भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.261.265

3.261.265.1

3.261
॥ हंस उवाच ॥ ॥
यशसा संयुतो जन्तुः श्रेयसो भाजनं भवेत् ॥
यशसा संयुतो जन्तुस्त्रिदिवं प्रतिपद्यते

3.261.265.2

यशसा संयुतो जन्तुः सम्पदामेति पात्रताम् ॥
यशसा संयुतो जन्तुः सर्वकामानुपाश्नुते

3.261.265.3

स एकः पुरुषो लोके यशसा यो हि संयुतः ॥
येषां साधु समावापं गीयते सुमहद्यशः

3.261.265.4

तेषां यशस्तथा पुण्यं नाकपृष्ठेऽपि गीयते ॥
देवता यं विजानंति तस्य नाके गतिर्ध्रुवा

3.261.265.5

कीर्त्यमानं तथा सद्भिर्यः शृणोति यशः स्वकम् ॥
सुखमाप्नोति धर्मज्ञाः स्वर्गादपि परं नरः

3.261.265.6

यशः शोभा मनुष्यस्य परमं तस्य मण्डनम् ॥
यशसा वर्जितस्येह मण्डनं लाञ्छनं परम्

3.261.265.7

यशः प्रधानं पुरुषस्य लोके यशःप्रधानास्त्रिदिवं प्रयान्ति ॥
लोकद्वये चापि यशोऽन्वितानां भवन्ति कामा मनसा त्वभीष्टाः

3.261.265.261

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यशःप्रशंसावणर्नो नामैकषष्ट्युत्तरद्विशततमोऽध्यायः

3.261.265.1

3.262
हंस उवाच ॥
यज्ञेन देवा जीवन्ति यज्ञेन पितरस्तथा ॥
देवाधीनाः प्रजा सर्वा यज्ञाधीनाश्च देवताः

3.261.265.2

यज्ञो हि भगवान्विष्णुर्यत्र सर्वं प्रतिष्ठितम् ॥
यज्ञार्थं पशवः सृष्टा देवास्त्वौषधयस्तथा

3.261.265.3

यज्ञार्थं पुरुषाः सृष्टाः स्वयमेव स्वयंभुवा ॥
यज्ञश्च भूत्यै सर्वस्य तस्माद्यज्ञपरो भवेत्

3.261.265.4

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥
धनं यद्यज्ञशीलानां देवस्वं तं विदुर्बुधाः

3.261.265.5

ओषधीनां पशूनाञ्च यज्ञ एव परायणम् ॥
सयूथ्यश्च सकुल्यश्च नाकपृष्ठे महीयते

3.261.265.6

पशुस्तु प्रोक्षितो यज्ञे तथेवौषधयो द्विजाः ॥
यज्ञोपयुक्ता मोदन्ते त्रिदिवे नात्र संशयः

3.261.265.7

यज्ञेन सम्यक्पुरुषस्तु नाके समृज्यमानस्त्रिदशैर्महात्मा ॥
प्राप्नोति सौख्यानि महानुभावास्तस्मात्प्रयत्नेन यजेत यज्ञैः

3.261.265.262

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यज्ञप्रशंसावर्णनो नाम द्विषष्ट्यधिकद्विशततमोऽध्यायः

3.261.265.1

2.263
हंस उवाच ॥
शीलं प्रधानं लोकेऽस्मिंस्तस्मिन्सर्वं प्रतिष्ठितम् ॥
शीलेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति

3.261.265.2

क्रियाः शीलविहीनस्य भवन्ति विफलाः कृताः ॥
तस्माच्छीलवता भाव्यं पुरुषेण विजानता

3.261.265.3

शीलेन देवराट्छक्रः सुरैश्वर्यमवाप्तवान् ॥
शीलेन धर्मराजोऽपि धर्मराजत्वमाप्तवान्

3.261.265.4

शीलेन वरुणो देवो राजराजत्वमाप्तवान् ॥
शीलेन च कुबेरोऽपि धनाध्यक्षत्वमाप्तवान्

3.261.265.5

शीलेन सुखमाप्नोति स्वर्गं च मनुजोत्तमाः ॥
शीलेन तदवाप्नोति यत्र गत्वा न शोचति

3.261.265.6

शीलं समासाद्य समस्तकामान्प्राप्नोति मुख्यान्पुरुषः प्रधानः ॥
तस्मात्प्रयत्नेन नरेण शीलं समर्जनीयं सुखदं सदैव

3.261.265.263

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शीलप्रशंसावर्णनो नाम त्रिषष्ट्युत्तरद्विशततमो ऽध्यायः

3.261.265.1

3.264
हंस उवाच ॥
दमेन युक्तः पुरुषः सर्वान्कामानवाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन दमः कार्यो विजानता

3.261.265.2

इन्द्रियाणां जयो लोके दम इत्यभिधीयते ॥
नादान्तस्य क्रियाः काश्चिद्भवन्तीह द्विजोत्तमाः

3.261.265.3

नादान्तः सिद्धिमाप्नोति नादान्तो गतिमीप्सिताम् ॥
नादान्तः श्रियमाप्नोति नादान्तः किञ्चिदेव तु

3.261.265.4

पञ्चेन्द्रियस्य मर्त्यस्य यद्येकं छिद्रमिन्द्रियम् ॥
ततोऽस्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्

3.261.265.5

पुरुषार्थं परित्यज्य स्वार्थे च सततोत्थितः ॥
इन्द्रियाणां बुधस्तेषाङ्कः स्वार्थे प्रयतेन्नरः

3.261.265.6

इन्द्रियाणां प्रसङ्गेन गतिं गच्छति दारुणाम् ॥
विजित्य तान्येव नरः सर्वान्कामानवाप्नुयात्

3.261.265.7

दान्तः पुमान्नाकमनुप्रयाति दान्तः पुमान्मोक्षपथं प्रयाति ॥
दान्तस्य दुःखं न हि किञ्चिदस्ति दान्तः समाप्नोत्यखिलान्हि कामान्

3.261.265.264

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दमप्रशंसावर्णनो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः

3.261.265.1

हंस उवाच ॥ ॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्

3.261.265.2

सत्यं वेदेषु जागर्ति मुक्तिः सत्यतरोः फलम् ॥
तपो यशश्च पुण्यश्च पितृदेवर्षिपूजनम्

3.261.265.3

आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम्॥
सत्यं यज्ञास्तथा वेदा मन्त्रा देवी सरस्वती

3.261.265.4

व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥
सत्येन वायुरभ्येति सत्येनाभासते रविः

3.261.265.5

सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति ॥
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले

3.261.265.6

पारणं सर्ववेदानां सर्वतीर्थावगाहनम् ॥
सत्यं च वदते लोके समं स्यातां न वा समम्

3.261.265.7

अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते

3.261.265.8

सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ॥
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत्

3.261.265.9

मुनयः सत्यनिरताः सत्यस्थास्त्रिदशोत्तमाः ॥
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव

3.261.265.3.265.10

अप्सरोगणसंकीर्णैर्विमानैरुपयान्ति च ॥
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम्

3.261.265.11

अगाधे विमले शुद्धे सत्यतोये शुचिह्रदे ॥
स्नातव्यं मानसे तीर्थे स्नानं तत्परमं स्मृतम्

3.261.265.12

आत्मार्थे वा परार्थे वा पुत्रार्थे वा रिपोः कृते ॥
येनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः

3.261.265.13

यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ॥
हितं स्याद्येन भूतानां तत्तद्वाच्यं विजानता

3.261.265.14

आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥
अहश्च रात्रिश्च शुभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्

3.261.265.15

न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ॥
नासौ धर्मो यत्र नो सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्

3.261.265.265

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सत्यप्रशंसावर्णनो नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc