भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.171.175

3.171.175.1

3.171
॥ मार्कण्डेय उवाच ॥ ॥
अनेन च विधानेन प्रतिमासं तु यो नरः ॥
सप्तमीद्वितयं कुर्याद्यावत्संवत्सरो भवेत्

3.171.175.2

सोश्वमेधमवाप्नोति सूर्यलोकं च गच्छति ॥
कुलमुद्धरते राजन्सर्वान्कामानुपाश्नुते

3.171.175.3

शिरसो वपनं कृत्वा योर्चयेत्तु दिवाकरम् ॥
तस्यार्कस्तोषमायाति वह्निष्टोमं च विन्दति

3.171.175.4

अपूपैः सगुडैर्भक्त्या तथा च लवणान्वितैः ॥
सहिरण्यैस्समभ्यर्च्य वह्निष्टोमफलं लभेत्

3.171.175.5

सूर्याह्णे यस्तु नक्ताशी संपूजयति भास्करम् ॥
इष्टान्कामानवाप्नोति सूर्यलोकं च गच्छति

3.171.175.6

अर्कोदये सदा यस्तु पूजयेच्च दिवाकरम् ॥
इष्टान्कामानवाप्नोति सूर्यलोकं च गच्छति

3.171.175.7

यथायथा पूजयते तु सूर्यं कामाः समग्राः सफला भवन्ति ॥
आरोग्यमग्र्यं च तथा नृवीर भूतस्य लोकः सवितुस्तथैव

3.171.175.171

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सूर्यपूजाप्रशंसावर्णनो नामैकसप्तत्युत्तरशततमो ऽध्यायः

3.171.175.1

3.172
॥ मार्कण्डेय उवाच ॥ ॥
वरो ध्रुवश्च सोमश्च आपश्चैवानिलोनलः ॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः

3.171.175.2

।
अष्टात्मा वासुदेवोऽयं प्रभवेनाप्ययेन च ॥
अष्टम्यां पूजयेद्यस्तु सोपवासो नराधिप

3.171.175.3

चैत्रमासादथारभ्य शुक्लपक्षे च यादव ॥
मण्डलेष्वथ वार्चासु यथावन्मनुजाधिप

3.171.175.4

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥
बहिःस्नानेन राजेन्द्र तथाधःशयनेन च

3.171.175.5

व्रतान्ते च तथा दद्याद्धेनुं विप्राय भक्तितः ॥
व्रतमेतन्नरः कृत्वा सर्वान्कामानुपाश्नुते

3.171.175.6

पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ॥
वसूनां लोकमासाद्य मोदतेमरसन्निभः

3.171.175.7

मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः ॥
धनेन धान्येन तथन्वितः स्यात्स्त्रीणामभीष्टश्च तथा सुवेशः

3.171.175.172

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुव्रतवर्णनो नाम द्विसप्तत्युत्तरशततमोऽध्यायः

3.171.175.1

3.173
॥ मार्कण्डेय उवाच ॥ ॥
शुक्लपक्षादथारभ्य सोमाष्टम्यां नराधिप ॥
पूजयेत्सोपवासस्तु देवदेवं त्रिलोचनम्

3.171.175.2

लिङ्गे वाप्यथ वार्चायां कमले यदि वा स्थले ॥
घृतक्षीराभिषेकेण स्नानेन विविधेन च

3.171.175.3

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥
गीतेन नृत्यवाद्येन वह्निसंतर्पणेन च

3.171.175.4

ब्राह्मणानां च पूजाभिर्यथावन्मनुजोत्तम ॥
व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम्

3.171.175.5

पुण्डरीकफलावाप्तिः स्वर्गलोकं च गच्छति ॥
कृष्णाष्टमीषु चाप्येवं पूजयित्वा महेश्वरम्

3.171.175.6

॥
वह्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥
अष्टमीद्वितयं कृत्वा तथा संवत्सरं नरः

3.171.175.7

प्राप्याश्वमेधस्य फलं यथावद्भुक्त्वा भोगान्सुरनाथस्य लोके ॥
लोकानवाप्याथ महेश्वरस्य सायुज्यमायात्यचिरेण तस्य

3.171.175.173

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वराष्टमीव्रतवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः

3.171.175.1

3.174
मार्कण्डेय उवाच ॥
हिमवान्हेमकूटश्च निषधो नील एव च ॥
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः

3.171.175.2

नवैताञ्शैलनृपतीन्नवम्यां पूजयेन्नरः ॥
उत्तराः कुरवः पुण्या रम्यो हैरण्वतस्तथा

3.171.175.3

भद्राश्वः केतुमालश्च तथैव च इलावृतः ॥
हरिवर्षः किंपुरुषो वर्षो भारत एव च

3.171.175.4

पूजनीयास्तथैवैते यथा संस्थानतो नृप ॥
शुक्लपक्षनवम्यां तु चैत्रादारभ्य पार्थिव

3.171.175.5

सोपवासेन धर्मज्ञ गन्धमाल्यान्नसंपदा ॥
जम्बूद्वीपस्य संस्थानं व्रतान्ते रजतं नरः

3.171.175.6

तुलाप्रमाणं दद्यात्तु सर्वान्कामानुपाश्नुते ॥
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति

3.171.175.7

मानुष्यमासाद्य तु चक्रवर्ती नृपो भवेद्देवगणाभिरामः ॥
चिरं च कालं वसुधां प्रशास्य लोकानवाप्नोति ततोपि कामान्

3.171.175.174

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पर्वताष्टमीव्रतवर्णनो नाम चतुस्सप्तत्युत्तरशततमोऽध्यायः

3.171.175.1

3.175
मार्कण्डेय उवाच ॥
नवम्यां सोपवासस्तु भद्रकालीं तु पूजयेत्॥
शुक्लपक्षे महाराज कार्तिकप्रभृति क्रमात्

3.171.175.2

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
संवत्सरान्ते संपूज्य व्रतान्ते ब्राह्मणाय च

3.171.175.3

वस्त्रयुग्मं नरो दत्त्वा यथेष्टं काममाप्नुयात् ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्

3.171.175.4

राजकार्याभियुक्तश्च मुच्यते महतो भयात् ॥
न चौरेभ्यो भयं तस्य नारण्येभ्यः कदाचन

3.171.175.5

पुत्रानवाप्नोति धनं यथेष्टं स्त्रियश्च मुख्या विविधं च कुप्यम् ॥
पूजां तु कृत्वा विधिवद्भवान्या कामानवाप्नोति तथा यथेष्टान्

3.171.175.175

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भद्रकालीपूजावर्णनो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc