥
उत्थानवानेव नरो जयी स्यात्तस्मात्सदोत्थानपरेण भाव्यम्
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु उत्थानप्रशंसा नाम पञ्चनवत्यधिकद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0