विष्णुधर्मोत्तरपुराणम् · अध्याय 3.126.130
3.126
॥ वज्र उवाच ॥ ॥
नाम्नां संपूजनं विष्णोस्त्वया कार्यं प्रकीर्तितम्॥
प्रादुर्भावेषु काम्यं च पूजनं च त्वयेरितम्
काल नामानि च तथा स्थाननामानि चाप्यथ ॥
काम्यानि चैव नामानि त्वया प्रोक्तानि भार्गव
तस्यैव देवदेवस्य विष्णोरमिततेजसः ॥
सर्वदेवमयस्येह सर्वरूपधरस्य च
आराधनविधानानि कथयस्व ममानघ ॥
त्वं हि सर्वकथारामो यथा देवः पितामहः
भूय एव समाचक्ष्व उपवासफलं विभो ॥
देवतापूजनार्थाय विधिना पूजनस्य च
मार्कण्डेय उवाच ॥
अष्टपत्रं तु कमलं विन्यसेद्वर्णकैः शुभैः ॥
ब्रह्माणं कर्णिकायां तु तस्य संपूजयेद्विभुम्
ऋग्वेदं पूर्वपत्रे तु यजुर्वेदं तु दक्षिणे ॥
पश्चिमे सामवेदं तु उत्तरेऽथर्वणं तथा
आग्नेये च तथाङ्गानि धर्मशास्त्राणि नैरृते ॥
पुराणान्येव वायव्ये चैशान्यां न्यायविस्तरम्
एवं विन्यस्य धर्मज्ञ सोपवासस्तु पूजयेत् ॥
चैत्रशुक्लादथारभ्य सोपवासो जितेन्द्रियः
सदा प्रतिपदं प्राप्य शुक्लपक्षस्य यादव ॥
संवत्सरं महाभाग शुक्लगन्धानुलेपनः
भूरिणा परमान्नेन धूपदीपैरतन्द्रितः ॥
संवत्सरान्ते गां दद्याद्धुते चीर्णे नरोत्तम
इदं व्रतं यस्तु करोति राजन्स वेदवित्स्याद्भुवि धर्मनित्यः ॥
कृत्वा तदा द्वादशवत्सराणि विधेश्च लोक पुरुषः प्रयाति
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ब्राह्मीप्रतिपल्लाभो नाम षड्विंशत्युत्तरशततमोऽध्यायः
3.127
॥ मार्कण्डेय उवाच ॥ ॥
आराधनं त्रिदेवस्य तस्य वक्ष्यामि यादव ॥
विष्णोरमितवीर्यस्य द्वितीयमरिमर्दन
ब्राह्मी तु राजसी मूर्तिस्तस्य वर्गप्रवर्तिनी ॥
सात्त्विकी वैष्णवी ज्ञेया संसारपरिपालिनी
तामसी च तथा रौद्री ज्ञेया संहारकारिणी ॥
चैत्रशुक्लप्रतिपदि ब्रह्माणं पूजयेन्नरः
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
क्षीरं ब्राह्मैस्ततो मन्त्रैर्जुहुयाज्जातवेदसि
लोहभाण्डं द्विजे दद्यात्क्षीरपूर्णं सकाञ्चनम् ॥
दध्ना च भोजनं कार्यं मध्यं प्राप्ते दिवाकरे
एकवस्त्रांचिते देशे तथा स्वप्यात्कुशास्तृते ॥
ततश्चतुर्थे दिवसे कूपनादेयसारसैः ॥
त्रिभिरेकगतैस्तोयैः सम्यक्स्नानं समाचरेत्
पूजयेत्पूर्तवत्सम्यक्पुरत्रितयमेव तत् ॥
लोहत्रयं द्विजे दद्यात्समाल्यं नृप दक्षिणाम्
तृतीयेह्नि ततः पूजा कार्या रुद्रस्य पार्थिव ॥
गन्धमाल्यनमस्कारधूप दीपैस्तथैव च ॥
मानस्तोकेति मंत्रेण घृतहोमो विधीयते
सघृतं लोहपात्रं च सहिरण्यं सदक्षिणम् ॥
तृतीये दिनभागे तु वाताहारं समाचरेत्
तथा त्रिमधुरं दद्याद्भोजनं तच्च भक्षयेत् ॥
व्रतमेतन्नरः कृत्वा मासिमासि दिनत्रयम् ॥
संवत्सरेण धर्मज्ञ गतिमिष्टामवाप्नुयात्
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः॥
सौभाग्यरूपद्रविणोपपन्नः साक्षाच्छिवो लोकधुरन्धरः स्यात्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिमूर्तिव्रतं नाम सप्तविंशत्युत्तरशततमोऽध्यायः
3.128
मार्कण्डेय उवाच ॥
एकमेव जगत्सर्वं प्रकृतिः पुरुषः स्मृतः ॥
चैत्रशुक्लसमारंभे सोपवासो जितेन्द्रियः
पुरुषं पूजयेद्विष्णुं स्थले वा यदि वा जले ॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा
पौरुषं तु तथा सूक्तं जपेदन्तर्जले नरः ॥
तथा चैनं च प्रत्यष्टं बुधो दद्याज्जलाञ्जलिम्
तथा पुष्पाणि धर्मज्ञः फलानि च महाभुज ॥
धूपं दद्यात्सनैवेद्यं जपेच्छक्त्या तथा च तम्
जुहुयाच्च तथाऽऽज्येन द्विजे दद्याच्च काञ्चनम् ॥
आहारं पयसा कुर्यान्निशाकाले च भार्गव॥
एतत्संवत्सरं कृत्वा नित्यव्रतमतन्द्रितः ॥
पक्षयोरुभयोर्वीर सर्वपापैः प्रमुच्यते
प्रसादमासाद्य स वासुदेवात्सर्वेश्वरात्सर्वगणादचिन्त्यात् ॥
लोकेश्वरान्मोक्षपदं प्रयाति ये यान्ति सिद्धा मुनयः प्रतीताः
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे पौरुषीप्रतिपद्वर्णनो नामाष्टाविंशत्युत्तरशततमोऽध्यायः
3.129
मार्कण्डेय उवाच ॥
पुरुषः प्रकृतिश्चोभौ जगत्सर्वं प्रकीर्तितम् ॥
अग्नीषोमात्मकं सर्वं तथा तस्य प्रकीर्तितम्
वासुदेवश्च लक्ष्मीश्च तावेव परिकीर्तितौ ॥
चैत्रशुक्लसमायां च सोपवासो जितेन्द्रियः
पौरुषेण स सूक्तेन वह्निं संपूजयेन्नरः ॥
गन्धमाल्यनमस्कारधूपदीपान्नसप्रदा
लक्ष्मीं च वरदां देवीं पूजयेदुदकेन तु ॥
श्रीसूक्तेन च धर्मज्ञ यथावन्मनुजेश्वर
काञ्चनं राजतं चोभौ दद्याद्विप्रेषु दक्षिणाम् ॥
प्राणयात्रां बुधः कुर्यात्क्षीरेण सघृतेन च
संवत्सरमिदं कृत्वा व्रतं सम्यगुपोषितः ॥
मुच्यते पातकैः सर्वैर्मोक्षोपायांश्च विन्दति
कामानवाप्नोत्यथ वा विचित्राँल्लोकांश्च मुख्यान्वसुधां समग्राम् ॥
विरूपतो रूपमथापि चाग्र्यं यशस्तथाग्र्यं तनयांश्च मुख्यान्
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे प्रकृति पुरुषनिरूपणो नामैकोनत्रिंशदुत्तरशततमोऽध्यायः
3.130
मार्कण्डेय उवाच ॥
नासत्यौ देवभिषजावश्विनौ परिकीर्तितौ ॥
तावेव कथितौ लोके सूर्यताराधिपौ नृप
अश्वयानरतो यस्मादश्विनौ परिकीर्तितौ ॥
चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः
नासत्यौ देवभिषजौ पूजयेत्प्रयतः शुचिः ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा
कृत्वा च रूपनिर्माणं नासत्यौ पूजयेन्नरः ॥।
दीपमालां ततो दद्यात्तयोर्निशि विशेषतः
कनकं रजतं चोभे दद्याद्विप्रेषु दक्षिणाम् ॥
संमील्य नेत्रयुगलं विष्णुं च संस्मरेन्नरः
प्रदीप्ततेजा भवति चक्षुष्मांश्चैव जायते ॥
प्राणयात्रां तु कुर्वीत दध्ना घृतयुतेन च
नेत्रव्रतं द्वादशवत्सराणि कृत्वा भवेद्भूमिपतिः प्रतीतः ॥
सरूपरूपोरिगणप्रमाथी धर्माभिरामो नृपवर्यमुख्यः
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे नासत्यपूजाचक्षुर्व्रतं नाम त्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0