विष्णुधर्मोत्तरपुराणम् · अध्याय 3.21.25
3.21
॥ मार्कण्डेय उवाच ॥
समाकुञ्चितकं चैव प्रसारितविवर्तिते ॥
उद्वाहितं नतं षोढा शय्यास्थानानि निर्दिशेत्
उत्तानितं मुखं चैव सास्तमुक्तकरं तथा ॥
समं वामप्रसुप्तस्य स्थानकं तु विधीयते
सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे च जानुनी ॥
स्थानमाकुञ्चितं नाम गीतान्तानां प्रयोजयेत
एकं भुजं समाधाय संप्रसारितजानुकम् ॥
स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत्
अधोमुखे स्थितं चैव विवर्तितमिति स्मृतम् ॥
शस्त्रक्षते मृते क्षिप्तं मत्तोन्मत्तेषु तद्भवेत्
अंसोपरि शिरः कृत्वा कुर्युरक्षोभमेव च ॥
उद्वाहितं तु विज्ञेयं लीलायाः शंसने प्रभो
तस्या यदेतत्प्रसृतं तु जंघे स्त्रस्तौ करौ तं नतमुद्दिशन्ति ।
आलस्यखेदश्रममोक्षणेषु कार्यस्तु तस्याभिनयप्रयोगः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे शय्यासनस्थानवर्णनो नामैकविंशतितमोऽध्यायः
3.22
॥ मार्कण्डेय उवाच ॥ ॥
स्वस्थमन्दालसक्रान्तं प्रस्थालसमथापि च ॥
विष्कम्भितं तत्कटुकं मुक्तजानु तथा समम्
जानूगतं विमुक्तं च स्थानकान्युपवेशने ॥
विष्कुम्भिताञ्चितौ पादौ वक्षः किञ्चित्समुन्नतम्
हस्तौ कट्यूरुविन्यस्तौ स्वस्थौ स्वस्थोपवेशने ॥
एकः प्रसारितः पादस्त्वन्यश्चैवासनाश्रितः
पार्श्वं नतं तथा कार्यं स्थानं मन्दालसं तु तत् ॥
चिन्तायां तु तथौत्सुक्ये निर्वेदे विरहे तथा
विषादेषु सदा देयं स्थानमेतत्प्रयोक्तृभिः ॥
चिबुकापाश्रितौ हस्तौ बाहुशीर्षाचितं शिरः
सर्वाभिनयनं चैव विज्ञेयं क्लान्तनायकम् ॥
बलिना निग्रहीतस्य रिपुणा खण्डितस्य च
शोकम्लानस्य च तथा स्थानमेतद्विनिर्दिशेत् ॥
ग्रहौ हस्तौ विमुक्तं च शरीरमलसं तथा
खेदालसं तथा चक्षुर्यत्र स्वस्थालसं तु तत् ॥
श्रमे ग्लानौ मदे चैव मूर्च्छाया व्यथिते तथा
मोहे प्राणभये चैव स्थानमेतत्प्रयोजयेत् ॥
विष्कुम्भिताञ्चितौ पादौ कुरु विष्कुम्भितौ भुजौ
निमीलितं तथा चक्षुः स्थाने विष्कुम्भिता सति ॥
स्ववक्षोगतया दृष्ट्या योगे ध्याने विधीयते
स्वभावसंस्थया चैव सभ्यानामुपवेशने ॥
समौ पादौ समाधाय समं यदुपदिश्यते
अस्पष्टभूतलं चैव ज्ञेयं मुकुटकासनम् ॥
पित्र्ये समाधौ जप्ये च होमादिकरणेषु च
एतत्स्थानं विधातव्यं यथागमनकर्मणि ॥
एकं जानु यदास्ये च महीपृष्ठे विधीयते
ज्ञातव्यं भूमिपश्रेष्ठ मुक्तजानुकमासनम् ॥
एतत्कृतव्यलीकानां प्रियाणां सम्प्रसादने
मज्जने कुटिलानां च तथा भूम्यनुलेपने ॥
महीगताभ्यां जानुभ्यां स्थानं जानुगतं भवेत
राज्ञां विज्ञापने कार्यं सुराणां चैव पूजने ॥
भूमौ यदूर्ध्वं पतनं तद्विमुक्तमिति स्मृतम्
प्रहारतः प्रयोक्तव्यमावेशे क्रन्दने तथा ॥
भद्रासनं तु देवानां राज्ञां सिंहासनं भवेत
रूप्यासनं तु दातव्यं सांवत्सरपुरोधसोः ॥
वेत्रासनममात्यानां मन्त्रिणां तु तथा भवेत
मन्दासनं तु दातव्यं सेनानीयुवराजयोः ॥
मुनीनां च द्विजानां च तथा सब्रह्मचारिणाम्
बृसी देया महाराज ये चान्ये नियमे स्थिताः ॥
स्थानीयाः पुरुषा ये च मुख्याः पौराश्च ये तथा
वणिजश्च तथा मुख्यास्तेषां भवति पीठिका ॥
वेशस्त्रीणां कुमाराणां तथा भृत्यजनस्य च
मसूरकं तु दातव्यं शेषे भूम्यासनं भवेत् ॥
सिंहासनं विना राजन्गृहे स्वच्छन्दमानसम्
नैकासनं स्याद्गुरुणा तु राजन्रथे गजे वापि शिलातले च ॥
नैकासने स्याद्गुरुणा तु दोषोऽथ वातिदीर्घे फलके च नित्यम्
॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आसनवर्णनो नाम द्वाविंशतितमोऽध्यायः
3.23
॥ मार्कण्डेय उवाच ॥ ॥
वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥
प्रत्यालीढमथालीढं षट् पुसां स्थानकानि तु
स्वभावसंश्रितः पादस्त्र्यंशः पक्षगतोऽपरः ॥
किञ्चिदञ्चितजंघश्च वैष्णवं स्थानमुच्यते
स्थाने नानेन कर्तव्ये संलापस्तु स्वभावतः ॥
समपादं तु विज्ञेयं समैस्तालान्तरैः पदैः
स्वस्वभासौष्ठवोपेतं रुद्रब्रह्मादिदैवतम् ॥
अनेन कार्यं स्थानेन विप्रमण्डलकारणम्
बलानां पक्षिणां चैव वरकौतुकमेव च ॥
स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्प्रयोजयेत् ॥
द्वौ तालावर्धतालं च पादयोरंतरं भवेत्
अञ्चितं यत्र जंघे तु पदौ पक्षस्थितो तथा ॥
वैशाखं नाम तत्स्थानं स्कन्दश्चैवात्र देवता
स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥
व्यायामो निर्गमश्चैव प्रवेशो धनुषस्तथा
।
अतः परं मण्डलं स्यात्त्रींस्तालान्तरमेव च ॥
कटी जानुसमा यत्र पादौ पक्षस्थितौ यथा
धनुर्वज्रप्रहरणं मण्डलेन प्रयोजयेत् ॥
वाहनं कुञ्जराणां तु नृत्ते चोद्वहनक्रिया ॥ 3.23.१ ०॥
आदौ च दक्षिणं पादं पञ्चतालं प्रसारयेत् ॥
आलीढं नाम तत्स्थानं रुद्रकाल्यत्र दैवतम्
अनेन कार्या स्थानेन सर्वत्रोद्धरणक्रिया ॥
रौद्रपादप्रचारस्तु संग्रामस्य निरूपणम्
सिंहाद्यभिनयं चैव शक्तसन्धानमेव च ॥
खड्गयुद्धे नियुद्धे च मण्डलभ्रमणे तथा
उत्तरोत्तरसंजल्पे रोषामर्षसमुद्भवे ॥
मल्लानां चैव संस्फोटे शत्रूणां च निरूपणे
तथाभिद्रवणं चैव शास्त्राणां च विमोक्षणम् ॥
अञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च
आलीढं परिवर्तन्ते प्रत्यालीढमिति स्मृतम् ॥।
प्रत्यालीढं तु विज्ञेयं स्थानं च नवदैवतम्
आलीढेनोदितं शस्तं प्रत्यालीढं न मोचयेत् ॥
अतः परं प्रवक्ष्यामि स्त्रीणां स्थानत्रयं नृप
आयतं वावहित्थं च हयक्रान्तमथापि च ॥
एकश्चानुयुतो यत्र पादौ विरचितः समः
तालमात्रान्तरन्यस्तः त्र्यक्षः पक्षगतोऽपरः ॥
प्रसन्नमाननमुरः समं यत्र समुन्नतम्
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् ॥
रङ्गावतरणे ह्येतत्तथा पुष्पाञ्जलौ भवेत्
पादो विरचितस्त्र्य ( श्र) स्रस्तदन्योपसृतः समः ॥
पादास्तलान्तरन्यस्तास्त्रिकमीषत्समुन्नतम्
अवहित्थं समाख्यातं स्थानमेतन्नरोत्तम ॥
विलासलीलालावण्यशृङ्गारात्मनिरूपणे
स्थानमेतत्प्रयोक्तव्यं वरमार्गावलोकने ॥
समस्थितो यत्र पादस्त्वन्यः पादस्तलाचितः
तालैरनियतैरेष स्थानको हि विधीयते ॥
सूचीविद्धमविद्धं वा तदश्वक्रान्तमिष्यते
शाखावलम्बस्तबकोच्चये च विघूर्णनेत्रासनसम्प्रलापे ॥
स्वभावसंलापविधौ च कार्यं स्थानं त्विदं यादववंशमुख्य
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० उत्थितादिस्थानकवणर्नो नाम त्रयोविंशतितमोऽध्यायः
3.24
मार्कण्डेय उवाच ॥
शिरसः प्रथमं कर्म गदतो मे निबोध तत् ॥
स्वभावादृजुनोर्वामक्षेपेणाकस्मिकं सकृत्
संज्ञोपदेशपृच्छासु स्वभावाभाषणे भवेत् ॥
बहुशः कथितं यच्च तदा कम्पितमिष्यते
(रोषतर्जनतर्केषु प्रतिज्ञासु च दृश्यते ॥
शिरसो रेचनं यत्तु शनैस्तद्युतमिष्यते
)
विषादे विस्मये चैव प्रतिषेधे तदिष्यते ॥
विधुतं नामतः प्रोक्तं तथा पार्श्वविकम्पनैः
शीतग्रस्ते ज्वरार्ते च मत्ते च त्वरिते भवेत् ॥
मण्डलारम्भणे चैव भवेत्तु परिगर्हितम्
साधने विस्मये हर्षे लीलायां च तदिष्यते ॥
सकृदुद्वाहितं चोर्ध्वं तदुद्वाहितमिष्यते
उच्छ्राये दर्शने गर्वे तत्तथोर्ध्वनिरीक्षणे ॥।
आक्षिप्तं सकृदेव स्यादवव्रतमधोगतम्
सन्देहालापसंज्ञासु तत्तथा वाहनादिषु ॥
किञ्चित्पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम्
मूर्च्छिते व्यथिते चैव सञ्चिते दुःखिते भवेत् ॥
( उत्क्षिप्तबाहुशिखरं तथाचितशिरोधरम्
निकुञ्चितं च तद्गर्वे विलासे च प्रयोजयेत् ॥
परावृत्तपरावृत्तं कार्यं पृष्ठनिरीक्षणे
)
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः ॥
आशु दिव्यार्थयोगे च कार्यं तच्च प्रयोक्तृभिः
अधोमुखस्थितं चापि बुधाः प्राहुरधोगतम् ॥
लज्जायां च प्रमाणे च दुःखे तच्च प्रयोजयेत्
सर्वतो लोलनाच्चैव परिलोलितमुच्यते ॥
व्याधिते मूर्च्छिते मत्ते भवेत्तु परिलोलितम्
एतत्तु शिरसः कर्म कथितं ते नराधिप ॥
अञ्चितं रेचितं मुक्तं विवृतं चतुरं तथा
प्रसारितं तथा स्तब्धं ग्रीवाकर्मणि निर्दिशेत् ॥
अञ्चितं किञ्चिदेकांशं लोलनाद्रेचितं तु तत्
रेचितं भ्रमणान्मुक्तं विवृतं चलितं च तत् ॥
मधुरं चतुरं प्रोक्तमायतं स्यात्प्रसारितम्
स्तब्धं स्तब्धं तथा प्रोक्तं शिरःकर्मानुगामि च ॥
अञ्चितं स्याद्विलासादौ रेचितं मण्डलेक्षणे
मुक्तं मूर्च्छादियोगेषु विवृत्तं ललितादिषु ॥
सौम्यभावे तु चतुरं दृष्टौ कार्यं प्रसारितम्
स्तब्धं शीतेऽथ वा व्याधावविकारि स्वभावतः ॥
विबुद्धं विनिवृत्तं च निर्भुग्नं भुग्नमेव च
विवृत्तं च तथैवर्जुकर्मण्यस्य विनिर्दिशेत् ॥
व्यावृत्तं स्याद्विबुद्धाख्यं निवृत्तं पिहितं भवेत्
अवाङ्मुखमवाभुग्नं निभुग्नं चोर्ध्वगं तु तत् ॥
भुग्नं स्यादानतं किञ्चिन्निवृत्तं विवृतं भवेत्॥
ऋजुस्वभावसंस्थं च तयोः कर्माणि चक्षते ॥
विरुद्धवारणे कार्यं मैवमित्येवमादिषु
विनिवृत्तमसूयायामीर्ष्याकोपकृतेषु च ॥
विभुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु
भुग्नं तु लज्जिते योज्यं यतीनां तु स्वभावतः ॥
निवृत्तं वापि कर्तव्यं हास्यशोकभयादिषु
ऋजुस्वभावसंस्थाने कर्तव्यं यदुनन्दन ॥
आभुग्नमथ निर्भुग्नं तथा चैव प्रकंपितम्
उद्वाहितं समं चैव पञ्चरोधः प्रकीर्तितम् ॥
धार्यते यच्च निर्भुग्नं तदा भुग्नं प्रकीर्तितम्
शस्त्रक्षते विघाते च हृद्रोगे च तदिष्यते ॥
स्तब्धं च निम्नपृष्ठं च निर्भुग्नं नाम तत्स्मृतम्
स्तम्भे सविस्मये माने विषादे च तथेष्यते ॥
उरसस्तूर्ध्वविक्षेपः प्रकम्पितमिहोच्यते
हसिते रुचिते कार्यं श्रमे व्याधिभये तथा ॥
उद्वाहितं यदूर्ध्वं तु तदुद्वाहितमुच्यते
ऊर्ध्वं निगमिते कार्यं जृम्भितेषु प्रयोगतः ॥
चतुरस्रं समं नाम विज्ञेयं सौष्ठवेषु तत्
समुन्नतं नतं चैव प्रसारितविवर्तिते ॥
तथापसृतमेवं हि पार्श्वयोः कर्म पञ्चधा
कटिपार्श्वभुजांसान्तैरुन्नतैः स्यात्ससुन्नतम् ॥
कटी यत्र सुनिर्भुग्ना पार्श्वं तद्द्विनतं भवेत्
प्रसारणादुभयतः पार्श्वयोः स्यात्प्रसारितम् ॥
परिवर्तनात्त्रिकस्यापि विवर्तितमिहेष्यते
अस्य चैवोपगमनाद्भवेदपसृतं पुनः ॥
नतं त्वपसृते कार्यं चोन्नतं तूपसर्पिते
प्रसारिते प्रहर्षादौ त्रासे चापसृते पुनः ॥
विवर्तितं विवर्ते च कारणं पार्श्वमुच्यते
क्षामं निम्नं च पूर्णं च संप्रोक्तमुदरं त्रिधा ॥
क्षामं तु हसिते कार्यं तथा चैव विजृम्भिते
व्याधिते तपसि श्रान्ते क्षुधार्ते निम्नमेव च ॥
पूर्णं निःश्वसिते चैव ह्यारोग्ये ललितं तथा
प्रकम्पिता च च्छिन्ना च निवृत्ता रेचिता तथा ॥
उद्वाहिता चैव कटिर्नृत्ते पञ्चविधा स्मृता
तिर्यग्गता गता क्षिप्रं विज्ञेया वप्रकम्पिता ॥
मध्यस्थबलनाच्चैव च्छिन्ना संपरिकीर्तिता
पराङ्मुखस्याभिमुखी निवृत्ता परिकीर्तिता ॥
सर्वतोभ्रमणाच्चैव रेचितेत्यभिधीयते
.
निश्चितोद्वाहनाच्चैव तथैवोद्वाहिता मता ॥
नीच वामनकुब्जानां गतौ कार्या प्रकम्पिता
व्यायामे त्वथ संप्राप्ते व्यावृत्तप्रेक्षितेषु च ॥
छिन्ना कार्या कटिस्तज्ज्ञैर्निवृत्ता वर्तितेषु च
रेचिता रेचिते कार्या अन्या लीलागते त्रिधा ॥
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा
विवर्तनं च पञ्चैव ऊर्वोः कर्माणि निर्दिशेत् ॥
नमनोन्नमने पारन्त्योर्महीपृष्ठेद्भुते यदा
स्थिता पादतलाग्रेण कम्पितं तत्तदिष्यते ॥
गच्छेदभ्यन्तरं जानु शनैर्यद्वलितं तु तत्
स्तम्भनं चापि विज्ञेयमपवृत्तक्रियाकुलम् ॥
वलिताविद्धभावं स्यादुद्वर्तनमथापि च
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्र निवर्तितम् ॥
गतिष्वधमपात्राणां कम्पितं संप्रयोजयेत्
वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे ॥
भीमोर्धसविषादेषु स्तम्भनं संप्रयोजयेत्
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं तथा ॥
विवर्तनं च कर्तव्यं संक्रमादिपरिक्रमे
आवर्तितं नतं क्षिप्तं चोद्वाहितमथापि च ॥
परिवृत्तं तथा पञ्च जङ्घाकर्माणि निर्दिशेत्
आवर्तितं तु व्यत्यासाद्वामदक्षिणजङ्घयोः ॥
जान्वोराकुञ्जनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः
विक्षेपाच्चैव जंघायाः क्षिप्तमित्यभिधीयते ॥
उद्वाहितं तु विज्ञेयमूरूद्वाहनकर्मणा
प्रतीपनयनं यत्र परिवृत्तं तदिष्यते ॥
आवर्तनं प्रयोक्तव्यं विदूषकपरिक्रमे
नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥
क्षिप्तं व्यायामयोगेषु ताण्डवेषु प्रयोजयेत्
तथा चोद्वाहितं कार्यमाविद्धगमनादिषु ॥
ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः
उद्घाटितसमश्चैव......,.संचरः ॥
अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः
स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते ॥
यस्य पादस्य करणात्स तद्धटित उच्यते॥
कार्योऽनुरक्तकरणे (चैव) प्रचारे ललिते तथा ॥
( स्वभावरचितो भूमौ समस्थानः समः स्मृतः
एष कार्यः सदा पादः स्वभावाभिनयाश्रयः ॥
उत्क्षिप्ता तु भवेत्पार्ष्णिः पादेऽग्रतलसंचरे
निक्षिप्तरेचिते भ्रान्ते पादे यस्ताडितो भवेत् ॥
ललितश्चायमेव स्यात्पादो रेचितसंज्ञितः
एष प्रदानसंचारे ललितोद्वहितं भवेत् ॥
उक्षिप्ताग्रतलः पादः कथितस्तु तथाञ्चितः
नानाभ्रमणकालेषु कार्यः पादोऽयमञ्चितः ॥
पादः कुञ्चितमध्योऽयं भवेत्कुञ्चितसंज्ञितः
अतिक्रान्ताभिगमने पादमेतत्प्रयोजयेत् ॥
एकपादप्रचारो यः स चारीत्येव संज्ञितः
द्विपादक्रमणं यत्र करणं नाम तद्भवेत् ॥
करणानां समायोगः खण्ड इत्यभिधीयते
द्वाभ्यां त्रिभिर्वा यदि वा चतुर्भिर्युक्तं भवेन्मण्डलमेव नाम्ना ॥
इत्यङ्गकर्माभिहितं ब्रवीमि निबोध राजंस्त्वमुपाङ्गकर्म
॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अङ्गवर्णनं नाम चतुर्विंशतितमोऽध्यायः
3.25
॥ मार्कण्डेय उवाच ॥
क्षान्ता भयानका हास्या करुणा ह्यद्भुता तथा ॥
रौद्रा वीरा च बीभत्सा विज्ञेया रसदृष्टयः
स्निग्धा हृष्टा च जिह्मा च क्रुद्धा भीता च लज्जिता ॥
तृप्ताथ विस्मिता सौम्या स्थायिभावेषु दृष्टयः
मलिना केकरा श्रान्ता चाभितप्ताथ विप्लुता ॥ ।
विषण्णा शङ्किता चैव त्रस्ता शोका निमीलिता ॥
विभ्रान्ता कुञ्चिता शून्या मुक्तला च वितर्किता ॥
मदिरा ललिता म्लाना इत्येवं दृष्टिसंग्रहः
षड्त्रिंशद्दृष्टयो ह्येता नामतोऽभिहिता मया ॥
सभ्रूक्षेपकटाक्षा तु कान्ता ज्ञेया समञ्जसी
उदवृत्तपुटपक्ष्माग्रा चलत्तारा भयानका ॥
किञ्चिदाकुञ्चितपुटा हास्यविभ्रान्ततारका
पतितोर्ध्वपुटा सास्रा करुणा नष्टतारका ॥
किञ्चित्कुञ्चितपक्ष्माग्रा किञ्चिदुद्वृत्ततारका
समा विकसिता चैव साद्भुता दृष्टिरिष्यते ॥
उद्भूता कथिता रौद्रा भ्रुकुटी कुटिला तथा
उत्फुल्लमध्या वीरा तु कथिता समतारका ॥
बीभत्सा कथिता दृष्टिरपाङ्गाक्षिप्ततारका
ध्यानादनिमिषा शान्ता ह्यधोमार्गविचारिणी ॥
व्याकोशमध्या मधुरा स्निग्धा प्रहसिता मता
उत्फुल्लमध्या प्रचला हृष्टा पर्यन्तवीक्षिणी ॥
जिह्माधोगततारा च गूढा मग्ना निरीक्षिणी
भ्रुकुटीकुटिला क्रुद्धा तथा निष्टब्धतारका ॥
आकुंचिता लज्जिता स्यात्तथा निश्चलतारका
सत्त्वमद्भिरतीवेष्टा दृप्ता विकसिता भवेत ॥
समा विकसितापाङ्गा विस्मिता सा निगद्यते
समा सौम्या विनिर्दिष्टा तथा च समतारका ॥
आकुञ्चितपुटा भीता रूक्षा व्यावृत्ततारका
पुटौ प्रस्फुरितौ यस्या मलिना सा निगद्यते ॥
आकुञ्चितपुटा या तु दृष्टिराकेकरा भवेत्
किञ्चिदुन्नामितपुटा शान्ता सा तु विधीयते ॥
अभितप्ता तथा मन्दा मन्दतारापुटा तु या
विप्लुताविप्लुता प्रोक्ता स्रस्ता विस्फुरिता च या ॥
किञ्चिन्निष्टब्धतारा तु विषण्णा दृष्टिरुच्यते
अनवस्थिततारा च शङ्किता परिकीर्तिता ॥
रूक्षा ललित तारा च प्रताख्या सभया भवेत्
उत्फुल्ला तु विशोकाख्या तथा च निमिषेक्षणा ॥
अनवस्थितनेत्रा च विभ्रान्ता भ्रान्ततारका
कुंचिता कुंचिता दृष्टिः किञ्चिदञ्चिततारका ॥
स्थिततारापुटा शून्या संक्षुब्धा समदर्शना
प्रस्पन्दमानपक्ष्याग्रा मुकुला मुक्तला भवेत् ॥
उद्वृत्तपुटपक्ष्मा तु वितर्का स्तब्धतारका
उत्फुल्ला मदिरा नाम तथा वलिततारका ॥
फुल्लितान्ता सलावण्या सस्मिता ललिता मता
प्रलूनपक्ष्मा सा साग्रा ग्लानाख्या मुकुलीकृता ॥
कान्ता दृष्टिः कटाक्षे तु घातने तु भयानका
हास्या हास्ये च विज्ञेया करुणा करुणे रसे ॥
स्वद्भुते चाद्भुता कार्या रौद्री रौद्रे विधीयते
वीरा वीरे च कर्तव्या बीभत्सा च जुगुप्सिते ॥
शान्ता शान्ते तु निर्दिष्टा स्निग्धा स्निग्धावलोकने
हृष्टा हृष्टे तु कर्तव्या जिह्मा कार्याभ्यसूयिते ॥
क्रुद्धा क्रुद्धे तु निर्दिष्टा भीता भीते तथा भवेत्॥
लज्जिता लज्जिताख्या स्याद्दृप्तोत्साहगतेषु च ॥
विस्मिता विस्मये दृष्टिः सौम्या सौम्यावलोकने
मलिना विरहे कार्या सम्भोगे केकरा भवेत् ॥
श्रान्ता श्रान्तस्य कर्तव्या निर्वेदे त्वभितप्तका
विप्लुताख्या तु दैन्ये स्याद्विषादे तु विषण्णिका ॥
शंकिते शंकिता चैव त्रस्ते त्रस्ता विधीयते
ज्ञाने विशोका च तथा स्पर्शे कार्या निमीलिता ॥
विभ्रान्ता विभ्रमे कार्या कुंचिता सूक्ष्मदर्शने।
चिन्तान्वितस्य शून्या स्यान्मुक्तला घ्राणकर्मणि ॥
वितर्के तु वितर्का स्यान्मदे तु मदिरा भवेत्
स्त्रीणां हेलासु ललिता ग्लाने ग्लाना विधीयते ॥
उत्सेधश्च निमेषश्च प्रसारितविवर्तिते
आकुञ्चितं समं चैव स्फुरितं विहतं ततः ॥
ताडितं पुटयोः कर्म नवधा परिकीर्तितम्
समागमः पुटानां यः स निमेष इति स्मृतः ॥
विश्लेषश्चैव यस्ताभ्यां स उन्मेषः प्रकीर्तितः
प्रसारितौ पुटौ यत्र भवेत्तद्धि विवर्तितम् ॥
आकुञ्चिताभ्यां ताभ्यां तु ज्ञेयमाकुञ्चितं बुधैः
स्वभावपुटसंस्थानं समं तद्धि प्रकीर्तितम् ॥
पुटौ प्रस्फुरितौ यत्र स्फुरितं तदिहोच्यते
पुटावभिहितौ यत्र पिहितं नाम तद्भवेत् ॥
स्रस्तमूलौ पुटौ यत्र तद्धि ताडितमुच्यते
गन्धस्पर्शे तथानिष्टे ज्ञेयमाकुञ्चितं बुधैः ॥
विस्मयार्थे तथा वीरे तच्च कार्यं प्रसाधितम्
शृङ्गारे तु समं कार्यमभिघातेऽवताडितम् ॥
स्त्रीणां प्रणयरोषेषु स्फुरितं तदिहेष्यते
शीते वातोष्णवर्षेषु विहितं कार्यमेव तु ॥
क्रोधे विवर्तितं कार्यं निमेषोन्मेषयोः समम् ॥
वलनं भ्रमणं चैव चलनं संप्रणाशनम् ॥
विवर्तितं पाटनं तु विज्ञेयं विस्मितं तथा
उद्वर्तः प्राकृतं चैव तारकाकर्म चेष्यते ॥
मण्डलावर्तनं मध्ये पुटयोर्भ्रमणं स्मृतम्
वलनं गमनं तिर्यग्वलनाच्चलितं भवेत् ॥
आभ्यन्तरत आकर्षः प्रवेशात्संप्रवेशनम्
तथा चापाङ्गसंचारादुद्धर्षितमुदाहृतम् ॥
पातनं स्रस्तभावश्च निष्कामान्निष्क्रमं तथा
उद्वर्तनात्परावृत्तिः प्राकृतं तु स्वभावतः ॥
हास्ये तु वलनं कार्यं मदे भ्रमणमेव च
वीरे रसे स्याच्चलनं बीभत्से संप्रवेशनम् ॥
विवर्तितं तु शृङ्गारे पातनं करुणे रसे
भयानके निष्क्रमणं वीरे चोद्वर्तनं तथा ॥
प्राकृतं शेषभावे तु यथायोगं प्रयोजयेत्
समं साचीकृतं च स्यादनुवृत्तमतः परम् ॥
आलोकितं चाल्लोकितमवलोकितमेव च
समतारं च सौम्यं च दृष्टिकर्म समं भवेत ॥
पक्ष्मान्तर्गततारं च साचीकृतमिहोच्यते
रूपनिर्वर्तनायुक्तमनुवृत्तमिति स्मृतम् ॥
सहसा दर्शनं यत्स्यात्तदालोकितमिष्यते
ऊर्ध्वमुल्लोकितं ज्ञेयं सर्वतो लोकितं तथा ॥
विलोकितं तु पार्श्वाभ्यां पृष्ठतश्चावलोकितम्
दृष्टीनामनुगं चैव भ्रुवो कर्म प्रयोजयेत् ॥
यथा नेत्रं प्रसर्पेद्धि नानाभावरसाश्रयम्
नेत्रस्यानुक्रमेणैव भ्रुवोस्तु चलनं भवेत् ॥
उत्क्षेपः पतनं चैव भ्रुकुटीचतुरं तथा
निकुञ्चितं कुञ्चितं च तथा स्वाभाविकं भवेत् ॥
भ्रुवोरुद्गममुत्क्षेपः पातनं पतनं भवेत्
द्वयोर्मूलोर्धविक्षेपाद्भ्रुकुटी परिकीर्तिता ॥
चतुरः किञ्चिदुच्छ्वासान्मधुरायतया भ्रुवा
एकस्या उभयोर्वापि स्यादुद्भग्नं त्रिकुञ्चितम् ॥
एकस्या ललितोद्योगाद्रेचितं नाम कीर्तितम्
यथास्थिते स्वभावस्थे भ्रुवोः कर्म निबोध मे ॥
समुत्क्षेपस्तु लीलायाः कारुण्यात्पातनं भवेत्
क्रोधे च भ्रुकुटी ज्ञेया शृङ्गारचतुरं तथा ॥
क्षामं कृशं तु विज्ञेयं फुल्लं विकसितं भवेत्
सम्पूर्णं पूर्णमित्युक्तं कम्पितं परिधूनितम् ॥
शृङ्गभिन्नं कुञ्चितकं सरोमाञ्चं तथाविधम्
प्राक्कृतं तु स्वभावस्थं मन्दं प्रोक्तं मनीषिभिः ॥
क्षामं दुःखे तु कर्तव्यं फुल्लं हर्षे प्रयोजयेत्
पूर्णं तुष्टे तु कर्तव्यं तथा रोषे च कम्पितम् ॥
हास्ये त्वाकुञ्चितं स्पर्शे सरोमाञ्चं विधीयते
प्राकृतं तु स्वभावस्थं त्वर्थयोगेन योजयेत् ॥
नता मन्दा विकृष्टा च सोच्छ्वासा कूणितानता
स्वाभाविके च कर्तव्या प्रयोगे नासिका बुधैः ॥
नतानता तु विज्ञेया मन्दा नतपुटा भवेत्
विकृष्टा कुञ्चिता चोर्ध्वं सोच्छ्वासा वायुपूरिता ॥
संकूणनात्कूणिता स्यात्स्वभावस्था स्वनासिका
नता तु रुचिते कार्या मन्दा शोके विधीयते ॥
तीव्रगन्धे विकृष्टा तु सोच्छ्वासा तु तथा प्रिये
विकूणिता जुगुप्सायां शेषा स्वाभाविकी मता ॥
कूणनं खण्डनं छिन्नं मुकितं समता तथा । ६६ ॥
जिह्वाधरोष्ठमदं च दन्तकर्मणि कारयेत ॥
कुट्टनं भक्तवच्छेदं खण्डनं तु विघट्टनम्
छिन्नं निकृतमेव स्याच्छुक्क्तिं विद्धमेव च ॥
व्याधौ तु कुट्टनं कार्यमुत्साहे खण्डनं भवेत्
छिन्नं क्रोधे परं हास्ये समं शेषेषु कारयेत् ॥
विवर्तनं तथा कम्पो विमर्शोऽथ विगूहनम्
संदृष्टश्च समुद्रश्च कर्माण्यधरजानि च ॥
सृक्का सुवक्रकरणं विवर्तितमिति स्मृतम्
वेपनं चापि विज्ञेयमधरस्य तु कम्पने ॥
यो निष्क्रमोऽधरस्याथ स विसर्ग इति स्मृतः
अन्तःप्रवेशनं चैव विनिगूहितमुच्यते ॥
दन्तोष्ठपीडनाच्चैव संदष्टकमिति स्मृतम्
पिण्डिताभ्युद्गतश्चैव समुद्गक इति स्मृतः ॥
विवर्तितमसूयायां रोषे कम्पितमिष्यते ॥
भयानके विसर्गश्च कर्षणेऽथ निगूहनम्
ततोन्मादविकारेषु सन्दष्टं वीररौद्रयोः ॥
समुद्गमनकम्पायां शेषे कार्यं स्वभावजम्
उपाङ्गकर्माभिहितं तथैतं मया समासेन नरेन्द्रचन्द्र ॥
कार्यः प्रयत्नोऽत्र सदा बुधेन यस्मादुपाङ्गाश्रयमेव नृत्यम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे उपाङ्गिकवर्णनो नाम पञ्चविंशतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0