भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.191.195

3.191.195.1

3.191
मार्कण्डेय उवाच ॥
अमावास्यां तु वेलायां सोपवासो नरोत्तम ॥
पद्मद्वयं पूजयेत चंद्रार्कावेकराशिगौ ॥

3.191.195.2

आदित्यमष्टकमले चन्द्रं षोडशके तथा ॥
आदित्यं सर्वरक्तेन चन्द्रं शुक्लेन यादव

3.191.195.3

माल्यादिना महाभाग होमयेत्तिलतण्डुलैः ॥
घृतक्षीरयुतो राजन्तयोर्नाम्ना यथाविधि

3.191.195.4

व्रतान्ते ब्राह्मणेन्द्राय कनकं प्रतिपादयेत् ॥
रजतं च महाभाग य इच्छेद्भूतिमात्मनः

3.191.195.5

कृत्वा व्रतं वत्मरमेतदिष्टं दत्त्वा च दीपान्विधिवत्प्रभूतान् ॥
चक्षुः परं प्राप्य विवृद्धतेजा धनान्वितः स्यात्त्रिदिवादिहस्थः

3.191.195.191

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चन्द्रव्रतवर्णनो नामैकनवत्यधिकशततमोऽध्यायः

3.191.195.1

3.192
मार्कण्डेय उवाच ॥
कार्तिकात्तु तथारभ्य सम्पूर्णशशलक्षणम् ॥
पूजयेदुदरे राजन्सदा नक्ताशनो भवेत्

3.191.195.2

लावणं मण्डलं कृत्वा चन्दनेनानुलेपिते ॥
दशनक्षत्रसहितं तत्र सोमं तु पूजयेत्

3.191.195.3

कृत्तिकारोहिणीयुक्तं कार्तिके मासि पूजयेत् ॥
सौम्यार्द्रासहितं राजन्मासि सौम्ये तथैव च

3.191.195.4

आदित्यपुष्यसहितं मासि पौषे च यादव ॥
मघासर्पयुतं माघे फाल्गुने शृणु पार्थिव

3.191.195.5

अर्यम्णभाग्यसावित्रैः सहितं पूजयेद्विभुम् ॥
चित्रास्वातियुतं चैत्रं वैशाखे शृणु पार्थिव

3.191.195.6

विशाखया च मैत्रेण युतं संपूजयेत्तथा॥
ज्येष्ठामूलयुतं ज्येष्ठे आषाढाद्यामनन्तरम्

3.191.195.7

श्रावणे श्रवणोपेतं सहितं च श्रविष्ठया ॥
तथा भाद्रपदे पौष्णामाजाहिर्बुध्न्यसंयुतम्

3.191.195.8

अश्विनीभरणीयुक्तं तथा चाश्वयुजे विभुम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा

3.191.195.9

गुडेन परमान्नेन लवणेन घृतेन च॥
इक्षुणेक्षुविकारैश्च पयसा पायसेन च

3.191.195.10

पूज्याश्चाविधवानार्यस्तथा तल्लक्षणैः शुभैः ॥
ततोऽनन्तरमश्नीयाद्धविष्यं प्रयतो नरः

3.191.195.11

ब्राह्मणानां व्रतान्ते तु महारजतरंजितम् ॥
शक्त्या च वसनं दद्यान्नारी वा यदि वा नरः

3.191.195.12

रूपसौभाग्यलावण्यधनयुक्तो भवेन्नरः ॥
व्रतेनानेन चीर्णेन स्वर्गलोकं च गच्छति

3.191.195.13

सोपवासस्तु यः कुर्याद्व्रतमेतदनुत्तमम् ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः

3.191.195.14

सौभाग्यादि च यत्प्रोक्तं तदाप्नोति विशेषवत् ॥
मनसा कांक्षितान्कामान्सर्वान्प्राप्नोत्यसंशयम्

3.191.195.19

जनाभिरामश्च शशाङ्कवत्स्याद्धनादिलाभश्च तथैव लक्ष्म्या ॥
शक्रेण तुल्यश्च तथैव शक्त्या मानुष्यमासाद्य भवेच्च राजन्

3.191.195.192

इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मासर्क्षपौर्णमासीव्रतवर्णनो नाम द्विनवत्युत्तरशततमोऽध्यायः

3.191.195.1

3.193
मार्कण्डेय उवाच ॥
कार्तिके पौर्णमास्यां तु पूर्णं शिशिरदीधितिम्॥
पद्मे षोडशपत्रेषु कर्णिकायां तु पूजयेत्

3.191.195.2

केसरे पूजयेत्तत्र नक्षत्राण्यष्टविंशतिः ॥
पत्रेषु तिथिदेवांश्च तथा ज्योत्स्नां च पूजयेत्

3.191.195.3

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥
गुडेन परमान्नेन दध्ना च लवणेन च

3.191.195.4

अपूपैश्च महाभाग फलैः कालोद्भवैस्तथा॥
व्रतावसाने दद्याच्च वासोयुग्मं द्विजातये

3.191.195.6

ब्राह्मण्यै च महाभाग महारजतरञ्जितम् ॥
पूज्यौ च विधिना शक्त्या कालविद्वाचकावुभौ ॥ ६ ।
सोपवासोऽथ नक्ताशी व्रतमेतत्समाचरेत् ॥
नक्ताशनो वा धर्मज्ञ तथैव च हविष्यभुक्

3.191.195.7

सौभाग्यदं रूपविवर्धनं च लावण्यदं स्त्रीरतिभोगदं च ॥
कार्यं प्रयत्नेन नरेन्द्र पुंसा कार्यं तथा स्त्रीभिरदीनसत्त्व

3.191.195.193

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पौर्णमासीव्रतवर्णनो नाम त्रिनवत्युत्तरशततमोऽध्यायः

3.191.195.1

3.194
मार्कण्डेय उवाच ॥
मार्गशीर्षादथारभ्य चन्द्रमण्डलके नरः ॥
सोपवासस्तु संपूज्य पौण्डरीकफलं लभेत्

3.191.195.2

कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं स निशाकरस्य ॥
तत्रोष्य राजन्सुचिरं च कालं सायुज्यमाप्नोति ततश्च तस्य

3.191.195.194

इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे चन्द्रव्रतवर्णनो नाम चतुर्नवत्युत्तरशततमो ऽध्यायः

3.191.195.1

3.195
मार्कण्डेय उवाच ॥
प्रोष्ठपादादथारभ्य संपूर्णे शशलाञ्छने ॥
संपूज्य वरुणं देवं गन्धमाल्यान्नसंपदा

3.191.195.2

दत्त्वा व्रतावसाने तु जलधेनुं द्विजातये ॥
छत्रोपानहसंयुक्तां वासोयुगविभूषिताम्

3.191.195.3

प्राप्नोति लोकं वरुणस्य राजंस्तत्रोष्य कालं सुचिरं मनुष्यः ॥
मानुष्यमासाद्य भवत्यरोगी रूपान्वितो वित्तयुतस्तथैव

3.191.195.195

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वरुणव्रतवर्णनो नाम पञ्चनवत्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc