भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.226.230

3.226.230.1

3.226
वज्र उवाच ॥
विष्णुना देवदेवेन हंसरूपेण किं कृतम् ॥
एनं मे संशयं छिन्धि मार्कण्डेय महामुने

3.226.230.2

मार्कण्डेय उवाच ॥
आसीत्प्रजा ज्ञाननिष्ठा पूर्वं कृतयुगे नृप ॥
जनानां ज्ञाननिष्ठत्वात्तदा यदुकुलोद्वह

3.226.230.3

स्वयं प्रभुत्वमभवत्तथा देवगणानि च ॥
तथा कृतयुगस्यान्ते प्रावर्तन्त परिग्रहे

3.226.230.4

परिग्रहात्ततो लोभो लोभाद्द्वेषोऽभवत्ततः ॥
रागद्वेषाभिभूतानां ज्ञानमन्तरधीयत

3.226.230.5

नष्टज्ञाने तथा लोके धर्मो नाशमुपागमत् ॥
धर्मे नष्टे तु नश्यन्तं दृष्ट्वा लोकं जनार्दनः

3.226.230.6

भूत्वा हंसस्समो वर्णे विजहार महीमिमाम् ॥
सुपक्षो देवचरणः सुचञ्चुः स्वायतेक्षणः

3.226.230.7

स सदर्श तदा देशे कस्मिंश्चित्संस्थितानृषीन् ॥
ध्यायन्तो मूढविज्ञानाः किंकर्तव्यपरायणाः

3.226.230.8

स तान्दृष्ट्वा तु पप्रच्छ तेषां कुशलमव्ययम् ॥
ते तमूचुः कुतो नष्टे ज्ञाने नः कुशलं द्विज

3.226.230.9

तानब्रवीन्मुनीन्सर्वान्स हंसः पक्षिराट् ततः ॥
ज्ञानं प्रकाशयिष्यामि तं निबोधत सत्तमाः

3.226.230.3.226.10

एतच्छ्रुत्वा शुभं वाक्यं हंसेनोक्तं महात्मना ॥
हंसमूचुर्महात्मानो भव त्राता द्विजोत्तम

3.226.230.11

ज्ञाननाशेन सकलं मा नश्यत्वखिलं जगत ॥
आदावेव त्वमात्मानं ब्रूह्यस्माकं महाखग

3.226.230.12

वयं हि भ्रष्टविज्ञानास्त्वां न विद्मो महाद्युते ॥
तानब्रवीद्द्विजान्हंसो विष्णुरस्मि द्विजोत्तमाः ॥

3.226.230.13

तं ते ज्ञात्वा तदा विष्णुं पूजयामासुरञ्जसा ॥
अब्रुवंश्च तथा ज्ञानं यथोक्तं तेन यादव

3.226.230.14

ददुश्च गूढं शिष्येभ्यो नाशभीतास्तथा परम्॥
ततः प्रभृति लोकोऽस्मिञ्ज्ञानिनः केचिदेव तु

3.226.230.15

एवं कृत्वा विष्णुना हंसरूप ज्ञानं नष्टं विप्रमुख्येषु दत्तम् ॥
ज्ञाने प्राप्ते भूतले नष्टशोकाः सर्वे चासन्विप्रमुख्या नृवीर

3.226.230.226

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां हंसप्रादुर्भाववर्णनोनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः

3.226.230.1

3.227
वज्र उवाच ॥
किमुक्तं तेन हंसेन ऋषीणां भावितात्मनाम् ॥
एतं मे संशयं छिन्धि भृगुवंशविवर्धन

3.226.230.2

मार्कण्डेय उवाच ॥
बहूक्तं तेन हंसेन चर्षीणां भावितात्मनाम् ॥
तस्मात्किञ्चिदहं वक्ष्ये तन्मे निगदतः शृणु

3.226.230.3

ऋषय ऊचुः ॥
वर्णानामाश्रमाणां च ब्रूहि धर्मं द्विजोत्तम॥
तथा भक्ष्यमभक्ष्यं च शौचाशौचं तथैव च

3.226.230.4

हंस उवाच॥
यजनं याजनं दानं विशिष्टश्च प्रतिगृहः ॥
अध्यापनमध्ययनं विप्रकर्म प्रकीर्तितम्

3.226.230.5

दानमध्ययनं यज्ञः पाशुपाल्यं वणिक्क्रिया ॥
अमात्सर्यं च धर्मज्ञ धर्मस्साधारणो मतः

3.226.230.6

आनुलोम्येन वर्णानां जातिर्मातृसमा भवेत् ॥
प्रतिलोमोद्भवाः सर्वे भवन्त्यार्यविगर्हिताः

3.226.230.7

सूतो वैदेहकश्चैव चाण्डालश्च द्विजोत्तमाः॥
विज्ञेया ब्राह्मणीपुत्राः क्षत्रविट्शूद्रयोनितः

3.226.230.8

मागधः पुक्कसश्चैव विट्शूद्रैः क्षत्त्रियासुतौ ॥
आयोगवश्च वैश्यायां शूद्रपुत्रः प्रकीर्तितः

3.226.230.9

अन्ये वक्तुं न शक्यन्ते सङ्करात्सङ्करोद्भवाः ॥
विवाहः सदृशश्चैषां नोत्तमैर्नाधमैः सह

3.226.230.3.227.10

सूतानामश्वसारथ्यं मागधानां स्तुतिक्रिया ॥
वैदेहः स्यात्तन्त्रिजीवः पुक्कसानां च व्याधता

3.226.230.11

आयोगवस्य शिल्पानि रंगावतरणं तथा ॥
चण्डालानामसंस्पर्शस्तथा वैधव्यगामिता ॥

3.226.230.12

गोब्राह्मणार्थे समरे हतानां स्त्रीबालहेतोर्यदि वाप्यशेषम् ॥
स्वाम्यर्थकार्यं यदि वा प्रकुर्वतां सिद्धिः प्रदिष्टा न हि संशयोऽत्र

3.226.230.227

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां वर्णधर्मवर्णनो नाम सप्तविंशदुत्तरद्विशततमोऽध्यायः

3.226.230.1

3.228
हंस उवाच ॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च

3.226.230.2

प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ॥
अभिगम्य गुरोः कुर्यात्प्रयतस्त्वभिवादनम्

3.226.230.3

अनुज्ञातस्तु गुरुणा ततोध्ययनमाचरेत् ॥
भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि

3.226.230.4

गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥
हितप्रिये गुरोः कार्ये भक्त्याहङ्कारवर्जितः

3.226.230.5

मधुमांसाञ्जनं श्राद्धं नृत्तं गीतं च साहसम् ॥
हिंसा परापवादं च मण्डनं च विवर्जयेत्

3.226.230.6

मेखलामजिनं दण्डं धारयेत्प्रयतः सदा ॥
विनष्टान्यप्सु विक्षिप्य तथान्यानपि धारयेत्

3.226.230.7

अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥
एवं व्रतस्तु कुर्वीत वेदस्वीकरणं बुधः

3.226.230.8

गुरवे वचनं दत्त्वा स्नायाच्च तदनुज्ञया ॥
आशरीरविमोक्षाद्वा वसद्गुरुकुले द्विजाः

3.226.230.9

एवं व्रतान्ते गुरुवे च दत्त्वा वरं यथावत्परिपूर्णविद्यः।
गृहाश्रमी स्याद्विधिवद्दिजेन्द्रो यात्रास्यलोकद्वितीयं प्रदिष्टम्

3.226.230.228

इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतायां ब्रह्मचारिव्रतवर्णनो नामाष्टाविंशदुत्तरद्विशततमोऽध्यायः

3.226.230.1

हंस उवाच ॥ ॥
ततो गृहाश्रमे तिष्ठन्नग्नीनाधाय धर्मवित् ॥
कृत्वा विवाहं विधिवद्धर्मेण च धनागमम्

3.226.230.2

त्रिवर्गं तत्र सेवेत यज्ञैश्च विविधैर्यजेत् ॥
आचारपालनं कुर्याद्वेदाध्ययनमेव च

3.226.230.3

उत्सर्गं छन्दसां कुर्याच्छुक्लान्ते श्रावणस्य च ॥
पौषमासस्य रोहिण्यामुपाकर्म विधीयते

3.226.230.4

उत्सर्गानन्तरं वेदं नाधीयीत कदाचन ॥
तत्रापि शास्त्राध्ययनं द्विजातीनां विधीयते

3.226.230.5

यत्नः कार्यः पूजने चातिथीनां चैतत्कार्यं सर्वकालं गृहस्थैः ॥
नान्यो धर्मो विद्यते तस्य विप्राश्चैतद्धर्मं तस्य श्रेष्ठं प्रदिष्टम्

3.226.230.229

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे हंसगीतायां गृहस्थधर्मवर्णनो नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः

3.226.230.1

3.230
हंस उवाच ॥
कीनाशबद्धचौराणां क्लीबरङ्गावतारिणाम् ॥
पतितव्रात्यदुष्टानां तथा बन्धनरक्षिणाम्

3.226.230.2

उदक्याविधवावापपाषण्डवधजीविनाम् ॥
चिकित्साजीवकव्याधपुंश्चलीनृपविद्विषाम्

3.226.230.3

चर्मकारायुधाजीविशस्त्रविक्रयकारिणाम् ॥
चैलधावनृशंसार्तस्त्रीजितग्रामयाजिनाम्

3.226.230.4

तुन्नवायकदम्बस्य कूटकृच्छूद्रयाजिनाम् ॥
एषामन्नं न भोक्तव्यं यश्च दद्यादनर्चितम्

3.226.230.5

पर्यायान्नं क्षुतं चैव संघुष्टं पतितेक्षितम् ॥
शुल्कं पर्युषितोच्छिष्टं तथा चोच्छिष्टजीविनः

3.226.230.6

उदक्यया तथा स्पृष्टं यच्च घ्रातं गवा शुना ॥
केशकीटावपन्नं च पक्षिजग्धं तथैव च

3.226.230.7

दासार्धसीरि गोपाल नापितान्नं तथाविनाम् ॥
शूद्रस्यान्नं तथा श्राद्धमात्मविक्रयिणस्तथा

3.226.230.8

अन्नं पर्युषितं भोज्यं स्नेहाक्तं रागषाण्डवत् ॥
निस्नेहा अपि गोधूमयवपौराणनिम्बकाः

3.226.230.9

अजागोमहिषीवर्ज्यं सर्वाण्यपि पयांसि च ॥
अनिर्दशाहं तेषां वै विवत्सायाश्च गोस्तथा

3.226.230.3.230.10

कपिञ्जलस्तित्तिरिश्च मयूरो लावकस्तथा ॥
एते हि पक्षिणो भक्ष्या न तु शेषाः कथञ्चन

3.226.230.11

शशकः शल्यको गोधा खड्गः कूर्मस्तथैव च ॥
भक्ष्याः पञ्चनखेष्वाहुरभक्ष्याश्चोभयादतः

3.226.230.12

सर्वे चैकशफा वर्ज्यास्तथा ज्ञाता मृगद्विजाः ॥
लशुनं गृञ्जनं चैव पलाण्डुकवकानि च

3.226.230.13

लोहितान्वृक्षनिर्यासाञ्शिग्रुश्लेष्मातकं तथा॥
अभक्ष्याणि द्विजातीनां खुर्खण्डानि तथैव च

3.226.230.14

वृथा कृसरसंयावपायसापूपशष्कुलीः ॥
अनुपाकृतमांसानि देवान्नानि हवींषि च

3.226.230.15

मांसाशनं नैव बुधस्तु कुर्याद्वृथा द्विजेन्द्रा नरकस्य हेतुम् ॥
मांसं हि यो नात्ति स याति नाकं लोके तथास्मिन्सुखसङ्गतिः स्यात्

3.226.230.230

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां भक्ष्याभक्ष्यवर्जनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc