विष्णुधर्मोत्तरपुराणम् · अध्याय 3.16.20
3.16
॥ मार्कण्डेय उवाच॥
काव्ये येऽभिहिता दोषाः कैश्चित्तेभ्यः प्रहेलिका ॥
कर्तव्याश्च तथैवान्यास्तासां वक्ष्यामि लक्षणम्
श्लोकेनैकेन वा द्वाभ्यां कर्तव्या तु नरोत्तम ॥
न कर्तव्याश्च ता राजन्बहुश्लोकनिबन्धनाः
तस्यां मात्रावशादर्थो गोप्यते सा समागता ॥
पर्यायवचनाद्यस्यां वन्दिता सा प्रकीर्तिता
वृत्तान्तगोपिकान्ताया पदैर्व्यवहितैर्भवेत् ॥
अप्रसिद्धैस्तु पर्यायैर्दुःखिता नाम सा स्मृता
कल्पनागोपितार्थात्तु कथिता परिहासिका ॥
समानरूपतुल्यार्थो शब्दैरन्यैः प्रकीर्तिता
दुर्बोधाक्षरबन्धा च परुषा नामतः स्मृता॥
संख्यामात्रसमानत्वात्संख्याताख्या तथोच्यते
अर्थान्तरान्कल्पनया कल्पिता च तथोच्यते ॥
अन्यस्य संज्ञायामोहान्नमान्तरितसंज्ञिता
अर्थव्यामोहतः प्रोक्ता निभृता च महानृप ॥
समानशब्दा कथिता तुल्यशब्दनिबन्धना
अर्थानुलोमदुर्बोधा व्यामूढेति तथोच्यते ॥
गुच्छाख्या कथिता वृत्ते नानाबन्धनि बन्धना
एकोभयबहुच्छन्ने यथार्थपरिगोपिते ॥
संकीर्णा सम्भवोपेता या तदर्थकरी भवेत्
तदर्थकारी यत्रार्थो ज्ञायतेऽन्यार्थकामुकः ॥
राजञ्शब्दवशात्सा च कथिता व्यभिचारिणी
उक्तेर्थे वृत्तबन्धेन मात्राभिः स्थापिता तथा ॥
नष्टार्था वा च सा प्रोक्ता वृत्तबन्धनिदर्शिता
नष्टाक्षरा तु कथिता विनैकेन तदार्थदा ॥
अन्यार्थता तथैवोक्ता वर्णभ्रष्टा नरेश्वर
कालस्य रूपरूपाणां व्याख्यानेन तदार्थदा ॥
बीजमात्रेण लेशाख्या भूमिपाल प्रकीर्तिता
अश्लीलमेतास्वपि नैव कार्यं तद्वर्ज्यमाहुः कवयो नरेन्द्र ॥
उद्वेजनीयं तु सतां तदुक्तमश्लीलबन्धं सुखदं न काव्यम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रहेलिकालक्षणो नाम षोडशोऽध्यायः
3.17
॥ वज्र उवाच ॥ ॥
मन्त्राः सब्राह्मणाः प्रोक्तास्तदर्थं ब्राह्मणं स्मृतम् ॥
कल्पना च तथा कल्पः कल्पश्च ब्राह्मणस्तथा
कथितानि तथार्थानि पुराणं च तथा द्विज ॥
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः
उपोद्घातानुषङ्गौ च तथा संहार एव च ॥
चतुष्पादं हि कथितं पुराणं भृगुनन्दन
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्
तत्र वा विदितं सर्वं तत्रोक्तं गीतलक्षणम् ॥
वृत्तस्य लक्षणं चैव नाटकाख्यानलक्षणम्
तस्मादहं त्वां पृच्छामि द्विज नाट्यस्य लक्षणम् ॥
सभेदं तन्ममाचक्ष्व सर्वज्ञोऽसि यतः प्रभो
मार्कण्डेय उवाच ॥
इतिहासानुसारेण पुराणानां समीक्षितम् ॥
चरितं त्रिदशानां वा नाटकं तत्र कीर्तितम्
एकनायकसंयुक्तं नायकप्रतिनायकैः।
संयुक्तमथवा कार्यः काव्ये वै तत्र नायकः
सर्वास्तु वृत्तयस्तत्र तत्र सर्वे तथा रसाः ॥
कालप्रयोगं च तथा युक्त्या संदर्शयेन्नृप
पञ्चावराङ्कं तत्प्रोक्तं तथादशपरं शुभम् ॥
एकदैवतिकं वृत्तमङ्के राजन्प्रदर्शयेत
तदन्ते सर्वपात्राणां निष्क्रमश्च विधीयते ॥
युक्त्युपन्याससंयुक्तं तथा निष्कमणं मतम्
मरणं राज्यविभ्रंशो नगरस्योपरोधनम् ॥
एतानि दर्शयेन्नांके तथा युद्धं च पार्थिव
प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः ॥
पात्रद्वयेन कर्तव्यं तथा नित्यं प्रवेशकम्
पात्रे परिजने तत्र कर्तव्यं नायकेन तु ॥
भिन्नं पात्रद्वयं यत्र तत्र विष्कम्भकं स्मृतम्
तयोरन्ते तु कर्तव्या तथा रङ्गस्य शून्यता ॥
अङ्गान्ते च तथा कार्या न कार्या सान्यथा भवेत्
बहुदैवतिकं वृत्तं कर्तव्यं तु प्रवेशकम् ॥
संक्षपोक्तिश्च कर्तव्या कर्तव्यो नहि विस्तरः
प्रख्यातनायकवधं न च तत्र प्रवेशयेत्॥
तस्य प्रकाशनं कार्यमङ्केप्येव नराधिप
नायकाभ्युदयः कार्यो नाटकान्ते तथैव च ॥
बह्व्योऽपि नायिका यत्र तासामपि तथा भवेत्
एवंविधा सशृङ्गारा चतुरङ्काः तु नाटिका ॥
कृतं प्रकरणं तद्वत्स्वयमुत्पाद्य वस्तुना
ब्राह्मणो नायकस्तत्र वणिक्च नृपसत्तम ॥
एवं प्रकरणी कार्या चतुरङ्कापि सा भवेत्
इतिहासानुबन्धो वा स्वयमुत्पाद्य वा कृतः ॥
भारतीकरुणप्रायो निवृत्तं समनन्तरम्
चतुष्टयाङ्कः कर्तव्यो दिव्यनायकवर्तितः ॥
इतिहासानुसारेण प्राणश्चैकाहिकः स्मृतः
एकांको युद्धबहुलस्वात्मशंसापरस्तथा ॥
आकाशकथनैर्युक्तस्त्वेकपात्रकृतक्रियः
प्रोक्तः समवताराख्यस्त्रिदशासुरनायकः ॥
त्रिशृङ्गारस्त्रिकपटस्तथा द्वादशनायकः
ईहामृगोऽथ बह्वङ्कस्तथा गन्धर्वनायकः ॥
शृङ्गारबहुलः कार्योऽतृप्त योनिरसाश्रयः
ऐकाहिको दृप्तरसो व्यायोगश्चैकनायकः ॥
वीथी त्रयोदशाङ्का स्यात्तथा नायकवर्जिता
डिमाख्यश्च तथा प्रोक्तो रसस्तु सुरनायकः ॥
तथा रौद्ररसप्रायः प्रख्यस्तविषयान्वितः
एकाङ्को हास्यबहुलस्तथैवोदात्तनायकः ॥
कार्यः प्रहसनाख्यस्तु वेश्याविटसमन्वितः
सूत्रधारस्य वाक्येन काव्यवस्तुनिबन्धनम् ॥
सर्वं प्रकाशयेदादौ सर्वेष्वेतेषु वस्तु यत्
संस्कतं नायकवचो लिङ्गिश्रोत्रियभूभुजाम् ॥
द्विजन्मनां सुराणां च दैत्यगन्धर्वभोगिनाम्
नायिकादेवरामाणां व्याजलिङ्गवतां तथा ॥
विदूषकाणां च भवेत्प्राकृतं वचनं नृप
बालस्त्रीनीचषण्डानां ये चान्ये नानुकीर्तिताः ॥
तेषां वाक्यमपभ्रष्टं तच्च ज्ञात्वा प्रयोजयेत्
स्वयमुत्पादितानां मे नानात्वं शृणु लक्षणम् ॥
शर्म वर्मधनान्यन्ते वर्णानां दासवत्तथा
राज्ञां विक्रमसंयुक्तममात्यानां तथा भवेत् ॥
स्त्रीणां सुखोद्यमक्रूरं नायिकानां मनोहरम्
राज्ञीपरिजनस्त्रीणां कलाकौशलसंयुतम् ॥
राज्ञः परिजनस्त्रीणां विजयोत्तरमिष्यते
सांवत्सराणां माङ्गल्यं शान्तिप्रायं पुरोधसाम् ॥
शूरप्रायममात्यानामायुप्यं भिषजामपि
विटानां भूषणप्रायं दासीनां कुसुमादिकम् ॥
ऋषिगोत्रधरौ कार्यौ कञ्चुकीयविदूषकौ
दत्ता मित्रा तथा सेना वैश्या नाम ततो भवेत् ॥
अधिकारानुरूपाणि तथा चैवाधिकारिणाम्
अतः परं प्रवक्ष्यामि येन वाच्यस्तु यो यथा ॥
देवेति राजा वक्तव्यो भृत्यैः प्रकृतिभिस्तथा
राजेति विप्रैर्वक्तव्यो ऋषिभिर्नामगोत्रतः ॥
अपत्यप्रत्ययाद्देवैर्वयस्येति समो जनः
विदूषकोऽपि वक्तव्यो वयस्य इति नायकैः ॥
आयुष्मानिति सूतेन रथी वाच्यस्तथा भवेत्
भगवन्निति वक्तव्या ऋषयो गुरवः सुराः ॥
पुत्र वत्सेति शिष्यस्य तथा वा नामगोत्रतः
आर्यपुत्रेति वक्तव्यः स्त्रिया भर्ता नराधिप ॥
नाम्ना भार्या तु वक्तव्या राज्ञी देवीति नायिका
पिता तातस्तथा वाच्यो मातुश्चैवार्यकः पिता ॥
युवराजः कुमारः स्यान्मान्यो भावः समीरितः
मान्यमानस्तथा भामो भर्तृदारः कुमारकः ॥
हलेति तु समाना स्त्री वक्तव्या समया तथा
हञ्जेत्यामन्त्रयेन्नारी हण्डे परिजने स्वके ॥
स्वसेति भगिनी वाच्या लिङ्गस्था व्रतिनी तथा
आर्येति ब्राह्मणी वाच्या शेषा लिङ्गार्थतस्तथा ॥
अन्तःपुरचरो यस्तु स्त्रीभोगपरिवर्जितः
स तु वर्षधरो ज्ञेयस्तदध्यक्षस्तु कञ्चुकिः ॥
ब्राह्मणः स भवेद् वृद्धो मान्यश्च वसुधाधिपैः
विदूषको ब्राह्मणः स्यान्नायकस्य रहस्यवित् ॥
नटः प्रधानः स भवेत्सूत्रधारो नराधिप
ज्ञेया बीजसमुत्पत्तिर्मुखं नाना रसोद्भवः ॥
मुखोत्थबीजोद्घटनं तथा प्रतिमुखं स्मृतम्
प्राप्याप्रातियुतो गर्भस्तस्यैवोद्भेदसंज्ञितः ॥
तदेवोद्भिन्नबीजार्थो विसर्गो व्यसनान्वितः
मुखादीनां निर्वहणं तथा निर्वहतं भवेत् ॥
नाटके सप्रकरणे कर्तव्याः पात्रसन्धयः
डिमे समवकारे च विसर्गं नैव कारयेत् ॥
व्यायोगेहामृगौ कार्यो तथा गर्भविवर्जितौ
उत्सृष्टाङ्क प्रहसनं वीथी भाणकमेव च ॥
एतेषां नावकर्तव्यं तथा प्रतिमुखं नृप
औदार्यसत्पथं शौर्यं नायकस्तु न संत्यजेत् ॥
नायिकापि तथा राजन्यजेद्वा प्रतिनायकः
अतः परं प्रवक्ष्यामि नायिकाष्टकलक्षणम् ॥
निजापराधात्स्वगृहे वाससज्जा तु नायिका
विरहोत्कण्ठिता सैव या त्वनागतनायिका ॥
स्वाधीन भर्तृका प्रोक्ता या स्यात्स्वाधीनभर्तृका
कलहान्तरिता प्रोक्ता कलहाहतनायका ॥
खण्डिता या च नखरैर्युतमेति प्रगोपतिम्
विप्रलब्धा तु सा ज्ञेया संकेते कान्तवर्जिता ॥
प्रवासगतकान्ता तु तथा प्रोषितभर्तृका
एतासामुचिताकारलीलाभिर्बन्धनं घनम् ॥
नाटकादिषु रूपेषु कर्तव्यं द्वादशस्वपि
शृङ्गारहास्यकरुणवीररौद्रभयानकाः ॥
बीभत्साद्भुतशान्ताख्या नव नाट्यरसाः स्मृताः
बन्धो रसानुगः कार्यः सर्वेष्वेतेषु यत्नतः ॥
रसप्रधानमेवैतत्सर्वनाट्यं नराधिपः
एते कलाकौशलशीलयुक्ताः कार्यास्तथा लोक विधानयुक्ताः ॥
धर्मार्वकामाद्युपदेशगाश्च हिताय लोकस्य नरेन्द्रचन्द्र
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वादशरूपकवर्णनो नाम सप्तदशोऽध्यायः
3.18
॥ मार्कण्डेय उवाच ॥ ॥
अथ गीतलक्षणं भवति तस्य त्रीणि स्थानानि उरः कण्ठः शिरश्च, तेभ्यो मन्द्रमध्यतारोत्पत्तिः ।
त्रयो ग्रामाः । षड्जमध्यमगान्धाराः ।
सप्तस्वरा । षड्जर्षभ गान्धारमध्यमपञ्चमनिषादधैवताः
एकविंशतिमूर्च्छनाः सप्त सप्त प्रतिग्रामाश्रिताः ।
तद्यथासां नामानि सौवीरी हारिणाश्वा कलोपनता शुद्धमध्यमा मार्गी पौरवी ऋष्यका चेति ॥
एताः सप्त मध्यमग्रामिण्यः उत्तरासंज्ञाः ।
प्राञ्चिनी उत्तरायता शुद्धषड्जमत्सरीकृता अश्वक्रान्ता उद्गता च एताः सप्त षड्जग्रामिकाः ।
आलापी कुन्तिमा श्रद्धा उत्तरा षड्जा पञ्चायता. .....एताः सप्त गान्धारग्रामिकाः ।
अथैकोनपञ्चाशत्तानाः । अग्निष्टोमिकः अत्यग्निष्टोमिकः पौण्डरिकः आश्वमेधिकः राजसूयिकः वहुसुवर्णिकः गोसविकः महाव्रतिकः ब्रह्म तानः प्राजापत्यः नगाश्रयः यज्ञाश्रयः गोदानिकः हयक्रान्तः अजक्रान्तः विष्णुक्रान्तः अरण्यः मत्तकोकिलः उज्जीविकश्चेति एते विंशतिर्मध्यमग्रामिकाः ।
प्रस्वापनं पैशाचः जीवनः सावित्रः अर्धसावित्रः सर्वतोभद्रः सुवर्णः विष्णुः जिष्णुर्विष्णुवरः शारदः विजयः हंसः ज्येष्ठ इति एते चतुर्दशषड्जग्रामिकाः । तुम्बुरुप्रियः महालक्ष्मणः गन्धर्वानुमतः अलम्बुसप्रियः नारदप्रियः भीमसेनप्रियः वितानः मातङ्गः भार्गवप्रियः अभिरामः संश्राव्यः किन्नरप्रियः पुण्यः मनोहरः कल्याणकरश्चेति एते पञ्चदश गान्धारमाश्रिताः
एतच्चतुर्विधं स्वरपदलयावधानयोगात् ।
मूर्च्छनास्वादिमध्यान्ते वादिसंवाद्यन्त्यवादिसंज्ञास्तिस्रो वृत्तयः॥
पूर्वोक्ताश्च नवरसाः तत्र हास्यशृङ्गारयोर्मध्यमपञ्चमौ।
वीररौद्राद्भुतेषु षड्जपञ्चमौ । करुणे निषादगान्धारौ ।
बीभत्सभयानकयोर्धैवतम् ।
शान्ते मध्यमम् ।
तथा लयाः हास्यशृङ्गारयोर्मध्यमाः ।
बीभत्सभयानकयोर्विलम्बितः ।
वीररौद्राद्भुतेषु द्रुतः ।
चोक्षाप्रयोगः स्वरोराधने रूपकेषु प्रकरणानुगतः मन्युव्यपदेशेन ते भवन्ति॥
भवन्ति चात्र श्लोकाः ॥
ग्रहांशस्तारमन्द्रे च न्यासोपन्यास एव च॥
अल्पत्वं च बहुत्वं च षाडवोडविते तथा॥
एवमेव बुधैर्ज्ञेया जातयो दशलक्षणाः॥
अलङ्काराश्च चत्वारो भवन्ति वसुधाधिप ॥
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥
प्रसन्नमध्यश्च तथा क्रमेणैवं विनिर्दिशेत् ॥
अपरान्तकमुल्लोप्यं मन्द्रकः मकरी तथा ॥
उवेणकं सरो बिन्दुमुत्तमं गीतकानि तु॥
ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका॥
गीतमेतत्तदाभ्यासः कारणाच्चोक्षसंज्ञः ॥
संक्षेपेण मया प्रोक्तं सुराराधन कारणात् ॥
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ॥
देवस्यानुचरो भूत्वा तेनैव सह मोदते ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० गीतलक्षणो नामाष्टादशोऽध्यायः
3.19
मार्कण्डेय उवाच ॥
अथातोद्यविधानम् ॥
चतुर्विधमातोद्यं ततं सुषिरं घनमवनद्धं च ।
ततं वीणादि, शुषिरं वंशादि घनं तालादि अवनद्धं मुरजादि तत्र स्वरास्तुल्याः शारीरा वैणवाश्च।
तद्वद्वंशा किन्तु यथा शरीराणामा रोहावरोहणे तथा वैणवानां वंशानां विपर्ययात् तालः कालप्रयोज्यः ।
पञ्चलघ्वक्षरोच्चारणकलामात्रास्तिस्रो वृत्तयः ।
चित्रा वृत्तिर्दक्षिणा द्विधा ।
मात्राकलाचित्रे चतुर्मात्रावृत्तौ अष्टमात्रा दक्षिणाया ।
अष्टमात्रादक्षिणे अवया निष्क्रयो विक्षेपः प्रवेशः शम्पातालः संनिपातभेदः ।
कलासमूहो युक्तः ।
चपुटस्थः अयुक् चञ्चत्पुटलः प्लुतान्तः पञ्चपाणिः ख इति तापुत्रा यथाक्षरस्थः ।
तत्र लयाः द्रुतमध्यविलम्बिताः ।
लयवत्तालः ।
प्रकरणं द्विविधम् । कुलकं च्छेद्यकं च ।
अथावनद्धं तत्र पौष्करवत्क्वणान्वितं करुणान्वितम् ।
तत्र षोडशाक्षराणि क ख ग घ ट ठ ड ण त थ द ध य र ल व इति, तत्र कटरथौगादिदक्षिणमुखे, घधमा वामे, गदकारा मृर्ध्निः टणलहा आलिङ्गे अआइउएओ ऐ च ओ यथायोगं खगधा नां रेफेण योगः ।
कहभदानां णलथवः ।
समहस्तनिपातादङ्गुलीप्रचलनोर्धवामैकयोः समहस्तनिपातप्रदेशिनी तद्वद् डल्लानां योगः समपाण्यर्ध पाणिरदीर्घपाणिरेकपाणिः द्विहस्तप्रदेशिनीप्रहतानि समपाणिप्रहतोपकार घथगडराअध्यर्धपाणौ कथकारा।
अध्यर्धपाणौ ठणलहास्नहाद्विहस्तेन तलप्रदेशिनीप्रहते अहितवितस्तालिप्तगोमुखीमार्गाः शृङ्गारहास्ययोरंधितः ।
वीररौद्राद्भुतेषु वितस्तः करुणाशान्तयोरालिप्तः ।
बीभत्सभयानकयोर्गोमुखदर्दुरपणवयोर्मृदङ्गानुगमनं भवति ।
भवन्ति चात्र नेपथ्यभवनद्वारासमानरङ्गाभिवीक्षणम् ।
मुरजाः पृष्ठतस्तेषां तद्वन्मार्जनिका भवेत् ॥
याम्यतस्तस्य विज्ञेयो दर्दुरः पणवस्तथा ॥
उत्तराभिमुखो गाता तथा दक्षिणतो भवेत् ॥
वामतो गैरिकस्तस्य दक्षिणे वंशवादकौ ॥
गातुरेवाभिमुख्येन गायकानां निवेशनम् ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आतोद्यविधिर्नामैकोनविंशोऽध्यायः
3.20
परस्यानुकृतिर्नाटयं नाट्यज्ञैः कथितं नृप ॥
तस्य संस्कारकं नृत्तं भवेच्छोभाविवर्धनम्
नृत्यं तु द्विविधं प्रोक्तं नाट्यलास्याश्रयं सदा ॥
द्वैविध्यं द्विविधस्यापि पुनरुक्तं नराधिप
अभ्यन्तरञ्च बाह्यं च बाह्यं लक्षणवर्जितम् ॥
अभ्यन्तरं लक्षणवन्मङ्गल्यं तत्प्रयोगतः
लास्यं स्वच्छन्दतः कार्यं मण्डपे यदि वा बहिः ॥
नाट्यं मण्डप एव स्यान्मण्डपं द्विविधं भवेत्
आयतं चतुरस्रं तु द्वात्रिंशद्धस्तसम्मितम् ॥
चतुरस्रं न कर्तव्यमायतं द्विगुणायतम्
हीनाधिकं न कर्तव्यं दृष्टादृष्टशुभप्रदम् ॥
हीने भवति सम्मर्दो विस्तीर्णे नाट्यगेययोः
व्यक्तिर्नैवोपपद्येत तस्मात्तौ परिवर्जयेत ॥
आदावेव तु कर्तव्यं त्रिदशानां तु पूजनम्
पूजनं जर्जरस्यापि वास्तुदैवतपूजनम् ॥
एवं कृत्वा ततो नाट्यं नान्दीपूर्वकमिष्यते
ततो जवनिकाक्षेपैः प्रतिपात्रप्रवेशनम् ॥
प्रवेशनिर्गमौ कार्यौ कृत्वा कार्यस्य सूचनम्
पुष्पाञ्जलिः प्रदातव्या नाट्यान्ते वास्तुपूजनम् ॥
पाठ्ये गीते समासक्तः पात्रतुल्यः परिक्रमः
चतुष्कलो नायकानां मध्यानां त्रिकलो भवेत ॥
द्विकलश्चाधमानां स्यान्मध्यमे नृपकर्मणि
एकाधिकोनं सर्वेषां कर्तव्यं कार्ययोगतः ॥
देवा वीरोद्धता ज्ञेया उद्धता दानवादयः
नृपाश्च धीरललिता धीरास्तदनुजीविनः ॥
प्रशान्तधीरा ऋषयः प्रशान्तास्तत्पदानुगाः
धीरोदात्तास्तथा विप्रा उदात्ता वणिजो मताः ॥
एवंविधाश्च कथिता एतेषामेव योगतः
आहर्यः सात्त्विकश्चैव याचिकोंगिक एव च ॥
चतुष्प्रकारोऽभिनयः कर्तव्यो नाट्यकर्मणि
आहार्यः प्रतिशीर्षादिर्द्विकृतो वेश उच्यते ॥
धीरोद्धतानां वेशः स्यान्न चात्यर्थसमुल्बणः
उद्धतश्चोद्धतानां स्याद्राज्ञां ललित इष्यते ॥
प्रतिनायकवेशस्तु कर्तव्यश्च तथोद्धतः
अन्येषां सदृशो वेशो देशकर्माश्रयो भवेत् ॥
अश्वादयश्च कर्तव्याश्चर्मकाष्ठादिभिः समाः
अतः परं प्रवक्ष्यामि सात्त्विकाभिनयं तव ॥
अश्रुप्रपातरोमाञ्चस्वेदनं स्पन्दनं तथा
तथा च वर्णविन्यासैः सात्त्विकाभिनयो भवेत्॥
वाचिको वाचया प्रोक्तो वक्ष्याम्यंगिकमुत्तरे
नाट्यवृत्तं तु कर्तव्यं हर्षस्थाने सदा बहु ॥
शोकस्थाने न कर्तव्यं किञ्चिद्वा कारयेत्ततः
चतुर्धा रेचकं प्रोक्तं कटिपादांघ्रिकाश्रयम् ॥
चातकान्या महाचारी चारी च द्विविधा मता
सुकुमाराङ्गः वाक्चेष्टा चारी भवति यादव ॥
एतैरभ्यर्थितैर्ज्ञेया महाचारी नरेश्वर
मण्डलानि दशैवास्य चारीसंयोगजानि तु ॥
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम्॥
सूचीविद्धं दण्डपादं विकृतालातसंज्ञिते ॥
वामबद्धं सललितं क्रान्तं चाकाशगानि तु
मण्डलानि दशान्यानि शृणु भौमानि पार्थिव ॥
भ्रमरास्कन्दिते स्यातां मार्दवं च ततः परम्
समा सरितमित्याहुरेडकाक्रीडितं यथा ॥
अड्डितं शकटाख्यं च तथाहार्यमिति स्मृतम्
पिष्टकुब्जं च विज्ञेयं तथा चापगतं पुनः ॥
अथाङ्गहारान्वक्ष्यामि नामतस्तान्निबोध मे
स्थिरहस्तोङ्गहारस्तु तथैवाक्षिप्तकः स्मृतः ॥
उद्घाटितस्तृतीयः स्यात्तथा चान्योऽपराजितः
मत्ताक्रीडोऽथ विष्कम्भः तथा स्वस्तिकरेचितः ॥
वृश्चिकापसृतश्चैव तलमन्दा च सर्पितः
मतल्लीस्खलितश्चैव भ्रमरः पार्श्वस्वस्तिकः ॥
मदाद्विलसितश्चैव विक्षिप्तो गतिमण्डलः
वैशाखरेचितश्चैव परिवृत्तकरेचितः ॥
उद्वर्तकः परिच्छिन्नो रेचकोऽथ बलाहकः
सम्भ्रान्तो वाङ्गिकश्चैव इति क्रीडो ह्यलातकः ॥
विद्युद्भ्रान्तः परावृत्तः पार्श्वच्छेदसमन्वितः
आक्षिप्तो रेचितश्चैव सौम्योऽथ करितस्तथा ॥
सूचीविद्धोऽपविद्धश्च विलापोवनिकुट्टितः
षट्त्रिंशदेते संप्रोक्ता ह्यङ्गहारा यदूत्तम ॥
एतेषां संप्रवक्ष्यामि कारणानि यथाक्रमम् ॥
हस्तपाद प्रचारश्च यथा योज्यः प्रयोक्तृभिः
सर्वेषामङ्गहाराणां निष्पत्तिः कारणं भवेत् ॥
तान्यहं संप्रवक्ष्यामि नामभिः कर्मभिस्तथा
हस्तपादसमायुक्तो नृत्तस्य करणं भवेत ॥
द्वे नृत्यकरणे चैव भवेतां नृप मातृका
त्रिभिः कलापकश्चैव चतुर्भिः खण्डकः स्मृतः ॥
पञ्चैव करणानि स्युः संज्ञाघात इति स्मृतः
षङ्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा ॥
करणैरिह संयुक्ता अङ्गहारा इति स्मृताः
एतेषां चैव वक्ष्यामि नामान्यहमतः परम् ॥
तालपुष्पापविद्धे द्वे लीनस्वस्तिकरेचितम्
मण्डलं स्वस्तिकं चैव ऊरु वृत्तं निकुण्डकम् ॥
सूचीविद्धं कटिच्छिन्नमर्धरेचितमेव च
वक्षः स्वस्तिकमुत्पन्नं स्वस्तिकं पृष्ठगं पुनः ॥
दिक्स्वन्तिकमलाताख्यमर्धसूचीकटीसमम्
आक्षिप्तरेचितं क्षिप्रमर्धस्वस्तिकसञ्चितम्॥
भुजङ्गवासितं चैव ऊर्ध्वजानु निकुञ्चितम्
मतल्ली त्वर्धमतल्ली स्याद्रेचकनिकुण्टकम् ॥
पारविद्धं तडिद्धान्तं वलितं चूर्णितं तथा
ललितं दण्डपक्षं च भुजङ्गत्रस्तरेचितम्॥
नूपुरं रेचितं चैव भ्रमरं चतुरं तथा
भुजङ्गाञ्चितमन्यत्स्याच्छिन्नं वृश्चिकरेचितम् ॥
लतावृश्चिकमन्यत्स्याच्छिन्नं वृश्चिकरेचितम्
वृश्चिकं व्यंसितं चैव सूचीविद्धकमेव च ॥
ललाटतिलकं चैव कुण्डलं चक्रमंडलम्
तरोर्मण्डलमाक्षिप्तं लतालसितमार्गलम ॥
विक्षिप्तं भ्रमितं चैव विलासं वानरप्लुतम्
परिवृत्तं निवृत्तं च पार्श्वाक्रान्तं निकुञ्चितम् ॥
अतिक्रान्तमवक्रान्तं दोलापादविवर्जितम्
नागप्रक्रीडितं चैव विप्लुतं गरुडप्लुतम् ॥
गण्डसूची परिक्षिप्तं पार्श्वजानुकमेव च
गृहावलीनकं लीनं विष्णुक्रान्तमजप्लुतम् ॥
आक्रान्तं मण्डितं चैव मयूरलसितं नसम्
सर्पितं चोलपादं च हरिणप्लुतमेव च ॥
प्रेङ्खालितं नितम्बं च स्खलितं परिहस्तकम्
असर्पिततलं चैव सिंहविक्रीडितं तथा ॥
वृषभ क्रीडितं चैव गङ्गावतरणं तथा
अष्टोत्तरशतं चैव करणानां प्रकीर्तितम् ॥
सुकुमारं तथा विद्धं वृत्तं द्विविधमुच्यते
।
उद्धृतं पुरुषप्रायं स्त्रीप्रायं सुकुमारकम् ॥
देवचिह्नकृताकारा पिण्डी भवति पर्थिव
भारती सात्त्वती चैव कौशिक्यारभटी तथा ॥
चतस्रो वृत्तयः प्रोक्ता वाक्प्रधाना तु भारती
तथा वीररसप्राया विज्ञेया सात्त्वती नृप ॥
तथा रौद्रप्रचारा च भवत्यारभटी सदा
।
शृङ्गारहास्यबहुला तथा भवति कौशिकी ॥
आवन्ती दाक्षिणात्या च तथा चैवात्र मागधी
पञ्चाली मध्यमा चेति वृत्तिः सा तु चतुर्विधा ॥
वेषभाषानुकरणं तथाचारप्रवर्तनम्
प्रवृत्तिरिति विख्याता वृत्तीनामाश्रयास्तु ताः॥
नाट्यलोकाश्रया धर्मि धर्माश्च द्विविधा मता
सिद्धिश्च द्विविधा नाट्ये दैविकी मानुषी तथा ॥
व्यायामान्मानुषी तत्र दैवी देवप्रसादजा
रसेन भावेन समन्वितं च तालानुगं काव्यरसानुगं च ॥
गीतानुगं नृत्तमुशन्ति धन्यं सुखप्रदं धर्मविवर्धनं च
॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्यवर्णनो नाम विंशोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0