भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.196.200

3.196.200.1

3.196
॥ मार्कण्डेय उवाच ॥ ॥
अश्वयुङ्मासि शुक्ले तु पौर्णमास्यां नरः शुचिः ॥
सोपवासो नरेन्द्रस्तु देवं सम्पूजयेत्तथा

3.196.200.2

शचीमैरावतं वज्रं मातलिं च नराधिप ॥
गन्धमाल्यनमस्कारधूप दीपान्नसंपदा

3.196.200.3

संवत्सरान्ते कनकं तु दत्त्वा प्राप्नोति लोकं स पुरन्दरस्य ॥
मानुष्यमासाद्य नरेन्द्रपूज्यो राजा भवेद्वा द्विजपुङ्गवो वा

3.196.200.196

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शक्रव्रतवर्णनो नाम षण्णवत्युत्तरशततमोऽध्यायः

3.196.200.1

मार्कण्डेय उवाच ॥ ॥
उपोषितश्चतुर्दश्यां पौर्णमास्यां नरोत्तमः ॥
पञ्चगव्यं पिबेत्पश्चाद्धविष्याशी तथा भवेत्

3.196.200.2

संवत्सरं तथा कृत्वा मासपापात्प्रमुच्यते ॥
तस्मात्सर्वप्रयत्नेन मासिमासि समाचरेत्

3.196.200.3

संवत्सरं प्राप्य नरेन्द्रलोकं तत्रोष्य राजन्सुचिरं द्विजेन्द्रः ॥
मानुष्यमासाद्य नरेन्द्रपूज्यो राजा भवेद्वा द्विजपुङ्गवो वा

3.196.200.197

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मकूर्चवर्णनो नाम सप्तनवत्युत्तरशततमोऽध्यायः

3.196.200.1

3.198
॥ मार्कण्डेय उवाच ॥ ॥
योगभूतं हरिं देवं चतुर्दश्या मुपोषितः ॥
अर्चयेत्पौर्णमास्यां तु सोऽश्वमेधफलं लभेत्

3.196.200.2

ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च ॥
राजसूयमवाप्नोति कुलमुद्धरति स्वकम्

3.196.200.3

ब्रह्मभूतममावस्यां पौर्णमास्यां च पूजयेत् ॥
योगभूतं परिचरन्केशवं महदाप्नुयात्

3.196.200.4

अत्यर्थं प्रीतिमायाति मासपक्षान्तयोः सदा ॥
पूजितः सोपवासेन भक्त्या देववरो हरिः

3.196.200.5

महाव्रतमिदं ख्यातं सर्वकल्मषनाशनम् ॥
संवत्सरमिदं कृत्वा नाकपृष्ठे महीयते

3.196.200.6

सर्वपापप्रशमनं व्रतमेतत्प्रकीर्तितम् ॥
स्ववित्तशक्तिरेवात्र सर्वकर्मसु कारणम्

3.196.200.7

कृत्वा व्रतं द्वादशवत्सराणि प्राप्नोति लोकं पुरुषोत्तमस्य ॥
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषस्ततोन्ते

3.196.200.198

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाव्रतं नामाष्ट नवत्युत्तरशततमोऽध्यायः

3.196.200.1

3.199
वज्र उवाच ॥
भगवन्कर्मणा केन तिर्यग्योनौ न जायते ॥
म्लेच्छदेशे च पुरुषस्तं ममाचक्ष्व पृच्छतः

3.196.200.2

मार्कण्डेय उवाच ॥
मेषसंक्रमणे भानोः सोपवासो नरोत्तमः ॥
पूजयेद्भार्गवं रामं देवं शक्त्या यथाविधि

3.196.200.3

कन्यासंक्रमणे प्राप्ते तथा कृष्णं च पूजयेत् ॥
तथा मिथुनसंक्रान्तौ पूजयेद्भोगशायिनम्

3.196.200.4

तथा कुलीरसंक्रान्तौ वराहमपराजितम् ॥
नरसिंहं तथा देवं सिंहसंक्रमणे विभुम् ॥
कन्यासंक्रमणे देवं स्त्रीरूपं पूजयेन्नरः

3.196.200.5

तुलासंक्रमणे प्राप्ते वामनं नृप पूजयेत् ॥
तथा वृश्चिकसंक्रान्तौ देवदेवं त्रिविक्रमम्

3.196.200.6

धनुःसंक्रमणे देवं तथाश्वशिरसं नृप ॥
तथा मकरसंक्रान्तौ रामं दशरथात्मजम्

3.196.200.7

कुंभसंक्रमणे राजन्रामं यादवनन्दनम् ॥
मीनसंक्रणे मत्स्यं वासुदेवं तु पूजयेत्

3.196.200.8

पटे वा यदि वार्चायां गन्धमाल्यान्नसंपदा ॥
प्रादुर्भावस्य नाम्नाश्च होमं कुर्वीत पार्थिव

3.196.200.9

व्रतान्ते जलधेनुं च च्छत्रोपानत्समन्विताम्॥
वस्त्रयुग्मयुतां दद्यात्प्रतिमासं च काञ्चनम् ॥
रात्रौ च दीपमालाभिर्देवदेवं तु पूजयेत्

3.196.200.30

कृत्वा व्रतं वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म ॥
प्राप्नोत्यवाप्नोति चिरं च नाकं कामं तथाप्नोति मनोभिरामम्

3.196.200.199

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुदेशजन्मावाप्तिव्रतवर्णनो नाम नवनवत्युत्तरशततमोऽध्यायः

3.196.200.1

3.200
वज्र उवाच ॥
इष्टां जातिमवाप्नोति कर्मणा येन मानवः ॥
तन्ममाचक्ष्व धर्मज्ञ त्वं हि सर्वविदुच्यसे

3.196.200.2

मार्कण्डेय उवाच ॥
पौरुषेषु सदा ते वै त्रिरात्रोपोषितो नरः ॥
चैत्रमासादथारभ्य कार्तिके पूजयेद्धरिम्

3.196.200.3

पौरुषेण च सूक्तेन ऋग्भिः पुष्पैः फलैस्तथा ॥
धूपैर्दीपैस्तथान्नेन घृताहुतिभिरेव च

3.196.200.4

धेनुर्व्रतान्ते दातव्या कृत्वा संवत्सरं व्रतम् ॥
यथेष्टां जातिमाप्नोति नात्र कार्या विचारणा

3.196.200.5

न केवलं जातिकरं प्रदिष्टं व्रतोत्तमं यावददीनसत्त्व ॥
कामानभीष्टान्पुरुषस्य दद्यान्मोक्षं च दद्यात्पुरुषप्रधान

3.196.200.200

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे इष्टजात्यवाप्तिव्रतवर्णनो नाम द्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc