विष्णुधर्मोत्तरपुराणम् · अध्याय 3.276.280
3.276
हंस उवाच ॥
श्रद्धान्वितेन मनसा यद्यत्किञ्चित्समाचरेत् ॥
तत्तद्बहुफलं तस्य जायते लोकयोर्द्वयोः ॥
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥
देवश्रद्धा नरा देवाः कथिता देवयाजिनः
पितृश्रद्धाश्च पितरो दैत्ये श्रद्धा दितेः सुताः॥
पापश्रद्धास्तथा पापा विज्ञेया नरकङ्गमाः
तस्माच्छ्रद्धां समास्थाय धर्मं धर्मी समाचरेत् ॥
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥
आस्तिक्यभावमास्थाय नरः श्रद्धासमन्वितः
नित्यं पुण्यानि कुर्वीत पापानि परिवर्जयेत् ॥
पुण्यं बहुफलं तस्य श्रद्धामास्थाय यत्कृतम्
श्रद्धा पवित्रं परमं हि लोके श्रद्धा शरीरं पुरुषस्य चोक्तम् ॥
श्रद्धां समास्थाय नरश्च कृत्वा पुण्यानि पुण्यां गतिमाप्नुवन्ति
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु श्रद्धाफलवर्णनो नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः
3.277
हंस उवाच ॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्त्तितम्
नित्य नैमित्तिकौ कार्यौ उष्णोदकपरोदकैः ॥
तृतीयं च परस्नानं यदुक्तं मलकर्षणम्
पञ्च पिण्डान्समुद्धृत्य स्नातव्यं परवारिणि ॥
अतोऽ न्यथा नरः स्नातो दुष्कृतांशेन लिप्यते
स्नातः शुद्धिमवाप्नोति न तु स्नानफलं नरः ॥
उद्धृत्य पञ्च पिण्डानि स्नातोऽपि परवारिणा ॥
वह्नितप्ताम्बुना स्नातो नाप्नोति स्नानजं फलम् ॥
स्नातः शुद्धिमवाप्नोति कर्मण्यश्चैव जायते
तस्मात्पुण्येषु तीर्थेषु सागरेषु सरःसु च ॥
सरित्स्वपि च दिव्यासु तथा प्रस्रवणेष्वपि
धर्मार्थमाचरेत्स्नानं तेन नाके महीयते ॥
तोयालाभे तथालस्ये नित्यनैमित्तिकावुभौ
मलापकर्षणं स्नानं तृतीयं च समाचरेत् ॥
शुद्धिमात्रमवाप्नोति तप्तोदकपरोदकैः
स्रवन्ति रात्रौ छिद्राणि सुप्तस्य पुरुषस्य तु ॥
तस्मात्कल्यमथोत्थाय स्नानं नित्यं समाचरेत्
क्रियावैफल्यमाप्नोति स्नानहीनः समाचरन् ॥
यथाकथञ्चित्कुर्वीत स्नानं नित्यमतो बुधः
स्नातस्तु तर्पणं कृत्वा देवानां पितृभिः सह॥
स्नातो भवति धर्मात्मा नान्यथा स्नात उच्यते
सूतके मृतके स्नातो न कुर्यात्तर्पणक्रियाम् ॥
मृतके तर्पणं कुर्यान्मृतस्यैकस्य पण्डितः
स्नातः शौचमवाप्नोति स्नानं तुष्टिकरं परम् ॥
बाह्यमाभ्यन्तरं दोषं स्नानेन प्रणुदत्यपि
दुःस्वप्नशमनं स्नानं चामङ्गल्यप्रणाशनम् ॥
मङ्गल्यजननं मुख्यं मनःशौचकरं परम्
नाप्नोति नारकं दुःखं नित्यस्नायी नरोत्तमः ॥
वह्निवृद्धिकरं स्नानं स्नानं सौभाग्यवर्धनम्
अलक्ष्म्याः शमनं स्नानं स्नानं दुरितनाशनम् ॥
स्नातः क्रियासमर्थश्च तथा भवति मानवः
शिरसा तु विना स्नातो न स्नातः परिकीर्तितः ॥
कल्येऽसमर्थः स्नाने तु प्राप्ते भोजनकर्मणि
ध्रुवं समाचरेत्स्नानं स्वर्गमार्गप्रदर्शकम ॥
शिरःस्नातस्तु कुर्वीत दिव्यं पित्र्यं द्विजोत्तम
दिव्यपित्र्याणि कर्माणि नास्नातस्तु समाचरेत् ॥
विनापि तीर्थसलिलाद्दैवे पैत्र्ये च कर्मणि
सदा समाचरेत्स्नानं देहशुद्धिकरं परम् ॥
स्नानादेव परं पुण्यं तीर्थस्नातः समश्नुते
भूमिष्ठन्तूद्धृतात्पुण्यं तस्मात्प्रस्रवणोदकम् ॥
तस्माच्च नैर्झरन्तोयं नैर्झरादपि सारसम्
सारसादपि नादेयं तस्मात्साधुपरिग्रहम् ॥
सर्वेभ्यश्च तथा पुण्यं कथितं जाह्नवीजलम्
गङ्गाप्लुताङ्गा दिवि देवभोगान्भुक्त्वा चिरं प्राप्य मनुष्यभावम् ॥
भवन्ति लोके सुखिनः समृद्धा यशोन्विता धर्मपरा विदुखाः
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु स्नानवर्णनोनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः
3.278
हंस उवाच ॥
जप्यं सिद्धिकरं लोके द्विजानां परिकीर्तितम् ॥
जप्येन सिद्धिमाप्नोति विशेषेण द्विजोत्तमाः
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ॥
कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्राह्मण उच्यते
दार्वासने सुखासीनस्त्वथ वापि कुशासने ॥
जप्यं समाहितः कुर्यादथ वापि समुत्थितः
पूर्वोत्तराशाभिमुखः सूर्यस्याभिमुखोऽपि वा ॥
दर्भपाणिर्द्विजश्रेष्ठा ज्ञात्वा धर्मस्य निश्चयम्
ऋषिं मन्त्रस्य विज्ञाय च्छन्दो दैवतमेव च ॥
विनियोगं जपं कुर्याद्ध्यायन्वै मन्त्रदेवताम्
नातिद्रुतेन कर्तव्यं न चैवातिविलम्बितम् ॥
वर्णानुच्चारयेत्सर्वाञ्जप्यकाले द्विजोत्तमाः
मन्त्रमावर्तयेद्विद्वान्यथाशक्ति ह्यतन्द्रितः ॥
स्वाध्यायस्तु भवत्युच्चैरुपांशुर्जप्य उच्यते
मनसा तु तथा जाप्यं तस्माद्बहुफलं स्मृतम् ॥
अक्षसूत्रस्तु कर्तव्यो रुद्राक्षैर्द्विजसत्तमाः
पद्माक्षैर्वा महाभागास्त्वथ वा पुत्रजीवकैः ॥
मुक्ताफलैर्विद्रुमेण रुक्मेण स्फटिकेन वा
कुशागुणेन वा विप्राः सम्यग्ग्रंथिमता सता ॥
गणनं वा तथा कुर्यात्सम्यगङ्गुलिपर्वभिः
एवं कृत्वा द्विजा जप्यमवश्यं मन्त्रदेवताम् ॥
आराध्य तु तदाप्नोति यद्यद्वाञ्छति चेतसा
जप्येन सिद्धिमासाद्य ब्रह्म लोकमवाप्नुयात् ॥
जप्येन मुच्यते पापाज्जप्येन त्रिदिवं व्रजेत्
जप्येन मोक्षमाप्नोति तस्माज्जप्यपरो भवेत् ॥
अकामकामं जप्येन ध्रुवं मोक्षमवाप्नुयात्
कामकामस्तदाप्नोति यं कामं मनसेच्छति ॥
संसिद्धा ऋषयः सर्वे जप्येनैव द्विजोत्तमाः
जप्यं पवित्रं परमं द्विजानां जप्येन पापं सकलं जहाति ॥
जप्येन लोकाँल्लभते त्वभीष्टाञ्जप्येन मोक्षं लभते द्विजातिः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जप्यवर्णनो नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः
3.279
हंस उवाच ॥
कृत्वा जलनिमग्नस्तु मन्त्रजापं द्विजोत्तमाः ॥
फलमक्षयमाप्नोति मुच्यते सर्वकिल्बिषैः
मन्त्रमन्तर्जले जप्यं ध्यायता मन्त्रदेवताम् ॥
नरं मोचयते पापान्महापातकजादपि
अन्तर्जलेनाथ विधूतपापा द्विजास्तु नाकं ध्रुवमेव यान्ति ॥
जले निमग्नेन ततस्तु यत्नान्मन्त्रस्य जापः पुरुषेण कार्यः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्तर्जले जप्य वर्णनो नामैकोनाशीत्युत्तरद्विशततमोऽध्यायः
3.280
॥ हंस उवाच ॥ ॥
रेचकं पूरकं चैव कुम्भकं च तथा द्विजाः ॥
एकस्त्र्यवस्थो विज्ञेयः प्राणायामो महाफलः
आददानस्तु यः श्वासं मंत्राध्ययनमाचरेत् ॥
मनसा ब्राह्मणश्रेष्ठा रेचकं तत्प्रकीर्तितम्
श्वास सन्धारणं कुर्वन्नाददानो न च त्यजन् ॥
पूरकं तद्विनिर्दिष्टं सर्वकल्मषनाशनम्
मंत्रस्य देवताध्यानं प्राणायामं तथा चरेत् ॥
प्राणायामात्परं नास्ति द्विजातीनां तथा तपः
निरोधाज्जायते वायुस्ततस्त्वग्निः प्रजायते ॥
ततस्तु सलिलं देहे पूयते तैस्त्रिभिर्नरः
आकेशाग्रं नखाग्रं स्वं तप्स्यते परमं तपः ॥
यस्तु कुर्याद् द्विजश्रेष्ठाः प्राणायाममतन्द्रितः
न तत्पुण्यमवाप्नोति तीर्थानुसरणाद्द्विजाः ॥
न यज्ञेन तथा कृच्छ्रैः प्राणायामाद्यदाप्नुयात्
प्राणायामपरा विप्राः सर्वनिर्धौतकल्मषाः ॥
त्रिदिवं प्रतिपद्यन्ते मोक्षं वा मनसेप्सितम्
प्राणायामेन नश्यन्ति महापातकजान्यपि ॥
घोराप्येनांसि धर्मज्ञाः प्राणायाममतश्चरेत्
एतत्तपस्तत्परमं द्विजानां पापापहं पुण्यविवृद्धिकारि ॥
मोक्षप्रदं वा पुरुषोत्तमानां तस्मात्प्रयत्नेन समाचरेत्तत्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्राणायामवर्णनो नामाशीत्युत्तरद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0