भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.266.270

3.266.270.1

3.266
॥ हंस उवाच ॥ ॥
तपसो हि परं नास्ति तपसा विदन्ते महत् ॥
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः

3.266.270.2

तपसा संप्रदाने न ऋषीणां ज्ञानमेव च ॥
बहवो दिवि मोदन्ते प्रसादात्तपसो जनाः

3.266.270.3

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥
आयुःप्रकर्षं भोगांस्तु तपसा विन्दते महत्

3.266.270.4

ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ॥
तपसा प्राप्यते सर्वं यत्किञ्चिन्मनसेप्सितम्

3.266.270.5

रसायनानि मन्त्राश्च विद्यास्त्वौषधयस्तथा ॥
नातप्ततपसः सिद्धिं प्रयान्ति द्विजपुङ्गवाः

3.266.270.6

यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ॥
सर्वं तस्मादवाप्नोति परत्रेह च मानवः

3.266.270.7

ब्रह्महा च सुरापश्च स्तेनश्च गुरुतल्पगः ॥
तपसा मुच्यते जन्तुः सर्वतश्चापि मुच्यते

3.266.270.8

तपसैव सुतप्तेन मोक्षमाप्नोति मानवः ॥
शक्रवैवस्वताऽम्भोपधनाधिपहुताशनैः

3.266.270.9

स्थानं महत्तरं प्राप्तं तथा रुद्रार्करात्रिपैः ॥
न चास्ति तत्सुखं लोके यद्विना तपसा भवेत्

3.266.270.3.266.10

तपसैव सुखं सर्वमिति धर्मविदो विदुः ॥
अष्टाशीतिसहस्राणां मुनीनामूर्ध्वरेतसाम्

3.266.270.11

तपसा दिवि मोदन्ते त्रिदशैः सहिता द्विजाः ॥
पुरुषस्तु समारम्भान्निष्फलान्वीक्ष्य चात्मनः

3.266.270.12

तपः कुर्यात्प्रयत्नेन न ह्यनुप्तं प्ररोहति ॥
कीटाः पतङ्गाः पशवो वयांसि च तथा द्विजाः

3.266.270.13

स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्

3.266.270.14

सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमः ॥
यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम्

3.266.270.15

तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्॥
यत्किञ्चिदेनः कुर्वन्ति मनोवाक्कर्मभिर्जनाः

3.266.270.16

तत्सर्वं विनुदन्त्याशु तपसैव तपोधनाः॥
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः

3.266.270.17

सत्याच्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ॥
ब्रह्मा प्रजेश्वरो देवो महादेवस्तथा द्विजाः

3.266.270.18

नित्यमेव तपस्यन्ति तपः परम दुस्तरम् ॥
यस्येदं भुवनं सर्वं यश्च सर्वमयोऽच्युतः

3.266.270.19

यश्च धाता जयत्यस्मिन्स विष्णुः परमेश्वरः ॥
नित्यमेव महाभागास्तपश्चरति दुश्चरम्

3.266.270.3.266.20

भगवान्वासुदेवस्तु तपः परमिहोच्यते ॥
अष्टौ देवगणांल्लोके प्राप्नोति तपसा नरः

3.266.270.21

त्रैलोक्यकरणस्यापि शक्तश्च तपसा भवेत् ॥
दिव्यानाञ्च तथास्त्राणां शक्तो भवति धारणात्

3.266.270.22

लोके सुराणां भुवि वा द्विजेन्द्रा न विद्यते तत्पुरुषस्य किञ्चित् ॥
तपः प्रकर्षेण परेण लब्धिर्न विद्यते यस्य महानुभावाः

3.266.270.266

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तपःप्रशं सावर्णनोनाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः

3.266.270.1

3.267
हंस उवाच ॥
वशे जगदिदं प्राहुः शूरबाहुषु लम्बते ॥
शूराणामथ सर्वेषां शौर्यमेव विशिष्यते

3.266.270.2

ब्राह्मणार्थे गवार्थे वा स्वाम्यर्थे मित्रकारणे ॥
आहृतौ ये प्रपद्यन्ते नाकपृष्ठं व्रजंति ते

3.266.270.3

धनापहारे संप्राप्ते संप्राप्ते दारविप्लवे ॥
(आत्मनश्च परित्राणे युध्यमानो दिवं व्रजेत्

3.266.270.4

क्षत्रविट्छूद्रविप्राणां युद्धमेव परायणम् ॥)
आत्मनश्च परित्राणे संप्राप्ते देशविप्लवे

3.266.270.5

दारनाशे तु संप्राप्ते दक्षिणानां च सङ्करे ॥
विप्रस्तु शस्त्रं गृह्णीयात्संकरे चाप्युपस्थिते

3.266.270.6

वृत्तिन्तु कल्पयेद्विप्रः क्षत्त्रधर्मेण वा न वा ॥
संग्रामान्न निवर्त्तेत तस्य धर्मं हितं तदा

3.266.270.7

एकपुत्रं तृणमुखं तवास्मीति च वादिनम् ॥
स्त्रीबालरक्षकम्भीरुं पलायनपरायणम्

3.266.270.8

व्यायुधं व्यसनस्थं च परेण सह संगतम् ॥
धुर्यं च धुर्यवाहं च युद्धप्रेक्षकमेव च

3.266.270.9

न हन्तव्या द्विजश्रेष्ठा युद्धधर्मं विजानता ॥
युद्धं न कुर्याद्या नस्थः पुरुषेण पदातिना

3.266.270.3.267.10

समेन युद्धमाकाङ्क्षस्तथैवाभ्यधिकेन वा॥
नरः प्राप्नोति नरकं हीनहा तद्धतोऽपि वा

3.266.270.11

अवर्मयित्वा यो वाहं चात्मानं वर्मयेन्नरः ॥
स शीघ्रं नरकं याति सुकृतेनापि कर्मणा

3.266.270.12

कथितो युद्धधर्मोऽयं फलं चातो निबोधत ॥
धर्मलाभोऽर्थलाभश्च यशोलाभश्च तस्य वै

3.266.270.13

यः शूरो युद्ध्यते युद्धे विमृन्दन्परवाहिनीम्॥
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः

3.266.270.14

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः॥
न तत्फलमवाप्नोति संग्रामे यदवाप्यते

3.266.270.15

असृग्यदास्य गात्रेभ्यो विनिर्याति रणाजिरे ॥
तेनैव सार्धं निर्याति तस्य पापं शरीरतः

3.266.270.16

सहते च परं क्लेशं प्रहाराणां च रोपणे ॥
यद्वीरः समवाप्नोति तपो नास्त्यधिकं ततः

3.266.270.17

यस्य युद्धे प्रहारा ये किन्तु स्याद्दैवयोगतः ॥
युध्यमानस्य धर्मज्ञाः सोऽपि नाके महीयते

3.266.270.18

रणे यथाधिकवधं कृत्वा फलमुपाश्नुते ॥
परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति

3.266.270.19

विष्णुक्रान्तं स जयति चैवं युध्यन्रणाजिरे ॥
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति

3.266.270.3.267.20

अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ॥
यावन्ति तस्य शस्त्राणि भिंदन्ति त्वचमाहवे

3.266.270.21

तावतो लभते लोकान्सर्वकामदुघाक्षयान् ॥
यत्रयत्र हतः शूरः शत्रुभिर्विनिपातितः ॥

3.266.270.22

अक्षयांल्लभते लोकान्निर्वृतिं दीनतां विना ॥
स्वामी सुकृतमादत्ते हतानां विपलायिनाम्

3.266.270.23

स्वामिनो दुष्कृतं सर्वं तदा च प्रतिपद्यते ॥
पलायमानः पुरुषस्तथा प्राप्नोति वै द्विजाः

3.266.270.24

पदेपदे दुराचारो गोवधस्य फलं नरः ॥
जीवँल्लक्ष्मीं समाप्नोति मृतश्च त्रिदिवं नरः

3.266.270.25

यशश्चोभयथा विप्रा नास्ति युद्धे निरर्थता ॥
परानभिमुखः शूरो यावद्व्रजति वै द्विजाः

3.266.270.26

पदेपदे यज्ञफलमानुपूर्व्यात्समाप्नुयात् ॥
अभग्नञ्च परं हन्याद्भग्नं च परिरक्षति

3.266.270.27

पलायन्ते स्थिता यस्मिन्स याति परमां गतिम् ॥
ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्संत्यज्य युध्यति

3.266.270.28

हतासुश्च पतेद्युद्धे स स्वर्गान्न निवर्तते ॥
यस्य युद्धे प्रविष्टस्य देहं चिह्नीकृतं परैः

3.266.270.29

आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ॥
नाशौचभाजस्तस्य स्युर्बान्धवा द्विजसत्तमाः

3.266.270.3.267.30

श्राद्धञ्चैवाग्निसंस्कारस्तथैवाप्युदकक्रिया ॥
मृतस्य नोपयुज्यन्ते संग्रामेऽभिमुखस्य तु

3.266.270.31

क्रियन्ते तस्य धर्मज्ञा आनृण्यार्थं स्वबन्धुभिः ॥
यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः

3.266.270.32

देवकन्यास्तु तं वीर रमयन्ते रमन्ति च ॥
वराप्सरःसहस्राणि शूरमायोधने हतम्

3.266.270.33

त्वरितास्त्वभिधावन्ति मम भर्ता ममेति च ॥
हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः

3.266.270.34

ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् ॥
शक्यं त्विह समृद्धैस्तु यष्टं क्रतुशतैर्नरैः

3.266.270.35

आत्मदेहं तु संग्रामे त्यक्तुं विप्राः सुदुष्करम् ॥
यां यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणः सत्त्वचयैः प्रयान्ति ॥
क्षणेन तामैव गतिं प्रयान्ति महाहवे स्वां तनुमुत्सृजन्तः

3.266.270.36

सर्वे च वेदाः सह षड्भिरंगैः सांख्यं च योगं च वने च वासः ॥
एतान्गुणानेक एवातिदेशेत्संग्रामधाम्ना स्वतनुं त्यजेद्यः

3.266.270.267

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु शूरगुणवर्णनो नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥

3.266.270.1

3.268
हंस उवाच ॥
अहिंसा सर्वधर्माणां धर्मः पर इहोच्यते ॥
अहिंसया तदाप्नोति यत्किञ्चिन्मनसेप्सितम्

3.266.270.2

स्त्रीहिंसा धनहिंसा च प्राणिहिंसा तथैव च ॥
त्रिविधां वर्जयन्हिंसां ब्रह्मलोकं प्रपद्यते

3.266.270.3

दाक्षिण्यं रूपलावण्यं सौभाग्यमपि चोत्तमम् ॥
धनं धान्यमथारोग्यं धर्मं विद्यां तथा स्त्रियः

3.266.270.4

राज्यं भोगाँश्च विपुलान्ब्राह्मण्यमपि चेप्सितम् ॥
अष्टौ चैव गुणान्वापि दीर्घं जीवितमेव च

3.266.270.5

अहिंसकाः प्रपद्यंते यदन्यदपि दुर्लभम्॥
अहिंसकस्तथा जन्तुर्मांसवर्जयिता भवेत

3.266.270.6

मासिमास्यश्वमेधेन यो यजेत शतं समाः॥
मांसानि च न खादेद्यः समं वा स्यान्न वा समम

3.266.270.7

सदा यजति सत्रेण सदा दानं प्रयच्छति ॥
सदा तपस्वी भवति मधुमांसस्य वर्जनात्

3.266.270.8

सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि ॥
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत्

3.266.270.9

दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम ॥
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम्

3.266.270.3.268.10

तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम् ॥
विश्वास्यश्चोपगम्यश्च नहि हिंसारुचिर्यथा

3.266.270.11

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥
आत्मौपम्येन गन्तव्यमात्मविद्भिर्महात्मभिः

3.266.270.12

अहिंसा परमो धर्मः सत्यमेव द्विजोत्तमाः ॥
लोभाद्वा मोहतो वापि यो मांसान्यत्ति मानवः

3.266.270.13

निर्घृणः स तु मन्तव्यः सर्वधर्मविवर्जितः ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति

3.266.270.14

उद्विग्नवासे वसति यत्रयत्राभिजायते ॥
धनेन क्रयिको हन्ति उपभोगेन खादकः

3.266.270.15

घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥
भक्षयित्वा तु यो मांसं पश्चादपि निवर्त्तते

3.266.270.16

तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्त्तते ॥
राक्षसैर्वा पिशाचैर्वा डाकिनीभिर्निशाचरैः

3.266.270.17

तथान्यैर्नाभिभूयेत यो मांसं परिवर्जयेत् ॥
खेचराश्चावगच्छन्ति जीवतोऽस्य मृतस्य वा

3.266.270.18

पृष्ठतो द्विजशार्दूल यो मांसं परिवर्जयेत् ॥
तथान्यैर्नाभिभूयेत यो मांसं परिवर्जयेत्

3.266.270.19

चिताधूमस्य गन्धेऽपि मृतस्यापि निशाचराः ॥
क्रव्यादे विप्रणश्यन्ति यो मांसं परिवर्जयेत्

3.266.270.3.268.20

शस्त्राग्निनृपचौरेभ्यः सलिलाच्च तथा विषात् ॥
भयं न विद्यते तस्य तथान्यदपि किञ्चन

3.266.270.21

न ताँल्लोकान्प्रपद्यंते ये लोका मांसवर्जिनाम् ॥
स दण्डी स च विक्रान्तः स यज्वा स तपस्यति

3.266.270.22

स सर्वलोकानाप्नोति यो मांसं परिवर्जयेत ॥
न तस्य दुर्लभं किञ्चित्तथा लोकद्वये भवेत् ॥
वरशापसमर्थश्च तथा स्यान्मांसवर्जकः

3.266.270.23

विमानमारुह्य शशाङ्कतुल्यं देवाङ्गनाभिः सहितो नृवीरः ॥
सुखानि भुक्त्वा सुचिरं हि नाके लोकानवाप्नोति पितामहस्य

3.266.270.268

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः

3.266.270.1

3.269
हंस उवाच ॥
क्षमा धर्मः क्षमा सत्यं क्षमा शौचं क्षमा बलम् ॥
क्षमा यज्ञाः क्षमा दानं क्षमा च परमं तपः

3.266.270.2

आकृष्टस्ताडितो वापि परेषां यस्तितिक्षते ॥
तस्मात्सुकृतमादत्ते दुष्कृतं च प्रयच्छति

3.266.270.3

यः क्षमावान्स धर्मात्मा क्षमयैव द्विजोत्तमाः ॥
आक्रोष्टारं निर्दहति स्वर्गलोकं च गच्छति

3.266.270.4

एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ॥
यदेनं क्षमया युक्तं त्वशक्तं मन्यते जनः

3.266.270.5

विज्ञेयः सोऽपि दोषोऽस्य द्विजेन्द्राः स महान् गुणः ॥
तस्मात्पुण्यसमादानाद् दुष्कृतस्य समर्पणात्

3.266.270.6

मृतः क्षमावान्पुरुषो ब्रह्मलोकं प्रपद्यते ॥
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता

3.266.270.7

प्राप्नोति कामान्दिवि चेह मुख्यान्संवत्सराणां नियुतानि विप्राः ॥
सर्वंसहः क्षान्तिपरो मनुष्यस्त्वतः क्षमावान्सततं नरः स्यात्

3.266.270.269

इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्षमागुणवर्णनो नामैकोनसप्तत्यधिकद्विशततमोऽध्यायः

3.266.270.1

3.270
हंस उवाच ॥
आनृशंस्यं परो धर्मो लोकेऽस्मिन्द्विजसत्तमाः ॥
तस्मादात्मवता भाव्यं कृतज्ञेन नरेण तु

3.266.270.2

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः

3.266.270.3

नरकान्न विमुच्यन्ते ये कृतघ्ना नराधमाः ॥
आभूतसंप्लवं घोरा नात्र कार्या विचारणा

3.266.270.4

तिर्यग्योनौ हि जायन्ते दुःखावासं वसन्ति च ॥
लभन्ते न क्वचित्त्राणं तथा प्राप्ते भये नराः

3.266.270.5

एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥
कृतज्ञः स्वर्गमाप्नोति कृतज्ञो विन्दते महत्

3.266.270.6

प्रभुं वा यदि वा भृत्यं विप्रं गुरुमथापि वा ॥
आपन्नं न त्यजेद्यस्तु स तु नाके महीयते

3.266.270.7

समृद्धं यस्तु संसेव्य दरिद्रं यो विमुञ्चति ॥
स नृशंसतमो लोके नरो नरकभाजनम्

3.266.270.8

न त्यजेत नरो भृत्यं स्वगेहे गतयौवनम् ॥
असमर्थं तु वार्धक्ये त्यक्त्वा नरकमाप्नुयात्

3.266.270.9

कुञ्जरन्तुरगं वृद्धं धेनुं दान्तमथापि वा ॥
यस्त्यजेत्स सुदुर्बुद्धिर्नरकं प्रतिपद्यते

3.266.270.3.270.10

नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन वा ॥
यथावद् द्विजशार्दूलास्ते नरा निरयङ्गताः

3.266.270.11

अचिकित्स्येन रोगेण गृहीतं स्वगृहे पशुम् ॥
चिकित्स्यं न त्यजेदेनं यावज्जीवं द्विजोत्तमाः

3.266.270.12

तस्य त्यागादवाप्नोति मानवो नरकं धुवम् ॥
समृद्धं स्वामिनं यस्तु सेवित्वा पुरुषाधमः ॥
असमृद्धं त्यजेत्पश्चाद् ध्रुवं नरकमृच्छति

3.266.270.13

यो नरः क्लेशमाप्नोति हीनार्थस्वामिसेवनात् ॥
तत्तपोऽस्य विनिर्दष्टं ब्रह्मलोकाय वै द्विजाः ॥

3.266.270.14

कृतज्ञः पुरुषो लोके कृतज्ञः सर्वभाक्तथा ॥
कृतज्ञः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति

3.266.270.15

मातरं पितरं पुत्रं याज्यमृत्विजमेव च ॥
स्वामिनं च गुरुं भृत्यं बान्धवं पशुमेव च

3.266.270.16

भार्यां वापि द्विजश्रेष्ठा न त्यजेन्मनसा क्वचित् ॥
एषां तु पतति त्यागे ध्रुवं नरकमृच्छति

3.266.270.17

न त्यजेत तथैवाग्निं नाग्निमुत्सादयेत्तथा ॥
देवतार्चां तथा विप्रास्त्यक्त्वा नरकमृच्छति

3.266.270.18

छायायां यस्य विश्रान्तो नरः स्यात्पादपस्य तु ॥
तस्मात्पत्रं न हिंसेत कृतज्ञत्वमनुस्मरन्

3.266.270.19

कृतज्ञो भूतिमाप्नोति कृतज्ञश्च तथा यशः ॥
कृतज्ञो नाकमाप्नोति ब्रह्मलोकमथापि वा

3.266.270.3.270.20

कृतज्ञैर्वसुधा सर्वा धार्यते सुमहात्मभिः

3.266.270.21

कृतज्ञ एव यजते कृतज्ञस्तप्यते तपः ॥
यज्वा दाता तथा शूरः कृतज्ञश्च तथा भवेत् ॥
कृतज्ञस्त्यजते प्राणान्मित्रकार्ये तथा धुवम्

3.266.270.22

यो ब्रह्मलोकस्तपसा न शक्यः प्राप्तुं द्विजेन्द्रा महतः सुकृच्छ्रात् ॥
तं ब्रह्म लोकं हि नरः कृतज्ञः प्राप्नोति शीघ्रं न हि संशयोऽत्र

3.266.270.270

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृतज्ञतागुणनिरूपणो नाम सप्तत्यधिकद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc