भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.11.15

3.11.15.1

3.11
मार्कण्डेय उवाच ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा मतिः पुष्टिः सरस्वती ॥
स्मृतिः श्रद्धा रतिश्चैव धृतिर्नीतिः स्थितिः श्रुतिः

3.11.15.2

रात्रिः प्रभा क्षपा दीप्तिः शाला माला निशा स्पृहा ॥
दोला हेला तथा लीला यामिनी क्षणदाचरा

3.11.15.3

यात्रा भस्त्रा द्युतिर्मात्रा दंष्ट्रा सेना वचा तथा ॥
कुटिः खोरी दया ज्योत्स्ना सीमा वेणिस्तथैव वाक्

3.11.15.4

तनुर्धूलिः शलाका च ग्रीवा भ्रूश्च शरत्तथा॥
दरः प्रावृट् चाचमनी स्थूणा चूडा सिरा वसा

3.11.15.5

कक्ष्या सप्ता सुरा जंघा जटा घण्टा कशा तथा ॥
विद्युत्कक्षा सरिद्वल्लीरिषीका रज्जुरिष्टका

3.11.15.6

दिग्भूर्भूमिर्मही क्षोणी क्षपा चैव वसुन्धरा॥
छाया चमूर्वालुका च तथा विद्युद्विपत्सरित्

3.11.15.7

इरा सम्पदवापश्च लीला वेला तला शिला ॥
कला च मेखला ज्वाला सेना दद्रुर्वली समा

3.11.15.8

ज्या च म्लानिस्तथा हानिः शाटी स्वाहा तथैव गीः ॥
धीर्वृद्धिर्धूः क्षमा बुद्धिः क्षुत्क्षमाशीः सवालुका

3.11.15.9

विंशतेर्नवतिर्यावत्क्रोडास्वदुशिरोधरा ॥
माया च शष्कुली जिह्वा घटोत्का स्नायुरेव च

3.11.15.3.11.10

लेखा जरा तथा पङ्क्तिस्त्रेता प्रावृडरोचका ॥
लाक्षा कण्डूः प्रियंगुश्च माण्डिका कटिरौषधिः

3.11.15.11

ऋक्स्फुलिङ्गा कलिः शय्या कोटिः कन्या च नालिका॥
निःश्रेणिः पृतना दीप्तिर्निद्रा तन्द्रा गुहा रुचिः

3.11.15.12

साम्ना दाम्ना तथा वीथी नीविर्धारा तथा कृषिः ॥
मंजूषा पर्षदश्चैव पताका काकिनी कृपा

3.11.15.13

पेला चैव समंजिष्ठा भेरी नेमिर्मनःशिला ॥
दर्वी स्थाली सभा वीचिः स्थली चैव समञ्जरी

3.11.15.14

वल्लरी मन्दुरा लाक्षा सूची चाधिषणा शमी ॥
मक्षिका विकृतिर्यूका शिखा शाखा तथाटवी

3.11.15.15

स्त्रीवृत्तयस्ते कथिता मयैते शब्दाः समासस्त्वयमत्र राजन् ॥
इदं तमानन्त्यमुशंति सर्वं स्त्रीवाचकं शब्दमुशन्ति धीराः

3.11.15.11

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अभिधानकोशे स्त्रीलिङ्गनिर्देशो नामैकादशोऽध्यायः

3.11.15.1

3.12
मार्कण्डेय उवाच ॥
अतः परं प्रवक्ष्यामि यदुवंशविवर्धन ॥
तव पुंवाचकाञ्शब्दाञ्शृणु तान्गदतो मम

3.11.15.2

राजा कृताक्षमूर्धात्मा पायुश्लेष्माश्मपूरणः ॥
मज्जा प्लीहा च कथिता नाताद्यस्काः पुमर्थकाः

3.11.15.3

वृत्रः पुत्रस्तथा मन्त्रस्तथैवामन्त्र इष्यते ॥
पुंसि राशिर्मुहुर्तश्च मासः पक्षोऽब्दवत्सरौ

3.11.15.4

ऋतुः कालो गिरिः शैलः शिलोच्चयत्तुगाचलाः ॥
सुरासुराणां संज्ञाश्च याश्च प्रोक्ता महोदधेः

3.11.15.5

संवत्सरश्च दिवसो ग्रहो वासर एव च ॥
पर्यायः पङ्कशरयोररिनिस्त्रिंशयोरपि

3.11.15.6

पुत्रपर्यायशब्दाश्च पितृपर्यायसंयुताः ॥
कण्ठबाह्वोस्तथा संज्ञाः स्तनकेशरदस्य च

3.11.15.7

गुल्फनामानि कर्णश्च हनुः प्रश्नो विधिर्निंधिः ॥
कपोलनामानि तथा निर्घोकेक्षुककेलयः

3.11.15.8

कलिर्विघ्नो घटो जूटः पटः पायुः कुशोंऽकुशः ॥
बिन्दुः स्वरः कुठारश्च पण शाणौ च पर्पटः

3.11.15.9

वटो बन्धः पुटो मृत्युर्मन्युः शोणः किणः फणः ॥
गुणश्चूर्णो गणः पन्था अध्वाङ्गुः पूग एव च

3.11.15.3.12.10

कमण्डलुः पलां डुश्च गण्डः स्थूलश्च कङ्कटः ॥
प्रस्थः शङ्खो रथश्चैव रसो वर्गस्तुषो बुधः

3.11.15.11

यवो माषस्तथा शब्दः स्पर्शो गन्धः शठो वणिक् ॥
करीषस्तरलो मेढ्रो रथो मण्डप एव च

3.11.15.12

नरको नूपुरश्चैव समुद्गी लोक एव च ॥
काषार्षयः कोणमुसलौ कुसूलः शूर्पदर्दुरौ ॥
पञ्च पिण्याकशूर्पाश्च वातदण्डांकुरांकुशाः

3.11.15.13

कुणयः प्रोथयूथौ च कुन्तदर्पणवेणुकाः ॥
ध्वजो वंशस्तथा वेणुः क्रिमिकल्कर्षिकर्दराः

3.11.15.14

पुस्तकश्चाध्वरो व्रीहिरम्बुदोञ्जन एव च

3.11.15.12

स्तंभः पशुर्घर्मनिदाघकुम्भाः कटाहयूपस्तबकाः सफेना ॥
नितम्बषण्ढक्षुपसूपयूपाः पुंसि स्मृता यादववंशमुख्य ।! १५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽभिधानकोशे पुंवर्गनिर्देशो नाम द्वादशोऽध्यायः

3.11.15.1

3.13
मार्कण्डेय उवाच ॥
अन्त्यलिङ्गेऽथ वर्तन्ते ये शब्दा नृपसत्तम ॥
तानहं संप्रवक्ष्यामि शृणुष्व गदतो मम

3.11.15.2

जलनामानि सर्वाणि विनापो यदुसत्तम॥
भ्रान्ताश्च पूर्वं येनोक्तास्ते नपुंसकवृत्तयः

3.11.15.3

द्व्यृचो नान्तास्तथा ये च नोक्तास्ते यदुसत्तम ॥
असत्यं च धनं सर्वं जरसोऽन्यत्र यादव

3.11.15.4

नपुंसके च वर्तन्ते शब्दा लोचनवाचकाः

3.11.15.5

सर्वाणि पुष्पनामानि कथितानि नपुंसके ॥
शरीरमस्थि दधि च सक्थि वा गुदजानुनी

3.11.15.6

श्मश्रुकूले कुलं पर्णं लोहनामानि यानि च ॥
अहर्निशं शकृत्सक्थि धनुः शोणितदारुणी

3.11.15.7

क्षीरं विषामृते षण्डं फलमूलमलानि च ॥
पुरं मधु खलं नालं चीवरं चीरमम्बरम्

3.11.15.8

गगनं घनमाकाशं सुखदुःखपदानि च ॥
कूपबीजेऽथ पललं तल्पसद्म शवानि च

3.11.15.9

निमित्तचित्तपित्तौघतक्रशुक्रभयानि च॥
तीर्थपञ्जरचेलानि फलद्वन्द्वाक्षराणि च

3.11.15.3.13.10

धान्यश्मशानरत्नाग्रतल्परत्नयुगानि च ॥
गोपपत्तनसैन्यार्धमङ्गलायुधखानि च

3.11.15.11

नगरं हरितालं च तिमिरं पलितं विषम् ॥
श्मशानं मिथुनं तत्त्वं किल्बिषं विदलं हिमम्

3.11.15.12

वृन्दं कुतूहलं शीधु शरावं शिखरं पलम् ॥
वृत्तं च मुकुटं पण्यं मलमंशुकमेव च

3.11.15.13

इंद्रियं युगलं कूटं कपालं शूलशेखरे ॥
पातालं विवरं रन्ध्रं छिद्रमाकाशमेव च

3.11.15.14

तृणं शुभ्रमिरं चैव कुङ्कुमं शुष्कचीवरम् ॥
मृणालमजितं खड्गं तुहिनं द्वारमास्पदम

3.11.15.15

राष्ट्रं तलं किट्टकफे तथायुः स्थूलं खलीनं पललं पलालम् ॥
काष्ठं रणं पार्श्वकुकुन्दरे च सन्देहके चेव नपुंसकं स्यात्

3.11.15.13

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे नपुंसकविधौ त्रयोदशोऽध्यायः

3.11.15.1

3.14
मार्कण्डेय उवाच ॥
एकैकस्य तु वर्णस्य विन्यासो यः पुनःपुनः ॥
अर्थगत्या तु संख्यातमनुप्रासं पुरातनैः

3.11.15.2

अत्यर्थं तत्कृतं राजन्ग्राम्यतामुपगच्छति ॥
शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः

3.11.15.3

आदौ मध्ये तथैवान्ते पादस्य तु तदिष्यते ॥
संदष्टकसमुद्राख्यौ तथैव यमकौ मतौ

3.11.15.4

समस्तपादयमकं दुष्करं परिकीर्तितम् ॥
उपमानेन तुल्यत्त्वमुपमेयस्य रूपकम्

3.11.15.5

रूपकाभ्यधिकं नाम तदेवैकगुणाधिकम् ॥
गुणानां व्यतिरेकेण व्यतिरेकमुदाहृतम्

3.11.15.6

उपमानविरुद्धैश्च गुणैस्तदपरं मतम् ॥
द्वित्र्यर्थं वाचकैः शब्दैः श्लेष इत्यभिधीयते

3.11.15.7

अन्यरूपस्य चार्थस्य कल्पना यान्यथा भवेत् ॥
उत्प्रेक्षाख्यो ह्यलङ्कारः कथितः स पुरातनैः

3.11.15.8

उपन्यासस्तथान्यः स्यात्प्रस्तुताद्यः क्वचिद्भवेत्॥
ज्ञेयः सोर्थान्तरन्यासः पूर्वार्थानुगतो यदि

3.11.15.9

उपन्यासेन वान्यस्य यदन्यः परिकीर्त्यते ॥
उपन्यासमलङ्कारं तं नरेन्द्र प्रचक्षते

3.11.15.3.14.10

हेतुं विना वितततां प्राप्ता सा तु विभावना ॥
प्रोक्ता चातिशयोक्तिस्तु ह्यतुलैरुपमागुणैः

3.11.15.11

यथा स्वरूपकथनं स्वभावोक्तिः प्रकीर्तिता ॥
भूयसामुपदिष्टानां निर्देशः क्रमशस्तथा

3.11.15.12

यथासंख्यमिति प्रोक्तमलङ्कारः पुरातनैः ॥
विशेषप्रापणादुक्ता विशेषोक्तिस्तथा नृप

3.11.15.13

या क्रिया चान्यफलदा विरोधस्तु स इष्यते ॥
स्तुतिरूपेण या निन्दा निन्दास्तुतिरिहोच्यते

3.11.15.14

निन्दास्तुतिस्तथैवोक्ता निन्दारूपेण या स्तुतिः ॥
वस्तुना रूप्यमाणेन दर्शनं तन्निदर्शनम्

3.11.15.15

विना तथा स्यादुपमा तु यत्र तेनैव तस्यैव भवेन्नृवीर ॥
अनन्वयाख्यं कथितं पुराणैरेतावदुक्तं तव लेशमात्रम्

3.11.15.14

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अलङ्काराध्यायो नाम चतुर्दशोऽध्यायः

3.11.15.1

3.15
मार्कण्डेय उवाच ॥
धर्मार्थकाममोक्षाणां शास्त्रं स्यादुपदेशकम् ॥
पूर्वैराचरितं सद्भिर्धर्मकामार्थसाधकम्

3.11.15.2

मोक्षस्य यत्रोपन्यास इतिहासः स उच्यते ॥
तदेव काव्यमित्युक्तं चोपदेशं विना कृतम्

3.11.15.3

एकस्य चरितादेव तथा काव्यं प्रकीर्तितम् ॥
निबद्धो यत्र राजेन्द्र नायकप्रतिनायकौ

3.11.15.4

प्रयाणोद्यतसंप्रेषयुद्धयुक्तं तदेव तु ॥
नायकाभ्युदयोपेतं महाकाव्यं तदिष्यते

3.11.15.5

वर्णयेच्च महाकाव्ये देशपत्तनपार्थिवान् ॥
ऋत्वद्रिनिम्नगाश्चैव तथा नारीश्च पार्थिव

3.11.15.6

वर्णनीयौ तथैवात्र नायकप्रतिनायकौ ॥
नायको धर्मविजयी सताम्पन्थानमाश्रितः

3.11.15.7

तथा च लोकविजयी विज्ञेयः प्रतिनायकः ॥
प्रतिनायकघातस्तु वक्तव्यो नेतरस्य तु

3.11.15.8

नायकस्य महाराज मरणं नैव वर्णयेत् ॥
सशरीरस्य यस्य स्यात्संप्राप्तिस्तस्य वर्णयेत्

3.11.15.9

छन्दोविरहितं गद्यं शब्दशास्त्रविरोधि च ॥
कष्टाक्षरपदन्यासमश्लीलवचनान्वितम्

3.11.15.11

तस्मादुल्लक्ष्यवाक्यार्थमप्रसिद्धाभिधानवत् ॥
काव्यबन्धं न कर्तव्यं पुनरुक्तं च यद्भवेत् ॥ 3.15.१ ० ॥
विस्मये वाभ्यसूयायां भयशोकत्वरासु च ॥
हर्षे च वीप्सा कर्तव्या पुनरुक्तं न तद्विदुः

3.11.15.12

दूतवाक्ये तथा स्वप्ने कार्यगत्या तथागते॥
पुनर्वर्धननिर्देशे पुनरुक्तं च तद्विदुः

3.11.15.13

ससंशयं न वक्तव्यं प्रतिज्ञारहितं तथा ॥
पूर्वापरविरुद्धं च यच्च लोकविगर्हितम्

3.11.15.14

शृङ्गारहास्यकरुणारौद्रवीरभयानकैः ॥
बीभत्साद्भुतशान्ताख्यै रसैः कार्यं समन्वितम्

3.11.15.15

काव्यं कलाकौशलसंप्रयुक्तं धर्मेण चार्थेन तथोपपन्नम् ॥
धर्मेण युक्तस्य च नायकस्य कार्यं तथा चाभ्युदयान्तमेव

3.11.15.15

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाकाव्यलक्षणं नाम पञ्चदशोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc