भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.91.95

2.91.95.1

2.91
पुष्कर उवाच॥
नक्तं गृहीतमुदकं देवकर्मणि वर्जयेत् ॥
चन्दनागरुकर्पूर मृगदर्पं तथैव च

2.91.95.2

जातीफलं तथा दद्यादनुलेपस्य कारणात् ॥
अतोन्यं नैव दातव्यं किञ्चिदेवानुलेपनम्

2.91.95.3

दारिद्र्यं पद्मकः कुर्यादस्वास्थ्यं रक्तचन्दनम् ॥
उशीरश्च तु विभ्रंशं मन्ये कुर्युरुपद्रवम्

2.91.95.4

न वस्त्रं मलिनं देयं नीलं रक्तं तु यद्भवेत् ॥
तौ दत्त्वा देवदेवाय शोकमाप्नोत्यसंशयम्

2.91.95.5

कृत्रिमं तु न दातव्यं तथैवाभरणं द्विज ॥
प्रतिरूपकृतं दत्त्वा क्षिप्रं पुष्ट्या वियुज्यते

2.91.95.6

पुष्पं कण्टकिसंजातं तथा गन्धविवर्जितम् ॥
उग्रगन्धं न दातव्यं त्वन्यदेवगृहोद्भवम्

2.91.95.7

श्मशानचैत्यद्रुमजं भूमावशनिपातितम् ॥
कलिका न तु दातव्या देवदेवस्य चक्रिणः

2.91.95.9

शुक्लान्यवर्णं कुसुमं न देयं च तथा भवेत् ॥
सुगन्धि शुक्लं देयं स्याज्जातं कण्टकिते द्रुमे।८॥
दत्त्वा कण्टकिसंभूतं कुसुमं परिभूयते ॥
शुक्लान्यवर्णं दातव्यं कुसुमं कुंकुमस्य यत्

2.91.95.2.91.10

पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिकाम् ॥
तथा च वन्यकं दद्याच्चूतकेतकिजं च यत्

2.91.95.11

रक्ताशोकस्य कुसुममतसीकुसुमं तथा ॥
वृक्षायुर्वेदविद्भिश्च शुक्लं रक्तीकृतं च यत्

2.91.95.12

तद्रक्तमपि दातव्यं बिल्वपत्रं तथैव च ॥
दूर्वाग्रं च तथा देयं पत्रं भृङ्गिरजस्य तु

2.91.95.13

पत्राणि च सुगन्धीनि तथा देयानि चक्रिणः ॥
मध्योऽन्यवर्णो यस्य स्याच्छुक्लस्य कुसुमस्य च

2.91.95.14

पुष्पं शुक्लं तु तद्विद्यान्मनोज्ञं केशवप्रियम् ॥
बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत्

2.91.95.15

अनुक्तरक्तकुसुम दानाद्दौर्भाग्यमाप्नुयात् ॥
सुगन्धि दत्त्वा नाप्नोति शुभं वा यदि वाशुभम्

2.91.95.16

मृगदर्पं विना किञ्चिदथ चेज्जीवसंभवम् ॥
देवदेवस्य दातव्यं दीपे मज्जानमेव वा

2.91.95.17

नीलां रक्तां दशां दीपे प्रयत्नेन विवर्जयेत् ॥
अन्या च दीपमात्रं तु तथा वर्जं प्रयत्नतः

2.91.95.18

कृष्णागरुस्तथा देवधूपं देवस्य यत्नतः ॥
अभक्षं चाप्यहृद्यं च नैवेद्यं न निवेदयेत्

2.91.95.19

केशकीटावपन्नं च नखांशविहितं च यत् ॥
मूषिकालांगलोपेतमवधूतमवक्षतम्

2.91.95.2.91.20

न भक्ष्यमन्नमक्षीरं माहिषं क्षीरमेव च ॥
वराहमत्स्यमांसं च मांसं पञ्चनखस्य च ॥
दुरामोदौ तथा वर्ज्यौ देवकर्मणि पंडितैः

2.91.95.21

निवेश्य चित्तं पुरुषोत्तमस्य भक्तिं समास्थाय तथा विशुद्धाम् ॥
करोति श्रद्धां सततं यथोक्तां स याति लोकं मधुसूदनस्य

2.91.95.91

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्पादिदेयादेयकथनन्नामैकनवतितमोऽध्यायः

2.91.95.1

2.92
पुष्कर उवाच ॥
ततोऽग्निशरणं गत्वा स्मार्तेऽग्नौ विधिपूर्वकम् ॥
वैश्वदेवं तु कर्तव्यं हुतोत्सृष्टं तु लौकिके

2.91.95.2

यत्र क्वचन वा राम दीप्यमानेऽथ चोदके ॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिस्तरेत्

2.91.95.3

सर्वान्नमग्नावुद्धृत्य जुहुयात्प्रयतस्ततः ॥
वासुदेवाय देवाय प्रभवे नाप्ययेन च

2.91.95.4

अग्नये चैव सोमाय मित्राय वरुणाय च ॥
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च

2.91.95.5

विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये तथा ॥
अनुमत्यै तथा राम धन्वंतरिण एव च

2.91.95.6

वास्तोष्पत्यै तथा देव्यै ततः स्विष्टिकृतेऽग्नये ॥
चतुर्थ्यन्तेन नत्वा च हुत्वैतेभ्यो बलिं हरेत्

2.91.95.7

तक्षोपतक्षावभितः पूर्वेणाग्निमतः परम् ॥
अम्बानामासि धर्मज्ञ दुर्गा नामानि चाप्यथ

2.91.95.9

निवन्ती च पनीका च प्रभवन्ती तथैव च ॥
मेधवन्ती च नामासि सर्वेषामेव भार्गव॥८।
आग्नेयाद्याक्रमेणाथ ततः सूक्तिषु निक्षिपेत् ॥
निर्दित्यै वसुभाग्यै च सुमङ्गल्यै च भार्गव

2.91.95.2.92.10

भद्रंकर्यै ततो दत्त्वा स्थूणायै च तथा श्रियै ॥
हिरण्यकेश्यै च तथा वनस्पतय एव च

2.91.95.11

धर्माधर्माभ्यां च द्वारे गृहमध्ये ध्रुवाय च ॥
मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये

2.91.95.12

भूतेभ्यश्च बहिर्दद्याच्छरणे धनदाय च ॥
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात्पूर्वेण मानवः

2.91.95.13

यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस्ततः ॥
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्ततः

2.91.95.14

सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरम् ॥
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च

2.91.95.15

आकाशे च तथैवोर्ध्वं स्थण्डिले च तथा क्षितौ ॥
दिवाचरेभ्यश्च दिवा रात्रौ रात्रिचराय च

2.91.95.16

बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहम् ॥
पिण्डनिर्वापणं कार्यं सायं प्रातर्न कारयेत्

2.91.95.17

पित्रे तु प्रथमं पिण्डं तत्पित्रे तदनन्तरम् ॥
ततो दद्याच्च तत्पित्रे मात्रे च तदनन्तरम्

2.91.95.18

पितृमात्रे ततो दद्याच्छ्वश्र्वै तदनन्तरम् ॥
दक्षिणाग्रेषु दर्भेषु सलिलेषु विशेषतः

2.91.95.19

यत्किञ्चित्पश्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥
निवेदयेच्च तत्सर्वं शुभं पानं विशेषतः

2.91.95.2.92.20

पुष्पैर्धूपेन दीपेन पूजयेत्सततं पितॄन् ॥
नामगोत्रे सदा वाच्ये पिण्डनिर्वापणे तथा

2.91.95.21

पिण्डं दद्याच्च काकानां तत्र मन्त्रमिमं पठेत् ॥
ऐन्द्रा वरुणवायव्या याम्या वै नैरृतास्तथा

2.91.95.22

ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ॥
ततः पिण्डं शुनां दद्यान्मन्त्रं तत्र निबोध मे

2.91.95.23

वैवस्वतकुले जातौ द्वौ श्यामशबलौ शुनौ ॥
ताभ्यां पिण्डं प्रदास्यामि पथि रक्षन्तु मां सदा

2.91.95.24

ततो ग्रासं गवां दद्यादत्र मन्त्रं निबोध मे ॥
सौरभेय्यः सर्वहिताः पवित्राः पापनाशिनीः

2.91.95.25

प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥
ततः स्वस्तययनं कार्यं भिक्षा देया च भिक्षवे

2.91.95.26

दत्त्वा तु संस्कृतां भिक्षां गोदानफलमाप्नुयात् ॥
बालः सुवासिनी वृद्धा गर्भिण्यातुरकन्यकाः

2.91.95.27

भृत्याँश्च भोजयेद्राम पूजयित्वा तथातिथीन् ॥
नैकग्रामीणमतिथिं विद्यान्नाब्राह्मणं तथा

2.91.95.28

अतिथिं भोजयेत्पूर्वं ततो भृत्यांश्च पूजयेत् ॥
राजन्यमथवा वैश्यं शूद्रं वा द्विजसत्तम

2.91.95.29

वैश्वदेवे च संप्राप्तं भृत्यैः सह च भोजयेत्॥
वयोभ्यश्च तथा दद्याच्चण्डालेभ्यस्तथा भुवि

2.91.95.2.92.30

साधारणं तत्सर्वेषां शेषकं गृहिणां गृहे ॥
वैश्वदेवे च संप्राप्ते न कथंचिदवमानयेत्

2.91.95.31

आदाय सुकृतं याति भग्नाशश्चातिथिर्गतः ॥
अध्वना यस्तु भग्नाय ब्राह्मणाय तथा दिवि

2.91.95.32

सत्कृत्य भोजनं दद्यात्तेन स्वर्गे महीयते ॥
देवा ब्राह्मणरूपेण चरन्ति पृथिवीमिमाम्

2.91.95.33

तस्मात्संप्राप्तमतिथिं प्रयत्नेन तु पूजयेत् ॥
अतिथिं पूजयेच्चाग्रे दशगोदफलं लभेत्

2.91.95.34

पादशौचं ततो दत्त्वा प्राप्तायांतिथये गृहे ॥
गोदानफलमाप्नोति दत्त्वा चैव तथासनम्

2.91.95.35

प्रतिश्रयप्रदानेन नाकपृष्ठे महीयते ॥
तालवृन्तानिलं कृत्वा तथा प्राप्ताय मानवः

2.91.95.36

गोदानफलमाप्नोति वायुलोकं स गच्छति ॥
तालव्यजनहस्तस्तु कृत्वा तदभिचारणम्

2.91.95.37

अतिथिर्भोजने प्राप्ते गोदानफलमाप्नुयात् ॥
शीताहतातिथिं प्राप्य काष्ठान्प्रज्वालयेन्नरः

2.91.95.38

प्रतापयेन्महाभाग दशधेनुफलं लभेत् ॥
कायाग्निदीप्तिमाप्नोति प्राकाश्यं परमं तथा

2.91.95.39

तृष्णार्तायोदकं दत्त्वा पाने गोदानमाप्नुयात् ॥
श्रान्तसंवाहनं कृत्वा धेनुदानफलं लभेत्

2.91.95.2.92.40

रोगिणः परिचर्यां च कृत्वा दशगुणं लभेत् ॥
पादाभ्यंगं नरः कृत्वा प्राप्तायातिथये गृहे

2.91.95.41

गोदानफलमाप्नोति नागलोकं च गच्छति॥
प्रतिश्रयं तथा दीनं दत्त्वा चातिथये नरः

2.91.95.42

धेनुदानफलं प्राप्य सूर्यलोके महीयते ॥
चक्षुष्मांश्च प्रकाशांश्च विरोधश्चैव जायते

2.91.95.43

शयनीयप्रदानेन वसुदानफलं लभेत् ॥
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात्

2.91.95.44

शौचोदकप्रदानेन गोदानफलमाप्नुयात् ॥
मृत्प्रदानेन धर्मज्ञ विरोधो नाभिजा यते

2.91.95.45

दत्त्वानुलेपनं मालां परां लक्ष्मीमुपासते ॥
तथौषधिप्रदानेन विरोगस्त्वभिजायते

2.91.95.46

स्नानाभ्यङ्गप्रदानेन रूपवानभिजायते ॥
तथा स्नानीयदानेन गन्धर्वैः सह मोदते

2.91.95.47

स्नानोदकप्रदानेन वारुणं लोकमाप्नुयात् ॥
उपानहः प्रदानेन विमानमधिरोहति

2.91.95.48

तथा छत्रप्रदानेन गाणपत्यमवाप्नुयात् ॥
वस्त्रप्रदानाद्भवति रूपवान्सुभगस्तथा

2.91.95.49

अश्वमेधमवाप्नोति तथा भूमिप्रदो नरः ॥
यानदः स्वर्गमाप्नोति पौण्डरीकपदं तथा

2.91.95.2.92.50

वारिधानीस्तथा दत्त्वा पूर्णाः शीतेन वारिणा ॥
सर्वा सभक्षाः प्राप्नोति गोलोकं मानुषोत्तम

2.91.95.51

त्रपुषैर्वारुकायुक्तैः शर्कराघृतसंयुतैः ॥
सक्तुभिर्लवणोपेतैघृर्तैर्हरितसंयुतैः

2.91.95.52

तर्पयित्वातिथिं सम्यग्वारिधान्यैश्च गोरसैः ॥
गोलोकं चिरमाप्नोति नात्र कार्या विचारणा

2.91.95.53

तृप्तिमाप्नोति च तथा यत्रयत्राभिजायते ॥
किमिच्छकेन संयोज्य चाश्वमेधफलं लभेत्

2.91.95.54

तांबूलस्य प्रदानेन गन्धर्वैः सह मोदते ॥
उप्तिमासावृतं कृत्वा स्वर्गलोके महीयते

2.91.95.55

इतिहासानथाश्राव्य गोदानफलमाप्नुयात ॥
गोप्रदानेन वित्तेन तोषयित्वा तथातिथिम्

2.91.95.56

महत्फलमवाप्नोति गन्धर्वैः सह मोदते ॥
अनुव्रज्यातिथिं राम गोदानफलमाप्नुयात्

2.91.95.57

तस्मात्सर्वप्रयत्नेन पूजयेदतिथिं सदा ॥
राजन्या विप्रदैवत्या नार्यश्च पतिदेवताः ॥
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा

2.91.95.58

सततमिह नरो यः पूजनं चातिथीनां तृणजलमृदुवाक्यैः सारशक्त्या विदध्यात् ॥
सुरसदसि स पूज्यो देवतानां तथा स्याद्भवति च नरलोके जायमानः समृद्धः ॥

2.91.95.92

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये वैश्वदेवकथनन्नाम द्विनवतितमोऽध्यायः

2.91.95.1

2.93
॥ पुष्कर उवाच ॥
चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव ॥
ग्रहणं तु भवेत्तत्र न पूर्वं भोजनक्रिया

2.91.95.2

नाचरेत्सग्रहे तस्मिंस्तथैवास्तमुपागते ॥
यावत्स्यादुदयं तस्य नाश्नीयात्तावदेव तु

2.91.95.3

गोब्राह्मणश्चोपरागे न चाश्नीयात्प्रयत्नतः ॥
न राज्ञो विप्लवेऽश्नीयात्सुरार्चाविप्लवे तथा ॥

2.91.95.4

न हुत्वा न च दत्त्वा च नाशौचे न च गर्हितम् ॥
नापथ्यं न च बालानां तथा भार्गव पश्यताम्

2.91.95.5

प्रार्थितं बालकानां च दातव्यं स्यात्प्रयत्नतः ॥
बालानां प्रार्थितं दत्त्वा नाकलोके महीयते

2.91.95.6

बालका लालनीयाश्च धर्मकामैः सदा नरैः ॥
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात्

2.91.95.7

तेषां क्रीडनकं दत्त्वा मोदते नन्दने चिरम् ॥
आह्लादं यान्ति सततं यस्मिन्दृष्ट्वा तु बालकाः

2.91.95.8

सौभाग्यं महदाप्नोति यत्रयत्राभिजायते ॥
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत्

2.91.95.9

अभुक्तवत्सु बालेषु न चाश्नीयात्कथञ्चन ॥
यो न दद्यान्न चाश्नी यात्कदाचिदपि तन्मयम्

2.91.95.2.93.10

य एको मिष्टमश्नाति न ततोऽन्योऽस्ति पातकी ॥
नैकवासास्तथाश्नीयाद्भिन्नभाण्डे न मानवः

2.91.95.11

भिन्नासनोपविष्टश्च शयनीयगतस्तथा ॥
अनार्द्रपाणिपादान्तस्तथा चैवार्द्रमस्तकः

2.91.95.12

नोत्सङ्गे भक्षयेद्भक्ष्यान्न पाणौ लवणं तथा ॥
सकृद्दानं पृथक्पानं मांसेन पयसा निशि

2.91.95.13

दन्तच्छेदनमुष्णं च सप्तकन्तु सुवर्जयेत् ॥
दधि रात्रौ न चाश्नीयाज्जलन्नाञ्जलिना पिबेत् ॥

2.91.95.14

सर्वं तैलसमृद्धं च नाद्यादस्तमिते रवौ ॥
वर्जनीया दिवा धानाः कोविदारः सदैव तु

2.91.95.15

दिवा धानाः स्वरं हन्ति रात्रौ च दधि सक्तुषु ॥
अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया

2.91.95.16

निःशेषकृत्तथा राम न स्यादन्यत्र माक्षिकात् ॥
क्षीरस्य राम सक्तूनां पाथसस्योदकस्य च

2.91.95.17

शेषं तु कार्यमन्यस्य न तु निःशेषकृद्भवेत् ॥
शूद्राय दद्यान्नोच्छिष्टं नोच्छिष्टश्च घृतं स्पृशेत्

2.91.95.18

मूर्धानं न स्पृशेद्राम न स्पृशेच्च हुताशनम् ॥
नानुकुत्सा च कर्तव्या सुमनास्तन्मनास्तथा

2.91.95.19

भुञ्जीत प्रयतो भूत्वा दिशश्चानवलोकयन् ॥
वामहस्तेन पानीयं पीतोच्छिष्टं तथैव च

2.91.95.2.93.20

न पिबेन्न तथाश्नीयात्कृत्वा पर्यस्तिकं नरः ॥
पादप्रसारणं कृत्वा न च वेष्टितमस्तकः

2.91.95.21

आचम्य तु ततः कार्यं दन्तकाष्ठस्य भक्षणम् ॥
भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलधारणम्

2.91.95.22

श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः ॥
शास्त्रान्वेषा च कर्तव्या ततः सम्यग्भृगूत्तम

2.91.95.23

शास्त्रान्ववेक्षणं कृत्वा कृत्वा चंक्रमणं ततः ॥
उपास्य पश्चिमां सन्ध्यां तिष्ठेत्प्रयतमानसः

2.91.95.24

।
पूर्वां सन्ध्यां जपंस्तिष्ठेदुपविष्टश्च पश्चिमाम् ॥
अर्क्कस्योदयनात्तावद्यावद्भास्करदर्शनम्

2.91.95.25

पूर्वां सन्ध्यां जपेत्स्नातः पश्चिमां सति भास्करे ॥
उपविष्टो जपेत्तावद्यावत्तारकदर्शनम्

2.91.95.26

सम्पूजनं देववरस्य कृत्वा ततश्च कुर्यात्खलु वैश्वदेवम् ॥
भुक्त्वा ततोऽन्नं लघु यच्च हृद्यं ततः स्वपेद्भार्गववंशमुख्य

2.91.95.93

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोजनविधिर्नाम त्रिनवतितमोध्यायः

2.91.95.1

2.94
पुष्कर उवाच॥
शून्यालये श्मशाने वानेकवृक्षे चतुष्पथे ॥
महादेवगृहे वापि मातृवेश्मनि वा स्वपेत्

2.91.95.2

न यक्षनागायतने स्कन्दस्यायतने तथा॥
कूलच्छायासु च तथा शर्करालोष्टपांसुषु

2.91.95.3

प्रस्वपेच्च तथा दर्भे विना दीक्षां व्रतं न च ॥
धान्यगोदेवविप्राणां गुरूणां च तथोपरि

2.91.95.4

।
न चापि भिन्नविषये नाशुचौ नाशुचिस्तथा ॥
नार्द्रपादश्च नग्नश्च नोत्तरापरमस्तकः

2.91.95.5

नाकाशे सर्वतः शून्ये न च चैत्यद्रुमे तथा॥
न गच्छेद्गुर्विणीं नारीं न गच्छेत्सितमूर्धजाम्

2.91.95.6

रजस्वलां रोगवतीं नायोनौ न बुभुक्षितः ॥
नाभ्यक्तो न तथाभ्यक्तां न च पर्वणि भार्गव ॥
शुक्रमोक्षमथाकाशे तिर्यग्योनौ च वर्जयेत्

2.91.95.7

एवं सदा यः कुरुते नृवीर सम्यग्यथोक्तं सुमनास्तरस्वी ॥
तस्याशु पापं विलयं प्रयाति श्रियं च मुख्यां लभते सुखं च

2.91.95.94

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचारकथनन्नाम चतुर्नवतितमोऽध्यायः

2.91.95.1

2.95
पुष्कर उवाच॥
वैवाहिकेऽग्नौ कुर्वीत कर्म स्मार्तं सदा गृही ॥
दायकालाहृते वापि पितुर्मरणकालिके

2.91.95.2

मातुर्वा भृगुजश्रेष्ठ श्रौतं वैतानिकाग्निषु ॥
देवतानां पितॄणां च ऋषीणां च तथा नरः

2.91.95.3

ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ॥
देवानामनृणो जन्तुर्यज्ञैर्भवति मानद

2.91.95.4

स्वल्पवित्तश्च पूजाभिरुपवासैर्व्रतैस्तथा ॥
श्राद्धेन पूजया चैव पितॄणामनृणो भवेत्

2.91.95.5

ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥
हुतं चैवाहुतं चैव निर्वाप्यं प्रहुतं तथा

2.91.95.6

प्राशितं च महाभाग पञ्चयज्ञान्न हापयेत् ॥
हुतमग्नौ विजानीयादहुतं बलिकर्म यत्

2.91.95.7

पिण्डनिर्वापणं राम निर्वाप्यं परिकीर्तितम् ॥
प्रहुतं च यथायज्ञं पितृयज्ञं तथैव च

2.91.95.8

प्राशनं च तथा प्रोक्तं यद्भुक्तं तदनन्तरम् ॥
पञ्चयज्ञान्सदा कुर्याद् गृही पापापनुत्तये

2.91.95.9

देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ॥
मानुष्यमृषियज्ञं च कुर्यान्नित्यमतन्द्रितः

2.91.95.2.95.10

देवयज्ञं हुतं विद्याद्भूतयज्ञं बलिक्रिया ॥
पितृयज्ञं तथा पिण्डैरृषियज्ञं च भार्गव

2.91.95.11

स्वाध्यायसेवा विज्ञेया तथै वातिथिपूजनम् ॥
मनुष्ययज्ञो विज्ञेयः पञ्चयज्ञान्न हापयेत्

2.91.95.12

विष्णुं यजेत्तथा देवं हविर्यज्ञैश्च सप्तभिः ॥
अग्न्याधानं महाभाग तथाग्निहवनक्रिया

2.91.95.13

दर्शं च पौर्णमासं च चातुर्मास्यं तथैव च ॥
द्विराग्रहायणेष्टिश्च पाके च यवधान्ययोः

2.91.95.14

विरूढा पशुबन्धश्च तथा सौत्रामणिर्द्विजः ॥
सप्तभिः सोमसंस्थाभिर्यजेद्देवं सनातनम्

2.91.95.15

अग्निष्टोमं महाभाग चात्यग्निष्टोममेव च ॥
उक्थं च पावनीं चैव प्रतिरात्रं तथैव च

2.91.95.16

वाजपेयञ्च धर्मज्ञ आप्तोर्यामं तथैव च ॥
अन्यैश्च विविधैर्यज्ञैः पौण्डरीकादिभिस्तथा

2.91.95.17

गोसवेनाश्वमेधेन राजसूयेन वा पुनः ॥
तथा पुरुषमेधेन सर्वमेधेन भार्गव

2.91.95.18

अन्यैश्च विविधैर्यज्ञैर्नामकल्पोचितैस्तथा ॥
यजनं देवदेवस्य वासुदेवस्य कारयेत्

2.91.95.19

यज्ञो विष्णुर्महातेजा यजमानः स एव हि ॥
त एव यज्ञपात्राणि यज्ञद्रव्याणि यानि च

2.91.95.2.95.20

तं यजेत्सततं राम सर्वदेवमयं हरिम् ॥
सत्येन वै यजेद्देवं प्रत्यब्दं मुनिपुङ्गव

2.91.95.21

पशुप्रत्ययनं कुर्याच्चातुर्मासिकमेव च ॥
इष्टिं वैश्वानरीं कुर्यात्तथा स्वल्पधनो नरः

2.91.95.23

अत्येवाल्पे धने सोमं पिबेद्भार्गवसत्तम ॥
आयुः पुत्रान्यशो मेधां धनमन्त्रगणं तथा ॥ ।२२ ॥
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये

2.91.95.24

अधिकं वापि विद्येत स सोमं पातुमर्हति ॥
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणा

2.91.95.25

अनाहिताग्निर्भवति ब्राह्मणो विभवे सति॥
सर्वदेवमयो विष्णुः प्रत्यहं तस्य पूजनम्

2.91.95.26

प्रतिमायामपि तथा कर्तव्यं भृगुसत्तम ॥
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु वै द्विजाः

2.91.95.27

पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥
तत्तद्देवनिकायेषु तथैव स्वयमेव वा

2.91.95.28

पूजा कार्या बहिर्वेदौ श्रद्धया भृगुनन्दन ॥
नत्वल्पदक्षिणैर्यज्ञैर्यजेतेह कदाचन

2.91.95.29

विष्णुं देवनिकायस्थं यथाश्रद्धमरिन्दम ॥
तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः

2.91.95.2.95.30

संपूज्य देवं परमान्नगन्धैर्धूपैः सुगन्धैश्च फलैश्च मुख्यैः ॥
तस्मादवाप्नोति स सर्वयज्ञांस्तस्मात्प्रपूज्यः सततं महात्मा

2.91.95.95

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने गृहस्थधर्म वर्णनन्नाम पञ्चनवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc