भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.166.170

3.166.170.1

3.166
॥ मार्कण्डेय उवाच ॥ ॥
चैत्रशुक्लस्य पक्षे तु सम्यक् षष्ठ्यामुपोषितः ॥
सप्तम्यामर्चनं कुर्यान्मरुतां पार्थिवोत्तम

3.166.170.2

सप्तश्रेणीगतं सप्तमण्डलं नृप कारयेत् ॥
श्रेणीश्रेणी तथा कार्या सप्तमण्डलकान्विता

3.166.170.3

गन्धैर्मण्डलकाः कार्या नामचिह्नाः पृथक्पृथक् ॥
एकज्योतिश्च द्विज्योतिस्त्रिज्योतिश्च महाबल

3.166.170.4

एकद्वित्रिचतुःशक्तिक्रमेण च तथा नृप ॥
विन्यसेत्प्रथमं श्रेण्यां यथावन्नृपसत्तम

3.166.170.5

इन्द्रश्च गत्या दृश्यश्च ततः प्रतिशकृत्तथा ॥
मितश्च समितश्चैव अमितश्च महाबलः

3.166.170.6

द्वितीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत् ॥
ऋतजित्सत्यजिच्चैव सुषेणश्चैव वीर्यवान्

3.166.170.7

अतिमित्रोनमित्रश्च पुरुमित्रस्तथैव च ॥
तृतीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत्

3.166.170.8

ऋतश्च ऋतवान्धर्ता विधर्ता वरुणो ध्रुवः ॥
विधारणं चतुर्थ्यां तु श्रेण्या पार्थिव विन्यसेत्

3.166.170.9

ईदृक्षश्च सदृक्षश्च एतादृगमिताशनः ॥
कीर्तितः प्रसदृक्षश्च शरभश्च महायशाः

3.166.170.3.166.10

विन्यसेत्पञ्चमश्रेण्यां सप्तदेवान्नराधिप ॥
धर्ता दुग्नो ध्वनिर्भीमो अतियुक्तः क्षमासहः

3.166.170.11

षष्ठ्यां च विन्यसेच्छ्रेण्यां सप्तदेवान्यथाक्रमम् ॥
द्युतिर्वसुरनाधृष्यो वासः कामो जयो विराट्

3.166.170.12

सप्तम्यां च तथा श्रेण्यां विन्यसेत्सप्त पार्थिवान् ॥
प्रथमा तु भवेच्छ्रेणी शुक्ला पार्थिवसत्तम

3.166.170.13

द्वितीया पद्मपत्राभा तृतीया रुधिरोपमा ॥
पीतवर्णा चतुर्थी स्यात्पञ्चमा शुकसन्निभा

3.166.170.14

आकाशसन्निभा षष्ठी कृष्णवर्णा च सप्तमी ॥
माल्यानुलेपनं देयं तासां वर्णसमं नृप

3.166.170.15

एकोनास्तत्र दातव्या दीपाः पञ्चाशदेव तु ॥
पृथक्पृथक्तु देवानां नैवेद्यं विनिवेदयेत्

3.166.170.16

घृतं च जुहुयाद्वह्नौ नामभिश्च पृथक्पृथक् ॥
भोजयेद्ब्राह्मणाँश्चात्र सुरसंख्या समन्वितान्

3.166.170.17

संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ॥
सुवर्णसहितं वासो गां च दद्यात्तथैव च

3.166.170.18

पौराणिकाय विप्राय व्रतान्ते विनिवेदयेत् ॥
व्रतस्यास्य तु राजेन्द्र सम्यग्विप्रो विधानवित्

3.166.170.19

आरोग्यकामः कुर्वीत व्रतमेतन्नरोत्तम ॥
पुत्रकामोर्थकामश्च धनकामोथ वा पुनः

3.166.170.3.166.20

सर्वकामप्रदं ह्येतत्पवित्रं पापनाशनम् ॥
मङ्गल्यं स्वर्गदं प्रोक्तं व्रतानामुत्तमं व्रतम्

3.166.170.21

व्रतेनानेन चीर्णेन चिरं स्वर्गं समश्नुते ॥
मानुष्यमासाद्य भवेत्स्वर्गभ्रष्टस्तथाचिरात्

3.166.170.22

धनेन रूपेण बलेन युक्तो जनाभिरामः प्रमदाप्रियश्च ॥
विरोगदेहः क्षतशत्रुपक्षो वाग्मी तथा शास्त्रधरश्च लोके

3.166.170.166

इति श्रीवि० ध० तृ०ख० मा० व० सं० मरुद्व्रतवर्णनो नाम षट्षष्ट्युत्तरशततमोऽध्यायः

3.166.170.1

3.167
॥ मार्कण्डेय उवाच ॥
चैत्रशुक्लस्य पक्षे तु सम्यक् षष्ठ्यामुपोषितः ॥
सप्तम्यामर्चनं कुर्याद्देवदेवस्य गोपतेः

3.166.170.2

बहिः स्नानं नरः कृत्वा गोमयेनोपलेपितम् ॥
लेपयेत्स्थण्डिलं सम्यक्कुतो गौरमृदा नृप

3.166.170.3

तत्राष्टपत्रं कमलं वर्णकैस्तु समालिखेत् ॥
कर्णिकायां न्यसेत्तत्र देवदेवं विभावसुम्

3.166.170.4

पूर्वपक्षे न्यसेद्देवो द्वौ राजन्नुत्तरे दले ॥
आग्नेये च न्यसेत्पत्रे गन्धर्वौ ऋतुकारिकौ

3.166.170.5

दक्षिणे च न्यसेत्पत्रे तथैवाप्सरसोर्द्वयम् ॥
राक्षसौ द्वौ महाराज पत्रे नैरृतके न्यसेत

3.166.170.6

काद्रवेयौ महानागौ पश्चिमे ऋतवारिकौ ॥
वायव्ये यातुधानौ द्वौ तथैव नृपसत्तम

3.166.170.7

उत्तरे च तथा पत्रे विन्यसेच्च ऋषिद्वयम् ॥
ऐशान्ये विन्यसेत्पत्रे ग्रहमेकं नरोत्तम

3.166.170.8

तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः ॥
धूपैर्दीपैश्च नैवेद्यैः पृथक्पृथगरिन्दम

3.166.170.9

एवं सम्पूजनं कृत्वा सर्वेषां तदनन्तरम् ॥
घृतेन होमं कुर्वीत सूर्यस्याष्टशतेन च

3.166.170.3.167.10

अन्येषां व तथा दद्यादष्टावष्टौ नरेश्वर ॥
नाम्ना तथैव सर्वेषां चैकैकं भोजयेद्द्विजम्

3.166.170.11

शक्त्या च दक्षिणा देया तेषामेव यदूत्तम ॥
एवं संवत्सरं कृत्वा व्रतमेतन्नरोत्तम

3.166.170.12

पौराणिकाय विप्राय व्रतस्यान्ते पयस्विनीम् ॥
विधिवच्च ततो दद्यात्सुवर्णं च यदूत्तम

3.166.170.13

सर्वकामप्रदं चैव व्रतमुक्तं स्वयम्भुवा ॥
व्रतेनानेन चीर्णेन सूर्यलोकमवाप्नुयात्

3.166.170.14

अथ द्वादशवर्षाणि करोत्येतन्महाव्रतम् ॥
भित्त्वार्कमण्डलं राजा विष्णोः सायुज्यतां व्रजेत्

3.166.170.15

एतद्व्रतं पापविनाशकारि धन्यं यशस्यं रिपुनाशकारि॥
लोके तथास्मिंश्च परे च राजन्स्वर्गप्रदं मोक्षकरं तथैव

3.166.170.167

इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा०संवादे सूर्यव्रतवर्णनो नाम सप्तषष्ट्युत्तरशततमोऽध्यायः

3.166.170.1

3.168
वज्र उवाच ॥
यस्मिन्यस्मिन्क्रतौ ब्रह्मन्ननुयान्ति रविं प्रभुम् ॥
येये देवप्रभृतयस्तन्मे त्वं वक्तुमर्हसि

3.166.170.2

मार्कण्डेय उवाच ॥
धातार्यमा च राजेन्द्र वसन्ते देवताद्वयम् ॥
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायनौ वरौ

3.166.170.3

कृतस्थलाप्सराश्चैव तथा या पुञ्जिकस्थला ॥
होता प्रहोता च तथा रक्षोघ्नौ मणिपुङ्गवौ

3.166.170.4

उरगो वासुकिश्चैव वाष्टकर्णी च तावुभौ ॥
रथकृत्स्ना रथौजाश्च यातुधानवरौ तथा

3.166.170.5

मित्रश्च पुलहश्चैव तथैवमृषिसत्तमौ ॥
अनुयाति सितश्चैव वसन्ते च यथा ग्रहः

3.166.170.6

येनुयान्ति रविं देवं निदाघे तान्निबोधसे ॥
मित्रश्च वरुणश्चैव ग्रीष्मे देवौ वसन्ति च

3.166.170.7

ऋषिरत्रिर्वसिष्ठश्च नागौ रंभकतक्षकौ ॥
मेनका सहजन्या च गन्धर्वौ च हहाहुहू

3.166.170.8

रथस्वनप्रमाणश्च रथकृत्सश्च तावुभौ ॥
पौरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ

3.166.170.9

अनुयाति कुजश्चैव निदाघे च तथा ग्रहः ॥
येनुयान्ति रविं देवं प्रावृट्काले निबोध मे

3.166.170.3.168.10

इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ॥
एलपत्रस्तथा सर्पः शङ्खपालश्च पन्नगः

3.166.170.11

शुचिसेनोग्रसेनौ च व्रातश्चैवारुणश्च वै ॥
प्रम्लोचेत्यप्सराश्चैव निम्लोचन्ती च ते उभे

3.166.170.12

यातुधानस्तथा सर्पो व्याघ्रश्च मनुजेश्वर ॥
प्रावृट्काले तु यात्येनं ग्रहो देवपुरोहितः

3.166.170.13

अतः परं निबोधस्व शरत्काले नराधिप ॥
पर्जन्यश्चैव पूषा च भरद्वाजश्च गौतमः

3.166.170.14

चित्रसेनश्च गंधर्वस्तथा वसुरुचिश्च वै ॥
विश्वाची च घृताची च तथा चैवाप्सरोद्वयम्

3.166.170.15

नागश्चैरावतश्चैव विश्रुतश्च धनञ्जयः ॥
सेनजिच्च सुषेणश्च राक्षसौ भीमविक्रमौ

3.166.170.16

वातोद्वातौ च तथा यातुधानौ महाबलौ ॥
ग्रहः शनैश्चरश्चैवमनुयान्ति दिवाकरम्

3.166.170.17

अतः परं प्रवक्ष्यामि हेमन्ते तव पार्थिव ॥
अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च वै

3.166.170.18

भुजगश्च महापद्मः सर्पः कर्कोटकस्तथा ॥
चित्रसेनश्च गन्धर्व ऊर्णायुश्च महाबलः

3.166.170.19

अप्सराः पूर्वचित्तिश्च गन्धर्वी उर्वशी तथा ॥
तार्क्ष्यश्चारिष्टनेमिश्च राक्षसौ भीमविक्रमौ

3.166.170.3.168.20

विद्युत्स्फूर्जस्तथैवोग्रौ यातुधानौ महाबलौ ॥
अनुयाति ग्रहश्चैव बुधो राजन्दिवाकरम्

3.166.170.21

अतःपरं च धर्मज्ञ शिशिरे गदतः शृणु॥
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च

3.166.170.22

काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ॥
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा

3.166.170.23

कारणी शितिशश्चैव सत्यजिच्च महायशाः॥
ब्रह्मोपेतश्च रक्षो वै यज्ञोपेतस्तथैव च

3.166.170.24

गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथापरः॥
चन्द्रमा ग्रहराजश्च अनुयाति दिवाकरम्

3.166.170.25

एवं हि शिशिरे राजन्ननुयानं प्रकुर्वते ॥
स्थानाभिमानिनो ह्येते सप्तद्वादशका गणाः

3.166.170.26

गणषट्कस्तथैवैकमनुयाति दिवाकरम् ॥
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम्

3.166.170.27

ग्रथितैस्तवचोभिश्च कुर्वन्ति ऋषयस्तवम् ॥
गन्धर्वाप्सरसश्चैव गीतैर्नृत्यैरुपासते

3.166.170.28

विद्याग्रामणिनश्चैव कुर्वन्त्यत्राभिषुग्रहम् ॥
सर्पा वहन्ति वै सूर्यं यातुधानोऽनुयाति च

3.166.170.29

परिवार्य ग्रहश्चैव नयत्यस्तं यथाविधि ॥
एतेषामेव देवानां यथावीर्यं यथातपः

3.166.170.3.168.30

यथासत्वमसौ सूर्यस्तेषां सिद्धस्तु तेजसा ॥
भूतानामशुभं कर्म विनाशयति तेजसा

3.166.170.31

ग्रीष्मे हिमे च वर्षासु जनयन्स दिवाकरः ॥
धर्मं हिमं च वर्षं च दिनं च निशया सह

3.166.170.168

इति श्रीविष्णुधर्मो० तृ० ख० मार्कण्डेयवज्रसंवादे आदित्यानुचरवर्णनो नाम अष्टषष्ट्युत्तरशततमोऽध्यायः

3.166.170.1

3.169
मार्कण्डेय उवाच ॥
चैत्रमासस्य सप्तम्यां शुक्लपक्षे नराधिप ॥
गोमयेनोपलिप्ते तु मृदा कुर्यात्तु मण्डलम्

3.166.170.2

तत्राष्टपत्रं कमलं कर्तव्यं वर्णकैः शुभैः ॥
कृतोपवासस्तन्मध्य भास्करं पूजयेन्नरः

3.166.170.3

अरुणं चैव दन्ताकं माठरं च तथा दमम् ॥
यमुनां च यमं कालं द्वितीयं मनुमेव च

3.166.170.4

शनैश्चरं तथा राज्ञीं छायां रेवन्तमेव च ॥
सप्तच्छन्दांसि वर्षं च द्यां च पिङ्गलमेव च

3.166.170.5

केशरेषु यजेद्वाथ पत्रेषूक्ताश्च देवताः ॥
दिक्कालपूजनं कार्यं बहिः पद्मस्य पार्थिव

3.166.170.6

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
व्रते समाप्ते दातव्यस्तुरगो ब्राह्मणाय च

3.166.170.7

प्राप्याश्वमेधस्य फलं यथावल्लोकानवाप्याथ पुरन्दरस्य ॥
तत्रोष्य राजन्सुचिरं च कालं सायुज्यमायाति दिवाकरस्य

3.166.170.169

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्रतकल्पे सप्तमीपूजाप्रशंसा नामैकोनसप्तत्युत्तरशततमोऽध्यायः

3.166.170.1

3.170
॥ मार्कण्डेय उवाच ॥ ॥
मार्गशीर्षस्य मासस्य कृष्णपक्षे नराधिप ॥
सोपवासस्तु सप्तम्यां कमले पूजयेद्रविम्

3.166.170.2

अर्चायां वा स्थले वापि शुक्लैः पुष्पैर्यथाविधि ॥
चन्दनेन तु रक्तेन वटकैः कृसरेण च

3.166.170.3

दद्याद्व्रतान्ते द्विजपुङ्गवाय वस्त्रे तु रक्ते रिपुनाशनेप्सुः ॥
सौभाग्यकामश्च तथैव राज्यं प्राप्नोति लोकान्सवितुस्तथान्ते

3.166.170.170

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रक्तसप्तमीव्रतवर्णनो नाम सप्तत्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc