विष्णुधर्मोत्तरपुराणम् · अध्याय 3.121.125
3.121
वज्र उवाच ॥
कस्मिन्देशे महाभाग प्रादुर्भावं कमर्चयेत ॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे
मार्कण्डेय उवाच ॥
ब्रह्माणं पुष्करे देवं प्रयागे योगशायिनम । ।
कालंजरे महादेवं शक्रतीर्थे शतक्रतुम
सिन्धुकूले वराहं च शालिग्रामे त्रिविक्रमम् । ।
काश्मीरेषु तथा मत्स्यं सागरे वडवानलम् । । ३ । ।
अयोध्यायां तथा रामं नैमिषे धर्ममेव च ॥
कर्णाटे चाश्वशिरसं मद्रदेशे नृकेसरिम्
शत्रुघ्नं मथुरायां च दण्डकेषु च लक्ष्मणम् ॥
भरतं केकयेष्वेव यमुनायां तथा बलिम्
प्राग्ज्योतिषेऽनिरुद्धं च प्रद्युम्नं दक्षिणापथे ॥
तथा भार्गवरामं च मलये यदुनन्दनम्
पाञ्चालविषये राजन्पृथुं वैन्यं च पूजयेत ॥
तमसातीरमासाद्य वाल्मीकिं पूजयेन्नरः
वाराणस्यां परे पारे व्यासं यदुकुलोद्वह ॥
गङ्गाकूले महाराज वासुदेवं च पूजयेत्
गजेन्द्रमोक्षणं देवमङ्गेषु यदुनन्दन ॥
द्वारवत्यां तथा कृष्णं नरनारायणावुभौ
बदर्याश्रममासाद्य पूजयेत्तु विचक्षणः ॥
कुरुक्षेत्रेपि धर्मज्ञ रामं भृगुकुलोद्वहम
अथ वा यादवश्रेष्ठ रथस्थौ कृष्णफाल्गुनौ ॥
हंसप्रपतने हंसं मत्स्यं मत्स्येषु यादव
गयाशीर्षे वराहं तु मूलस्थाने दिवाकरम् ॥
प्रभासे च तथा सोमं हिमवत्यलकाधिपम
ऐरावत्यां भोगमयं सरय्वां राममेव च ॥
भोगिभोगासनासीनं सरयूतटसंस्थितम
सर्वमूर्तिधरं देवं सर्वत्राप्यथ वार्चयेत ॥
सर्वत्र सर्व शक्तिर्हि सर्वात्मा स निगद्यत
सर्वत्र देवः स तु सर्वशक्तिः सर्वेश्वरः सर्वशरीरसंस्थः ॥
पूज्यः सदा सर्वफलप्रदाता लोके सकामान्विदधाति राजन्
इति श्रीविप्णुधर्मौत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुदेशाधिदेशप्रादुर्भावपूजावर्णनो नामैकविंशत्युत्तशततमोऽध्यायः । १२१ ॥
3.122
वज्र उवाच ॥
केन कार्येण देवस्य किंकिं नाम प्रकीर्तयेत् ॥
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन
मार्कण्डेय उवाच ॥
वासुदेवाच्युतानन्तसत्याजपुरुषोत्तम ॥
परमात्मेश्वराद्यैश्च ततो मोक्षं प्रयच्छति
धर्मविद्धर्मकृद्धर्मी विश्वात्मा विश्वकृच्छुचिः ॥
शुचिमद्विष्णुरब्जाख्यो पुष्कराख्यो ह्यधोक्षजः
शुचिःश्रवा शिपिविष्टो यज्ञेशो यज्ञभावनः ॥
नाम्नामित्येवमादीनां समुच्चारणतो नरः
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ॥
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः
श्रियः पतिः श्रीपरमः श्रीमाञ्छ्रीवत्सलाच्छनः ॥
नृसिंहो दुष्टदमनो जयो विष्णुस्त्रिविक्रमः
स्तुतः प्रयच्छते चाथ अणिमादिभिरच्युतः ॥
काम्यः कामप्रदः कान्तः कामयात्मा तथा हरिः
आनन्दो माधवश्चैव कामसंवृद्धये जपेत् ॥
रामः परशुरामश्च नृसिंहो विष्णुरेव च
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥
दामोदरानिरुद्धौ च ज्ञेयौ बन्धनमोक्षदौ
जप्तव्योभ्यसता विद्यां महापुरुष इत्यपि ॥
विद्यार्थिना वा जप्तव्यं तथाश्वशिरसेति च
बलार्थी बलभद्रेति सौख्यार्थी सुखदेति च ॥
अश्वार्थी चाश्वशिरसं गजार्थी नागमोक्षणम्
गोभिरर्थी जपेन्नाम वासुदेवेति कीर्तितम् ॥
यज्ञार्थी यज्ञपुरुषं कीर्तयेत्प्रयतो नरः
नारायणेति च तथा विष्णवेति यदूद्वह॥
यद्वाभिरोचतो रामं सर्वार्थेषु ह्युदीरयेत् ॥
सर्वाण्येतानि नामानि परस्य ब्रह्मणो यतः
सर्वाणि नामानि हि तस्य राजन् भवन्ति कामाखिलदायकानि ॥
यदेव संकीर्तयते स शक्त्या तस्मादवाप्नोति हि कामसिद्धिम्
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे कामप्राप्तिवर्णनो नाम द्वाविंशत्युत्तरशततमोऽध्यायः
3.123
वज्र उवाच ॥
कार्यारम्भे तथा कस्मिन्को नाम द्द्विज कीर्तयेत् ॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे
मार्कण्डेय उवाच ॥
चक्रिणं हलिनं चैव शार्ङ्गिणं खड्गिनं तथा ॥
क्षेमार्थी प्रवसन्राजन्दिक्षु प्राच्यादिषु स्मरेत्
अर्चितं चाधिकं चैव सर्वं सर्वेश्वरं प्रभुम् ॥
संस्मरेत्पुरुषं भक्त्या व्यवहारेषु सर्वदा
कूर्मं वराहं मत्स्यं च जलप्रतरणे स्मरेत् ॥
भ्राजिष्णुमग्निजनने जपेद्राममतन्द्रितः
सङ्ग्रामाभिमुखे गच्छन्संस्मरेदपराजितम् ॥
केशवं पुण्डरीकाक्षं पुष्करार्थं तथा जपेत्
नेत्रबाधासु सर्वासु हृषीकेशं तथैव च ॥
अच्युतं चामृतं चैव जपेदौषधकर्मणि
गरुडध्वजानुस्मरणादापदो मुच्यते नरः ॥
ज्वरदुष्ट शिरोरोगविषवीर्यं प्रशाम्यति
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥
दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसंकटे
अन्धकारे तथा तीव्रे नरसिंहेति कीर्तयेत् ॥
वित्तस्थापनकाले च धान्यसंस्थापने तथा
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥
नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम्
वामनं खङ्गिनं चैव दुःस्वप्नेषु तु संस्मरेत् ॥
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम्
बलभद्रं समृद्धार्थे कृष्यारंभे हलायुधम् ॥
उत्तारणं वणिज्यार्थी श्रीशमभ्युदये नृप
मङ्गल्यं मङ्गले विष्णुममङ्गल्येषु कीर्तयेत् ॥
अरिष्टान्तेषु शेषेषु विशोकेषु तथा जपेत्
उत्तिष्ठन् कीर्तयेद्विष्णुं प्रसुप्तो माधवं नरः ॥
भोजने चैव गोविन्दं सर्वत्र मधुसूदनम्
नारायणं सर्वकाले क्षुतप्रस्खल नादिषु ॥
स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे
कीर्तयेद्वासुदेवेति अनुक्तेष्वपि यादव ॥
कार्यारम्भेऽथ वा राजन्यथेष्टं नाम कीर्तयेत ॥
सर्वाणि नामानि हि तस्य राजन्सर्वार्थसिद्धानि भवन्ति पुंसः ॥
तस्माद्यथेष्टं खलु देवनाम सर्वेषु कार्येषु जपेत्तु भक्त्या
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कार्यप्राप्तितत्तन्नामकीर्तनवर्णनो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः
3.124
वज्र उवाच ॥
कस्मिन्काले तु देवस्य किंकिं नाम प्रकीर्तयेत् ॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे
मार्कण्डेय उवाच ॥
पुरुषं वामदेवं च तथा सङ्कर्षणं प्रभुम् ॥
प्रद्युम्नमनिरुद्धं च क्रमाच्छब्देषु वर्जयेत्
विष्णुं मधुनिहन्तारं तथा देवं त्रिविक्रमम् ॥
वामनं श्रीधरं चैव हृषीकेशं तथैव च
दामोदरं पद्मनाभं केशवं च यदूत्तम॥
नारायणं माधवं च गोविन्दं च तथा क्रमात्
चैत्रादिषु तु मासेषु देवदेवमनुस्मरेत् ॥
प्रद्युम्नमनिरुद्धं च पक्षयोः शुक्लकृष्णयोः
सर्वः शर्वः शिवः स्थाणुर्भूतानां निधिरव्ययः॥
आदित्यादिषु वारेषु क्रमादेवमनुस्मरेत्
विश्वं विष्णुर्वषट्कारो भूतभव्यभवः प्रभुः॥
भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः
अव्यक्तः पुंडरीकाक्षो विश्वकर्मा शुचिश्रवाः ॥
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः
अप्रमेयो हृषीकेशः पद्मनाभः परः प्रभुः ॥
अग्राह्यः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत्
देवदेवस्य नामानि कृत्तिकादिषु यादव ॥
ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम्
दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥
भूधरं गदिनं चैव शिखिनं पद्मिनं तथा
चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥
सर्वं वा सर्वदा राम देवदेवस्य यादव
नामानि सर्वाणि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीर ॥
तस्मात्सदा सर्वगतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन्
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कालनामाख्यानो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः
3.125
वज्र उवाच ॥
कस्मिन्क्षेत्रे तु देवस्य किंकिं नाम प्रकीर्तयेत् ॥
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन
मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्॥
वासुदेवस्य संवादमर्जुनस्य च यादव
वृत्ते भारतसंग्रामे राज्यं प्राप्ते युधिष्ठिरे।
अस्मिन्नेव सभोद्देशे विजह्राते यथासुखम्
वासुदेवार्जुनौ वीरौ लक्षीकृतवसुन्धरौ ॥
ततः कथान्ते कस्मिंश्चित्कृष्णं पप्रच्छ फाल्गुनः
अर्जुन उवाच ॥
क्षेत्रेषु येषुयेषु त्वं कीर्तनीयो मयाच्युत ॥
चेतसा प्रणिधानार्थं त्वं ममाख्यातुमर्हसि
श्रीभगवानुवाच ॥
सर्वगः सर्वभूतोऽहं न हि किञ्चिन्मया विना ॥
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम
तथापि येषु स्थानेषु चिन्तनीयोहमर्जुन ॥
स्तोतव्यो नामभिर्यैश्च शृणु त्वं तद्वदामि ते
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ॥
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम्
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥
वृन्दावने च गोविन्दं मां स्तुवन्पुण्यभाग्भवेत्
जयं जयन्त्यां स्तुन्वंश्च जयन्तं हस्तिनापुरे ॥
वराहं कन्दमाले च कश्मीरेषु च चक्रिणम्
जनार्दनस्तु कुब्जाम्रे मथुरायां च केशवम् ॥
श्रीकुब्जे श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम्
शालिग्रामे महायोग्यं हरिं गोवर्धनाचले ॥
पिण्डारके चतुर्बाहुं शंखद्वारे च शंखिनम्
वामनं तु कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ॥
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे
श्वेतद्वीपपतिं चापि गङ्गासागरसंगमे ॥
भूधरं देविकातीरे प्रयागे योगशायिनम्
नरनारणायाख्यौ च तथा बदरिकाश्रमे ॥
समुद्रे दक्षिणे नाम पद्मनाभेति फाल्गुन
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ॥
एवं रामं महेन्द्राद्रौ हृषीकेशं तथा बुध
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ॥
नृसिंहं कृतशौचे तु विपाशायां द्विजप्रियम्
नैमिषे यज्ञपुरुषं जम्बुमाले तथाच्युतम् ॥
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम्
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ॥
दामोदरं रैवतके नन्दायां जलशायिनम्
सर्वयोगेश्वरं चैव सिन्धुसागरसंगमे ॥
सह्याद्रौ देवदेवेशं वैकुण्ठं माधवे वने
सर्वपापहरं विंध्ये चोड्रेषु पुरुषोत्तमम् ॥
ह्रदये चापि कौन्तेय परमात्मा सनातनः
वटेवटे वैश्रवणं चत्वरेचत्वरे शिवम् ॥
पर्वतेपर्वते रामं सर्वत्र मधुसूदनम्
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ॥
वासुदेवं च सर्वत्र संस्मरेज्ज्योतिषां पतिम्
अर्चयन्प्रणमन्स्तुन्वन्संस्मरेश्च धनञ्जय ॥
एतेष्वेतानि नामानि नरः पापात्प्रमुच्यते
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणयेन्नरः ॥
द्विजानां प्रीणनं कृत्वा स्वर्गलोके महीयते
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ॥
जपन्वै पञ्च पञ्चाशत्त्रिसन्ध्यं मत्परायणाः
त्रीणि जन्मानि यत्पापं चावस्थात्रितये कृतम् ॥
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले
द्विकालं वा जपन्वैतद्दिवारात्रौ च यत्कृतम् ॥
तस्माद्विमुच्यते पापात्संस्तुवन्परमो नरः
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ॥
मोचयन्ति नरं पापाद्यत्तत्रैव दिने कृतम्
धन्यो यशस्यः शत्रुघ्नो जयः कुरुकुलोद्वह ॥
ग्रहानुकूलतां चैव करोत्याशु न संशयः
उपोषिताश्च मनसः स्थानेष्वेतेषु मानवः ॥
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम्
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ॥
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम्
॥
यस्तु मत्परमः कालं करोत्येतेषु मानवः॥
देवानामपि पूज्योऽसौ मम लोके महीयते
स्थानेष्वथैतेषु च ये वसन्ति संपूजयन्ते मम सर्वकालम् ॥
तदेह चान्ते त्रिदिवं प्रयान्ति नाकं च लोकं समवाप्नुवन्ति
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अर्जुनं प्रति कृष्णोपदेशे स्थानविशेषकीर्तनमाहात्म्यवर्णनो नाम पञ्चविंशत्युत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0