विष्णुधर्मोत्तरपुराणम् · अध्याय 3.141.145
3.141
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
विद्याकामेन कर्तव्यं नरेण सुविपश्चिता
बहिः स्नानं नरः कृत्वा कृतऋग्वेदपूजनः ॥
ऋग्वेदं शृणुयान्नित्यं मासमात्रमतन्द्रितः
चैत्रादारभ्य धर्मज्ञः नित्यं नक्ताशनो द्विजः ॥
यस्माच्छ्रुतं द्विजात्तस्य ज्येष्ठस्य चरमेहनि
वासोयुगं हिरण्यं च तथा धेनुं पयस्विनीम ॥
घृतपूर्णं कांस्यपात्रं सहिरण्यं च दक्षिणा
आषाढादिषु मासेषु यजुर्वेदव्रतं भवेत ॥
आश्विनादिषु मासेषु सामवेदव्रतं भवेत्
तथा सर्वव्रतं नाम पौषादिषु विधीयते ॥
सर्वेषु सर्वं कर्तव्यमृग्वेदव्रतकीर्तितम्
वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्रादशवत्सराणि ॥
विष्णोलोकं याति लोके विशिष्टं यस्तं प्राप्तः सर्वदुःखं जहाति
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पञ्चमचतुर्मूर्तिकल्पे वेदव्रतो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः
3.142
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥* चतुर्व्यूह
सर्वात्मनां तु कर्तव्या यथा पूजा जगद्गुरोः॥
चैत्रशुक्लचतुर्थ्यां तु सोपवासो जितेन्द्रियः
चतुर्थ्यां वासुदेवस्य कृत्वा संपूजनं शुभम ॥
काञ्चनं दक्षिणां दद्याद्द्विजाय ब्रह्मचारिणे
तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम् ॥
वैशाखे तु गृहस्थाय दद्याच्छय्यां सुसंस्कृताम्
संपूज्य देवं प्रद्युम्नं ज्येष्ठे मासि यथाविधि ॥
वनस्थाय तथा दद्यात्फलमूलं सगोरसम्
अनिरुद्धं तथाषाढे पूजयित्वा जगद्गुरुम् ॥
दद्यादलाबुपात्रं च योगस्थाय द्विजातये
इत्येवं पारणं प्रोक्तं स्वर्गलोके महीयते ॥
द्वितीये पारणे प्राप्ते शक्रलोके महीयते
सालोक्यमायात्यथ केशवस्य प्राप्ते तृतीये त्वथ पारणे च ॥
इत्याश्रमाख्यं व्रतमुत्तमं ते मयेति कल्मषनाशकारि
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे आश्रमव्रतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः
3.143
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
चतुरात्मा हरिः प्रोक्तश्चत्वारस्तु हुताशनाः
आहिताग्निर्द्विजो यस्य विद्यतेऽग्निचतुष्टयम् ॥
सोपवासश्चतुर्थ्यां तु शुक्लपक्षस्य फाल्गुने
अभ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितः ॥
तस्मै दद्याद्द्विजेन्द्राय तिलप्रस्थानि षोडश
सुवर्णस्य सुवर्णं च वस्त्रं घृततुलामपि ॥
एवं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति
मानुषो दीप्ततेजाः स्याद्दीप्ताग्निः प्रमदाप्रियः ॥
रिपूञ्जयति संग्रामे धनवांश्च तथा भवेत्
ये त्वग्नयो वै चतुरः प्रदिष्टाः स वासुदेवः कथितश्चतुर्धा ॥
यः पूजयेद्ब्राह्मणमाहिताऽग्निं देवः स तेनाप्यथ पूजितः स्यात् ॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तमचतुर्मूर्तिकल्पे अग्निव्रतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः
3.144
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
चैत्रशुक्लसमारम्भे प्रथमेऽह्नि पूजयेत
कृतं शुक्लेन सर्वेण गन्धमाल्यादिना द्विजः ॥
द्वितीयेऽहनि रक्तेन तथा त्रेतां तु पूजयेत्
तृतीयेऽहनि पीतेन द्वापरं पूजयेद्बुधः ॥
चतुर्थेऽहनि कृष्णेन तिष्यं संपूजयेद्युगम्
सिद्धार्थकैः कुंकुमेन तथैव च हरिद्रया ॥
तथैवामलकस्नानमाचरेद्दिवसक्रमात्
सिद्धार्थकाक्षततिलैर्घृतेन जुहुयात्तथा ॥
मुक्ताफलं तथा वज्रं पद्मरागं च यादव ॥
इन्द्रनीलं तथा दद्याद्विप्रेषु दिवसक्रमात् ॥
क्षीरेण प्राणयात्रां तु कुर्यात्प्रत्यहमेव तु
कृत्वा व्रतं वत्सरमेतदेकं चतुर्युगं मोदति नाकपृष्ठे ॥
संपूज्य देवं युगमूर्तिसंज्ञं चतुर्युगं शास्ति महीं समग्राम्
इति श्रीविष्णुधर्मोत्तरे तृ० ख० माकण्डेयवज्रसंवादे अष्टमचतुर्मूर्ति कल्पे चतुर्युगव्रतवर्णनो नाम चतुश्चत्वारिंदुत्तरशततमोऽध्यायः
3.145
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
नित्यं चतुर्षु मासेषु श्रावणाद्येषु यादव
चतुःसागरचिह्नानि पूर्णकुम्भानि पूजयेत ॥
चतुरात्मा हरिर्ज्ञेयः सागरात्मा विचक्षणैः ॥
स्नानं समाचरेन्नित्यं नदीतोयेषु यादव
होमं च प्रत्यहं कुर्याद् गव्येन पयसा तथा ॥
तानि कुम्भानि विप्रेभ्यः प्रत्यहं विनिवेदयेत्
सोपहाराणि धर्मज्ञ भक्त्या शक्त्या तथैव च ॥
नक्तं च प्राशनं कुर्य्यात्सततं तैलवर्जितम्
कार्तिकस्यावसानेऽह्नि भोजयित्वा द्विजोत्तमान् ॥
धेनुं दत्त्वा च विप्राय नाकपृष्ठे महीयते ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
मानुष्यमासाद्य महीपतिः स्याद्भुक्त्वा महीं सागरमेखलान्ताम् ॥
तत्रापि धर्मस्य पतिर्निविष्टो भवत्यरोगश्च बलेन युक्तः
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुचतुर्मूर्तिकल्पे सागरव्रतवर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0