विष्णुधर्मोत्तरपुराणम् · अध्याय 3.206.210
3.206
वज्र उवाच॥
भगवन्कर्मणा केन प्रज्ञायुक्तो भवेन्नरः ॥
एतदेव मनुष्याणां मनुष्यत्वमुदाहृतम्
मार्कण्डेय उवाच ॥
चैत्र्यां तु समतीतायां यावन्मासं दिनेदिने ॥
पूर्ववत्पूजयेद्देवं नृसिंहमपराजितम्
होमं च प्रत्यहं कुर्यात्तथा सिद्धार्थकैर्नृप ॥
ब्राह्मणान्भोजयेच्चात्र तथा त्रिमधुरं सदा
वैशाख्यां कनकं दद्यात्रिरात्रोपोषितो नरः ॥
ज्ञानावाप्तिप्रदं ह्येतद्व्रतं बुद्धिविवर्धनम्
कृत्वा व्रतं मासमिदं मयोक्तमासाद्य नाकं सुचिरं मनुष्यः ॥
मानुष्यमासाद्य च बुद्धियुक्तो ज्ञानेन युक्तश्च तथा भवेत्तु
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बुद्ध्यावाप्तिव्रतवर्णनो नाम षडुत्तरद्विशततमोऽध्यायः
3.207
वज्र उवाच ॥
भगवन्कर्मणा केन विद्यावान्पुरुषो भवेत् ॥
सुविद्य एव विज्ञेयः पुरुषः पशुरन्यथा
मार्कण्डेय उवाच ॥
पौष्यान्तु समतीतायां प्रतिपत्प्रभृति क्रमात् ॥
प्राग्वत्संपूजयेद्देवं तुरंगशिरसं हरिम्
तिलाँश्च जुहुयाद्वह्नौ तिलैर्देवं समर्चयेत्॥
त्रिरात्रोपोषितो माघ्यां तिलान्कनकमेव च
दद्याद्ब्राह्मणमुख्याय सम्यक्प्रयतमानसः॥
मुख्यं यज्ञोपवीतञ्च प्रभूतमपि चेन्धनम्
कृत्वा व्रतं मासमिदं मयोक्तं विद्यान्वितः स्यात्पुरुषः सदैव॥
स्वर्लोकमासाद्य सुखानि भुक्त्वा कामानभीष्टान्पुरुषोश्नुते च
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे विद्यावाप्तिव्रतवर्णनो नाम सप्तोत्तरद्विशततमोऽध्यायः
3.208
वज्र उवाच॥
भगवन्कर्मणा केन शीलवान्पुरुषो भवेत् ॥
कुलजातिश्रुतिभ्यश्च शीलमेव विशिष्यते
मार्कण्डेय उवाच ॥
आग्रायण्यामतीतायां मासमेकं दिनेदिने ॥
पूर्ववत्पूजयेद्देवं वराहमपराजितम्
घृतेन स्नापयेद्देवं घृतेन जुहुयाद्धविः ॥
घृतं द्विजेभ्यो दद्याच्च घृतमेव निवेदयेत्
त्रिरात्रोपोषितः पौष्यां घृतपात्रेण च द्विजान् ॥
पूजयेत्ससुवर्णेन यथाशक्ति नराधिप
कृत्वा व्रतं मासमिदं मयोक्तं चासाद्य नाकं सुचिरं मनुष्यः ॥
मानुष्यमासाद्य च शीलवान्स्यात्प्राप्नोति पुष्टिं चिरजीवितं च
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे शीलावाप्तिव्रतवर्णनो नामाष्टोत्तरद्विशततमोऽध्यायः
3.209
वज्र उवाच ॥
भगवन्कर्मणा केन नित्यं धर्मपरो भवेत् ॥
धर्म्मविच्च महाराज धर्म्मसा फल्यकारणात्
मार्कण्डेय उवाच ॥
आषाढ्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥
पूर्व्ववत्पूजयेद्देवं धर्म्मविग्रहधारिणम्
मासस्य चान्ते नृप पौर्णमास्यां कृत्वा त्रिरात्रं कनकञ्च दद्यात् ॥
व्रतोत्तमं धर्म्मकरं तवोक्तं सर्व्वार्थदं नात्र विचारणास्ति
इति श्रीविष्णुधर्म्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धर्म्मप्राप्तिव्रतवर्णनो नाम नवोत्तरद्विशततमोऽध्यायः
3.210
वज्र उवाच ॥
भगवन्कर्मणा केन धनवान्पुरुषो भवेत् ॥
धनवानेव लोकेषु पूज्यो भवति मानवः
मार्कण्डेय उवाच ॥
श्रावण्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥
पूर्ववत्पूजयेद्विष्णुं देवं सङ्कर्षणं प्रभुम्
नीलोत्पलैस्तथा पत्रैर्नृप भृंगिरजस्य च ॥
घृतेन परमान्नेन तथा बिल्वैश्च शक्तितः
त्रिरात्रोपोषितः सम्यक् प्रोष्ठपद्यां ततो नरः ॥
गां च दद्याद्द्विजेन्द्राय व्रतान्ते मनुजोत्तमः
कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः ॥
मानुष्यमासाद्य धनान्वितः स्याद्व्रतेन चीर्णेन नरेन्द्रसिंह
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धनावाप्तिव्रतवर्णनो नाम दशोत्तर द्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0