भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 3.136.140

3.136.140.1

3.136
मार्कण्डेय उवाच ॥
आराधनं हि देवस्य तस्य वक्ष्यामि यादव ॥
विष्णोरमितवीर्यस्य तन्निबोध नराधिप

3.136.140.2

वाय्वर्कचन्द्रदेहस्तु त्रिमूर्तिर्भगवान्हरिः ॥
अग्निष्टोमो जगत्यस्मिँश्चन्द्रार्कौ परिकीर्तितौ

3.136.140.3

सर्वाधारश्च भगवान्वायुः सर्वगतस्तथा ॥
पञ्च भूतात्मकं सर्वं जगदेतच्चराचरम्

3.136.140.4

आधारभूतौ द्वावेतौ पृथिवी गगनं तथा ॥
आधेयो विद्धि धर्मज्ञ तथा भूतत्रयं सदा

3.136.140.5

चन्द्रादित्यौ च वायुश्च सर्वस्य जगतो द्विज ॥
आधाराधेयभावेन भूतैर्वृतमिदं जगत

3.136.140.6

नैव चास्ति जगत्यस्मिन्किञ्चिद्भूतविवर्जितम् ॥
तस्माद्वा यादवश्रेष्ठ भूतैर्वृतमिदं जगत् ॥
ब्रह्माणं विद्धि भूमिं च गगनं तदनन्तरम् ॥
अण्डस्यान्तः स्थिता देवा वाय्वर्कं तुहिनांशवः

3.136.140.7

पालयन्ति जगत्सर्वं सदेवासुरमानुषम् ॥
तथैवाण्डस्थिताः सर्वे पालयन्ति जगत्त्रयम्

3.136.140.8

तथैव देहिनां देहे पालयन्ति शरीरगाः ॥
वातपित्त कफत्वेन वाय्वर्कशिशिरांशवः

3.136.140.9

आधारं जगतो यद्वद् ब्रह्माण्डं परिकीर्तितम् ॥
तथा देहे शरीरस्था देहिनां हि त्वगुच्यते

3.136.140.3.136.10

ब्रह्माण्डे देहिदेहेऽपि गगनं दृश्यते द्वयोः ॥
ब्रह्माण्डवच्छरीराणि वाय्वर्कशिशिरांशवः

3.136.140.11

पालयन्ति महीपाल वातपित्तकफांशकाः ॥
वाय्वर्कचन्द्र देहस्तु तस्माद्विष्णुस्त्रिमूर्तिधृत्

3.136.140.12

तस्य संपूजनं कार्यं यथावच्छृणु भार्गव ॥
ज्येष्ठशुक्लतृतीयायां निराहारो नरः शुचिः

3.136.140.13

त्रिमूर्तिपूजनं कुर्याद्द्वितीयायां यथाविधि ॥
कूपनादेयताडाकमिश्रैः स्नातः शुचिर्जलैः

3.136.140.14

प्रत्यूषे पूजयेद्वायुमनुलिप्ते शुभे स्थले ॥
गन्ध माल्यनमस्कारधूपदीपान्नसंपदा

3.136.140.15

होमं कुर्याद्यवैर्मुख्यैर्वस्त्रं दद्याद्द्विजातये ॥
मध्याह्ने पूजयेद्वह्नौ तथा सूर्यमतन्द्रितः

3.136.140.15

तिलांश्च जुहुयाद्वह्नौ दद्याद्द्विप्रेषु दक्षिणाम् ॥
सूर्यास्तमनवेलायां जले चन्द्रं च पूजयेत्

3.136.140.17

घृतेन होमं कुर्वीत रजतं दक्षिणा स्मृता ॥
नक्तं भुञ्जीत धर्मज्ञ तैलहीनं ततो नरः

3.136.140.18

पूर्णं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः ॥
स्वर्गलोकमवाप्नोति सहस्रपरिवत्सरान्

3.136.140.19

मानुष्यमासाद्य ततो राजा भवति गह्वरे ॥
व्रतं कृत्वा महाराज पूर्णं संवत्सरत्रयम्

3.136.140.3.136.20

पञ्चवर्षसहस्राणि स्वर्गलोके महीयते ॥
मानुष्यं च समासाद्य राजा भवति धार्मिकः

3.136.140.21

वीरो माण्डलिकः शूरः परचक्रभयंकरः ॥
विरोगो दर्शनीयश्च सुभगो जनवल्लभः

3.136.140.22

कृत्वा द्वादशवर्षाणि व्रतमेतदनुत्तमम् ॥
व्रतावसाने विप्राणां सहस्रं भोजयेत्ततः

3.136.140.23

भोज्यं त्रिमधुरं पेयं दद्याच्छक्त्या च दक्षिणाम् ॥
ततः स्वर्गमवाप्नोति वर्षाणां च शतं व्रती

3.136.140.24

ततो मानुष्यमासाद्य राजा भवति पार्थिवः ॥
प्रदीप्तचक्रो बलवान्धर्मराजो जनप्रियः

3.136.140.25

जन्मान्तरं समासाद्य ततो विप्रत्वमाप्नुयात् ॥
ततो ब्राह्मण्यमासाद्य मोक्षोपायं च विन्दति

3.136.140.26

आराधनं ते कथितं मयैतद्विष्णोस्त्रिदेहस्य महानुभाव ॥
आराधितो येन जगत्प्रधान कामानभीष्टान्विदुषो ददाति

3.136.140.136

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुत्रिमूर्तिव्रतवर्णनो नाम षट्त्रिंशदुत्तरशततमोऽध्यायः

3.136.140.1

3.137
॥ मार्कण्डेय उवाच ॥
अतः परं प्रवक्ष्यामि विष्णुमूर्तिव्रतं तव ॥
द्विधा तु देवदेवस्य मृर्तिर्भवति यादव

3.136.140.2

घोरा चान्या शिवा चान्या घोरा भवति पावकः ॥
शिवा चाम्बुपतिर्यस्मादग्नीषोमात्मकं जगत्

3.136.140.3

द्विधा घोरा विनिर्दिष्टा द्विधा सौम्या ततः पुनः ॥
घोरा वह्निश्च सूर्यश्च सौम्या सोमजलाधिपो

3.136.140.4

तेषां च पूजनं कार्यं प्रतिवत्प्रभृति क्रमात् ॥
शुक्लपक्षादथारभ्य फाल्गुनस्य द्विजोत्तम

3.136.140.5

आदित्यं पूजयेद्राजा प्रथमेह्नि परः शुचिः ॥
द्वितीयेह्नि तथा वह्नि तृतीयेह्नि जलाधिपम्

3.136.140.6

चतुर्थेह्नि शशांकं च यथावन्मानवोत्तम ॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः

3.136.140.7

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥
वचाहरिद्रया स्नानं प्रथमेह्नि समाचरेत्

3.136.140.8

द्वितीये यदुशार्दूल स्नानमामलकैः शुभम् ॥
प्रियङ्गुणा तृतीये च चतुर्थे गौरसर्षपैः

3.136.140.9

गोधूमतिलधान्यैश्च यवैश्च दिवसं क्रमात् ॥
होमश्च कार्यो धर्मज्ञ दक्षिणां शृणु चाप्यथ

3.136.140.3.137.10

कुंकुमं रक्तवस्त्रं च चन्दनं छत्रमेव च ॥
क्षीरेण चात्र कर्तव्यं प्रत्यहं प्राणधारणम्

3.136.140.11

एतत्संवत्सरं कृत्वा व्रतं पूर्णं नरोत्तम ॥
सर्वकामसमृद्धस्य यज्ञस्थं फलमश्नुते

3.136.140.12

विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति ॥
तत्रोष्य सुचिरं कालं कुले महति जायते

3.136.140.13

मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः ॥
धर्मे स्थितः सत्यपरो विनीतो जितेन्द्रियः सर्वजनाभिरामः

3.136.140.137

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः

3.136.140.1

3.138
॥ मार्कण्डेय उवाच ॥ ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
शक्रकीनाशवरुणधनाध्यक्षान्यदूत्तम

3.136.140.2

चतुरात्मा विनिर्दिष्टो वासुदेवो जगत्पतिः ॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः

3.136.140.3

गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥
आद्येह्नि चैत्रशुक्लस्य यजेत त्रिदशेश्वरम्

3.136.140.4

द्वितीयेह्नि यमं देवं तृतीये सलिलाधिपम् ॥
चतुर्थेह्नि धनाध्यक्षं प्रत्यहं स्नानमाचरेत्

3.136.140.5

नदीप्रदेशमासाद्य देवदृक् प्रत्यहं क्रमात् ॥
यवैस्तिलैस्तथाज्येन होमः स्यात्तिलतण्डुलैः

3.136.140.6

रक्तं पीतं तथा कृष्णं श्वेतं वस्त्रं दिनक्रमात् ॥
शुभमेतद्व्रतं कृत्वा पूर्णं संवत्सरं नरः ॥
नाकलोकमवाप्नोति यावदिन्द्राश्चतुर्दश

3.136.140.7

मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः ॥
जनाभिरामः सुभगः प्रकृत्या ततोपि विप्रत्वमुपैति भूयः

3.136.140.138

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेवज्रसंवादे चतुर्मूर्तिव्रतवर्णनो नामा ष्टात्रिंशदुत्तरशततमोऽध्यायः

3.136.140.1

3.139
॥ मार्कण्डेय उवाच ॥ ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
विष्णुर्भूमिर्नभो ब्रह्मा तस्य रूपचतुष्टयम्

3.136.140.2

तेषां तु रूपनिर्माणं कृत्वा तानर्चयेत्ततः ॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा

3.136.140.3

आद्येह्नि चैत्रशुक्लस्य विष्णुं देवं समर्चयेत् ॥
द्वितीयादिषु धर्मज्ञ भुवं त्वां च पितामहम्

3.136.140.4

पूर्वव्रतोक्तं सकलं विधानमपरं भवेत् ॥
व्रतमेतं नरः कृत्वा स्वर्गलोकमवाप्नुयात्

3.136.140.5

मानुष्यमासाद्य भवत्यरोगो धर्माभिरामो द्रविणोपपन्नः ॥
धनेन रूपेण सुखेन युक्तो जनाभिरामो विजितारिपक्षः

3.136.140.139

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तार्तीयकचतुर्मूर्तिव्रतवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः

3.136.140.1

3.140
मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥
बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन

3.136.140.2

विख्यातं देवदेवस्य तस्य मूर्तिचतुष्टयम् ॥
यदेव रूपं धर्मस्य बलस्योक्तं तदेव तु

3.136.140.3

रूपं ज्ञानस्य ते प्रोक्तं नरसिंहं तथा नृप ॥
रुद्ररूपमथैश्वर्यं कथितं ते मया नृप

3.136.140.4

शक्तिर्वराहः कथितो देवो मधुनिषूदनः ॥
एवमेतन्मुखात्प्रोक्तं चतुर्मूर्तिधरस्य ते

3.136.140.5

पूर्वं बलमुखं तस्य वासुदेवमुखं भवेत् ॥
दक्षिणं वदनं ज्ञानं देवं संकर्षणं विदुः

3.136.140.6

ऐश्वर्यं पश्चिमं वक्त्रं रौद्रं पापहरं तथा ॥
वराहमुत्तरं वक्त्रमनिरुद्धं प्रकीर्तितम

3.136.140.7

त्रिरात्रोपोषितश्चैत्रे पूर्वं संपूजयेन्मुखम् ॥
तथा वैशाखमासे तु पूजयेद्दक्षिणामुखम् ॥
ज्येष्ठे च पश्चिमं वक्त्रमाषाढेति तथोत्तरम्

3.136.140.8

गृहोपयोगि दातव्यं चैत्रे मासि द्विजातये ॥
रणोपयोगि दातव्यं वैशाखे यादवोत्तम

3.136.140.9

यागोपयोगि दातव्यं तथा ज्येष्ठे द्विजातये।
यज्ञोपयोगि दातव्यं मास्याषाढे तथैव च

3.136.140.3.140.10

व्रतमेतन्नरः कृत्वा पूर्णं मासचतुष्टयम् ॥
पारणे प्रथमे प्राप्ते भवतीति विनिश्चयः

3.136.140.11

पारणं प्रथमं कृत्वा स्वर्गलोके महीयते॥
दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथोदितम्

3.136.140.12

सौम्यादिषु च यामेषु द्वितीयं पारणं भवेत् ॥
द्वितीयं पारणं कृत्वा भोजयेद्ब्राह्मणाञ्शुचिः ॥
भोजनं गोरसप्रायं मृद्वीकाशर्करायुतम्

3.136.140.13

प्राप्ते तृतीये द्विजपारणे च प्राप्नोति देवस्य सलोकतां सः ॥
स्वर्गेन्दुलोकौ च तथोक्तकालं भुक्त्वा सुखी सर्वसमृद्धिकामः

3.136.140.140

इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चतुर्थः चतुर्मूर्तिव्रतवर्णनो नाम चत्वारिंशदुत्तरशतमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc