विष्णुधर्मोत्तरपुराणम् · अध्याय 3.256.260
3.256
हंस उवाच ॥
ज्ञातव्या गुरुशुश्रूषा परमं धर्मकारणम् ॥
गुरुशुश्रषया विद्यां नरः समधिगच्छति
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥
सुवर्णपुष्पां पृथिवीं विचिन्वन्ति नरास्त्रयः
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
सर्वधर्मविहीनोऽपि गुरुशुश्रूषणे रतः
स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः ॥
मातरं पिंतरं वापि ज्येष्ठभ्रातरमेव च
गुरुं विद्याप्रदं वापि यश्च शुश्रूषते नरः ॥
स्वर्गलोकमवाप्नोति यावदिन्द्राश्चतुर्दश
यदेव पुण्यमाप्नोति गुरुशुश्रूषया द्विजः ॥
द्विजशुश्रूषया शूद्रस्तदेव फलमश्नुते
प्राप्नोति पुण्यं परमं च सध्वी शुश्रुषते या पतिमप्रमत्ता ॥
शुश्रूषया भूमिपतेः प्रजानां पुण्यं प्रदिष्टं परमं नृलोके
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गुरुशुश्रूषाप्रशंसावर्णनो नाम पट्पञ्चाशदुत्तर द्विशततमोऽध्यायः
3.257
हंस उवाच ॥
स्वाध्यायसेवाकर्त्तव्या नित्यमेव विजानता ॥
स्वाध्यायेन तदाप्नोति यत्किञ्चिन्मनसेच्छति
पयसा मधुना दध्ना मांसेन च यथाक्रमम् ॥
ऋचो यजूंषि सामानि तथैवाथर्वणं पठेत्
पितॄणां तर्पणं कुर्याद्वेदाङ्गेन च सर्पिषा ॥
उपवेदानपि पठँस्तर्पयत्योदनेन तान्
विना स्थानानि सर्वाणि स्वैरेयेण तथा नरः ॥
सांख्ययोगं पाञ्चरात्रं तथा पाशुपतं पठन्
क्षीरेण मधुमिश्रेण पितृंस्तर्पयते तथा ॥
वाकोवाक्यं पुराणश्च नाराशंस्योऽथ गाथिकाः
स्तोत्राणि च पठन्नित्यं दध्ना च मधुना तथा ॥
तस्मात्सर्व प्रयत्नेन द्विजः स्वाध्यायमाचरेत्
स्वाध्याय एवेह तपः पवित्रं स्वाध्याय एवेह तथैव यज्ञः ॥
स्वाध्यायवानेव नरः प्रयाति त्रिविष्टपं मोक्षमथाप्यभीष्टम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसं० मुनीन्प्रति हंसगीतासु स्वाध्यायप्रशंसावर्णनो नाम सप्तपञ्चाशदुत्तर द्विशततमोऽध्यायः
3.258
हंस उवाच ॥
ब्रह्मचर्येऽभिसंयुक्तो द्विजः स्वर्गमुपाश्नुते ॥
ब्रह्मचर्यं परं धाम ब्रह्मचर्यं परं तपः
ब्रह्मचर्यं परं यज्ञो ब्रह्मचर्यं परं यशः ॥
ब्रह्मचर्येण संयुक्तः सर्वान्कामानवाप्नुयात्
अदैवं दैवतं कुर्याद्दैवतं चाप्यदैवतम् ॥
कुर्याल्लोकाँस्तथैवान्यान्ब्रह्मचर्येण मानवः
कृतानपि तथा पूर्वान्क्षिप्रमेव प्रणाशयेत् ॥
यथाभीष्टमवाप्नोनि ब्रह्मचर्येण मानवः
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ॥
सा ज्ञेया ब्रह्मचर्येण ऋषीणामपि च द्विजाः
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ॥
दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम्
यो ब्रह्मचर्यान्न परिच्युतः स्यात्पुत्रेण हीनोऽपि दिवं स याति ॥
परिच्युता ये तनयैर्विहीनास्तेषां न लोकेषु गतिः प्रदिष्टा
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ब्रह्मचर्यप्रशंसावर्णनो नामाष्टपञ्चाश दुत्तरद्विशततमोऽध्यायः
2.259
॥ हंस उवाच ॥ ॥
ब्रह्मचर्याच्च्युतो यस्तु नरस्सन्तानवर्जितः ॥
सुतप्ततपसोप्यस्य गतिर्लोके न विद्यते
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥
तथा पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्
नाकलोकमवाप्नोति दुहित्रा द्विजसत्तमाः ॥
दौहित्रेण तथा लोकान्नरो याति प्रजापतेः
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ॥
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा
पुत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ॥
दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत्
तस्माच्छेत्ता कुलस्य स्यात्स याति नरकं ध्रुवम् ॥
पुत्रपौत्रैः परिवृतो नाकलोके महीयते
सन्तानवानेव नरस्तु कीर्त्या युक्तस्तथा स्यात्परया द्विजेन्द्राः ॥
कीर्त्या युतः स्वर्गमथ प्रयाति सन्तानवान्यः पुरुषः प्रधानः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु सन्तानप्रशंसा वर्णनो नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः
3.260
॥ हंस उवाच ॥ ॥
कीर्तिप्रधानः पुरुषश्चिरं स्वर्गे महीयते ॥
कीर्तिः शरीरं निर्दिष्टा मृतस्यापि शरीरिणः
कीर्तियुक्तं न जानाति परत्रेह च मानवः ॥
कीर्तियुक्ता भवन्तीह श्रेयसो भाजनं परम्
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ॥
यावत्स शब्दो भवति तावत्पुरुष उच्यते
तावदेव तथा लोकान्सर्वकामदुघोऽक्षयान् ॥
पुरुषः समुपाश्नाति दिवि चेह च शाश्वतम्
यस्याकीर्तिर्मनुष्यस्य नरकं स तु गच्छति ॥
यावल्लोकेषु धर्मज्ञास्तस्य कीर्तिस्तु गीयते
तावत्समश्नुते स्वर्गे देवभोगाननुत्तमान् ॥
कीर्तिः पुण्या पुण्यलोके नैव पापं प्रयच्छति ॥
कीर्त्यमाना मनुष्यस्य तस्मात्पुण्यं समाचरेत्
ये कीर्तियुक्ताः पुरुषप्रधानास्ते नाकपृष्ठं सुचिरं प्रयान्ति ॥
अकीर्तियुक्ता नरकं व्रजंति कीर्तिः प्रधाना पुरुषस्य तस्मात्
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु कीर्तिप्रशंसावर्णनो नाम षष्ट्युत्तरद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0