विष्णुधर्मोत्तरपुराणम् · अध्याय 3.201.205
2.201
वज्र उवाच ॥
भगवन्कर्मणा केन कुले जन्म समश्नुते ॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे
मार्कण्डेय उवाच ॥
बृहद्दिशि तु संप्राप्य त्रिरात्रोपोषितो नरः ॥
मार्गशीर्षादथारभ्य पूजयेत्तु त्रिविक्रमम्
त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः ॥
त्रयोऽनुलेपना देया त्रिसारं धूपमेव तु
बलिं त्रिमधुरं दद्यात्त्रीँश्च दीपान्नृपोत्तम ॥
यवैस्तिलैस्तथा होमः कर्तव्यः सर्षपायुतैः
दद्यात्त्रिलोहं च तथा द्विजेभ्यस्ताम्रं सुवर्णं रजतं च राजन् ॥
न केवलं सत्कुलदं व्रतं तु यथेष्टकामाप्तिकरं प्रदिष्टम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सत्कुलावाप्तिव्रतवर्णनो नामैकोत्तरद्विशततमोऽध्यायः
3.202
वज्र उवाच ॥
भवन्कर्मणा केन रूपवाञ्जायते नरः ॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे
मार्कण्डेय उवाच ॥
फाल्गुन्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥
यावच्चैत्री महाराज तावत्स्नातो दिनेदिने
बहिः सम्पूजयेद्देवं केशवं भोगशायिनम् ॥
एकभक्ताशनो नक्तमधःशायी तथा भवेत
त्रिरात्रोपोषितः कुर्यात्पूजां चैत्र्यां तथैव च ॥
स्वशक्त्या रजतं दद्याद्वस्त्रयुग्मं तथैव च
रूपार्थिनो मासमिदं मयोक्तं व्रतोत्तमं नित्यमदीनसत्त्व ॥
कृत्वा च नाकं मनुजस्त्ववाप्य मानुष्यमासाद्य च रूपवान्स्यात्
इति श्रीविष्णु० ध० तृ० ख० मा० व० सं० रूपावाप्तिव्रतवर्णनो नाम द्व्युत्तरद्विशततमोऽध्यायः
3.203
वज्र उवाच ॥
भगवन्कर्मणा केन नरो लावण्यमाप्नुयात् ॥
लावण्यरहितं रूपं निष्फलं प्रतिभाति मे
मार्कण्डेय उवाच ॥
कार्तिक्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥
पटे वा यदि वार्चायां प्रद्युम्नं पूजयेत्प्रभुम्
बहिः स्नानं सदा कुर्यान्नक्तमश्नीत वाग्यतः ॥
एकभुक्तं महाराज हविष्यप्रयतः सदा
मार्गशीर्षं तथा प्राप्य त्रिरात्रोपोषितः शुचिः ॥
संपूज्य देव प्रद्युम्नं हुत्वाग्नौ घृतमेव च
भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोत्कटम् ॥
चूर्णितस्य ततः प्रस्थं लवणस्य द्विजातये।५॥
महारजतरक्तं च वस्त्रयुग्मं तथा गुरोः ॥
दद्याच्च कनकं राजन्कांस्यपात्रं रसैर्युतम्
एतद्धि लावण्यकरं प्रदिष्टं व्रतोत्तमं नाकगतिप्रदं च ॥
न केवलं यादववीर कामान्नराय दद्यात्पुरुषप्रधानः
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मा० व० सं० लावण्यव्रतवर्णनो नाम त्र्युत्तरद्विशततमोऽध्यायः
3.204
वज्र उवाच ॥
भगवन्कर्मणा केन सौभाग्यं महदाप्नुयात्॥
लावण्यरूपे सौभाग्यं विना ज्ञेयं निरर्थकम्
मार्कण्डेय उवाच॥
माघ्यां तु समतीतायां प्रतिपत्प्रभृति क्रमात् ॥
पटे वा यदि वार्चायां कृष्णं सम्पूजयेत्सदा
पूर्वोक्तं सकलं कुर्याद्धविष्यं च धराधिप ॥
नित्यं समाचरेत्स्नानं तथा गन्धप्रियङ्गुना
फाल्गुन्यां तां ततो दद्यात्त्रिरापोषितः शुचिः
वस्त्रे च देये नृप कुंकुमाक्ते क्षौद्रस्य पात्रं च तथैव कांस्यम् ॥
सौभाग्यदं चैतदनुत्तमं ते व्रतं मयैतत्कथितं नृवीर
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सौभाग्यावाप्तिव्रतवर्णनो नाम चतुरुत्तरद्विशततमोऽध्यायः
3.205
वज्र उवाच॥
भगवन्कर्मणा केन नरस्त्वारोग्यमाप्नुयात्॥
रूपसौभाग्यलावण्याः सरोगस्य निरर्थकाः
॥ मार्कण्डेय उवाच ॥
प्रोष्ठपद्यामतीतायां प्रतिपत्प्रभृतिक्रमात् ॥
पटे वा यदि वार्चायामनिरुद्धं तु पूजयेत्
पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत् ॥
सारसैरर्चयेद्देवं जातीपुष्पैर्दिनेदिने
घृतेन जुहुयाद्वह्निं घृतं दद्याद्द्विजातये ॥
भोजनं गोरसप्रायं तथा विप्रांश्च भोजयेत्
त्रिरात्रोपोषितः सम्यगाश्वयुज्यां ततो नरः ॥
सघृतं ससुवर्णं च कांस्यपात्रं द्विजातये
दद्यान्नृपतिशार्दूल नरस्त्वारोग्यवृद्धये ॥
व्रतमेतद्विनिर्दिष्टं स्वगर्लोकप्रदं नृणाम्
न केवलं रोगहरं प्रदिष्टमाज्ञाकरं रूपविवृद्धिदं च ॥
व्रतोत्तमं ते कथितं नृवीर तथेष्टकामाप्तिकरं नृलोके
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आरोग्यव्रतवर्णनो नाम पञ्चोत्तरद्विशततमोऽ ध्याय
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0