भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.96.100

2.96.100.1

2.96
राम उवाच ॥
कर्माणि श्रोतुमिच्छामि काम्यानि गृहिणामहम् ॥
त्वत्तः समस्तधर्मज्ञ यादोगण नृपात्मज

2.96.100.2

पुष्कर उवाच ॥
कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव ॥
पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि

2.96.100.3

अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः ॥
उज्वलैर्लक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः

2.96.100.4

अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ॥
पत्रपूर्णैस्तथायुक्तैस्तिलैः कृष्णैर्द्विजोत्तम

2.96.100.5

वह्निं कुमारं शशिनं खङ्गं वरुणमेव च ॥
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा

2.96.100.6

पीतरक्तैस्तथा वर्णैर्घृतदीपैस्तथैव च ॥
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ

2.96.100.7

कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ॥
देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः

2.96.100.8

चन्दनञ्च मयूराणां लोमानि मनुजोत्तम ॥
अग्निमन्थगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम्

2.96.100.9

धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ॥
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम्

2.96.100.2.96.10

कर्मैतत्सततं कृत्वा वह्न्याधानमथाप्नुयात् ॥ ।
कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च ॥
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ

2.96.100.96

इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षष्णवतितमोऽध्यायः

2.96.100.1

2.97
राम उवाच ॥ ॥
अग्न्याधानमथाप्नोति शत्रुनाशमथापि वा ॥
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज

2.96.100.2

शत्रुनाशकरं कर्म कथयस्व ततः परम् ॥
तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम

2.96.100.3

पुष्कर उवाच ॥
कृतोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु ॥
पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना

2.96.100.4

रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ॥
घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च

2.96.100.5

निवेदनीयं देवाय तथा सर्वं निवेदयेत् ॥
होतव्यं सुसमिद्धेऽग्नौ तथैवात्र शुभं हविः ॥
आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा

2.96.100.6

कर्मैतदुक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि ॥
कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र

2.96.100.97

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः

2.96.100.1

2.98
राम उवाच ॥
काम्यानि त्वं समाचक्ष्व स्नानान्यन्यानि देवज ॥
केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात्

2.96.100.2

पुष्कर उवाच ॥
पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत् ॥
सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः

2.96.100.3

अकालमूलाः कलशाः कार्याः सर्वेषु भार्गव ॥
पूजा चन्द्रमसः कार्या वरुणस्य तथैव च

2.96.100.4

नक्षत्रदेवतानां च नक्षत्रस्य तथैव च ॥
सर्वगस्याप्रमेयस्य वासुदेवस्य चाप्यथा

2.96.100.5

येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः ॥
काम्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत्॥
मन्त्रयेत्स्नानकलशं मन्त्रेणानेन भार्गव

2.96.100.6

मन्त्रः-
आपः सोमाद्याः संबभूवुः पवित्राग्निः पावनः सोमसूर्यसंस्थिता वायुना नष्टदोषाश्च यो नित्य मच्छ्रेयसे सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्नवपुष्टिर्मह्यं भूयासं सर्वशिरः ॥
साधुस्वाहेति सूर्यः संस्थिता वायुनामाष्टदोषा ॥ऽ
कर्मैतदुक्तं रिपुनाशकारि साधारणं स्नानमिदं पवित्रम् ॥
अतः परं ते कथयामि राम स्नानानि काम्यानि सुखप्रदानि

2.96.100.98

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०स० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतितमोऽध्यायः

2.96.100.1

2.99
पुष्कर उवाच ॥
कृत्तिकास्नानमुक्तं ते वह्निकर्मप्रसाधनम् ॥
तथारिनाशनं मुख्यं वह्न्याध्येयप्रदं तथा

2.96.100.2

रोहिणीषु तथा स्नानं प्रोक्तं पुत्रप्रदं पुत्रप्रदं तव ॥
ब्रह्मवर्चसकामस्य स्नानं सौम्यमिदं शृणु

2.96.100.3

पूर्णमौदुम्बरैः पत्रैः कृत्वा राम घटत्रयम् ॥
पूर्णचन्द्राङ्कितैः शुक्लैः सूत्रमाल्यैरलंकृतम्

2.96.100.4

तेन संस्नापितः पश्चात्क्षौमवासा यथाविधि ॥
देवतापूजनं कृत्वा घृतं हुत्वा हुताशने

2.96.100.5

ओङ्कारपूतं सोमाय क्षीरं हुत्वा तथा जले ॥
निवेदनीयं सोमाय तथा पृष्ठमृगत्रयम्

2.96.100.6

मृगशृङ्गेण धूपं च तथा दद्यादनन्तरम् ॥
सोमेन च मणिर्धार्यो जातरूपपरिष्कृतः

2.96.100.7

दक्षिणा चात्र दातव्या शुभधेनुः पयस्विनी ॥
कृत्वा तन्नित्यमाप्नोति ब्रह्मवर्चसमुत्तमम्

2.96.100.8

घृताम्रमधुपूर्णेन स्नातः कुम्भेन मानवः ॥
पट्टिशालंकृतेनाथ रक्तचन्दनवारिणा

2.96.100.9

।
रुद्राय मांसं रुधिरं तथा च मधु पायसम् ॥
कृष्णानि वासांसि तथा धूपं गुग्गुलमेव च

2.96.100.2.99.10

दद्याद्घृतेन च तथा होमो मन्त्रैर्विधीयते ॥
कृष्णानि वासांसि तथा दातव्या दक्षिणा भवेत्

2.96.100.11

मेषाश्वनरलोमानि गर्दभस्य विशेषतः ॥
आयसी तु मणौ कृत्वा द्वारि शत्रोर्निधापयेत्

2.96.100.12

आर्द्रास्नानमिदं राम सर्वशत्रुविनाशनम् ॥
सर्वगन्धैः फलैर्बीजैः पूर्णं कृत्वा घटत्रयम्

2.96.100.13

स्नापनं तेन कर्तव्यमादित्यैस्तदनन्तरम् ॥
नवनीतं च कुल्माषं मत्स्यांश्चैव स्वरांस्तथा

2.96.100.14

निवेदयेच्चैव तथा मत्स्यानि सुरभीणि च ॥
घृताक्षताभ्यां धूपेन होमश्चैव विधीयते

2.96.100.15

तद्दिने तु नदी यत्र योगे गच्छतु तां मुदा ॥
सुवर्णरूप्यगन्धश्च धारणीयस्तथा मणिः

2.96.100.16

दक्षिणा चात्र दातव्या राम धेनुः पयस्विनी ॥
स्नातः पुनर्वसावेव जातिश्रैष्ठ्यमवाप्नुयात्

2.96.100.17

पुत्रान्वा सुमहाभाग यदीच्छति तदाप्नुयात् ॥
गौरसर्षपकल्केन रामोत्सादितविग्रहः

2.96.100.18

गव्याज्यपूर्णकुम्भेन स्नातः स्नातस्तथौषधैः ॥
अहताम्बरसंवीतः पायसं विनिवेदयेत्

2.96.100.19

शुक्लानि चैव माल्यानि वासांस्यपहतानि च ॥
होमश्च पायसेनात्र धूपं गन्धैश्च दापयेत्

2.96.100.2.99.20

मणिः शिरसि धार्यश्च दण्डाग्रे ब्रह्मचारिणः ॥
सुवर्णगर्भं पुष्पेण स्नानं पुष्टिकरं भवेत्

2.96.100.21

।
दक्षिणा चात्र दातव्या घृतं कनकसंयुतम् ॥
षड्ध्वजां नीलसूत्रेण नीलपुष्पैश्च वेष्टिताम्

2.96.100.22

सर्षपान्वेष्टयेद्राम नागपुष्पेण भूरिणा ॥
वल्मीकानां सहस्तस्य तथैवाग्रमृदा द्विज

2.96.100.23

तै स्नातः सर्वनागेभ्यो मधुलाजां निवेदयेत्॥
गन्धोदकं तथा धानाः षट्कृत्वाथ पुनःपुनः

2.96.100.24

।
क्षीरेण होमः कर्तव्यो धूपः सर्वत्वचा तथा ॥
सर्पत्वङ् नागपुष्पं च सुवर्णं च मणिर्भवेत्

2.96.100.25

दक्षिणा चात्र दातव्या शयनीयं मनोहरम् ॥
स्नानं सार्पेण ते प्रोक्तं भोग्यं सिद्धिकरं भवेत्

2.96.100.26

श्रीप्रदं वा महाभाग कथितं कामतस्तव ॥
प्लक्षपत्रैस्तिलैः कृष्णैर्घटषट्कं तु पूरयेत्

2.96.100.27

वेष्टयेत्कृष्णमाल्यैश्च तेन स्नातोऽहताम्बरः ॥
दक्षिणाग्रेषु दर्भेषु सप्तपिण्डानुपाहरेत्

2.96.100.28

सुभास्वरो बर्हिषदो ह्यग्निष्वात्तास्तथैव च ॥
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः

2.96.100.29

पितरः कथितास्तेषां पिण्डं दद्यात्क्रमेण च ॥
धूपं व्रीहियवैर्दद्यात्तिलैर्होमं तु कारयेत्

2.96.100.2.99.30

।
दातव्या दक्षिणा चात्र तिलान्रजतमेव च ॥
वचा च कोरकं चैव त्रिवृतं धारयेन्मणिम्

2.96.100.31

पितृप्रसादं प्राप्नोति कर्मसिद्धिमथापि च ॥
मघास्नानमिदं कृत्वा नित्यमेव समाहितः

2.96.100.32

माक्षिकं च मधूकं च तथैव मधुयष्टिकाम् ॥
कृत्वा कुम्भद्वयं पूर्णं भग्नाङ्गः स्नापयेन्नरम्

2.96.100.33

शालिपिष्टं ततः स्नातो घृतेन मधुना युतम् ॥
गन्धमाल्यं बहुविधं बहुकृत्वा भगाय तु

2.96.100.34

निवेदयित्वा देयानि चित्रमांसानि चाप्यथ ॥
घृतेन धूपो दातव्यो होमः कार्यः प्रियङ्गुना

2.96.100.35

दक्षिणा चात्र दातव्या चित्रवासांसि चाप्यथ ॥
पारावतस्य पक्षाणि चक्रवाकस्य मानद

2.96.100.36

त्रिवृतानि तथा कृत्वा मणिं शिरसि धारयेत् ॥
सौभाग्यं महदाप्नोति स्नात्वैव भगदैवते

2.96.100.37

तिलमाक्षिकपूर्णेन स्नातः कुम्भद्वयेन तु ॥
आर्यक्षे पायसं दद्यात्पीतरक्ते च वाससी

2.96.100.38

धूपे शतावरी देया होमः कार्यस्तथाक्षतैः ॥
तेजोवन्ती प्रियङ्गुश्च त्रिवृतं धारयेन्मणिम्

2.96.100.39

दक्षिणा चात्र दातव्या तथा रक्ते च वाससी ॥
उत्तराफल्गुनीस्नानं सर्वारम्भप्रसिद्धिदम्

2.96.100.2.99.40

वीर्यस्य वर्धनं चापि कर्तव्यमनुसूनुना ॥
गजकामस्य ते स्नानं हस्ते पूर्वं मयोदितम्

2.96.100.41

परसैन्यजयार्थाय स्नानं तदपि शस्यते ॥
मंजिष्ठां च समङ्गां च मिसिकान्तां च भार्गव

2.96.100.42

कनकं रजतं चैव पूर्णकुम्भे विनिक्षिपेत् ॥
तेनाभिषिक्तश्चित्राणि माल्यवासांस्यनन्तरम्

2.96.100.43

त्वाष्ट्रे निवेदयेद्भक्त्या होमं क्षीरेण कारयेत् ॥
दक्षिणा चात्र दातव्या चित्रवस्त्राणि मानद

2.96.100.44

सर्वगन्धैस्तथा धूपं बलिं चित्रं तथैव च ॥
पृथक्स्रुतिप्रसूतानां पुष्पानां कनकैर्वृतम्

2.96.100.45

अष्टादशानां च तथा मणिं शिरसि धारयेत् ॥
एवं स्नातस्तु चित्रासु सौभाग्यं महदश्नुते

2.96.100.46

सर्वभूतेषु चाधिक्यं यदिच्छति तदाप्नुयात् ॥
रुक्ममश्ववत्थपत्रं च खड्गशृङ्गं तथैव च

2.96.100.47

पूर्णकुम्भे विनिक्षिप्य स्नातः शीधुसुरासवम् ॥
वायव्ये प्रयतो दद्यात्क्षीरं सपललं दधि

2.96.100.48

गन्धं धूपं तथा दद्याद्धोमे कार्यं तथा घृतम् ॥ ।
दक्षिणा चात्र दातव्या वासांसि विविधानि च

2.96.100.49

द्वष्टाश्वश्यामहारीतहंसपक्षैः पयोऽन्वितम् ॥
धारयेच्च मणिं विद्वान्स्वातावेवं समाचरेत् ॥

2.96.100.2.99.50

वाणिज्ये सम्यगाप्नोति सिद्धिं च महतीं नरः ॥
विशाखासु तथा स्नानं कार्यं कुम्भद्वयेन तु

2.96.100.51

कृत्तिकासु महाभाग ततः शाकं निवेदयेत् ॥
इन्द्राग्निभ्यां च वासांसि पीतरक्तानि चाप्यथ

2.96.100.52

माल्यानि च महाभाग धूपं च घृतगुग्गुलम् ॥
होमार्थे च घृतं कुर्याद्दक्षिणा कनकं तथा

2.96.100.53

गणाधिपत्यमाप्नोति कृत्वैवं नात्र संशयः ॥
सहस्रवीर्यं चानन्तां मधूकं च तथा मिसिम्

2.96.100.54

पूर्णकुम्भत्रये कृत्वा कृतस्वस्तिकलक्षणे ॥
अहताम्बरसंवीतः सर्वगन्धफलाक्षतैः

2.96.100.55

मधुना च बलिं दद्यान्मित्राय च महात्मने ॥
वृश्चिकेन तथा धूपं यवैर्होमं च मानद

2.96.100.56

पुरद्वारं कटाहाश्च चूडाकाष्ठं सकाञ्चनम् ॥
धारयेद्दक्षिणां दद्यात्तथा च कनकं द्विज

2.96.100.57

एवं मैत्रे सदा स्नातः सर्वभूतैः समाप्नुयात् ॥
मैत्रीं मनुजशार्दूल पुरं वा कुरुते वशे

2.96.100.58

तडागपद्मिनीकूलनदीनदसमुद्भवैः ॥
तोयैः पूर्ण घटान्कृत्वा सर्वबीजसमन्वितान्

2.96.100.59

सर्वरत्नौषधीपूर्णान्स्त्रीस्नानं तैः समाचरेत् ॥
क्षौमवासास्तु रत्नानि माल्यानि च फलानि च ॥

2.96.100.2.99.60

रत्नानि दद्याच्छक्राय प्राङ्मुखः सुसमाहितः ॥
धूपं दद्याच्च शीर्षेण विशाखावन्मणिर्भवेत्

2.96.100.61

छत्रं च दक्षिणा देया ज्येष्ठायां भृगुनन्दन ॥
स्नानमेव सदा कृत्वा राज्यमाप्नोत्यकण्टकम्

2.96.100.62

कृषिकामस्य मूलेन स्नानमुक्तं मया पुरा ॥
तथा वाणिज्यकामस्य प्रागषाढासु भार्गव

2.96.100.63

अथोत्तरासु षाढासु कुर्याद्घटचतुष्टयम् ॥
पुष्पबीजफलोपेतं तेन स्नातस्तु मानवः

2.96.100.64

क्षौमवासाः सुरां चैव पायसं च निवेदयेत् ॥
मुद्गमिश्रं च धर्मज्ञ माल्यवासांसि चेच्छया

2.96.100.65

होमे च पायसं कुर्याद्धूपे गोशृङ्गमेव च ॥
धात्रीपुष्पशमीबिल्वैर्मणिर्धार्यः सकाञ्चनैः

2.96.100.66

दक्षिणा चात्र दातव्या सुवर्णं रौप्यमेव च ॥
राजश्रेष्ठत्वमाप्नोति विवादेषु जयं तथा

2.96.100.67

बिल्वं च तगरं चैव चन्दनं मधुयष्टिकाम् ॥
प्रियङ्गुं च मधूकं च त्रिषु कुम्भेषु निक्षिपेत्

2.96.100.68

संगमादाहृतं तोयं तन्मृदं च भृगूत्तम ॥
तेन स्नातस्ततः स्नानं कुर्यात्सर्वौषधैर्द्विज

2.96.100.69

कुलत्थाऽन्नं सशाल्यन्नं मुख्यानि च फलानि च ॥
बलिं च विष्णवे दद्यान्मुद्गैर्धूपं तथैव च

2.96.100.2.99.70

राजच्छत्रस्य दण्डाग्रात्काष्ठं शक्रध्वजात्तथा ॥
सिंहदंष्ट्रामणिश्चात्र सरुक्मः शिरसि स्मृतः

2.96.100.71

दक्षिणा चात्र दातव्या धेनुः कांस्योपदोहिनी॥
एवं तु श्रवणस्नायी राज्यमाप्नोत्यकण्टकम्

2.96.100.72

अन्यदेशाधिपत्यं वा राज्यमाप्नोति भार्गव ॥
अतिमुक्तकपत्राणि बिल्वस्य च तथा क्षिपेत्

2.96.100.73

कुम्भेषु पञ्चसु ततः स्नानं तैस्तु समाचरेत् ॥
वास्तुभ्यस्तु बलिं दद्यात्सुवर्णं माक्षिके ततः

2.96.100.74

धूपं वायसपक्षैस्तु होमः कार्यो घृतेन तु ॥
ब्रह्मचारिशिलालोपकाकपक्षं तथैव च

2.96.100.75

काकमाचीं रुक्मयुतां मणिं शिरसि धारयेत् ॥
दक्षिणा चात्र दातव्या धेनु कांस्योपदोहिनी

2.96.100.76

धनं प्राप्नोति सुमहद्विवाहे वापि कन्यकाम् ॥
एवं स्नातो धनिष्ठासु नित्यमेव भृगूत्तम

2.96.100.77

आरोग्यकारकं स्नानं पूर्वमुक्तं तु वारुणम् ॥
रत्नोदकेन स्नातस्तु नरः कुम्भद्वयेन तु

2.96.100.78

अजैकपादाय बलिं छागं दद्यात्तु पायसम् ॥
शुक्लानि चैव माल्यानि फलानि विविधानि च

2.96.100.79

खट्वाङ्गञ्च तथा धूपं होमं च पयसा तथा ॥
व्याघ्रदंष्ट्रा तथा लोमनखं कनकमेव च

2.96.100.2.99.80

मणिर्धार्यो भवेद्राम छागो देया च दक्षिणा ॥
अजैकपादे स्नातस्तु नित्यमेव समाहितः

2.96.100.81

उद्धरेत्तु निधिं राम शत्रून्वा विजयेद्ध्रुवम् ॥
आहिर्बुध्न्यं तथा स्नानं गोदमुक्तं पुरा तव

2.96.100.82

चन्दनं च हरिद्रा च दर्भमूलं तथैव च॥
कृत्वा कुम्भे नरः स्नायात्कृत्वा पिष्टेन कन्यकाम्॥

2.96.100.83

स्नानालङ्कारवस्त्राद्यान्पूष्णे दद्याद्बलिं ततः ॥
मधुलाजास्तथैवात्र धूपं दद्याद्घृतेन च

2.96.100.84

होमं घृतेन कर्तव्यं दक्षिणा कनकं भवेत् ॥
ब्राह्मीं सुवर्चलां होमं होमगर्भो मणिर्भवेत्

2.96.100.85

एवं पौष्णे सदा स्नातो यः सदा युज्यते नरः ॥
आश्विने सुप्रदं स्नानं पूर्वमुक्तं मया तव ॥

2.96.100.86

वैजयन्तीं बलां चैव समङ्गां च भृगूत्तम ॥
इन्द्रहस्तां मधूकं च कुर्याद्राम घटत्रये

2.96.100.87

तेन स्नातो यमायाथ प्रपद्यात्तिलतण्डुलम् ॥
माल्यानि चैव चित्राणि पीतानि वसनानि च

2.96.100.88

उरभ्रशृङ्गं धूपार्थे होमार्थे च तथा तिलम् ॥
दक्षिणा चात्र दातव्या तिलं कनकमेव च

2.96.100.89

दर्भमूलैर्मणिः कार्यः कनकेन च वेष्टितः ॥
एवं स्नातो नरो याम्ये दीर्घं जीवितमाप्नुयात्

2.96.100.2.99.90

स्नानानि मुख्यानि तवोदितानि काम्यानि पापप्रशमाय राम ॥
एतानि कार्याणि सदा द्विजेन्द्र धरान्वितेनाथ विचक्षणेन

2.96.100.99

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नक्षत्रस्नानकथनन्नाम नवनवतितमोऽध्यायः

2.96.100.2

2.100
पुष्कर उवाच ॥
उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते ॥
सूर्ये मध्यमनुप्राप्ते नरेन्द्रो - - - ॥
सर्वैर्बीजैस्तथा रत्नैः फलैः पुष्पैस्तथौषधैः ॥
स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयंभुवः

2.96.100.3

धूपं च दद्याद्धर्मज्ञ कुशमूलघृताक्षतैः ॥
होमं घृताक्षतैः कुर्याद्दद्यात्कनकमेव च

2.96.100.4

क्रियमाणे स्रुवे चूर्णं तथा चैव रणो द्विजः ॥
सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत्

2.96.100.5

स्नानं तु राज्यकामस्य प्रोक्तमेतन्मया तव ॥
ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम्

2.96.100.6

ब्राह्मं तव स्नानमिदं प्रदिष्टं सर्वाधिनाशाय भृगुप्रधान ॥
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम्

2.96.100.100

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc