भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.281.285

3.281.285.1

3.281
हंस उवाच ॥
विषयेभ्यः प्रवृत्तस्य चेतसो विनिवर्तनम् ॥
प्रत्याहारं विनिर्दिष्टं परमन्तत्तपः स्मृतम्

3.281.285.2

अत्यन्तचञ्चलं चित्तं तस्य संयमनं द्विजाः ॥
प्रत्याहारेण कर्तव्यं पुरुषेण विपश्चिता

3.281.285.3

प्रत्याहृत्य नरश्चेतः कामेभ्यो द्विजसत्तमाः ॥
कामानां भाजनं लोके मोक्षस्य च तथा भवेत्

3.281.285.4

विहाय कामान्यः सर्वान्पुमाँश्चरति निस्पृहः॥
निर्ममो निरहंकारः स शान्तिमधिगच्छति

3.281.285.5

प्रत्याहारं यथा कुर्यात्कामेभ्यश्चेतसो नरः ॥
यथाकाममवाप्नोति मोक्षोपायं च विन्दति

3.281.285.6

चञ्चलं हि मनो विप्राः प्रमाथि बलवद्दृढम् ॥
तस्य यत्नं समास्थाय कर्तव्यो निग्रहो बुधैः

3.281.285.7

यावन्न चेत आयाति वैराग्यं परमं नरः॥
तावन्न शक्तो भवति प्रत्याहारस्य वै द्विजाः

3.281.285.8

जन्ममृत्युजराव्याधिदुःखशोकार्दितं जगत् ॥
पश्यन्खिन्नस्तदा विप्रा वैराग्यात्सिद्धिमाप्नुयात्

3.281.285.9

अनित्यतां तथा पश्यञ्जगतोऽस्य पुनःपुनः॥
वैराग्यभावमास्थाय ततः सिद्धिमवाप्नुयात्

3.281.285.3.281.10

देवतानामृषीणां च राज्ञां भूतगणस्य च॥
दृष्ट्वा क्षयं महाभागा विरक्तो विप्रमुच्यते

3.281.285.11

गर्भवासे महद्दुःखं नरके च पुनःपुनः॥
तिर्यग्योनौ च मानुष्ये तिर्यक्कामो विमुच्यते

3.281.285.12

दिवसेदिवसे खिन्नो परान्नेषु च यो द्विजाः ॥
वैराग्यमाप्नोति तथा खिन्नो मूत्रपुरीषयोः

3.281.285.13

दुःखानां तु प्रतीघाते सुखमित्येव भाविते ॥
दुःखेभ्यः स्वल्पकालेन यः खिन्नः स विरज्यते

3.281.285.14

विरागमास्थाय ततः प्रत्याहारमतन्द्रितः ॥
कामेभ्यश्चेतसः कुर्यात्तेन सर्वं समश्नुते

3.281.285.15

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ॥
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी

3.281.285.281

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रत्याहारवर्णनो नामैकाशीत्युत्तरद्विशततमोऽध्यायः

3.281.285.1

3.282
॥ हंस उवाच ॥ ॥
एकत्र समवस्थानं बाह्ये द्रव्ये तु चेतसः ॥
धारणा सा विनिर्दिष्टा मनसो बन्धकारिका

3.281.285.2

सा कार्या देवतार्चायां यत्रास्य स्यात्स्थिरा मतिः ॥
एकत्र लब्ध्वा लक्ष्यं तु मनसश्चञ्चलस्य तु

3.281.285.3

तुर्यन्निवारणं यत्नान्मनोऽनुग्रहकारणात् ॥
अथ वा लक्ष्यबन्धन्तु भुवि कार्यं विजानता

3.281.285.4

लब्धलक्षस्तु भूयोगे महीयोगं समुत्सृजेत् ॥
लब्धलक्ष्यो नरः कुर्यान्नरास्तेजसि सत्तमाः

3.281.285.5

समुत्सृज्य ततो वायौ ततो नभसि कारयेत् ॥
क्रमशस्त्वेवमारुह्य लक्ष्यं लक्ष्यतया नरः

3.281.285.6

बाह्येषु धारणां कृत्वा मनसः सिद्धिमश्नुते ॥
मनसश्चञ्चलस्यास्य यावद्बन्धनधारणा

3.281.285.7

तावद्ध्यानमथारूढं न शक्यं केनचिद्द्विजाः ॥
धारणां निश्चलां प्राप्य ततो ध्यानमवाप्नुयात्

3.281.285.8

शरीरं विजहात्येनं यत्र बद्धा तु धारणा ॥
प्राप्नोति तन्मयीभावं नात्र कार्या विचारणा

3.281.285.9

संप्राप्य धारणां मुक्त्वा शरीरं मनुजोत्तमः ॥
कालान्मोक्षमवाप्नोति ध्यानाच्छीघ्रमिति स्थितिः

3.281.285.3.282.10

प्राप्तस्तु यन्मयीभावं धारणास्थः पुमांस्ततः ॥
स यदा पुरुषं याति तदा स प्रतिपद्यते

3.281.285.11

ध्रुवे मोक्षमवाप्नोति धारणां प्राप्य मानवः ॥
किन्तु कालेन महता ध्यानाच्छीघ्रमिति स्थितिः

3.281.285.12

सर्वलोके तथा ज्ञेया बाह्यद्रव्यविनाशनाः ॥
तेषान्तु धारणा कार्या मनोग्रहणकारणम्

3.281.285.13

संप्राप्य मनसो बन्धं निश्चलं पुरुषोत्तमः ॥
धारणायोगतस्तस्माद्ध्रुवं मोक्षमुपाश्नुते

3.281.285.14

यदस्य नित्यं हदि संस्थितं स्यात्तत्स्यात्तदेवास्य हि मृत्युकाले ॥
यद्भावयत्येव हि मृत्युकाले भवत्यवश्यं स हि तन्मयस्तु

3.281.285.282

इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धारणावर्णनो नाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः

3.281.285.1

3.283
हंस उवाच ॥
द्रव्ये तु धारणा बाह्ये धारणा परिकीर्तिता ॥
सैव चेतसि निर्दिष्टा ध्यानेति मनुजोत्तमाः

3.281.285.2

अधोमुखं हृत्कमले कर्णिकायां द्विजोत्तमाः॥
ध्यानं सूर्यस्य कुर्वीत तेजोराशेर्विचक्षणः

3.281.285.3

रविमध्ये स्थितः सोमो सोममध्ये हुताशनः॥
तेजोमध्ये स्थितं सत्त्वं तेजसोप्यतितैजसम्

3.281.285.4

तन्मध्ये भगवान्विष्णुः परमात्मा सनातनः ॥
अच्युतः पुरुषो नित्यं सर्वव्यापी महेश्वरः

3.281.285.5

सूक्ष्मातिसूक्ष्मन्तं पश्येत्तेजोमूर्तिं दुरासदम्॥
ध्यानयोगेन तं दृष्ट्वा सिद्धिमाप्नोति मानवः

3.281.285.6

स्वस्तिकं सर्वतोभद्रं पर्यंकं कमलासनम् ॥
तेषामेकतमं बद्ध्वा योगासनमतन्द्रितः

3.281.285.7

ऊरुमूले तथानीय तिर्यग्गौ च समौ करौ ॥
कृत्वोत्तानौ द्विजश्रेष्ठा वामस्योपरि दक्षिणम्

3.281.285.8

किञ्चिदाकुञ्चिताङ्गुष्ठौ कर्त्तव्यौ च तथा करौ ॥
तेन चोन्नाम्य वितथं कृत्वा बाहू परिश्लथौ ॥

3.281.285.9

पृष्ठकां योजयेत्स्कन्धे देहमुन्नामयेत्सुधीः ॥
निष्कम्पां सुदृढां ग्रीवां शिरः कार्यं समं तदा

3.281.285.3.283.10

स पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
किञ्चिन्निमील्य नयने सर्वं बाह्यं समुत्सृजेत् ॥
बाह्यं सर्वं परित्यज्य परमात्मानमात्मना

3.281.285.11

हृत्पद्मं कर्णिकामध्ये तेजस्तेजसि चार्पितम् ॥
दृष्ट्वा पुरुषमीशानं सर्वबन्धैः प्रमुच्यते

3.281.285.12

प्रत्याहारेण मनसः कृत्वा नियमनं पुरा ॥
धारणाल्लब्धलक्षस्तु ध्यानमारोहते नरः

3.281.285.13

इन्द्रियाणां जयं कृत्वा मनः संयम्य चाप्यथ॥
विजित्य च तथा वायुं ध्यानमारोहते नरः ॥
ध्यानारूढस्तदाप्नोति यत्र गत्वा न शोचति

3.281.285.14

निशावसाने च तथा प्रदोषे ध्यानेन यत्नः पुरुषेण कार्यः ॥
ध्यानेन दृष्ट्वा पुरुषं परं तु विमुक्तदेहः सकलत्वमेति

3.281.285.283

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ध्यानवर्णनो नाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः

3.281.285.1

3.284
॥ हंस उवाच ॥ ॥
अथ ध्यानमुपारूढो समाधिं मनसो लभेत् ॥
न किञ्चिच्चिन्तयेत्पश्चात्समाधिं प्राप्य मानवः

3.281.285.3

शब्दस्पर्शरसैर्हीनं गन्धरूपविवर्जितम् ॥
तं परं पुरुषं विद्याद्यत्र गत्वा न शोचति ४२ ॥
शून्यं ध्यानपरं विप्राः समाधिरिति कीर्त्यते ॥
तन्तु प्राप्य नरैश्चान्यैर्नाभिभूयेत कर्हिचित्

3.281.285.4

समाधितः परं नास्ति सुखं किञ्चिज्जगत्त्रये ॥
समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते

3.281.285.5

शङ्गानि शतशस्त्वस्य वाद्यन्ते यदि कर्णयोः ॥
भेर्यश्च यदि हन्यन्ते शब्दं बाह्यं न विन्दति

3.281.285.6

तथा प्रहाराभिहतो वह्निदग्धतनुस्तथा ॥
शीते स्थितोऽतिघोरेऽपि स्पर्शं बाह्यं न विन्दति

3.281.285.7

जये गन्धे रसे बाह्ये तादृशस्य तु का कथा ॥
दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः

3.281.285.8

तृष्णा वाथ बुभुक्षा वा न तं धावति कर्हिचित् ॥
अपि सन्त्यजतस्तृष्णामभुञ्जानस्य पश्यतः

3.281.285.9

एकमेव स निर्वेदं विजानाति नरोत्तमः ॥
समाधितः समुत्थानं तेन तप्यत्यसौ भृशम्

3.281.285.11

न स्वर्गे न च पाताले मानुष्ये च न तत्सुखम् ॥
समाधिं निश्चलं प्राप्य यत्सुखं विन्दते नरः ॥3.284.१ ० ॥
समाधिं पुरुषः प्राप्य त्यक्त्वा देहनिबन्धनम् ॥
व्याप्नोति सकलाँल्लोकांस्त्रैलोक्यं सचराचरम्

3.281.285.12

तच्च व्याप्नोति पुरुषस्त्रैलोक्यादपि यद्बहिः ॥
अनन्तत्वमवाप्नोति समाधिं प्राप्य मानवः

3.281.285.13

जन्ममृत्युजराव्याधिशोकदुःखविवर्जितः ॥
सर्वगः सर्वसंहारी सर्वेन्द्रियगुणात्मकः

3.281.285.14

सर्वत्र सर्वदा विप्राः स तस्यां नात्र संशयः ॥
पुरुषत्वमथाभ्येति सर्वशक्तित्वमेति च

3.281.285.284

संयम्य चेतः खलु धारणासु ध्यानं समारुह्य ततस्तु पश्चात् ॥
समाधिमास्थाय परेण पुंसा तुल्यत्वमायाति महानुभावः। १५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु समाधिवर्णनो नाम चतुरशीत्युत्तरद्विशततमोऽध्यायः

3.281.285.1

3.285
ऋषय ऊचुः ॥
स्थानस्य महतः प्राप्तौ यन्मूलं द्विजसत्तम ॥
तदस्माकं समाचक्ष्व सर्वं प्रत्यक्षलक्षणम्

3.281.285.2

॥ हंस उवाच ॥
प्राप्नुवंति नराः सर्वे व्यवसायपुरःसराः ॥
व्यवसायद्वितीयानां नास्ति लोके सुदुर्लभम्

3.281.285.3

व्यवसायः परो बन्धुः सहायस्तदनंतरम् ॥
तेन युक्तः पुमान्सम्यक्प्राप्नोतीति विनिश्चितम्

3.281.285.4

धर्मे चार्थे च कामे च मोक्षे च ऋषिसत्तमाः ॥
भाजनन्तु सदा ज्ञेयो नरस्तु व्यवसायवान्

3.281.285.5

व्यवसायविहीनानां स्वल्पोप्यर्थोऽस्ति दुर्लभः ॥
व्यवसायविहीनानामलसानां दुरात्मनाम्

3.281.285.6

करप्राप्तोऽपि सहसा क्षिप्रमर्थो विनश्यति ॥
व्यवसायविहीनस्तु स्थाणुना नातिरिच्यते

3.281.285.7

तस्मान्नरा ये व्यसनाय युक्तास्ते कामभाजः कथितास्तु लोके ॥
तेषामयं चैव परश्च लोकस्तेषां तथा मोक्षपथो न दूरे

3.281.285.285

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु व्यवसायवर्णनो नाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc