भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.216.220

3.216.220.1

3.216
पुलस्त्य उवाच ॥
पञ्चदश्यां तु शुक्लस्य फाल्गुनस्यैव सत्तम ॥
पाषण्डान्पतितांश्चैव तथैवान्त्यावसायिनः

3.216.220.2

नास्तिकाञ्चित्रवृत्तींश्च पापानन्यांश्च नालपेत् ॥
नारायणं त्वेकमनाः पुरुषो नियतेन्द्रियः

3.216.220.3

तिष्ठन्व्रजन्प्रस्खलिते क्षुते चापि जनार्दनम् ॥
कीर्तनं तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत्

3.216.220.4

लक्ष्म्या समन्वितं देवं त्वर्चयेच्च जनार्दनम् ॥
सन्ध्याद्यपरमे चेन्दुस्वरूपं हरिमीश्वरम्

3.216.220.5

रात्रीं लक्ष्मीं च संचिन्त्य सम्यगर्घ्येण पूजयेत् ॥
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम्

3.216.220.7

तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम ॥
अर्चयेत्तु तथा प्रोक्तं प्राप्तेप्राप्ते तु तद्दिने ॥ ६ ।
निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः ॥
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम

3.216.220.8

आषाढे श्रावणे चापि प्राप्ते भाद्रपदे तथा ॥
तथैवाश्वयुजेभ्यर्च्य श्रीधरं वै श्रिया सह ॥
सम्यक्चन्द्रमसो दत्त्वा भुञ्जीतार्घं यथाविधि

3.216.220.9

द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ॥
कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम्

3.216.220.3.216.10

भूम्या समन्वितं दद्याच्छशाङ्कायार्हणं निशि ॥
भुञ्जीत च यथाख्यातं तृतीयमिति पारणम्

3.216.220.11

प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ॥
प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ॥

3.216.220.12

प्रथमांश्चतुरो मासान्पञ्चगव्यमुदाहृतम् ॥
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम्

3.216.220.13

सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् ॥
गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथाम्

3.216.220.14

कारयेत्तु च देवस्य पारणं पारणे गते ॥
एवं संपूज्य विधिवत्सपत्नीकं जनार्दनम्॥

3.216.220.15

नाप्नोतीष्टवियोगार्तिं पुमान्योषित्तथापि वा ॥
जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः

3.216.220.16

सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ ॥
यावन्त्येतद्विधानेन पारणान्यर्चयेत्प्रभुम् ॥
तावन्ति जन्मानि सुखं प्राप्नोतीष्टवियोगजम्

3.216.220.17

प्राप्नोति देवस्मरणे च मृत्यौ तदापि चाप्नोति मनोनुकूलाम् ॥
गतिं द्विजश्रेष्ठ ततोपि काले सायुज्यमायाति जनार्दनस्य

3.216.220.216

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिपौषमासीकल्पवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः

3.216.220.1

3.217
॥ पुलस्त्य उवाच ॥
शृणु दाल्भ्य परं कामं व्रतं सन्ततिदं नृणाम् ॥
यदुपोष्य न विच्छेदः पितृपिण्डस्य जायते

3.216.220.2

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः ॥
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते नरः

3.216.220.3

निराहारो जपन्नाम कृष्णस्य जगतः पतेः॥
उपविष्टो व्रजन् स्नातः क्षुतप्रस्खलनादिषु

3.216.220.4

पूजायां चापि कृष्णस्य सप्तवारान्प्रकीर्तयेत् ॥
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान्

3.216.220.5

प्रभाते च ततः स्नातो दत्त्वा विप्राय दक्षिणाम् ॥
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः

3.216.220.6

वैशाखज्येष्ठयोश्चैवं पारणं हि त्रिमासिकम् ॥
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम्

3.216.220.7

आषाढे श्रावणे चैव मासि भाद्रपदे तथा ॥
उपोष्यते द्वितीयं वै घृतेन स्नपयेद्धरिम्

3.216.220.8

आषाढे श्रावणे चैव मासि भाद्रपदे तथा ॥
उपोष्यते द्वितीयं वै पारणं पूर्ववद्भवेत्

3.216.220.9

आश्विने कार्तिके सौम्ये तृतीयं पारणं तथा ॥
पौषे माघे फाल्गुने च चतुर्थं द्विजसत्तम

3.216.220.3.217.10

पारणे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ॥
ब्राह्मणेभ्यो घृतं दद्यात्तथैव प्रतिपारणम्

3.216.220.11

कृत्वा व्रतं नाकमनुप्रयाति मानुष्यमासाद्य च निर्वृतः स्यात्॥
सन्तानवृद्धिश्च तथाप्नुतेऽसौ यावन्मही सागरमेखलान्ता

3.216.220.217

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सन्तानाष्टमीव्रतवर्णनोनाम सप्तदशोत्तरद्विशततमोऽध्यायः

3.216.220.1

3.218
पुलस्त्य उवाच॥आषाढशुक्लपक्षे तु भगवान्मधुसूदनः ॥
भोगिभागे निजां मायां योगनिद्रां च मानयेत्

3.216.220.2

शेतेऽसौ चतुरोमासान्यावद्भवति कार्तिकम्॥
विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः

3.216.220.3

तत्राषाढसितान्ते च यो नरो दिनपञ्चकम् ॥
अधःशायी बहिः स्नायी मांसाभ्यङ्गविवर्जितः

3.216.220.4

वृन्ताकालाबुकूष्माण्डमधुक्षारविवर्जितः ॥
समस्तमदिरावर्जी सकृन्नक्ताशनो भवेत्

3.216.220.5

ब्रह्मचारी जितक्रोधो जपहोमपरायणः॥
हरिं संपूजयेन्नित्यं गन्धमाल्यान्नसंपदा

3.216.220.6

गीतैर्वाद्यैस्तथा नृत्तैर्दीपमालाभिरेव च ॥
सान्नानां जलधेनूनां प्रदानेन तथैव च

3.216.220.7

तथा कार्तिकशुक्लान्ते तृतीयं पारणं भवेत

3.216.220.8

हिंसात्मकैस्तु किं तस्य यज्ञैः कार्यं महात्मनः ॥
प्रस्वापे च प्रबोधे च पूजितो येन केशवः

3.216.220.9

दशाहमेतत्कृत्वा तु व्रतं विष्णुपरो नरः ॥
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्

3.216.220.3.218.10

कार्तिकश्चाग्निदैवत्यो मासो देवमुखः स्मृतः ॥
आश्वयुज्यामतीतायां यावत्स्याद्द्विज कार्तिकी

3.216.220.11

व्रतं दशाहाभिहितं कृत्वा स्वर्गे महीयते ॥ ॥
पौण्डरीकमवाप्नोति कुलमुद्धरति स्वकम्

3.216.220.12

प्रत्यहं दीपदानेन कार्तिकाभिमुखो भवेत् ॥
चक्षुष्मान्ब्राह्मणश्रेष्ठ तथा सर्वत्र पूजितः

3.216.220.13

एतावन्तं तथा कालं सर्वमांसविवर्जितः ॥
स्वर्गलोकात्परिभ्रष्टो मानुष्ये सुखमाप्नुयात्

3.216.220.14

आरोग्यसुखसम्पत्त्या युक्तश्च सुभगो भवेत् ॥
प्रसुप्ते देवदेवेशे सर्वान्कामानवाप्नुयात्

3.216.220.15

दशाहमुदितं कृत्वा खड्गधाराव्रतं नरः ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते

3.216.220.16

मासं च कार्तिकं कृत्वा पौण्डरीकमवाप्नुयात् ॥
कृत्वा मासं यथेष्टं च वह्निष्टोममवाप्नुयात् ।

3.216.220.17

कृत्वा च चतुरो मासान्सुप्ते मधुनिषूदने ॥
अश्वमेधफलं प्राप्य नाकपृष्ठे महीयते

3.216.220.18

असिधाराव्रतं कृत्वा तथा संवत्सरं नरः ॥
सर्वयज्ञफलं प्राप्य विष्णुलोके च गच्छति

3.216.220.19

येनयेन तु कामेन खड्गधाराव्रतं चरेत् ॥
तंतं काममवाप्नोति विष्णुलोके महीयते

3.216.220.3.218.20

तथा समर्थो भवति दाने च वरशापयोः ॥
आदित्यतेजा भवति नात्र कार्या विचारणा

3.216.220.21

दाल्भ्य उवाच ॥
असिधाराव्रतविधिः समाचक्ष्व महाद्युते ॥
एतन्मे संशयं च्छिन्धि त्वं हि सर्वविदुच्यसे

3.216.220.22

पुलस्त्य उवाच ॥
स्नातः स्वलंकृतः स्रग्वी भुक्तवान्मांसवर्जितम् ॥
कृतदैवत पूजस्तु स्त्रीसहायः स्वपेन्निशि

3.216.220.23

ब्रह्मचारी द्विजश्रेष्ठ खड्गधाराव्रतं चरन् ॥
अपूर्वा चास्य पूर्वाश्च समालिंग्य स्वपेन्निशि

3.216.220.24

ब्रह्मचारी शतगुणं फलमाप्नोत्यसंशयम् ॥
अतीव दुष्करमिदं खड्गधाराव्रतं स्मृतम्

3.216.220.25

कृत्वा व्रतं द्वादशवत्सराणि त्रैलोक्यराज्यं ध्रुवमाप्नुयाच्च ॥
भुक्त्वा चिरं तद्द्विजमुख्य चान्ते सायुज्यमायाति जनार्दनस्य

3.216.220.218

इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मा० व० सं० दालभ्यं प्रति पुलस्त्यकथा स्वधाराव्रतवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः

3.216.220.1

3.219
पुलस्त्य उवाच ॥
मासि प्रोष्ठपपदे शुक्ले द्वादश्यां जलशायिनम् ॥
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः

3.216.220.2

पाषण्डादिभिरालापमकुर्वन्नियमात्मवान् ॥
जलधेनुं द्विजे दत्त्वा नक्तं भुञ्जीत वाग्यतः

3.216.220.3

तिष्ठंस्थितो व्रजंश्चैव क्षुतप्रस्खलनादिषु ॥
अनन्तनामस्मरणं कुर्वन्नुच्चारणं नरः

3.216.220.4

अनेनैव विधानेन मासद्वादश वै क्रमात् ॥
उपोष्य पारणे पूर्णे दद्याद्विप्रेषु दक्षिणाम्

3.216.220.5

कृत्वा व्रतं द्वादशमेतदिष्टं प्राप्नोत्यनंतानि फलानि विप्र ॥
सम्यक्कृतानां नियमव्रतानां चानन्तमाराध्य न संशयोत्र

3.216.220.219

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दाल्भ्यं प्रति पुलस्त्यवाक्येष्वनन्तद्वादशीव्रतवर्णनो नामैकोनविंशत्युत्तरद्विशततमोध्यायः

3.216.220.1

3.220
पुलस्त्य उवाच ॥
पौषमासे सिते पक्षे द्वादश्यां शक्रदैवतम् ॥
नक्षत्रयोगं विष्णुं च प्रथमं तु समर्चयेत्

3.216.220.2

ततः प्रभृति विप्रेन्द्र मासिमासि जनार्दनम् ॥
उपोषितः पूजयते यावत्संवत्सरं गतम्

3.216.220.3

मासेथ मासे विधिनोदितेन रम्यां तिथौ दानमथ ब्रवीमि ॥
प्राच्यं यथावद्विधिवत्क्रमेण तदुच्यमानं निखिलं निबोध

3.216.220.4

घृतं यथा व्रीहियवं हिरण्यं यवान्नमंभः कनकानुपानम् ॥
छत्रं पयोन्नं गुडफाणिताढ्यं स्रक्चन्दने वस्त्रमनुक्रमेण

3.216.220.5

गोमूत्रमंभो घृतमांसशाकं दूर्वादधिव्रीहियवं तिलांश्च ॥
सूर्यांशुतप्तं जलमाशु दर्भं क्षीरं च मासं क्रमशः प्रयुञ्ज्यात

3.216.220.6

कुले प्रधाने धनधान्यपूर्णं विवेकवान्यस्तु समस्तदुःखे॥
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च

3.216.220.220

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दाल्भ्यं प्रति पुलस्त्यवाक्येषु ब्रह्मद्वादशीव्रतवर्णनो नाम विंशत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc