विष्णुधर्मोत्तरपुराणम् · अध्याय 3.151.155
3.151
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
वासुदेवांशकाज्जाताः सर्वे देवगणा नृप
अधिकेन तदंशेन साध्या जातास्तथासुराः ॥
तत्रापि चाधिकांशेन चतुरात्मा हरिः स्मृतः
नरो नारायणश्चैव हयो हंसश्च वीर्यवान् ॥
हयो हरिरिति ख्यातो हंसः कृष्णश्च कीर्तितः
चतुरात्मा हरि र्जातो गृहे धर्मस्य यादव ॥
आदित्येषु तथा युक्तो मित्रावरुणसंज्ञकौ
तावेव साध्यौ जानीहि हरिं कृष्णं च यादव ॥
आदित्येषु तु या युक्तौ शक्रविष्णू सुरोत्तमौ
तावेव सिद्धसाध्येषु नरनारायणौ पुनः ॥
चैत्रशुक्लचतुर्थ्यां तु सोपवासस्तु पूजयेत्
देवेशं चतुरात्मानं वित्तशक्त्या नराधिप ॥
व्रतमेतन्नरः कृत्वा पूर्णं द्वादशवत्सरम्॥
न दुर्गतिमवाप्नोति मोक्षोपायं च विन्दति
ततः समासाद्य च निष्कलत्वं परेण पुंसा च समत्वमेति ॥
सर्वेश्वरश्चाप्रतिमप्रभावो विमुक्तदुःखो भुवनस्य गोप्ता
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रते श्रीविष्णुव्रतवर्णनो नामैकपञ्चाशदुत्तरशततमोऽध्यायः
समाप्तं चतुर्मूर्तिव्रतम् ॥
3.152
मार्कण्डेय उवाच ॥
अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ॥
चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः
सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ॥
पञ्चमण्डलगाः कार्याः पञ्चभिर्वणकैः पृथक्
पार्थिवं मण्डलं कार्यं शुक्ल वर्णं महीपते ॥
वारुणं च तथा श्वेतं रक्तमाग्नेयमिष्यते
तु. अग्निपुराणम् अध्यायः ७४.१८
पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ॥
समानवर्णैर्गंधैस्तु पुष्पैस्तानर्चयेत्पृथक्
शक्त्या च धूपदीपाद्यैर्यथालाभमरिन्दम ॥
यवैर्वान्यैस्तिलैश्चैव सर्षपैश्च घृतेन च
पञ्चभिर्जुहुयान्मिश्रैः सर्वेषां च पृथक्पृथक् ॥
तल्लिङ्गैरथ मन्त्रैर्वा त्वथ वा नृप नामभिः
ॐकारपूर्वकैर्हुत्वा शक्त्या विप्राँस्तु पूजयेत् ॥
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः
दत्त्वा विप्रेषु वस्त्राणि देवरङ्गसमानि च ॥
महाभूतव्रतमिदं यः करोत्यथ पञ्चकम्
पञ्चयज्ञमवाप्नोति क्रमशो येऽनुकीर्तिता. ॥
बहून्यब्दसहस्राणि स्वर्गलोके महीयते
मानुष्यमासाद्य भवत्यरोगो बलान्वितो वैरिगणापहर्ता ॥
श्रुतेन रूपेण गुणेन युक्तो जनाभिरामः प्रमदा प्रियश्च
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः
3.153
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव ॥
संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः
इडापूर्वस्तथा सोम अनुपूर्वः प्रजापतिः ॥
तत्पूर्वश्च तथा प्रोक्तो देवदेवो महेश्वरः
तेषां मण्डलविन्यासैः प्राग्वदेव विधीयते ॥
यागश्च पूजनं कार्यं होमः कार्यस्तथाविधः
तिलव्रीहियवैश्चैव घृतेन सितसर्षपैः ॥
तल्लिङ्गैरथ वा मन्त्रैर्नामभिः प्रत्यहं क्रमात्
नक्ताशनस्तथा तिष्ठेत्प्राग्वद्दिवसपञ्चकम् ॥
संवत्सराख्ये वर्षे तु व्रतमेतत्समारभेत्
व्रतावसाने दातव्यं सुवर्णं पञ्च यादव ॥
चतुर्वेदविदां देयं शाखाभेदेन यादव
एकैकं पञ्चमं देयं तथा कालविदे भवेत् ॥
अश्वमेधफलं ह्येतद्व्रतं तव मयेरितम्
यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः ॥
कृतं नानेन धर्मज्ञ पूज्यमानः सुरासुरैः।८॥
मानुष्यमासाद्य भवत्यरोगो वर्णेन रूपेण बलेन युक्तः ॥
नृपः प्रतापानतशत्रुसंघो देवोत्तमो वा बहुयज्ञयाजी
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चव्रतविधौ संवत्सरपूजायामश्वमेधफलवर्णनो नाम त्रिष्पञ्चाशदुत्तरैकशततमोऽध्यायः
3.154
मार्कण्डेय उवाच ॥
अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम् ॥
चैत्रशुक्लतृतीयायां स्नानमभ्यङ्गपूर्वकम्
कृत्वा शुक्लाम्बरो राजञ्शुक्लमाल्यानुलेपनः ॥
तिष्ठेद् घृतौदनाहारो भूमौ स्वप्याच्च तां निशाम्
चतुर्थ्यां च तथा स्नानं बहिर्गत्वा समाचरेत॥
पद्मिन्यां च विशेषेण ततः शुक्लाम्बरः शुचिः
लक्ष्मीं सम्पूजयेत्पद्मे कृतकेऽकृतकेऽपि वा ॥
शुक्लेन गन्धमाल्येन घृतदीपेन चा प्यथ
दध्ना च परमान्नेन आर्द्रकेण गुडेन च ॥
इक्षुणेक्षुविकारैश्च लवणेन च भूरिणा
स्वशक्त्या च महाराज भूयसा बलिक र्मणा ॥
श्रीसूक्तेन ततो वह्नौ पद्मानि जुहुयाच्छुचिः
तदलाभे च बिल्वानि तदलाभे तथा घृतम्॥
ब्राह्मणान्गोरसप्रायं घृतं भूयिष्ठमाशयेत्।
सुवर्णमाषकं दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम् ॥
अनाहारस्ततः स्वप्याच्छुचौ देशे यथाविधि
ततस्तु पञ्चमीं प्राप्य पूर्वाह्णे पद्मिनी जले ॥
स्नात्वा सम्पूजनं कुर्यात्प्राग्वदेव तथा प्रियः
भूय एव द्विजे दद्यात्पूर्वं कनकमाषकम् ॥
पद्माक्षमथ वा बिल्वं प्राश्नीयात्तदनन्तरम्।
ततो हविष्यमश्नीयाद्वाग्यतो मानवोत्तमः ॥
संवत्सरमिदं बिल्वं प्राश्नीयात्तदनन्तरम् ॥
संवत्सरमिदं कृत्वा व्रतं पार्थिवसत्तम
फलमाप्नोति विपुलं राजसूयाश्वमेधयोः ॥
विना कनकदानेन व्रतमेतत्समाचरेत्
व्रतान्ते माषकं दद्याद्वह्निष्टोमफलं लभेत् ॥
सम्पूज्य सोपवासस्तु शुक्लपक्षस्य पञ्चमीम्
नित्यमेव श्रियं देवीं श्रियमाप्नोत्यनुत्तमाम् ॥
बलमुत्तममाप्नोति रूपमारोग्यमेव च
।
जगत्प्रधाना वरदा वरेण्या विभावरी सर्वगता नरेन्द्र ॥
श्रद्धान्वितः पूजयतीह यस्तु कामानवाप्नोति स सर्वकालम्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिविधौ लक्ष्मीव्रतवर्णनो नाम चतुष्पञ्चाशदुत्तरशततमोऽध्यायु
3.155
मार्कण्डेय उवाच ॥
अथापरं प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव ॥
शङ्खं चक्रं गदां पद्मं पृथिवीं च महाभुज
गन्धैर्मण्डलकान्कृत्वा पञ्चपञ्चसु पूजयेत् ॥
चैत्रशुक्लान्तमारभ्य पञ्चमीप्रभृतीर्नृप
सोपवासो बहिः स्नातस्तथा शुक्लाम्बरः शुचिः ॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा
।
सर्वेषां पूजनं कृत्वा जुहुयाज्जातवेदसि ॥
सर्वेषामेव देवानां नामभिस्तु तथा घृतम्
ब्राह्मणान्भोजयेच्चात्र तदा मधुरभोजनम् ॥।
संवत्सरमिदं कृत्वा व्रतान्ते वस्त्र पञ्चकम्
अश्वमेधमवाप्नोति पञ्चरात्रविदे ददत् ॥
पञ्चवर्णं च राजेन्द्र राजसूयफलं लभेत्
मानुष्यमासाद्य भवत्यरोगो बलान्वितो धर्मपरो विनीतः ॥
धनेन रूपेण सुखेन युक्तो राजाधिराजोऽप्यथ वा नरेन्द्रः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिव्रते आयुधादिव्रतनिरूपणो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0