भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.161.165

3.161.165.1

3.161
मार्कण्डेय उवाच ॥
अथातः संप्रवक्ष्यामि तव शैलव्रतं शुभम् ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि

3.161.165.2

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥
चैत्रशुक्लसमारम्भात्प्रत्यहं दिनसप्तकम्

3.161.165.3

तेषां संपूजनं कुर्याद्बहिः स्नानं समाचरेत् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा

3.161.165.4

यवैर्होमस्तथा कार्यो दद्याद्विप्रेषु दक्षिणाम् ॥
नक्तं यवान्नमश्नीयात्कुर्यात्संवत्सरं व्रतम्

3.161.165.5

व्रतावसाने दद्याच्च यवस्थालीश्च विंशतिम् ॥
वाचकाय द्विजेन्द्राय सुवर्णं गां च तस्य तु

3.161.165.6

द्रतेनानेन चीर्णेन सर्वां सागरमेखलाम् ॥
भुनक्ति वसुधां राजा वशीकृत्वा रिपून्नृप

3.161.165.7

भोगांश्च भुक्त्वा त्रिदिवे च राजन्मानुष्यमासाद्य यथोक्तमेतत् ॥
प्राप्नोति सर्वं हि मयेरितं यज्जन्मान्तराण्येव नरेन्द्र सप्त

3.161.165.161

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तशैलव्रतवर्णनो नामैकषष्ट्युत्तरशततमोऽध्यायः

3.161.165.1

3.162
मार्कण्डेय उवाच ॥
अतः परं प्रवक्ष्यामि तव लोकव्रतं शुभम् ॥
यास्तु व्याहतयः सप्त त्रैलोक्यां तु प्रकीर्तिताः ॥

3.161.165.2

आचरेत्प्रत्यहं स्नानं बहिर्नित्यमतन्द्रितः ॥
चैत्रशुक्लादथारभ्य क्रमेण दिनसप्तकम्

3.161.165.3

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च क्रमेणैवं समाचरेत्

3.161.165.4

महाव्याहतिभिर्होमस्तिलैः कार्यो दिनेदिने ॥
संवत्सरान्ते दद्याच्च तथा विप्रेषु दक्षिणाम्

3.161.165.5

सुवर्णमहतं वासः कांस्यं धेनुं पयस्विनीम् ॥
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम

3.161.165.6

सर्व लोकचरः श्रीमान्स्वेच्छया स्यान्नराधिप ॥
यावत्कल्पावसानं तु कल्पादौ पार्थिवो भवेत्

3.161.165.7

स चक्रवर्ती नृपवर्यपूज्यः सुरासुराणामधिकप्रभावः ॥
संवत्सराणामयुतं शतानां सम्पाति पृथ्वीं सकलाभिरामः

3.161.165.162

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्याहृति सप्तलोकव्रतवर्णनो नाम द्वाषष्ट्युत्तरशततमोऽध्यायः

3.161.165.1

3.163
॥ मार्कण्डेय उवाच ॥ ॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ॥
ह्लादिनीं ह्रादिनीं चैव पावनीं चैव पूजयेत्

3.161.165.2

सीतां रामं तथा सिन्धुं तथा भागीरथीं क्रमात् ॥
बहिःस्नानं ततः कुर्यान्नित्यं नक्ताशनो भवेत्

3.161.165.3

जले तु जुहुयात्क्षीरं तासां नाम्ना दिनेदिने ॥
क्षीरपूर्णा च दातव्या वारिधान्यो द्विजातिषु

3.161.165.4

क्षीराशनस्तु तिष्ठेत्तु तत्तथा दिनसप्तकम् ॥
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः

3.161.165.5

द्विजातिषु ततो दद्याद्रजतस्य पलंपलम् ॥
फाल्गुनस्य सिते पक्षे सप्तम्यां दिवस क्रमात्

3.161.165.6

तल्लोकमाप्नोति नरो यत्र पायसकर्दमम् ॥
नद्यः क्षीरवहा दिव्याः सर्वकामफलप्रदाः

3.161.165.7

तत्रोष्य कालं सुचिरं महात्मा मानुष्यमासाद्य भवत्यरोगः॥
रूपेण शीलेन धनेन युक्तो राजाथ वा ब्राह्मणपुङ्गवश्च

3.161.165.163

इति श्रीविष्णुधर्मेत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नदीव्रतवर्णनोनाम त्रिषष्ट्युत्तरशततमोऽध्यायः

3.161.165.1

3.164
॥ मार्कण्डेय उवाच ॥ ॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ॥
सुप्रभां काञ्चनाक्षीं च विशालां मानसं ह्रदम्

3.161.165.2

तां त्रिनादां सुवेणुं च तथैव विमलोदकाम् ॥
नित्यं संपूजयेद्भक्त्या बहिः स्नानं समाचरेत्

3.161.165.3

तासां च प्रत्यहं नाम्ना दध्ना होमं समाचरेत् ॥
ब्राह्मणान्भोजयेच्चात्र दध्ना मिश्रं च भोजनम्

3.161.165.4

घृतौदनं तथाश्नीयात्सकृदेव तथा निशि ॥
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः

3.161.165.5

फाल्गुनामलपक्षे तु प्रत्यहं दिवसक्रमात् ॥
वस्त्राणां सप्तकं दद्यात्तीर्थस्नाते द्विजोत्तमे

3.161.165.6

एवं संवत्सरं कृत्वा व्रतं सारस्वतं जपेत् ॥
तत्रोष्य सुचिरं कालं मनुष्यो जायते तदा

3.161.165.7

तदा नरेन्द्रो विजितारिपक्षो द्विजोत्तमो वा बहु यज्ञयाजी ॥
रूपेण शीलेन धनेन युक्तः श्रुतान्वितः स्याच्च जनाभिरामः

3.161.165.164

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सारस्वत व्रतवर्णनोनाम चतुःषष्ट्युत्तरशततमोऽध्यायः

3.161.165.1

3.165
॥ मार्कण्डेय उवाच ॥ ॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्

3.161.165.2

वसिष्ठं च महाभाग पूजयेद्दिवसक्रमात् ॥
कालोद्भवैः फलैः पुष्पैर्गोरसैश्च पृथक्पृथक्

3.161.165.3

आचरेत्प्रत्यहं स्नानं बहिर्नक्ताशनो भवेत् ॥
महाव्याहृतिभिर्होमं फलैर्मूलैः सगोरसैः

3.161.165.4

वारिधान्यश्च दातव्याः क्षीरपूर्णा द्विजातिषु ॥
एवं संवत्सरं कृत्वा व्रतान्ते चाहिताग्नये

3.161.165.5

दद्यात्कृष्णाजिनं राजन्यथापूर्वं मयेरितम् ॥
व्रतमेतन्नरः कृत्वा मोक्षोपायं च विन्दति

3.161.165.6

मोक्षोपायं समासाद्य मोक्षं प्राप्नोत्यसंशयम्

3.161.165.7

प्राप्नोति लोकं यदि वा मुनीनां देवस्य विष्णोर्यदि वेश्वरस्य ॥
पितामहस्याप्रतिमस्य वापि व्रतेन चीर्णेन महानुभाव

3.161.165.165

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तर्षिव्रतवर्णनो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc