विष्णुधर्मोत्तरपुराणम् · अध्याय 3.246.250
3.246
हंस उवाच ॥
क्रोध एकः परः शत्रुः क्रोध एको विनाशकृत् ॥
क्रोधाभिभूतः पुरुषस्त्वात्मानमपि घातयेत्
अर्थानर्थौ न जानाति कार्याकार्यौ तथैव च ॥
नरः क्रोधसमाविष्टो नान्यं मित्रमपि द्विजान्
गुरूनाक्षिपति क्रोधान्नैनं हि नमते जनः ॥
अनर्थैः सह संसर्गस्तस्मात्क्रोधं विवर्जयेत्
क्रोधं मूलमनर्थानां द्वारं हि नरकस्य च ॥
आपदामास्पदं घोरन्तं प्रयत्नेन वर्जयेत्
क्रोधेन विजितो यस्तु कथमन्यं स जेष्यति॥
क्रोधे जिते जितं विद्धि त्रैलोक्यं सचराचरम्
अनर्थकारिणं क्रोधं यदा तेजस्विता मता ॥
क्रोधे दोषमतः कृत्वा जितः क्रोधो महात्मभिः
यज्ञश्च दानानि तपः पवित्रं तीर्थोपसेवा च तथैव वेदाः ॥
क्रोधाभिभूतस्य भवन्ति मिथ्या नरस्य तस्मात्परिवर्जयेत्तम्
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्रोधदोषवर्णनो नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः
3.247
॥ हंस उवाच ॥ ॥
सर्वेषामेव पापानां नास्तिक्यं पातकं परम् ॥
नास्तिक्याद्धि परं नास्ति किञ्चिन्पापं द्विजोत्तमाः
अकार्यमिति कार्याणि कृत्वा कार्यवशान्नरः ॥
पश्चात्तापेन संयुक्तः क्षिप्रं पापं व्यपोहति
कार्यबुद्ध्या त्वकार्याणि यः करोति नराधमः ॥
कथं निवर्तनं तेभ्यो जायते तस्य वै द्विजाः
नास्तिक्यस्य तथा मूलं त्वसच्छास्त्रावगाहनम् ॥
तस्मात्सर्वप्रयत्नेन तद्विवर्ज्यं विजानता
सर्वो हि मानवो लोके परलोकनिबन्धनः ॥
तत्रापि निरपेक्षस्य किन्नु लोके निबन्धनम्
ये तु वै नास्तिका लोके नरा लोकं प्रति द्विजाः ॥
नरके ते हि पच्यन्ते बहुकालं न संशयः
नास्तिक्यमेकं पुरुषस्य लोके विनाशनं विप्रवराः प्रदिष्टम् ॥
तस्मात्प्रयत्नेन विवर्जनीयो नास्तिक्यभावः सुखमीप्समानैः
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नास्तिक्यदोषवर्णनो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः
3.248
हंस उवाच ॥
अहङ्कारात्परं नास्ति लोके किञ्चिद्विनाशनम् ॥
अहङ्कारेण भूपालाः शतशो निधनङ्गताः
अहंकृतास्तथा नष्टा ब्राह्मणाश्च सहस्रशः ॥
मान्यामान्यन्न जानन्ति कार्याकार्यं त्वहंकृताः
अहंकृतस्तथा लोके न विद्यामधिगच्छति ॥
विपन्नकार्यश्च तथा न प्राज्ञान्परिपृच्छति
न शृणोति तथान्येषां दर्पपूर्णो विचक्षणः ॥
पातादन्यन्नभैषज्यं दर्पान्नास्त्येह कीर्तनम्
बलाधिकैस्तथा वीरैर्गुरुभिश्च तथैव च ॥
मरणे संनिकृष्टेपि मरणस्य विचक्षणः
हेतुभूतानि कर्माणि निन्दितानि निषेवते ॥
स्थिते स्थितांस्तथा प्राज्ञान्भाषमाणान्विनिन्दति
अहंकृतानां नरके प्रदिष्टा गतिर्ध्रुवं लोकविनिन्दितानाम् ॥
प्राज्ञेन तस्मात्परिवर्जनीयो दर्पो विनाशैककरः सदैव
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतास्वहंकारदोषवर्णनो नामाष्टचत्वारिंशदुत्तरद्विशतमोऽध्यायः
3.249
हंस उवाच ॥
दत्तं यच्छौचहीनेन न तद्गृह्णन्ति देवताः ॥
बुभुत्सवश्च धर्मज्ञाः शुचिकामाश्च देवताः
यक्षैश्च राक्षसैश्चैव पिशाचैश्च निशाचरैः ॥
डाकिनीभिश्च धर्मज्ञाः शौचहीनोऽभिभूयते
शौचहीनमथाभ्येति स्वयं निन्दति कं द्विजाः ॥
व्याधिहीनो ह्यशौचश्च सर्वैरेवाभिभूयते
वर्धते च तथानर्थाः समर्थाश्च व्रजन्ति च ॥
शौचहीनस्य रिपवो यान्ति वृद्धिं परां द्विजाः
स्त्रीशौचमर्थशौचं च वाक्छौचमपि च द्विजाः ॥
एतानि यस्य शौचानि स शुचिः परिकीर्तितः
योर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥
ततश्चाप्यधिकं शौचमहिंसा परिकीर्तिता
शौचेन हीना नरकं व्रजन्ति शौचेन हीना विभजन्त्यनर्थान् ॥
शौचेन हीनाश्च भवन्ति निन्द्यास्तस्मादशौचं परिवर्जनीयम्
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शौचवर्णनो नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः
3.250
हंस उवाच ॥
आचारहीनाः पुरुषा भवन्त्यल्पायुषो द्विजाः ॥
आचारहीनश्च तथा राक्षसैरभिभूयते
यक्षैः पिशाचैर्गन्धर्वैस्तथा चान्यैर्निशाचरैः ॥
डाकिनीभिः सुराणां च तथा पार्षगणाः पृथक
दत्तमाचारहीनेन न प्रतीच्छन्ति देवताः ॥
पितरश्च महाभाग ऋषयश्च तपोधनाः
सर्वलक्षणयुक्तोऽपि नरस्त्वाचारवर्जितः ॥
न प्राप्नोति तथा विद्यां न च किञ्चिदभीप्सितम् ॥
आचारहीनः पुरुषो नरकं प्रतिपद्यते
आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥
आचारहीनेन तु धर्मकार्यं कृतं हि सर्वं भवतीह मिथ्या
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा र्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनाचारदोषवर्णनो नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0