विष्णुधर्मोत्तरपुराणम् · अध्याय 3.131.135
3.131
॥ मार्कण्डेय उवाच ॥
इमां तथान्यां वक्ष्यामि द्वितीयां सर्वकामदाम् ॥
यामुपोष्य नरः कामान्सर्वानाप्नोत्यभीप्सितान्
चैत्रद्वितीयां संप्राप्य शुक्लपक्षस्य मानवः ॥
दिनावसाने कुर्वीत सम्यक् स्नानं नदीजले
.
बालेन्दुमण्डलं कृत्वा पूजयेच्छ्वेतवर्णकैः ॥
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा
।
ईक्षुनेक्षुविकारैर्वा गुडेन लवणेन वा ॥
दिनावसाने देवेशं पूजयित्वा निशाकरम्
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः ॥
ततस्तैलेन हरितं भक्षयेत्सकृदेव च
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः ॥
सौभाग्यं महदाप्नोति स्वर्गलोकं च गच्छति
एतत्पवित्रं रिपु नाशकारि सौभाग्यदं रोगहरं च राजन्॥
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियापि
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बालेन्दुद्वितीयाव्रतवर्णनो नामैकत्रिंशदुत्तरशततमोऽध्यायः
3.132
मार्कण्डेय उवाच ॥
अशून्यशयनां राजन्द्वितीयां शृण्वतो मम ॥
यामुपोष्य न वैधव्यं प्रयाति स्त्री कथञ्चन
पत्नीवियोगं च नरो नासादयति कर्हिचित् ॥
कृष्णपक्षद्वितीयायां ग्राह्या सा श्रवणे तिथिः
स्वास्तीर्णे शयने विष्णुं लक्ष्मीं देवीं तथैव च ॥
संपूजयेत्फलैः पुष्पैर्गन्धैरर्घैश्च भार्गव
नैवेद्यं च ततो दद्याद्दीपं धूपं च शक्तितः ॥
ततः संपूज्य देवेशं जपेन्मन्त्रमिमं शुचिः
श्रीवत्सधारिञ्श्रीकान्त श्रीवास श्रीपतेऽच्युत ॥
गार्हस्थं मा प्रणाशं मे यातु धर्मार्थ कामदम्
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥
पितरो मा प्रणश्यन्तु मत्तो दांपत्यभेदतः
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् ॥
तथा कलत्रसंबन्धो देव मा मे विनश्यतु
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ॥
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
एवं प्रसाद्य देवेशं नक्तं भुञ्जीत वाग्यतः ॥
ब्राह्मणाय द्वितीयेह्नि प्रदद्याच्चैव दक्षिणाम्
शयने च द्विजेन्द्राय गते मास चतुष्टये॥
तस्य जन्मत्रयं राजन्गृहभङ्गो न जायते
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः ॥
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः
वैधव्यहीना सुभगा विरोगा पतिव्रता धर्मपरा च साध्वी ॥
रूपेण युक्ता न भयान्विता च नारी भवेत्सर्वगुणोपपन्ना
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयाव्रतकथनो नाम द्वात्रिंशदुत्तरशततमोऽध्यायः
3.133
मार्कण्डेय उवाच ॥
शुक्लपक्ष तृतीयायां सोपवासो जितेन्द्रियः ॥
मण्डलत्रितयं कुर्याद्वर्णकेन पृथक्पृथक्
मण्डलं दक्षिणे भागे श्वेतं कुर्यान्नरो भवेत ॥
रक्तं मध्येऽप्यधः कुर्यादुदक्छ्वेतं ध्रुवस्य तु
विष्णोः पदत्रयं तेषु पूज्यं स्यान्मण्डलेषु च ॥
भूमौ च प्रथमं पादं द्वितीयं सूर्यमण्डले
तृतीयं तु ध्रुवे देवे पूजयेत्प्रयतः शुचिः ॥
यथा मण्डलवर्णाङ्को गन्धमाल्यादिभिर्द्विज
तद्विष्णोः परमित्येव होममन्त्रो विधीयते ॥
त्रिविक्रमायेति तथा स्त्रीशूद्रस्य द्विजोत्तम
अक्षतानि तिलान्याज्यं होमयेत्संयुतं त्रयम् ॥
ताम्ररौप्यसुवर्णानि शक्त्या दद्यात्तु दक्षिणाम्
भोजनं च त्रिमधुरं भोजयेद्ब्राह्मणोत्तमम् ॥
प्राणयात्रां च कुर्वीत त्रिगव्येन च तद्दिनम्
एवं वर्षत्रयं कृत्वा व्रतान्ते वै त्रिहायनम् ॥
ब्राह्मणाय तु गां दत्त्वा सर्वान्कामानवाप्नुयात्
भूमौ तथान्तरिक्षे च दिवि चैव नरोत्तम ॥
गतिस्तस्या प्रतिहता भवत्यरिनिषूदन
त्रीणि वर्षसहस्राणि सर्वगस्याविचारिणः ॥
मानसं वाचिकं चैव कायिकं च विमुञ्चति
सर्वपापं महाभाग मनुष्यो जायते तया ॥
कुले धनाढ्यो भवति रूपद्रविणसंयुते ॥ ११ ।
विरोगः सर्वसिद्धार्थस्त्रिवर्गस्य च साधकः ॥
कृत्वा द्वादशवर्षाणि विष्णुलोके महीयते
तत्रापि नित्यं वरदं वरेण्यं लक्ष्मीसहायं पुरुषं पुराणम् ॥
पश्यत्यमोघं विभुमप्रतर्क्यं सनातनं दुःखविनाशहेतुम॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिविक्रमव्रतवर्णनो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः
॥ मार्कण्डेय उवाच ॥
द्वितीयं तव वक्ष्यामि शृणु त्रैविक्रमं व्रतम् ॥
भूमिस्तु प्रथमः पादो ह्यन्तरिक्षं तथा परम्
तृतीयश्च दिवं ज्ञेयो देवदेवस्य चक्रिणः ॥
भुवः पतिः स्मृतो वह्निरन्तरिक्षं तथा परम्
दिवः पतिस्तथा सूर्यस्तच्च विष्णोः पदत्रयम् ॥
ज्येष्ठशुक्लतृतीयायां सोपवासो जितेन्द्रियः
कल्ये कूपजलस्नातो वह्निं सम्पूजयेन्नरः ॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा
नदीजले तत. स्नात्वा मध्यं प्राप्ते दिवाकरे ॥
वायोः संपूजनं कृत्वा सक्तून्दद्याद्द्विजातये
स्नात्वा च सरसीतोये सायं सूर्यं समर्चयेत् ॥
ततश्च नक्तं चाश्नीयाद्धविष्यं वाग्यतः शुचिः
एवं संवत्सरे राजन्कृत्वा व्रतमतन्द्रितः ॥
समापयित्वा वैशाखे दद्याद्विप्रेषु दक्षिणाम्
ताम्रं रूप्यं सुवर्णं च त्रीणि लोहानि यादव ॥
वासोयुगं च सोष्णीषं त्रीणि वासांसि चाप्यथ
उपानहो युगं छत्रं त्रीणि चेमानि भक्तितः ॥
एतत्संवत्सरं कृत्वा नरस्त्रैविक्रमं व्रतम्
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना
देवराजगणाढ्येन वीणामुरजनादिना ॥
अन्नमायुः सुताश्चैव प्रसन्ने गरुडध्वजे
आक्रान्तलोकत्रितयस्य तस्य पदत्रयं धर्मभृतां वरिष्ठ ॥
संपूज्य कामान्मनुजा लभन्ते गतिं यथेष्टां पुरुषप्रवीर
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वितीयत्रैविक्रमव्रतकथनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः
3.135
मार्कण्डेय उवाच ॥
व्याख्यातं ते महाभाग तव त्रैविकमं व्रतम ॥
तृतीयं नृपशार्दूल तन्मे निगदतः शृणु
ज्येष्ठ शुक्लतृतीयायां नरः सम्यगुपोषितः ॥
भुवस्संपूजनं कुर्याद्धूपमाल्यानुलेपनैः
दीपैरन्नैश्च विविधैर्दद्याद्विप्रेषु दक्षिणाम् ॥
बीजपूर्णानि पात्राणि सहिरण्यानि शक्तितः
पूजैवमन्तरिक्षस्य ह्याषाढेति विधीयते ॥
दक्षिणा तत्र दातव्या वासोयुग्मं द्विजातये
दिवः पूजा च कर्तव्या श्रावणे प्राग्वदेव तु ॥
छत्रं चोपानहो युग्मं दक्षिणां तत्र दापयेत्
एवं मासत्रयेणेह पारणं प्रथमं भवेत् ॥
मासत्रयेण चान्यत्तु मासत्रय्यं पुनस्ततः
ततो मासत्रयेणान्यमेनमब्देन चानघ ॥
विज्ञेयं धर्मनित्यस्य पारणानां चतुष्टयम्
प्रथमं पारणं कृत्वा अग्निष्टोमफलं लभेत ॥
अतिरात्रफलं राजन्द्वितीये पारणे तथा
तृतीये पारणे विद्वान्वाजपेयफलं लभेत ॥
चतुर्थे पारणे प्रोक्तं राजसूयस्य यत्फलम्
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥
हंसयुक्तेन दिव्येन वीणामुरजनादिना
वराप्सरोगणाढ्येन कामुकेनापि चारुणा ॥
यथेष्टगामी भवति बहुकालमसंशयम्
मानुष्ये जन्म चासाद्य त्रिशुक्लत्वमवाप्नुयात् ॥
विद्या जन्म तथा कर्म नात्र कार्या विचारणा
त्रिविक्रमस्याप्रतिमस्य तस्य चराचरेशस्य पदत्रयं च ॥
यः पूजयेत्तस्य भवन्ति कामाः सर्वे समृद्धा न हि संशयोऽत्र
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तृतीयत्रैविक्रमव्रतवर्णनो नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0