भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.146.150

3.146.150.1

3.146
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
वासुदेवस्य गरुडस्तालः सङ्कर्षणस्य च

3.146.150.2

प्रद्युम्नस्य तथा चिह्नं मकरो व्यादिताननः॥
देवोऽनिरुद्धो धर्मज्ञ ऋष्यकेतुः प्रकीर्ततः

3.146.150.3

पीतं नीलं तथा श्वेतं रक्तं च यदुनन्दन॥
तेषां तु कथितं वासः पताका तादृगिष्यते

3.146.150.4

यस्य देवस्य यच्चिह्नं स चात्मा नाम कीर्तितः ॥
पताका यादृशी यस्य वसनं तस्य तादृशम्

3.146.150.5

चैत्रे तु प्रत्यहं मासि गरुडं पूजयेन्नरः ॥
पीतेन गंधनैवेद्यमाल्यवस्त्रादिना द्विजः

3.146.150.6

वैशाखे च तथा मासि तालं संपूजयेत्सदा ॥
नीलेन गंधनैवेद्यमाल्यवस्त्रादिना द्विजः

3.146.150.7

ऋष्यं संपूजयेद्देवं मास्याषाढे यथाविधि ॥
रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विजः

3.146.150.8

।
बहिः स्नानं तथा कुर्याद्वह्निसंपूजनं ततः ॥
नित्यं च कुर्याद्धर्मज्ञ तथा ब्राह्मणतर्पणम्

3.146.150.9

प्राणयात्रा तथा कुर्यादुक्तं तैलविवर्जितम् ॥
अधःशायी तथा च स्याद् ब्रह्मचारी तथा भवेत्

3.146.150.3.146.10

व्रतमेत्तथा कुर्यान्नित्यं मासचतुष्टयम् ॥
ब्राह्मणान्पूजयेच्छक्त्या चाषाढचरमेहनि

3.146.150.11

वस्त्राण्यर्थानि धर्मज्ञ दद्याद्विप्रेषु दक्षिणाम् ॥
कृत्वैकं पारणं राजन्स्वर्गलोके महीयते

3.146.150.12

द्वितीयं पारणं कृत्वा शक्रलोके महीयते ॥
तृतीयं पारणं कृत्वा ब्रह्मलोके महीयते

3.146.150.13

कृत्वा पारणषट्कं तु रुद्रलोके महीयते ॥
विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम्

3.146.150.14

ध्वजव्रतं द्वादशवत्सराणि कृत्वा नरो भार्गववंशमुख्य ॥
सायुज्यमायाति जनार्दनस्य देवस्य विष्णोः परमेश्वरस्य

3.146.150.1

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे ध्वजव्रतवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः । १४६ ॥
3.147
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
ईशानं च तथा वह्निं विरूपाक्षं समीरणम्

3.146.150.2

विज्ञेयं यदुशार्दूल देवमूर्तिचतुष्टयम् ॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः

3.146.150.3

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥
चैत्रशुक्ले महाभागं प्रतिपत्प्रभृति क्रमात्

3.146.150.4

भौमनादेयताडाकसारसैः स्नानमाचरेत् ॥
दध्ना तिलैर्यवैर्होमो घृतेन च तथा भवेत्

3.146.150.5

कर्पूरकुङ्कुमं चैव तथैवागुरुचंदने ॥
ब्राह्मणेषु प्रदातव्यं तथा राजन्दिन क्रमात

3.146.150.6

दिनत्रयं तथाश्नीयात्सायंप्रातरयाचितम् ॥
दिनमेकं तथाश्नीयाद्ब्रह्मचारी नरोत्तम

3.146.150.7

एवं संवत्सरं कृत्वा व्रतं पुरुषसत्तम ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते

3.146.150.8

मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः ॥
जन्मान्तरे स्याद्द्विजवर्यमुख्यो वेदप्रसक्तो बहुयज्ञयाजी

3.146.150.147

इति श्रीष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे देवमूर्तिव्रतवर्णनोनाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः

3.146.150.1

3.148
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
शङ्खचक्रगदापद्मश्चतुरात्मा प्रकीर्तितः

3.146.150.2

वासुदेवः स्मृतः शङ्खश्चक्रं संकर्षणस्तथा ॥
प्रद्युम्नश्च गदा पद्ममनिरुद्धो जगद्गुरुः

3.146.150.3

श्रावणादिषु मासेषु बहिः स्नानस्तु भक्तभुक् ॥
तेषां संपूजनं कुर्यात्प्रतिमासमतः क्रमात्

3.146.150.4

गन्धमाल्य नमस्कारधूपदीपान्नसंपदा ॥
ततस्तु कार्तिकस्यान्ते समाप्ते तु तथा व्रते

3.146.150.5

ब्राह्मणान्भोजयेद्भक्त्या दद्याच्छक्त्या च दक्षिणाम् ॥
कांस्यपात्रं च सघृतं ससुवर्णं तथैव च

3.146.150.6

कृत्वा व्रतं मासचतुष्टयं तु प्राप्नोति लोकं त्रिदशेश्वरस्य॥
मानुष्यमासाद्य तथेह पश्चाद्वसुन्धरेशो भवतीह वीरः

3.146.150.148

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे आयुधव्रतवर्णनो नामाष्टाचत्वारिंशदुत्तरशततमोऽध्यायः

3.146.150.1

3.149
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यासि चतुर्मूर्तिव्रतं तव ॥
त्रिरात्रोपोषितः सम्यग्वसन्ते विषुवद्दिने

3.146.150.2

पूजां कृत्वा यथाशक्ति वासुदेवस्य शत्रुहन् ॥
ततो मासत्रयं नित्यं वासुदेवं तु पूजयेत

3.146.150.3

तच्च मासत्रयं तिष्ठेत्फलाहारो विचक्षणः ॥
ततः शारदमासाद्य धर्मज्ञं विषुवद्दिनम् ॥

3.146.150.4

त्रिरात्रोपोषितः स्नात्वा प्रद्युम्नं पूजयेत्प्रियम् ॥
होमं कृत्वा ततोश्नीयाद्दत्त्वा दानं च शक्तितः

3.146.150.5

प्राणयात्रां तु कुर्वीत यावकेन महामते॥
व्रतावसानमासाद्य वासन्तं विषुवद्दिनम् ॥
ब्राह्मणं भोजयेच्छक्त्या दद्याद्विप्रेषु दक्षिणाम्

3.146.150.6

काञ्चनं रजतं वस्त्रं गां च यादवनन्दन ॥
एतत्संवत्सरं कृत्वा व्रतं नाम हरिप्रियम्

3.146.150.7

स्वर्गलोकमवाप्नोति बहुकालमसंशयम् ॥
ततोऽश्विलोकान्प्राप्नोति वसुलोकं ततो द्विजः

3.146.150.8

विश्वेषां चैव देवानां तथैवाङ्गिरसां द्विजः ॥
रुद्राणामथ साध्यानां भृगूणां सवितुस्तथा

3.146.150.9

मरुतामपि धर्मज्ञ शिशिरांशोस्तथैव च ॥
प्राप्नोति देवलोकं च कामचारी विहङ्गमः

3.146.150.3.149.10

प्राप्नोति लोकं स हुताशनस्य शक्रस्य देवस्य तथा हरस्य ॥
लोकं समासाद्य पितामहस्य ततः स विष्णोः पुरुषः प्रयाति

3.146.150.149

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे फलाहारहरिप्रियव्रतवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः

3.146.150.1

3.150
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
तस्मिन्नेव व्रते राजन्मया पूर्वोदिते शुभे

3.146.150.2

विष्णोः स्थाने त्वनन्तस्य पूजा कार्या विजानता ॥
तस्य संपूजनं कृत्वा महीगगनवेधसाम्

3.146.150.3

द्वितीयादिषु कुर्वीत यथावद्विजितेन्द्रियः ॥
अनन्तं पूजयेद्विद्वान्प्रथमेह्नि यथाविधि

3.146.150.4

व्रतमेतन्नरः कृत्वा पूर्णं संवत्सरं ततः॥
विष्णुलोकमवाप्नोति यावदिन्द्राश्चतुर्दश

3.146.150.5

मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः ॥
धनेन रूपेण सुखेन युक्तो जनाभिरामः प्रमदाप्रियश्च

3.146.150.150

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पेऽनन्ततवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc