भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.221.225

3.221.225.1

3.221
॥ वज्र उवाच ॥
किं नु कृत्यतमं लोके मनुष्याणां प्रकीर्तितम् ॥
एतत्पृष्टो ममाचक्ष्व सर्वधर्मभृतां वर

3.221.225.2

मार्कण्डेय उवाच ॥
अन्तर्वेदि बहिर्वेदि पूजा कार्या दिवौकसाम् ॥
एतत्कृत्यतमं लोके पुरुषस्य विपश्चितः ॥

3.221.225.3

अन्तर्वेद्यां च यजनं बहुवित्तस्य कीर्तितम्॥
स्वल्पवित्तस्य धर्मज्ञ बहिर्वेदि प्रकीर्तितम्

3.221.225.4

पुष्पान्नगन्धनैवेद्यस्तोत्राध्ययनकर्मणा ॥
धूपदीपनमस्कारैर्नित्यं पूज्या दिवौकसः

3.221.225.5

ततोऽपि नियमैश्चैव ब्राह्मणानां च तर्पणैः ॥
बहिः शुश्रूषया चैव दानेन विविधेन च

3.221.225.6

सदैव पूजिता देवास्तुष्टिमायान्ति यादव ॥
स्वेस्वे कालविशेषेण कालः पूर्वोदितो मया

3.221.225.7

वज्र उवाच ॥
देवताः काश्च कस्मिन्नु काले संपूजयेत्सदा ॥
देवतापूजने कार्यं विशेषान्मम कीर्तय

3.221.225.8

मार्कण्डेय उवाच ॥
कालं तथाहं वक्ष्यामि देवतापूजने पृथक् ॥
संवत्सरेण धर्मज्ञ सोपवासस्य सर्वदा

3.221.225.9

ब्रह्माणं पूजयेद्देवं सततं प्रथमेहनि ॥
पक्षद्वये महाभाग पञ्चदश्यामुपोषितः

3.221.225.3.221.10

संवत्सरेण धर्मज्ञ विद्याद्बहुसुवर्णकम्॥
हंसयुक्तेन यानेन ब्रह्मलोके च गच्छति

3.221.225.11

चैत्रमासस्य या शुक्ले प्रथमा प्रतिपद्भवेत्।
तदह्नि ब्रह्मणः कृत्वा सोपवासस्तु पूजनम्

3.221.225.13

संवत्सरमवाप्नोति सौख्यानि भृगुनन्दन ॥
कालस्यावयवाः सर्वे तस्मिन्नहनि पूजिताः॥१२।
ग्रहर्क्षाणि च धर्मज्ञ सौख्यं दद्यादनुत्तमम्॥
संवत्सराधिपं नागं तस्मिन्नहनि पूजयेत्

3.221.225.14

ग्रहेभ्यः सौख्यमाप्नोति स्वास्थ्यमग्र्यं तथैव च॥
तत्राह्नि ब्रह्मणा सृष्टं त्रैलोक्यं प्रथमं द्विज

3.221.225.15

दक्षं प्रजापतिं नित्यं द्वितीयायामथार्चयेत् ॥
फलमाप्नोति धर्मज्ञ गोसवस्य न संशयः

3.221.225.16

तथा नासत्ययोः कृत्वा तस्मिन्नहनि पूजनम् ॥
नित्यमारोग्यमाप्नोति तथा रूपं च भार्गव

3.221.225.17

शुक्लपक्षद्वितीयायां बालचन्द्रस्य पूजनम्॥
कृत्वा दत्त्वा च लवणं प्राग्रात्रौ सुभगो भवेत्

3.221.225.18

साध्या द्वादश ये प्रोक्तास्तेषां कृत्वा तु पूजनम्॥
तृतीयस्यां महाभाग द्वादशाहफलं लभेत्

3.221.225.19

तृतीयायां तथाभ्यर्च्य ब्रह्मविष्णुमहेश्वरान्॥
पृथक्पृथङ्महाभाग त्रिवर्गफलभाग्भवेत ॥

3.221.225.3.221.20

त्रींल्लोकांश्च तदा राम सम्यक्संपूजयेन्नरः ॥
ऐश्वर्यं महदाप्नोति गतिमग्र्यां च विन्दति

3.221.225.21

तृतीया श्रावणे कृष्णा या स्याच्छ्रवणसंयुता ॥
तस्यां संपूज्य गोविन्दं पुष्टिमग्र्यामवाप्नुयात्

3.221.225.22

वैशाखशुक्लपक्षे तु तृतीयायामुपोषितः॥
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य तु

3.221.225.23

सा तथा कृत्तिकोपेता विशेषेण च पूजिता ॥
तत्र दत्तं हुतं तप्तं सर्वं सफलमुच्यते

3.221.225.24

अक्षया सा तिथिर्यस्मात्तस्मात्सुकृतमक्षयम् ॥
अक्षतैः पूज्यते विष्णुस्तेन साप्यक्षता स्मृता

3.221.225.25

अक्षतैस्तु नरः स्नातो विष्णोर्दत्त्वा तथाक्षतान् ॥
सक्तून्सुसंस्कृताँश्चैव हुत्वा चैव तथाक्षतान्

3.221.225.26

विप्रेषु दत्त्वा तानेव तथा सक्तुं सुसंस्कृतम् ॥
यवान्नभुङ् महाराज फलमक्षय्यमश्नुते

3.221.225.27

एकामप्युक्तवत्कृत्वा तृतीयां भृगुनन्दन ॥
एषामब्दतृतीयानां सर्वासां तत्फलं भवेत्

3.221.225.28

प्रोक्तास्तु भृगवो नाम देवा द्वादश ये पुरा ॥
चतुर्थ्यां पूजनं तेषां कृत्वा दिवमवाप्नुयात्

3.221.225.29

यमस्य पूजनं कृत्वा चतुर्थ्यामेव धार्मिकः ॥
नाप्नोति नारकं दुःखं तुष्टे रविसुते नरः

3.221.225.3.221.30

विनायकमथाभ्यर्च्य चतुर्थ्यां यदुनन्दन ॥
सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात्

3.221.225.31

निद्रां रतिं तथा श्रद्धां कीर्तिं मेधां सरस्वतीम् ॥
प्रज्ञां तुष्टिं तथा कान्तिं तस्मिन्नहनि पूजयेत्

3.221.225.32

तत्प्रसादमवाप्नोति यथेष्टं मनुजोत्तम ॥
विद्याकामो विशेषेण पूजयेत्तु सरस्वतीम्

3.221.225.33

देवानां मातरः सर्वास्तथा तत्राह्नि पूजिताः ॥
सर्वकामप्रदा ज्ञेयाः पुरुषस्य विपश्चितः

3.221.225.34

पञ्चम्यां पूजनं कृत्वा तथा चन्द्रमसो नरः ॥
सौभाग्यं महदाप्नोति यशश्चाग्र्यं च विन्दति

3.221.225.35

पञ्चम्यां पृथिवीं देवीं तथा सम्पूजयेन्नरः ॥
तामेवाप्नोत्ययत्नेन नात्र कार्या विचारणा

3.221.225.36

विश्वेदेवास्तु ये प्रोक्ताः पूर्वमेव मया दश ॥
तेषां सम्पूजनं कृत्वा पञ्चम्यां दिवमाप्नुयात्

3.221.225.37

इष्टगन्धर्वमभ्यर्च्य पञ्चम्यां सुभगो भवेत् ॥
तथा चित्ररथं तेषां राजानं च विशेषतः

3.221.225.38

देवभार्यां तथा भार्यां सम्पूज्य सुभगो भवेत् ॥
इष्टमप्सरसं चैव तथा रूपमवाप्नुयात्

3.221.225.39

इष्टं नागं तथाभ्यर्च्य श्रियमाप्नोत्यनुत्तमाम् ॥
वारुणैः पुष्करस्यार्चां पञ्चम्यां यः समाचरेत्

3.221.225.3.221.40

सर्वकामसमृद्धस्य सोमयज्ञफलं भवेत् ॥
तथा च पूजयन्राजंस्तथा वै नलकूबरम्

3.221.225.41

श्रियः सम्पूजनं कृत्वा पञ्चम्यां प्रयतः सदा ॥
श्रियमाप्नोति विपुलां मतिमग्र्यां च विन्दति

3.221.225.42

चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा तथा श्रियम्

3.221.225.43

सकृदेवाप्नुयाद्राजन्फलं संवत्सरोदितम् ॥
सर्वस्यां नृप पञ्चम्यां रतिं प्रीतिं सरस्वतीम्

3.221.225.44

उमां मेनां भद्रकालीं तथा कात्यायनीमपि ॥
धृतिं स्वाहां सुधामृद्धिमनुसूयां तथा क्षमाम्

3.221.225.45

सुभीमां देवसेनां च वेलां ज्योत्स्नां तथा शचीम्॥
गौरीं वरुणपत्नीं च यमपत्नीं तथैव च

3.221.225.46

धूमोर्णां सुमहाभागां मृत्युच्छायां तथैव च

3.221.225.47

अभीष्टां देवजननीं देवपत्नीं तथैव च ॥
पूजयन्काममाप्नोति तस्या ह्येकमसंशयम् ॥
ऐरावतं वा गरुडमुच्चैःश्रवसमेव वा

3.221.225.48

हरस्य वृषभं चैव शस्त्राण्यस्त्राणि यानि च॥
तदा सम्पूजयन्राजा विजयं तमुपाश्नुते

3.221.225.49

तथा भाद्रपदे मासि शुक्लपक्षस्य पञ्चमीम् ॥
नागसंपूजनं कृत्वा धनभागी भवेन्नरः

3.221.225.3.221.50

कुमारश्च तथा स्कन्दो विशाखश्च गुहस्तथा ॥
चतुरात्मा विनिर्दिष्टो भगवान्क्रौञ्चदारणः

3.221.225.51

तमभ्यर्च्य नरः षष्ठ्यां पुत्रानाप्नोत्यभीप्सितान् ॥
बालकानां गृहे श्रेयो नरः प्राप्नोत्यसंशयम्

3.221.225.52

ऋतूनां पूजनं कृत्वा तत्र क्षेममवाप्नुयात् ॥
स्कन्दपार्श्वचरान्राजन्भीमपार्श्वचरांस्तथा

3.221.225.53

यमपार्श्वचराँश्चैव रोगमुक्तिमवाप्नुयात् ॥
कालपाशौ तथाभ्यर्च्य ज्वरव्याधीशमेव च

3.221.225.54

रोगमोक्षमवाप्नोति वायुवह्नीन्दवस्तथा ॥
चैत्रषष्ठ्यां विशेषेण स्कन्दमभ्यर्चयेन्नरः

3.221.225.55

पूर्वोक्तफलमाप्नोति स्वर्गलोकं च गच्छति ॥
सप्तम्यां च समभ्यर्च्य सूर्यपत्नीं सुवर्चलाम्

3.221.225.56

इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ॥
देवा एकोनपञ्चाशन्मरुतो नाम कीर्तिताः

3.221.225.57

तेषां संपूजनं कृत्वा सप्तम्यां दिवमाप्नुयात् ॥
इष्टपूजां च शैलस्य तदा कृत्वा सुखी भवेत्

3.221.225.58

पूजयित्वा तथाभीष्टां सरितं पुण्यभाग्भवेत् ॥
वह्निसंपूजनं कृत्वा वह्निष्टोमफलं लभेत्

3.221.225.59

वायोः संपूजनं कृत्वा प्राप्नोति परमाङ्गतिम् ॥
संपूज्य च ऋषीन्सप्त सोमसंस्थास्तु ये स्मृताः

3.221.225.3.221.60

सप्त प्राप्नोति लोकान्वै गतिमग्र्यां च विन्दति ॥
सप्तम्यां यदुशार्दूल इष्टमभ्यर्चयन्मुनिम्

3.221.225.61

स्वाध्यायफलमाप्नोति तद्वत्साफल्यमश्नुते ॥
पूजयित्वा समुद्रांश्च द्रीपानथ तथा नरः

3.221.225.62

पातालान्वा महाभाग भुवमाप्नोत्यभीप्सिताम् ॥
सप्तलोकांस्तथा तत्र पूजयित्वा सुखी भवेत्

3.221.225.63

तेष्वेव च तथैवाग्र्यां गतिमप्रतिमां लभेत् ॥
गङ्गां सप्तप्रकारां च तथा देवीं सरस्वतीम्

3.221.225.64

सप्तयज्ञानवाप्नोति नरः संपूजयन्ध्रुवम् ॥
आदित्यं पूजयेद्देवं शीघ्रं रोगैर्विमुच्यते

3.221.225.65

सप्तम्यां यादवश्रेष्ठ गतिमग्र्यां च विन्दति ॥
एवं सुपूजनं कृत्वा गतिमग्र्यां तथा लभेत्

3.221.225.66

जयन्तं शक्रतनयं पूजयित्वा सुखी भवेत् ॥
अष्टम्यां पूजनं कृत्वा वसूनां धर्मसत्तम

3.221.225.67

नाकलोकमवाप्नोति गतिमग्र्यां च विन्दति ॥
एकानंशां तदा देवीं तथा संपूजयेन्नरः

3.221.225.68

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
महादेवं समभ्यर्च्य सर्वान्कामानवाप्नुयात्

3.221.225.69

वीरभद्रं सनंदीशं लगुडेशं तथैव च॥
भद्रकालीं तथाभ्यर्च्य नवम्यां यदुनन्दन

3.221.225.3.221.70

काममेकमवाप्नोति यं कञ्चिन्मनसेप्सितम् ॥
चतुष्पथेषु रम्येषु तथैवाट्टालकेषु च

3.221.225.71

गिरिशृङ्गेषु रम्येषु नदीतीरेषु चाप्यथ ॥
गुहासु चैव रम्यासु पिशाचानां बलिं हरेत्

3.221.225.72

शक्रादीनां च देवानां ये च पार्श्वचराः सुराः ॥
तेषां बलिमुपाकुर्वन्क्षेममाप्नोति मानवः

3.221.225.73

आयुधं पूजयित्वा च तथा विजयमाप्नुयात् ॥
विद्यामाप्नोति विपुलां पूजयित्वा सरस्वतीम्

3.221.225.74

विद्याकामस्तु कुर्वीत तदा पुस्तकपूजनम् ॥
तथैवाश्वयुजे शुक्ले भद्रकालीं विशेषतः

3.221.225.75

नवम्यां पूजयित्वा तु सर्वान्कामानवाप्नुयात् ॥
दशम्यां पूजयन्राजन्विश्वेदेवांस्तथा दश

3.221.225.76

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
तदा संपूजयन्राजंस्तथैव च दिशो दश

3.221.225.77

क्रियासाफल्यमाप्नोति यत्र यत्राभिजायते ॥
धर्मं संपूज्य देवेशं सर्वसत्त्वसुखावहम्

3.221.225.78

धर्मे मतिमवाप्नोति धर्मसाफल्यमेव च॥
एकादश्यां तु संपूज्य रुद्रानेकादशैव च

3.221.225.79

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
तथा सर्वगतान्रुद्रांस्तदा सर्वत्र पूजयेत्

3.221.225.3.221.80

सर्वान्कामानवाप्नोति सर्वगानपराजितान् ॥
तथा च द्वादशादित्यान्द्वादश्यां पूजयेन्नरः

3.221.225.81

द्वादशाहमवाप्नोति गतिमग्र्यां च विन्दति ॥
द्वादश्यां देवदेवेशं पूजयित्वा जलाधिपम्

3.221.225.82

पौण्डरीकमवाप्नोति वरुणं यादसां पतिम् ॥
सर्वदेवेश्वरं शक्रं पूजयित्वा तथा नरः

3.221.225.83

सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ॥
विष्णोः संपूजनं कृत्वा कामानाप्नोत्यभीप्सितान्

3.221.225.84

इष्टयज्ञफलं प्राप्य गतिमग्र्यां च विन्दति ॥
त्रयोदश्यामथाभ्यर्च्य कामदेवं समर्चयेत्

3.221.225.85

अयत्नात्सर्वमाप्नोति फलं संवत्सरोदितम् ॥
यक्षाणां राक्षसानां च चतुर्दश्यां तु पूजनम्

3.221.225.86

कृत्वा क्षेममवाप्नोति क्रियासाफल्यमेव च ॥
पूजयित्वा धनाध्यक्षं तदा वैश्रवणं प्रभुम्

3.221.225.87

बहुवित्तमवाप्नोति फलं संवत्सरोदितम् ॥
शंख पद्मौ तथाभ्यर्च्य निधानौ यक्षपूजितौ

3.221.225.88

मणिभद्रं तथाभ्यर्च्य धनमाप्नोत्यसंशयम् ॥
पूजयित्वा महादेवं सर्वान्कामानवाप्नुयात् ॥

3.221.225.89

माघमासचतुर्दश्यां कृष्णपक्षे विशेषतः ॥
तथा पितॄन्गणान्राजन्क्षीणे चन्द्रे च पूजयेत्

3.221.225.3.221.90

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
श्रद्धां कृत्वा तथा राजन्सर्वान्कामानवाप्नुयात्

3.221.225.91

पूर्णमिन्दुं तथाभ्यर्च्य सौभाग्यं महदाप्नुयात् ॥
इष्टग्रहमथाभ्यर्च्य नक्षत्रमथ वार्चयेत्

3.221.225.92

तस्मात्क्षेममवाप्नोति कामं च यदुनन्दन ॥
मासनाम सनक्षत्र पूर्णिमायोगि यश्च वा

3.221.225.93

पूजयित्वा तथा राजन्सौभाग्यं महदाप्नुयात् ॥
सोपवासस्तु नक्षत्रं नक्षत्रेशमथार्चयेत्

3.221.225.94

नक्षत्रं वा महाभाग तस्मात्काममवाप्नुयात् ॥
कार्तिकेयं महाभाग कृत्तिकास्वर्चयेन्नरः

3.221.225.95

वह्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥
कृत्तिकासु तथाभ्यर्च्य खड्गं विजयमाप्नुयात्

3.221.225.96

भौजङ्गे नागमभ्यर्च्य श्रियं प्राप्नोत्यनुत्तमाम् ॥
कामदेवमथाभ्यर्च्य भाग्ये सौभाग्यवान्भवेत्

3.221.225.97

सावित्रं च तथा हस्ते श्रियं प्राप्नोत्यनुत्तमाम् ॥
इष्टग्रहाभितद्देहं तन्नामाध्यक्षसेवया

3.221.225.98

गन्धर्वं वा ग्रहं वापि तस्मात्कामानवाप्नुयात् ॥
कृष्णपक्षचतुर्दश्यां महाकालमथार्चयेत्

3.221.225.99

तस्मात्काममवाप्नोति यथेष्टं नात्र संशयः ॥
माहेश्वरं मातृगणं तथा तत्राग्निपूजनम्

3.221.225.3.221.100

एकवासान्तरं राजन्काममाप्नोत्यभीप्सितम्

3.221.225.101

तथा तुम्बरुसम्बद्धं पञ्चकं पूजयेन्नरः ॥
सर्वत्र जयमाप्नोति नात्र कार्या विचारणा

3.221.225.102

कृत्तिकासु नरोऽभ्यर्च्य स्कन्दपार्श्वचराँस्तथा ॥
आरोग्यं महदाप्नोति सदा वा मनसेप्सितम्

3.221.225.103

नृसिंहप्रतिबद्धां तु पूर्णे चन्द्रे समर्चयेत्॥
नरो मातृगणं चार्च्य सर्वान्कामानवाप्नुयात्

3.221.225.104

एकां वा मातरं राजन्कामानाप्नोत्यभीप्सितान् ॥
वानस्पत्यमवाप्नोति पूजयित्वा वनस्पतीन्

3.221.225.105

दैत्यानां दानवानां वा तत्पक्षा ये तथापरे ॥
तेषां संपूजनं कृत्वा चतुर्दश्यां सुखी भवेत्

3.221.225.106

करणे वा मुहुर्ते वा यथावद्देवमर्चयेत् ॥
तस्मात्काममवाप्नोति गतिमग्र्यां च विन्दति

3.221.225.107

चैत्रमासादथारभ्य यथोक्तेन नरः सदा ॥
इष्टं देवमथाभ्यर्च्य यथोक्तं फलमश्नुते

3.221.225.108

संवत्सरेण धर्मज्ञ नक्षत्रे यदि वा तिथौ ॥
ग्रहे वा सर्वधर्मज्ञ सोपवासस्समाहितः

3.221.225.109

संवत्सरे वाप्ययने ऋतौ मासे च तद्दले ॥
नक्ताशी सततं पूजां कृत्वा तत्स्वामिनः सदा ॥
तावत्कालं महाभाग तस्मात्काममवाप्नुयात्

3.221.225.3.221.110

चैत्रात्समारभ्य महानुभाव रोचेत रोचेशमथार्चयानः ॥
रोचेशतोषात्परमं स कामं प्राप्नोत्ययत्नाद्यदुवंशचन्द्र

3.221.225.221

इति श्रीविष्णुध० तृ० ख० मा० सं० तिथ्युपवासदेवतार्चनवर्णनो नामैकविंशत्युत्तरद्वि शततमोऽध्यायः

3.221.225.1

3.222
वज्र उवाच ॥
भगवञ्श्रोतुमिच्छामि रोचेषु च पृथक्पृथक् ॥
उपोषितेन किं कार्यं किं फलं च तथा भवेत् ॥

3.221.225.2

मार्कण्डेय उवाच। ॥
इतिहासं तथात्रेमं निबोध गदतो मम ॥
धनाध्यक्षस्य संवादमष्टावक्रस्य चाप्यथ

3.221.225.3

अष्टावक्रः पुरा कन्यां प्रार्थयामास धर्मवित्॥
ऋषेर्भार्गवमुख्यस्य वदान्यस्य तु सुप्रभाम्

3.221.225.4

रूपद्रविणसम्पन्नां स चोवाच मुनिं मुनिः॥
स्त्रीस्वभावो यदि ज्ञातस्त्वया धर्मविदां वर

3.221.225.5

तत्तेऽहं तव दास्यामि कन्यां बालमृगेक्षणाम् ॥
॥ अष्टावक्र उवाच ॥ ॥
स्त्रीस्वभावो न विज्ञातो मया ब्राह्मणसत्तम

3.221.225.6

कुतश्च तन्मया ज्ञातस्तन्ममाचक्ष्व पृच्छतः ॥
॥ भार्गव उवाच ॥ ॥
उत्तरां त्वं दिशं पश्य सा ते वक्ष्यति तत्त्वतः

3.221.225.7

स्त्रीस्वभावं महाभाग गच्छ शीघ्रमतन्द्रितः ॥
॥ मार्कण्डेय उवाच ॥ ॥
एवमुक्तः स धर्मात्मा प्रययावुत्तरां दिशम्

3.221.225.8

गङ्गाद्वारात्क्रमेणाथ त्वरितो मुनिपुङ्गवः ॥
तीर्थानि सरितश्चैव शैलानि नगराणि च

3.221.225.9

विलङ्घ्य धनदावासमाससाद महातपाः ॥
कैलासे पर्वतश्रेष्ठे सर्वकामसमृद्धिमत्

3.221.225.3.222.10

तत्रासीनं महाभागं स ददर्श धनाधिपम् ॥
वरासनगतं वीरं हारभाराञ्चितोदरम्

3.221.225.11

वामभागे किरीटेन विनीतेन विराजितम् ॥
कुण्डलाभ्यां विचित्राभ्यां केयूरैरंगदैस्तथा

3.221.225.12

गदाधरं महाकायमेकलोचनपिङ्गलम् ॥
तथा च शङ्खपद्माभ्यां निधिभ्यां च विराजितम्

3.221.225.13

यक्षैश्च सुमहाभागैर्भीमरूपपराक्रमैः ॥
दीर्घभद्रेण वीरेण पूर्णभद्रेण चाप्यथ

3.221.225.14

मणिभद्रेण वीरेण यक्षभद्रेण चाप्यथ ॥
दीर्घबाहुमहाबाहुपद्मकिंजल्कसृञ्जयैः

3.221.225.15

स्वभद्रेण सुपार्श्वेन तथा मणिधरेण च ॥
यक्षैश्चान्यैश्च धर्मज्ञ महा बलपराक्रमैः

3.221.225.16

नानावेशैश्च गन्धर्वैर्महासत्त्वैर्महाबलैः ॥
चित्राङ्गदश्चित्ररथश्चित्रसेनोऽथ तुम्बुरुः

3.221.225.17

पूर्णायुरनघश्चैव तथा शालिशिराः प्रभुः ॥
शृङ्गारकर्णोऽतिबलो भीमो भीमपराक्रमः

3.221.225.19

एते चान्ये च गन्धर्वास्तथैवाप्सरसः शुभाः ॥
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुसा १८ ॥
विश्वाची च घृताची च पञ्चचूडा मनोरमा ॥
एताभिश्च तथान्याभिर्देवस्त्रीभिः सहस्रशः

3.221.225.3.222.20

स ददर्श धनाध्यक्षं समन्तात्परिवारितम् ॥
पादार्घ्याचमनीयाद्यैर्धनाध्यक्षेण पूजितः

3.221.225.21

वरासनगतो राजंस्तुष्टाव धनदं प्रभुम् ॥
॥ अष्टावक्र उवाच ॥ ॥
नमोऽस्तु ते धनाध्यक्ष यज्ञाध्यक्ष नमोऽस्तु ते

3.221.225.22

महाबाहो महासत्त्व राजराजामरप्रभो ॥
ऋषिसङ्घस्तुताचिन्त्य वाममौले वरप्रद ॥।

3.221.225.23

पिङ्गाक्ष विपुलग्रीव देवेश नरवाहन ॥
गदाधर विशालांस सूर्यतेजःसमप्रभ

3.221.225.24

भवाञ्छर्वसखो नित्यं विष्णोरंशस्तथा भवान् ॥
देवासुरेऽथ संग्रामे भवता विनिपातिताः

3.221.225.25

बहवो दानवा वीरा महाबलपराक्रमाः ॥
लोकान्धारयसे सर्वांस्त्वमेको यक्षपार्थिवः

3.221.225.26

भक्तानुकम्पी सततं चोत्तराशाप्रभुः प्रभुः ॥
धर्मसेतुर्जगत्यस्मिंस्त्वयि सर्वं प्रतिष्ठितम्

3.221.225.27

मार्कण्डेय उवाच ॥
एवं धनाधिपेनोक्तः प्रत्युवाच महामुनिः ॥
धर्ममहाफलं त्वत्तः श्रोतुमिच्छामि वित्तप

3.221.225.28

॥ वैश्रवण उवाच ॥ ॥
ब्रह्मन्स्वीयस्य च रुचौ देवतायाश्च पूजनम् ॥
धर्मं महाफलं विप्र तन्मे निगदतः शृणु

3.221.225.29

सर्वेषु विप्र रोचेषु सोपवासो जितेन्द्रियः ॥
देवतापूजनं कृत्वा यथोक्तं फलमश्नुते ॥

3.221.225.3.222.30

चैत्रशुक्लसमारंभाद्रोचे व्रतमनुत्तमम् ॥
रोचे यथेष्टं गृह्णीयात्संवत्सरमतन्द्रितः

3.221.225.31

त्रिंशद्रोचानि विप्रेंद्र मासमेकं समाहितः ॥
संवत्सरेण नक्ताशी पूजयेद्रोचदेवताम्

3.221.225.32

प्रत्यहं सुमहाभाग तेन काममवाप्नुयात् ॥
आषाढमासे यः कुर्याद्रोचव्रतमनुत्तमम्

3.221.225.33

नक्तभोजी प्रतिदिनं चैककालाशनो द्विजः ॥
आहारकालादन्यत्र तोयपानं विवर्जयेत्

3.221.225.34

ब्राह्मरोचादथारभ्य यावद्रोचं तु पौरुषम् ॥
रोचे तु पौरुषे प्राप्ते कृत्वा ब्राह्मणतर्पणम्

3.221.225.35

वासांसि दत्त्वा विप्रेभ्यः सुवर्णं रजतं तथा ॥
स्वर्गलोकमवाप्नोति दीर्घकालं द्विजोत्तम

3.221.225.36

जन्म चासाद्य मानुष्यं रूपवानभिजायते ॥
विरोगो बलवान्नित्यं शत्रुजिद्बलवानपि

3.221.225.37

स्त्रियश्च मुख्याः प्राप्नोति कुले जन्म तथोत्तमे ॥
सौभाग्यं महदाप्नोति लावण्यमपि चोत्तमम्

3.221.225.38

सद्भिर्मैत्रीं तथा विद्यां धर्मे चैवोत्तमां गतिम् ॥
वाहनान्यपि मुख्यानि यश्चान्यदभिवाञ्छति

3.221.225.39

रोचेषु मासे सफलं तवोक्तं नक्ताशिनो देववरस्य विप्र ॥
अतः परं ते कथयामि रोचे पृथक्फलं सम्यगुपोषितस्य ॥

3.221.225.222

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डेमार्कण्डेयवज्रसंवादे रोचेषु मासोपवासफलनिरूपणोनाम द्वाविंशत्युत्तरशततमोऽध्यायः

3.221.225.1

वैश्रवण उवाच ॥ ॥
ब्राह्मे ब्रह्माणमभ्यर्च्य ब्रह्मलोकं प्रपद्यते ॥
अश्वमेधमवाप्नोति प्राजापत्ये प्रजापतिम्

3.221.225.2

स्वर्गरोचे तथा स्वर्गं स्वर्गलोकं प्रपद्यते ॥
चक्ररोचे तथा चक्रं वैष्णवन्तु सुदर्शनम्

3.221.225.3

द्वादशारं नरः कृत्वा वर्णकैः ससुगन्धिभिः ॥
सम्पूज्य वत्सरस्यांते सौवर्णं विनिवेदयेत्

3.221.225.4

वासुदेवाय देवाय द्वितीयं ब्राह्मणाय च ॥
रिपून्स जयते सर्वान्बाह्यानाभ्यन्तरानपि

3.221.225.5

चक्रमप्रतिमं तस्य सर्वगं च तथा भवेत् ॥
नाप्नोति नारकं दुःखं स्वर्गलोकं च गच्छति

3.221.225.6

वानस्पत्ये तथा रोचे पूजयित्वा वनस्पतिम्

3.221.225.7

उद्यानफलमाप्नोति वाजपेयस्य मानवः ॥
वानस्पत्यं च सफलं तथा सर्वत्र विन्दति

3.221.225.8

अन्नरोचे तथैवान्नं वासुदेवं समर्चयेत् ॥
क्षेत्रमध्यगतस्त्वन्नं प्राप्नोति बहु मानवः

3.221.225.9

परलोके तथा तृप्तिं स्वर्गलोके तथैव च ॥
अहते वासरे चाह्नि वासरं पूज्य मानवः

3.221.225.3.223.10

निवेद्य वासुदेवाय देवं सङ्कर्षणं विभुम् ॥
आरोग्यरूपलावण्यसौभाग्यानि समश्नुते

3.221.225.11

कालरोचे नरः कालं सम्यक्सम्पूज्य धर्मवित् ॥
मरणे स्मृतिमाप्नोति मृतश्च परमां गतिम्

3.221.225.12

आग्नेये पूजयेद्वह्निं सर्वांल्लोकान्समाप्नुयात् ॥
सर्वाणि वाग्निकर्माणि सिध्यन्त्यस्य न संशयः

3.221.225.13

अपः संपूजयन्नाथे रत्नमाप्नोत्यथाम्बुजम् ॥
जलकर्माणि सर्वाणि सिद्ध्यन्त्यस्य न संशयः

3.221.225.15

सौरे सूर्यमथाभ्यर्च्य विरोगत्वमवाप्नुयात् ॥
चन्द्रे चन्द्रं समभ्यर्च्य परमां निर्वृतिं लभेत।१४।
गोरोचे गां समभ्यर्च्य सुरभिं लोकमातरम् ॥
गाः समाप्नोति धर्मज्ञ तथा तल्लोकमेव च

3.221.225.16

रोचभं नियतेः प्राप्य नियतिं तु समर्चयन् ॥
दीर्घजीवितमाप्नोति यत्रयत्राभिजायते

3.221.225.17

वैष्णवे विष्णुमभ्यर्च्य विष्णुलोकं प्रपद्यते ॥
रौद्रे रुद्रमथाभ्यर्च्य तल्लोकं प्रतिपद्यते

3.221.225.18

पुत्रानाप्नोति कौमारे कुमारं चार्चयन्नरः॥
पितॄणामर्चनं कृत्वा पितृरोचे समाहितः

3.221.225.19

पूजामभीष्टामाप्नोति पितृलोकं च गच्छति ॥
वारुणे वरुणं देवमश्वानाप्नोति पूजयन्

3.221.225.3.223.20

अनन्ते च तथानन्तं पूजयित्वा महीधरम् ॥
अनन्तं फलमाप्नोति कर्मणः सुकृतस्य च

3.221.225.21

वायव्ये वायुमभ्यर्च्य वाणिज्ये लाभमाप्नुयात् ॥
याम्ये यममथाभ्यर्च्य नाप्नोति नरकाद्भयम्

3.221.225.22

सारस्वतेन चाभ्यर्च्य द्विज देवीं सरस्वतीम्॥
विद्यां यथेष्टामाप्नोति तया वाग्मी च जायते

3.221.225.23

श्रीरोचे श्रियमभ्यर्च्य श्रियं विन्दति शोभनाम्॥
मदीये च तथा रोचे मां च सम्पूजयन्नरः

3.221.225.24

धनभाग्भवते सो हि यत्रयत्राभिजायते ॥
शैलरोचे तथा शैलं पूजयित्वा सुखी भवेत् ॥

3.221.225.25

भूरोचे भुवमभ्यर्च्य भुवमाप्नोत्यनुत्तमाम् ॥
वेदानामर्चनं कृत्वा वेदरोचे समाहितः

3.221.225.26

वेदानाप्नोति पुरुषो यज्ञानपि नरा धिपः ॥
पौरुषे च तथा रोचे जले पुरुषमर्चयन्

3.221.225.27

सर्वान्कामानवाप्नोति मोक्षोपायं च विन्दति ॥
रूपेण हीनं स्पर्शेन हीनं गन्धेन हीनं च रसेन हीनम् ॥
शब्देन हीनं पुरुषं पुराणं सम्पूजयन्मोक्षपथं प्रयाति

3.221.225.223

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे प्रति रोचफलनिरूपणो नाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः

3.221.225.1

3.224
मार्कण्डेय उवाच ॥
इति रोचव्रतं श्रुत्वा भुक्त्वा धनदवेश्मनि ॥
श्रुत्वा गीतं च वाद्यं च दृष्ट्वा नृत्तं मनोहरम्

3.221.225.2

तत्रोष्य रजनीमेकां धनाध्यक्षेण पूजितः ॥
उदग्जगाम धर्मात्मा हिमशैलस्य स द्विजः

3.221.225.3

स शैलदेशे कस्मिंश्चिद्ददर्श रुचिरं गृहम् ॥
शीतांशुरश्मिजालाभं सर्वकामसमृद्धिमत्

3.221.225.4

तस्मिन्गृहे ददर्शाथ वृद्धां रूपवतीं स्त्रियम् ॥
सर्वाभरणसम्पन्नां बह्वीभिः परिवारिताम्

3.221.225.5

तरुणीभिर्वरस्त्रीभिश्चारुवेशाभिरेव च ॥
सा च तं पूजयामास पाद्यादिभिरनुक्रमात्

3.221.225.6

गन्धतैलेन चाभ्यर्च्य स्नापयामास यादव ॥
सुखस्पर्शैश्च पवनैर्गन्धैश्च विविधैस्तथा

3.221.225.7

लिलेप चास्य गात्राणि चन्दनेन सुगन्धिना ॥
वस्त्रालङ्कारमाल्यैश्च पूजयामास तं तथा

3.221.225.8

भोजयामास चान्नेन सर्वकाममृद्धिना ॥
ताम्बूलं प्रददौ चास्मै सुगन्धि सुमनोहरम्

3.221.225.9

श्वेतोत्तरच्छदं चित्रं स्वास्तीर्णं परमर्द्धिमत् ॥
गृहे विचित्रे शयनं प्रददौ सुमनोहरम्

3.221.225.3.224.10

तादृग्विधे परे तत्र सा च सुष्वाप भामिनी ॥
विसर्जयित्वा नारीस्ताः सर्वा बालमृगेक्षणाः

3.221.225.11

शीतापदेशेन ततो विरात्रे शयनात्स्वकात् ॥
अष्टावक्रस्य शयनं जगाम वरवर्णिनी

3.221.225.12

दृष्ट्वा शयनसम्प्राप्तां किमेतदिति सोऽब्रवीत् ॥
नानुरूपमिदं तत्ते वयसश्चारुहासिनि

3.221.225.13

अभग्नब्रह्मचर्योऽस्मि परदारविवर्जकः ॥
स्वच्छन्दं मामवज्ञाय किमिदं कर्तुमीहसे

3.221.225.14

दिगुवाच ॥
न वयं द्विज तारुण्ये चपलाः केवलं स्त्रियः ॥
वयसोन्तेऽपि चापल्यं भजामः कामचोदिताः

3.221.225.15

न श्रुतं तत्त्वया मन्ये स्त्रीशीलं द्विजसत्तम ॥
नैता वयसि रज्यन्ते न रूपे न कुले श्रुते

3.221.225.16

शीले वेशे धने शौर्ये रज्यन्ते क्वचिदेव तु ॥
कामयन्त्येव पुरुषं यथालाभमिति श्रुतिः

3.221.225.17

यासां हि रक्षा महती तास्त्रियः कुब्जवामनैः ॥
प्रेष्यैर्वापीह सज्जन्ते पुमांसमिति भार्गव

3.221.225.18

नाग्निस्तृप्यति काष्ठैर्वा नापगाभिर्महोदधिः ॥
नान्तकः सर्वभूतैर्वा न पुंभिर्वामलोचनाः

3.221.225.19

लीलयैव कुलं घ्नन्ति स्मयमानास्तु योषितः ॥
दुर्लभा हि स्त्रीरमणात्स्वभावेन भृगूत्तम

3.221.225.3.224.20

रहो नास्ति क्षणो नास्ति नास्ति चोपनिमन्त्रकः ॥
तेन धर्मज्ञ नारीणां सतीत्वमुपजायते

3.221.225.21

प्रेषितस्त्वं महाभाग मत्समीपं महात्मना ॥
स्त्रीणां शीलमिह ज्ञातुमस्मद्दृष्टं तथा श्रुतम् ॥।

3.221.225.22

एतञ्ज्ञात्वा जुगुप्सां च स्त्रीणां कार्या न च त्वया ॥
मूलं धर्मार्थकामानां यतस्ता एव योषितः

3.221.225.23

वह्निरन्नं जलं चैव नराणां धृतिहेतवः ॥
घातकाश्च त एवोक्तास्तथा ज्ञेयाश्च योषितः

3.221.225.24

वृत्तिर्लोके यथा नास्ति वह्नयन्नसलिलैर्विना ॥ ।
गृहाश्रमस्तथा नास्ति विना स्त्रीभिः कथञ्चन

3.221.225.25

तस्मात्ताः प्रज्ञया रक्ष्या नोग्रेण मृदुना न च ॥
स्त्रियो मूलमनर्थानां त्रिवर्गस्य च साधनम्

3.221.225.26

तासां न गच्छेद्विश्वासं मणिवद्गोपयेत्तु ताः ॥
गृहकार्योद्यताः कृत्वा रक्ष्यास्ता भूतिमिच्छता

3.221.225.27

एतच्छ्रुत्वा द्वितीयेह्नि पूजितः स तया स्त्रिया ॥
जगाम धनदावासं ततोऽपि श्वशुरालयम्

3.221.225.28

ततः श्वशुरमासाद्य सर्वं तस्मै न्यवेदयत ॥
स च पप्रच्छ तं विप्रं श्रुत्वा स्त्रीणां विचेष्टितम्

3.221.225.29

बुद्धिर्निवेष्टुं सञ्जाता न वा जाता वदस्व तत् ॥
एतच्छ्रुत्वोत्तरं वाक्यमष्टावक्रोऽब्रवीन्मुनिम्

3.221.225.3.224.30

न चाप्येषा गतिः क्षेम्या न चान्या विद्यते गतिः ॥
तस्मात्प्रयच्छ धर्मज्ञ पत्न्यर्थं स्वसुतां मम

3.221.225.31

एतच्छ्रुत्वा ददौ तस्मै स्वसुतां भार्गवो मुनिः ॥
तिथौ दिवसनक्षत्रे मुहुर्ते चाभिपूजिते

3.221.225.32

त्रिवर्गमूलं सम्प्राप्य तां भार्यामसितेक्षणाम् ॥
जगाम परमां तुष्टिं मुमुदे च तया सह

3.221.225.33

ररक्ष चैनां स ततो महात्मा कृत्वा च नित्यं गृहकार्ययुक्ताम् ॥
आराधयामास च सा द्विजेन्द्रं धर्मे निविष्टा परमा च साध्वी

3.221.225.224

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अष्टावक्रदिक्संवादो नाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः

3.221.225.1

3.225
मार्कण्डेय उवाच ॥
व्रतं कंचिन्ममाचक्ष्व सर्वकल्मषनाशनम् ॥
व्रतानामुत्तमं ब्रह्मन्पवित्रं पुण्यवर्धनम्

3.221.225.2

मार्कण्डेय उवाच ॥
रोचं तु पौरुषं प्राप्य सोपवासो जितेन्द्रियः

3.221.225.3

पौरुषेण च सूक्तेन स्नातः प्रयतमानसः ॥
तेनैव तर्पणं कृत्वा जाप्यं च मनुजोत्तम

3.221.225.4

अष्टपत्रस्य पद्मस्य मध्ये हंसं जनार्दनम् ॥
पौरुषेण च सूक्तेन सत्कृतं पूजयेन्नरः

3.221.225.5

पुष्पैर्भूयस्तथा धूपैः फलैश्च तदनन्तरम् ॥
दीपेन च ततो राजन्नैवेद्येन ततः परम्

3.221.225.6

पौरुषेण च सूक्तेन ततो वह्निं समर्चयेत् ॥
ततस्तु धेनुर्दातव्या कर्मान्ते च पयस्विनी

3.221.225.7

संवत्सरमिदं कृत्वा व्रतं परम पावनम् ॥
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः

3.221.225.8

अश्वमेधमवाप्नोति राजसूयं च विन्दति॥
भुक्त्वा भोगांस्ततः पश्चान्मोक्षमाप्नोत्यसंशयम्

3.221.225.9

माङ्गल्यमेतत्परमं पवित्रं श्रीवर्धनं धर्मविवर्धनं च ॥
व्रतोत्तमं पापहरं नृलोके हंसव्रताख्यं पुरुषेण कार्यम्

3.221.225.225

इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे हंसव्रतनिरूपणो नाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc