विष्णुधर्मोत्तरपुराणम् · अध्याय 3.186.190
3.186
मार्कण्डेय उवाच ॥
कृष्णपक्षचतुर्दश्यां विरूपाक्षं तु पूजयेत्॥
पौषमासादथारभ्य यावत्संवत्सरं व्रतम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
उष्ट्रं द्विजातये दद्याद्व्रतान्ते च परन्तप
कृत्वा व्रतं वत्सरमेतदिष्टं भयं न चाप्नोति स राक्षसेभ्यः ॥
कामानवाप्नोति भवत्यरोगो भयं च राजन्न च वेत्ति किंचित्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विरूपाक्षव्रतवर्णनो नाम षडशीत्युत्तरशततमोऽध्यायः
3.187
मार्कण्डेय उवाच ॥
यत्र क्वचन नद्यां च यत्र कृष्णचतुदर्शी ॥
अनर्काभ्युदिते काले देवं संपूजयेद्यमम्
धूम्रोर्णं चित्रगुप्तं च कालपाशौ च यादव ॥
मृत्युं स्वर्गं च धर्मज्ञं गन्धमाल्यान्नसम्पदा
यमो दधार इत्यर्चां तिलाँश्च जुहुयात्ततः ॥
नमो यमायेति तथा स्त्रीशूद्रस्य विधीयते
कृसरं भोजनं विप्रान्यथा शक्ति नरोत्तम ॥
दद्याद्व्रतान्ते विप्राय तथैव च पयस्विनीम्
कृत्वा व्रतं वत्सरमेतदिष्टं न याति राजन्नरकं मनुष्यः ॥
प्राणक्षयं प्राप्य स याति नाकं मानुष्यमासाद्य च धर्मवान्स्यात्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमव्रतवर्णनो नाम सप्ताशीत्यु त्तरशततमोऽध्यायः
3.188
शुक्लपक्षादथारभ्य फाल्गुनस्य नराधिप ॥
पूजयेत्तु चतुर्दश्यां सोपवासो महेश्वरम्
गन्धमाल्यनमस्कार धूपदीपान्नसंपदा ॥
व्रतान्ते गां तथा दद्यादग्निष्टोमफलं लभेत्
एतदेव व्रतं कृत्वा शुक्लपक्षे तु वत्सरम् ॥
पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम्
चतुर्दशीद्वयं चैतत्कृत्वा संवत्सरं नरः ॥
मासिमासि तथा भक्त्या सर्वान्कामानवाप्नुयात्
आसाद्य कामांश्च महेश्वरस्य तत्रोष्य कालं सुचिरं च राजन् ॥
सायुज्यमायाति महेश्वरस्य सर्वेश्वस्याप्रतिमस्य तस्य ॥ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वरव्रतवर्णनो नामाष्टाशीत्युत्तर शततमोऽध्यायः
3.189
॥ मार्कण्डेय उवाच ॥
प्रभास्वरा बर्हिषद अग्निष्वात्तास्तथैव च ॥
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः
पूज्याः पितृगणा राजन्नुपवासेन नित्यशः ॥
चैत्रशुक्लादथारभ्य पञ्चदश्यां नराधिप
श्राद्धं तदह्नि कुर्वीत यावत्संवत्सरं भवेत् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ॥
ब्राह्मणाय महाभाग पितृभक्ताय भक्तितः
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं च तथा स तेषाम् ॥
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषप्रधान
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पितृव्रतवर्णनो नामैकोननवत्युत्तर शततमोऽध्यायः
3.190
मार्कण्डेय उवाच ॥
कृष्णपक्षे पञ्चदश्यां चैत्रादारभ्य यादव ॥
वह्निसम्पूजनं कृत्वा गन्धमाल्यान्नसम्पदा
तिलैर्होमस्ततः कुर्यान्नाम्ना वह्नेर्नराधिप ॥
संवत्सरान्ते दद्याच्च सुवर्णं ब्राह्मणाय च
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति वित्तं सततं यशश्च ॥
धर्मे मतिं रूपमनुत्तमं च कामान्यथेष्टान्पुरुषप्रधान
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वह्निव्रतवर्णनो नाम नवत्युत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0