भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.251.255

3.251.255.1

3.251
हंस उवाच ॥
अनृतं वर्जयेन्नित्यमनृतं पातकं परम् ॥
अनृताद्धि परं नास्ति द्वारं नाशनमात्मनः

3.251.255.2

सर्वे निबद्धा वाच्यार्था वाङ्मूला वाग्विनिस्सृताः॥
तस्मान्न स्तेनयेद्वाचं य इच्छेद्धितमात्मनः

3.251.255.3

अनृतं न क्वचिद्वाच्यं तथा साक्ष्ये विशेषतः ॥
अनृतं हि वदन्साक्ष्ये पितृभिः सह मज्जति

3.251.255.4

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥
शतमश्वानृते हन्ति सहस्रं पुरुषानृते

3.251.255.5

हन्ति जातानजाताँश्च हिरण्यार्थेऽनृतं वदन् ॥
सर्वं भूम्यनृतं हन्ति मास्म भूम्यनृतं वदेत्

3.251.255.6

अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ॥
अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च

3.251.255.7

एतान्दोषानवेक्ष्यैव सर्वाननृतभाषणे ॥
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वदेत्

3.251.255.8

नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥
अन्धः शत्रुगृहं गच्छेन्न साक्ष्यमनृतं वदेत्

3.251.255.9

साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् ॥
निविशन्ते तमाजातीस्तस्मात्साक्ष्ये वदेदृतम्

3.251.255.3.251.10

यन्मया गदितं पापं द्विजेन कूटसाक्षिणः ॥
ततोऽधिकमवाप्नोनि सद्यो मिथ्याऽभिशंसने

3.251.255.11

यथा क्रोधाद्भयाल्लोभादज्ञानाद्वा द्विजोत्तमाः ॥
योऽनृतं भाषते सद्भ्यः स याति नरकं ध्रुवम्

3.251.255.12

अवाक्छिरास्तमस्यन्धे किल्बिषी नरके पतेत् ॥
यः प्रश्नं वितथं ब्रूयात्पृष्टः सद्धर्मनिश्चये

3.251.255.13

अन्धो मत्स्यानिवाश्नाति निरपेक्षं सकण्टकान् ॥
यो भाषतेऽर्थ वैकल्यमप्रत्यक्षं सभाङ्गतः

3.251.255.14

कूटकर्मतुलामाने रसानां भेदने तथा ॥
विश्वासन्यासहरणे रहस्यसमभेदने

3.251.255.15

मृतिं कल्पयते यश्च मधु मांसेन पातकम् ॥
द्विजस्य सुरया वापि लोभेन च विशेषतः

3.251.255.16

गोब्राह्मणवधे वापि गुरुपितृवधे तथा ॥
वयस्यदारगमने गुरुदारप्रदर्शने

3.251.255.17

व्युत्पादने च शस्त्राणां शस्त्रोत्सादे तथैव च ॥
भर्तृपिण्डापहरणे संग्रामाच्च पलायने

3.251.255.18

शरणागतसंत्यागे गच्छतश्च दिवा स्त्रियम् ॥
प्रेष्यां च गच्छतः पापं राजद्रोहे तथैव च

3.251.255.19

पङ्क्त्यां विषमदातुश्च श्राद्धं मित्रस्य यत्तथा ॥
शुल्केन ददतः कन्यां केशविक्रयिकस्य च

3.251.255.3.251.20

विप्रस्य पातकं यच्च प्राणिनां विक्रये भवेत् ॥
आमश्राद्धभुजः पापमयाज्यस्य च याजने

3.251.255.21

मिथ्या राज्यस्य करणे परद्रव्यापहारिणः ॥
सर्वाण्येतानि पापानि द्विजः सभ्यः समाप्नुयात्

3.251.255.22

यद्यन्यथा वदेत्तस्माद्धर्म्यं सभ्यः सदा वदेत् ॥
एतदेव तथा पापं विज्ञेयं कूटसाक्षिणाम्

3.251.255.23

कूटकर्मा तु नरकं पितृभिः सह मज्जति ॥
दशवर्षसहस्राणि दशवर्षशतानि च

3.251.255.24

ततो दशगुणं कालं सभ्यो मिथ्याभिभाषिता ॥
रागद्वेषप्रवृत्तस्तु व्यवहारेऽपि पार्थिवः

3.251.255.25

ततो दशगुणं कालं नरके वसति ध्रुवम् ॥
उक्ते वचसि धर्म्ये तु सद्यः पापात्प्रमुच्यते

3.251.255.26

राजा नरकमाप्नोति सत्यवाक्यं विलंघयन ॥
शूद्रविट्क्षत्रविप्राणां यत्रोक्ते प्राप्नुयाद्वधः

3.251.255.27

तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥
वाग्दैवतैश्च चरुभिर्यजनैश्च सरस्वतीम् ।

3.251.255.28

कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि ॥
उदुत्यृचे वा वारुण्ये ऋचा वाग्दैवतेन वा

3.251.255.29

अनृतस्य वशस्तस्य कुर्वाणो निष्कृतिं पराम्॥
बहवः सुखमेधन्ते यस्मिन्विप्रा निपातिते ॥
वाच्यं तस्य वधे प्राप्ते यथाभूतमिति श्रुतिः

3.251.255.3.251.30

न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु विप्रा न विवाहकाले ॥
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि

3.251.255.251

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनृतदोषवर्णनो नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः

3.251.255.1

3.252
हंस उवाच ॥
सर्वेषामेव पापानां हिंसा परमिहोच्यते ॥
हिंसा बलमसाधूनां हिंसा लोकद्वयापहा

3.251.255.2

अपि कीटः पतङ्गो वा न हन्तव्यः कथञ्चन ॥
महद्दुःखमवाप्नोति पुरुषः प्राणिनाशनात्

3.251.255.3

आततायिनमायान्तं पुरुषं यदि वा पशुम् ॥
उपायहीनस्तं हत्वा न तु पापेन बाध्यते

3.251.255.4

गुरुं वा बालवृद्धौ वा मान्यं वाप्यथ वा जनम् ॥
आततायिनमायान्तं हन्यादेवाविचारयन्

3.251.255.5

आततायिन मायान्तमपि वेदान्तगं रणे ॥
जिघांसन्तं जिघांसीयात्तेन पापं न विद्यते

3.251.255.6

रणे प्रहाराभिहते शत्रौ नैवास्ति पातकम् ॥
जित्वा गृहीते निहते तस्मिन्नेवास्ति पातकम्

3.251.255.7

रणे जितन्तु यः शक्तः पश्चात्पातयते नरः ॥
स याति नरकं घोरं बहून्यब्दशतानि च

3.251.255.8

मुक्तश्च नारकाद्दुःखाद्बहून्यब्दशतानि तु ॥
आमगर्भेषु सिच्यन्ते ये नरा नरघातकाः

3.251.255.9

यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ॥
वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम्

3.251.255.3.252.10

अपि कीटं नरो हत्वा छित्त्वा तृणमथापि वा ॥
नरकं याति धर्मज्ञाः पुरुषः स्वेन कर्मणा

3.251.255.11

स्त्रीहिंसा धनहिंसा च प्राणिहिंसा च दारुणा ॥
हिंसा च त्रिविधा प्रोक्ता वर्जिता पण्डितैर्नरैः ॥

3.251.255.12

अहिंसकस्तु यत्नेन वर्जयेत्तु परस्त्रियम् ॥
विजनेऽपि तथा न्यस्तं परद्रव्यं प्रयत्नतः

3.251.255.13

अतो वै नैव कर्तव्या प्राणिहिंसा भयावहा ॥
वियोज्य प्राणिनं प्राणैस्तथैकमपि निर्घृणः

3.251.255.14

नरकाद्धि विनिर्मुक्तो न किञ्चित्सुखमेधते ॥
यां रात्रिमधिविन्नां स्त्रीं यां चैवाक्षपराजिताम्

3.251.255.15

यां च राज्यच्युतो रात्रिं यां च सर्वस्वविच्युतः ॥
इष्टबन्धुवियुक्तश्च यां रात्रिं दुःखमश्नुते

3.251.255.16

व्यवहारे जितश्चैव यद् दुःखं कूटसाक्षिभिः ॥
तत्सर्वं दुःखमाप्नोति हत्वैकमपि तु द्विजाः

3.251.255.17

नास्ति पापतरं लोके मनुष्या मांसभोजिनः॥
बहिर्मांसं तृणात्काष्ठादुपलाद्वापि जायते

3.251.255.18

घोरात्प्राणिवधाज्जातं पुरुषः परिवर्जयेत् ॥
यदि चेत्खादको न स्यान्न भवेद्घातकस्तथा

3.251.255.19

एतस्मात्कारणान्निन्द्यो घातकादपि खादकः ॥।
यावतां प्राणिनां येन मांसं भुक्तं भवेदिह

3.251.255.3.252.20

ता एव ते न तावत्यो गन्तव्या योनयो ध्रुवम् ॥
येषान्तु प्राणिनां भुक्तं तेन मांसं द्विजोत्तमाः

3.251.255.21

भोक्तव्यं तस्य तैर्मांसं ध्रुवं जन्मनिजन्मनि ॥।
मांसभक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम्

3.251.255.22

एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ॥

3.251.255.23

प्रसमीक्ष्य निवर्त्येत सर्वमांसस्य भक्षणात् ॥
अनुमन्ता विशसिता निहन्ता क्रियविक्रयी

3.251.255.24

संस्कर्ता चोपहर्ता च खादकाश्च विघातकाः ॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति

3.251.255.25

न पापकृत्तमो लोके तस्मादन्यो हि विद्यते ॥
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन

3.251.255.25

मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥
या वेदविहिता हिंसा न सा हिंसा मता यतः

3.251.255.27

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ॥
यज्ञार्थं निधनं प्राप्ता प्राप्नुवन्त्युच्छ्रिताः पुनः

3.251.255.28

मधुपर्के च यज्ञे च पितृदैवतकर्मणि ॥
अत्रैव पशवो हिंस्या नान्यत्रेति कदाचन

3.251.255.29

एष्वर्थेषु पशून्हन्ति वदतत्त्वार्थविद्द्विजाः ॥
आत्मानं च पशूँश्चैव गमयन्त्युत्तमां गतिम्

3.251.255.3.252.30

यज्ञार्थं पशवः सृष्टाः पूर्वमेव स्वयम्भुवा ॥
यज्ञाश्च भूतैः सर्वस्य तस्माद्यज्ञे वधोऽवधः

3.251.255.31

वृथा तु मांसं पुरुषः समश्नन्प्रयाति विप्रा नरकं सुघोरम् ॥
निबर्हणं गर्हितमेव जन्तोर्मांसश्च तस्मात्परिवर्जनीयम्

3.251.255.252

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः

3.251.255.1

3.253
ऋषय ऊचुः ॥
ब्रूह्यस्माकं द्विजश्रेष्ठ नरः पापेन कर्मणा ॥
किंकिमाप्नोति धर्मज्ञ विहगेन्द्र महामते

3.251.255.2

॥ हंस उवाच ॥ ॥
पापं कृत्वा नरो विप्रा नरकं प्रतिपद्यते ॥
नरकाच्च विनिर्मुक्तस्तिर्यग्योनौ तथा व्रजेत्

3.251.255.3

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्

3.251.255.4

कर्मजा गतयो नॄणामुत्तमाधममध्यमाः ॥
त्रिविधास्तु विनिर्दिष्टा दशलक्षणलक्षिताः

3.251.255.5

परद्रव्येष्वभिध्यानं मनसा दुष्टचिन्तनम् ॥
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्

3.251.255.6

पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ॥
अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्

3.251.255.7

अदत्तानामुपादानं हिंसा चैवाविधानतः ॥
परदारोपसेवा च शारीरं त्रिविधं स्मृतम्

3.251.255.8

एकस्मिन्नप्यतो विप्राः सेवते दशलक्षणम् ॥
अधर्मात्प्राप्य मानुष्यं यदा भवति दुःखितः

3.251.255.9

इह दुश्चरितैः केचित्केचित्पूर्वकृतैस्तथा ॥
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम्

3.251.255.3.253.10

ब्रह्महा क्षयरोगी स्याद्दुश्चर्मा गुरुतल्पगः ॥
श्यावदन्तः सुरापश्च कुनखी कनकापहः

3.251.255.11

वस्त्रापहारकः श्वित्री पङ्गुरश्वापहारकः ॥
पङ्गुरेव तथा ज्ञेयः सर्वयानापहारकः

3.251.255.12

अधश्च जायते लोके गां हृत्वा मानवाधमः ॥
धान्यचौरोऽतिरिक्ताङ्गो मूको वागपहारकः

3.251.255.13

गुरुस्वामि द्विजान्क्रोशन्वेदनिन्दां तथैव च ॥
श्रुत्वा भवति दुर्बुद्धिर्बधिरो मानवाधमः

3.251.255.14

नित्यामयावी भवति तथा चान्नापहारकः ॥
वियोज्यैकमपि प्राणैः प्राणिनं व्याधितस्तथा

3.251.255.15

वस्त्रभोज्यापहर्तारौ तथा नग्नबुभुक्षितौ ॥
अग्निमान्द्याभिभूतश्च तथा भवति दुर्मतिः

3.251.255.16

जुहोति यो द्विजश्रेष्ठा असमिद्धे हुताशने ॥
रत्नापहारी भवति तथा कुष्ठी नराधमः

3.251.255.17

पिशुनः पूतिनासश्च पूतिवक्त्रश्च सूचकः ॥
षण्डश्च जायते लोके दारातिक्रमकारकः

3.251.255.18

परपुंसि प्रदाता वा तस्य भार्या तथा भवेत् ॥
कुष्ठी भवति धर्मज्ञास्त्वपहृत्य तथा स्त्रियम्

3.251.255.19

लिङ्गव्याधिमवाप्नोति वियोनौ मैथुनं गतः ॥
गां च गत्वा द्विजश्रेष्ठा लिङ्गनाशमवाप्नुयात्

3.251.255.3.253.20

पूज्यावमन्ता खल्वाटो पूज्यताडयिता कुणिः ॥
मार्गार्हाय च यो मार्गं न प्रयच्छति दुर्मतिः

3.251.255.21

खञ्जो भवति दुर्बुद्धिरासनार्हस्य चासनम् ॥
दुर्नामा संयतो नित्यं मत्सरी जायते शठः

3.251.255.22

दीपहर्ता भवत्यन्धः काणो निर्वापको भवेत् ॥
दैवदत्तेन ज्ञानेन कृत्वा कर्म सुदुर्मतिः ॥
जायते बुद्बुदाक्षो वा नेत्ररोगयुतोऽथवा

3.251.255.23

दृष्ट्वा परस्त्रियं नग्नां नरो दुष्टेन चक्षुषा ॥
जात्यन्धतामवाप्नोति परलोके न संशयः

3.251.255.24

वर्णाधिकस्य जीवित्वा वर्णहीनेन कर्मणा ॥
तस्यैव योनिमाप्नोति नात्र कार्या विचारणा

3.251.255.25

तथैवाधिकवर्णस्य यदि जीवति कर्मणा ॥
हीनवर्णस्तथा लोके भवत्यन्धः स दुर्मतिः

3.251.255.26

यस्यान्नेनोदरस्थेन मृत्युमेति द्विजः क्वचित् ॥
तस्यैव योनिमाप्नोति स्वकृतेनापि कर्मणा

3.251.255.27

आमश्राद्धं तथा भुक्त्वा विरूपो जायते नरः ॥
विरूप एव भवति तथाविक्रेयविक्रयात्

3.251.255.28

विनापराधेन तथा कृत्वा पत्न्यधिवेदनम् ॥
पराजयमवाप्नोति व्यवहारे तथा रणे

3.251.255.29

मूलकर्म तथा कृत्वा वशीकरणकारणात् ॥
द्वेष्यो भवति लोकेऽस्मिञ्जगतो नात्र संशयः

3.251.255.3.253.30

अवकीर्णी च भवति लिङ्गव्याधिसमन्वितः ॥
परिवेत्ता तथा लोके सर्वव्याधिसमन्वितः

3.251.255.31

अयाज्ययाजकः पापो जायते वर्णसंकरः ॥
वेदविक्रयको मूर्खः कितवश्चैव जायते

3.251.255.32

विद्यानर्थश्च भवति तथाविक्रेयविक्रयी ॥
एकः स्वाद्वशनो लोके जायते परतर्षकः

3.251.255.33

परिव्राड् कामवृत्तस्तु नित्यं भवति दुःखितः ॥
हिंसारतस्तथाल्पायुर्यस्तु मांसाशनो नरः

3.251.255.34

नास्तिकस्तु दरिद्रः स्यात्सर्वभोगविवर्जितः ॥
अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले

3.251.255.35

श्वपाकपुक्कसादीनां कुत्सितानामचेतसाम् ॥
कुलेषु तेषु जायन्ते गुरुवृद्धावचायकाः

3.251.255.36

परोद्वेगरतिर्नित्यं बहुबाधश्च जायते ॥
प्रकीर्णमैथुनो जन्तुः क्लीबो भवति वै द्विजाः

3.251.255.37

नरः पापसमाचारो मृत्युमभ्येति कुत्सितम् ॥
श्वभ्रे तु मरणं लोके विषः स्थावरजङ्गमैः

3.251.255.38

दंष्ट्रिभ्यश्च नखिभ्यश्च चण्डालाद्ब्राह्मणात्तथा॥
गृहावपतनाच्चैव द्रुमाश्वपतितैस्तथा

3.251.255.39

नौभंगादग्निदाहाच्च तथोद्बन्धनकर्मणा ॥
गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणः

3.251.255.3.253.40

एषामन्यतमं मृत्युमासाद्य नरकं व्रजेत् ॥
नवापि तैश्च युज्यन्ते ये नराः शुभकारिणः

3.251.255.41

ताडिता ताड्यते लोके बद्धा वै बध्यते तथा ॥
हन्ता वधमवाप्नोति नात्र कार्या विचारणा

3.251.255.42

यद्यत्परस्याचरति तत्तदस्योपजायते

3.251.255.43

प्राप्नोति यादृशीं बाधां यत्कर्मणि कृते परः ॥
तस्यापि तादृशी बाधा ज्ञेया जन्मनिजन्मनि

3.251.255.44

तस्मात्सर्वप्रयत्नेन पापबाधां विवर्जयेत् ॥
श्रूयतां धर्मसर्वस्वं श्रुत्वा चाप्यवधार्यताम् ॥
आत्मनः प्रतिकूलानि परेषां न समाचरेत्

3.251.255.45

परोपतापक्रियया न कार्यं धनार्जनं दोषसमूहकारि ॥
परोपतापप्रभवो हि दोषः शक्यो न हन्तुं विबुधालयेऽपि

3.251.255.253

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापकर्मफल निरूपणो नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः

3.251.255.1

3.254
॥ हंस उवाच ॥ ॥
ज्ञानं सुखावहं लोके ज्ञानं चक्षुः परं मतम् ॥
ज्ञानाद्धर्ममवाप्नोति ज्ञानादर्थं च मानवः

3.251.255.2

ज्ञानात्काममवाप्नोति ज्ञानान्मोक्षं च गच्छति ॥
तस्मात्सर्वप्रयत्नेन ज्ञाने यत्नं समाचरेत्

3.251.255.3

ज्ञानेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥
ज्ञानैकहेतुश्च तथा नित्यं शास्त्रान्ववेक्षणम्

3.251.255.4

आचार्यगुरुशुश्रूषा वृद्धानां चैव सेवनम् ॥
अनालस्यमकार्पण्यं दिवा निद्राविवर्जनम्

3.251.255.5

ज्ञानमेष परो बन्धुर्ज्ञानं मार्गस्य देशकम् ॥
संसारबन्धनक्लेशाँस्तथा ज्ञानेन मुञ्चति

3.251.255.6

।
ज्ञानेन पुरुषो वेत्ति ज्ञानाद्वैराग्यमृच्छति ॥
ज्ञानेन तदवाप्नोति यद् गत्वा नानुशोचति

3.251.255.7

एतद्विदित्वा पुरुषेण कार्यं ज्ञाने सदा यत्नमदीनसत्त्वाः ॥
ज्ञानं समासाद्य महानुभावा विमुक्तदुःखाः सुखिनो भवन्ति

3.251.255.254

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ज्ञानवर्णनो नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः

3.251.255.1

3.255
॥ हंस उवाच ॥
धर्मे यत्नः सदा कार्यो धर्म एकः सुखावहः ॥
धर्मेण पाल्यते सर्वं त्रैलोक्यं सचराचरम्

3.251.255.2

धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः ॥
धर्मे संसेविते कामान्प्राप्नोति मनसेप्सितान्

3.251.255.3

धर्मेणार्थं तथा लोके प्राप्नोति मनसेप्सितम् ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ

3.251.255.4

विमुखा बान्धवा यान्ति धर्मस्त्वेकोनुगच्छति ॥
एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते

3.251.255.5

दस्युभिर्मुषितस्येव युक्तमाक्रन्दितं चिरम् ॥
बलादेव चरेद्धर्ममनित्यं जीवितं यतः

3.251.255.6

नास्ति धर्मविहीनस्य सुखमण्वपि वै द्विजाः ॥
धर्मेण देवैर्देवत्वमृषित्वमृषिभिस्तथा

3.251.255.7

प्राप्तं धर्मेण सकलं ब्रह्मणा च कृतं जगत् ॥
येन सर्वमिदं सृष्टं स वै धर्मे हरिः स्थितः

3.251.255.8

कृतस्य धर्मस्य न चास्ति नाशस्तस्मात्तु धर्मः पुरुषेण कार्यः॥
धर्मे कृते नास्ति भयं नराणां लोकेपरे चेह तथा द्विजेन्द्राः

3.251.255.255

इति श्रीविष्णुधर्मात्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धर्मप्रशंसावर्णनो नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc