भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.86.90

2.86.90.1

2.86
पुष्कर उवाच ॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च

2.86.90.2

प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ॥
भक्त्या गुरोस्तु कुर्वीत अभिगम्याभिवादनम्

2.86.90.3

गुरोस्तु वामं चरणं वामहस्तेन संस्पृशेत् ॥
दक्षिणं दक्षिणेनैव स्वनाम परिकीर्तयन्

2.86.90.4

अनुज्ञातस्तु गुरुणा ततोऽध्ययनमाचरेत् ॥
कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमानतः

2.86.90.5

ब्रह्मावसाने प्रारम्भे प्रणवं चैव कीर्तयेत् ॥
अनध्यायेष्वध्ययनं वर्जयेत्तु प्रयत्नतः

2.86.90.6

भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥
गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया

2.86.90.7

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ॥
श्रियः प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः

2.86.90.8

हितं प्रियं गुरोः कुर्याद्भक्त्याहंकारवर्जितः ॥
अन्वास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम्

2.86.90.9

अभिवाद्य गुरुं पश्चाद्गुरोर्वचनकृद्भवेत् ॥
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत्

2.86.90.2.86.10

हिंसां परापवादं च अश्लीलं च विशेषतः ॥
मेखलामजिनं दण्डं धारयेत्प्रयतः सदा

2.86.90.11

विनष्टानप्सु निक्षिप्य तथान्यान्धारयेत्पुनः ॥
आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात्

2.86.90.12

समाप्ते तु व्रतं कुर्यात्त्रिरात्रेणैव शुद्ध्यति ॥
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः

2.86.90.13

एवं मतं तु कुर्वीत वेदस्वीकरणं द्विजः ॥
गुरवे दक्षिणां दत्त्वा स्नायाच्च तदनन्तरम्

2.86.90.14

आशरीरविमोक्षाद्वा वसेद्गुरुकुले सदा ॥
नैष्ठिको ब्रह्मचारी च वायुभूतः खमूर्तिमान्

2.86.90.15

तत्पदं समवाप्नोति यत्र गत्वा न शोचति ॥
स्नाने चैव सगोदाने कालः पूर्वो विधीयते ॥
पूजनं वासुदेवस्य सर्वत्र च विधीयते

2.86.90.16

संपूज्य देवं गुरवे च दत्त्वा धनं यथावत्परिपूर्णविद्यः ॥
गृहाश्रमी स्याद्विधिवन्नृसिंह यत्रास्य लोकद्वितयं प्रदिष्टम्

2.86.90.86

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने ब्रह्मचर्यवर्णनो नाम षडशीतितमोऽध्यायः

2.86.90.1

2.87
पुष्कर उवाच ॥
विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ॥
द्वे च वैश्यस्तथा कामं भार्यैकामपि चान्त्यजः

2.86.90.2

ब्राह्मणी क्षत्रिया वैश्या शूद्री विप्रस्य कीर्तिताः ॥
क्रमेण कामसक्तस्य विवाहाः परिकीर्तिताः

2.86.90.3

विवाहमुत्क्रमात्कृत्वा नरकं प्रतिपद्यते ॥
धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया

2.86.90.4

असवर्णा तु या नारी रत्यर्थे सा प्रकीर्तिता ॥
आधानं तस्य धर्मार्थं न प्रशंसन्ति साधवः

2.86.90.5

पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ॥
वैश्या प्रतोदमादद्याद्दशां चैवान्त्यजा तथा

2.86.90.6

उत्कृष्टवेदनेऽप्येतद्विधानं परिकीर्तितम् ॥
सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक्

2.86.90.7

न कन्याविकयं कार्यं कदाचिदपि केनचित् ॥
केशविक्रयिणो यान्ति नरकानेक विंशतीन्

2.86.90.8

अपत्यविक्रयात्तस्य निष्कृतिर्न विधीयते ॥
कन्याप्रजीवनात्किंचिन्नोपजीवति यः पुमान्

2.86.90.9

न तच्छुल्कं समुद्दिष्टमानृशंस्यं हि तत्कृतम् ॥
कन्यादानं शचीयागो विवाहोऽथ चतुर्थिका

2.86.90.2.87.10

विवाहमेतत्कथितं राम कर्मचतुष्टयम् ॥
दत्तामपि हरेत्कन्यां वरश्चेद्दोषभाग्भवेत्

2.86.90.11

नष्टे मृते प्रव्रजिते क्लीबेऽथ पतितेऽपतौ ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते

2.86.90.12

।
मृते तु देवरे देया तदभावे यदृच्छया ॥
पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयम्

2.86.90.13

रोहिणी चेति वरुणं भगणः शस्यते सदा ॥
नैकगोत्रां च वरयेन्नैकार्षीयां च भार्गव

2.86.90.14

पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ॥
वरयेल्लक्षणोपेतां सदा लोकद्वयेच्छया

2.86.90.15

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः

2.86.90.16

आहुः प्रदानं ब्राह्मेण कुलशीलयुताय तु ॥
तज्जः पुनात्युभयतः पुरुषानेकविंशतीन्

2.86.90.17

दैवश्च ऋत्विजे दानं स तु यज्ञः प्रकीर्तितः ॥
तज्जः पुनाति धर्मज्ञ स्वकुले पुरुषत्रयान्

2.86.90.18

शुल्केन चासुरं विद्यात्स तु धर्मादृते मतः ॥
परस्परेच्छया राम कन्यकावरयोस्तथा

2.86.90.19

गान्धर्वो नाम निर्दिष्टः स तु मन्मथलक्षणः ॥
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात्

2.86.90.2.87.20

प्राजापत्यस्तथा ब्राह्मः समवर्णेषु पूज्यते ॥
दैवस्तु ब्राह्मणस्यैव नैव चान्यस्य कस्यचित्

2.86.90.21

गान्धर्वराक्षसौ श्रेष्ठौ क्षत्त्रियस्यैव भार्गव ॥
पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम

2.86.90.22

वैवाहिकेन्दौ कुर्वीत कुम्भकारमृदा शचीम् ॥
सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना

2.86.90.23

तां नयेत्सरसस्तीरं नदीतीरमथापि वा ॥
सर्वभूषणसंपन्ना सर्वास्त्वविधवाः स्त्रियः

2.86.90.24

कौसुंभरक्तवसनाः सर्वाः स्युः शस्त्रपाणयः ॥
माल्यानुलेपनैर्भक्ष्यैर्दीपैर्धूपैस्तथैव च

2.86.90.25

कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्चैव शक्तितः ॥
ततः शूर्पेण ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम्

2.86.90.26

संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम् ॥
वाद्यगीतेन महता द्विजवाचनकेन च

2.86.90.27

गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिंदिताम् ॥
त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा

2.86.90.28

वन्दनीयोद्वाहसमये तत्र कालं निबोध मे ॥
प्रसुप्ते केशवे राम न तु कार्यं कथञ्चन

2.86.90.29

न पौषे न तथा चैत्रे न चार्ककुजवासरे ॥
कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्लस्य भार्गव

2.86.90.2.87.30

तथा रिक्ततिथौ नैव न विष्टौ करणे तथा ॥
न शुक्रेऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ

2.86.90.31

शशांकेऽन्यग्रहाश्चैव विवाहो न प्रशस्यते ॥
अर्कार्किभौमयुक्ते भे व्यतीपातहते तथा

2.86.90.32

दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते ॥
तथा शिखिशिखाध्वस्ते सैंहिकेययुते तथा

2.86.90.33

वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम ॥
सौम्यं पित्र्यं च वायव्यं सावित्रं रौहिणं तथा

2.86.90.34

उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च ॥
मूहूर्ताश्च तथैतेषां शुभा अभिजिता सह

2.86.90.35

मानुष्याख्यस्तथा लग्नो मानुष्याख्यस्तथांशकः ॥
अमानुष्याख्ये लग्नेऽपि मानुष्याख्येंशको हितः

2.86.90.36

तृतीये च तथा षष्ठे दशमैकादशाष्टमे ॥
अर्कार्किभौमतनयाः प्रशस्ता न कुजोष्टमः

2.86.90.38

सप्तान्त्याष्टमवर्ज्येषु शेषाः शस्ता ग्रहोत्तमाः ॥
तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ॥ ३७
संकल्पविधिना कार्यो विवाहस्तदनन्तरम् ॥
वैवाहिकेऽह्नि कर्तव्यास्तथैव च चतुर्थिके ॥

2.86.90.39

न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ॥
अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम्

2.86.90.2.87.40

पर्ववर्ज्यं सदा गच्छेत्स्त्रीणां वा संस्मरन्वरम् ॥
सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम

2.86.90.41

परस्परातिक्रमणं दंपत्योः परिवर्जयेत् ॥
निष्कारणं तथा राम न कार्यमधिवेदनम्

2.86.90.42

अप्रजा रोगिणी मूढा तथा च कलहप्रिया ॥
कन्याप्रजा तथा या च या चैवाप्रियवादिनी

2.86.90.43

एताः खल्वधिवेत्तव्या गृहकार्यपराङ्मुखीः ॥
अधिविन्ना विशेषेण पालनीया सुतं भवेत्

2.86.90.44

धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत् ॥
धर्माधर्मौ समौ राम दम्पत्योरुभयात्मकौ

2.86.90.45

पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य ॥
धर्मार्थकामान्सततं द्विजेन्द्र तान्रक्षयेत्सम्यगथानया स्वान्

2.86.90.1

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्ताशीतितमोध्याम् ॥ ८७
2.88
॥ पुष्कर उवाच ॥
निद्रां जह्याद् गृही राम नित्यमेवारुणोदये ॥
वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम्

2.86.90.2

स्नानं समाचरेत्प्रातः सर्वकल्मषनाशनम् ॥
वेगोत्सर्गं न कुर्वीत फालकृष्टे तथा शुचौ

2.86.90.3

गोष्ठे न चाग्नौ न तटे द्रुमच्छायासु शाद्वले ॥
पथि भस्मनि तोये च नांगणे न च गोपथे

2.86.90.4

नाग्न्यर्कानागतोयेषु प्रतिवाते तथैव च ॥
न वेगितो न कार्यस्थो वेगोत्सर्गं समाचरेत्

2.86.90.5

उदङ्मुखस्तु सन्ध्यासु दिवा वै भृगुनन्दन ॥
दक्षिणाभिमुखो रात्रौ नाकाशे तु कथञ्चन

2.86.90.6

कर्णस्थब्रह्मसूत्रस्तु वस्त्राच्छादितमस्तकः ॥
अभ्युद्धृताभिरद्भिस्तु मृद्भिः शौचं समाचरेत्

2.86.90.7

कृतशौचः शुचौ देशे प्राङ्मुखः सुसमाहितः ॥
उदङ्मुखस्तु धर्मज्ञ तथान्तर्जानुरेव च

2.86.90.8

उपस्पृशेच्च धर्मज्ञ शुद्धपादकरः सदा ॥
एकहस्तार्पितेनाऽथ फेणबुद्बुदिना तथा

2.86.90.9

अग्निपक्वेन तोयेन ननु नोपस्पृशेद्बुधः ॥
अङ्गुल्यग्रे भवेद्दैवं ब्राह्ममङ्गुलिमूलके

2.86.90.2.88.10

पैत्र्यं तर्जनिमूले स्यात्कनिष्ठायाश्च मानुषम् ॥
ब्राह्मेण त्रिः पिबेदापः प्रमृज्यात्तु ततो मुखम्

2.86.90.11

खान्यद्भिः संस्पृशेत्पश्चान्मूर्धानं नाभिमेव च ॥
उपस्पृश्य ततः पश्चाद्भक्षयेद्दन्तधावनम्

2.86.90.12

भुक्त्वा च निक्षिपेद्राम नित्यमेव समाहितः ॥
उदङ्मुखः प्राङ्मुखो वा न याम्याशापराङ्मुखः

2.86.90.13

मांसन्न भक्षयेच्चैव नोर्धशुष्कं न पिच्छिलम्॥
सुशिरं मधुरं चाम्लं वित्वचं पत्रसंयुतम

2.86.90.14

समपूर्वमतिस्थूलं कुब्जकीटविनाशितम् ॥
शाल्मल्यश्वत्थभव्यानां धवकिंशुकयोरपि

2.86.90.15

कोविदारशमीपीलुश्लेष्मातकबिभीतकान् ॥
वर्जयेद्दन्तकाष्ठेषु गुग्गुलं क्रमुक तथा

2.86.90.16

वटासनार्कखदिरकरवीरांश्च भक्षयेत् ॥
जात्यश्वबिल्वबदरं मूलं च ककुभस्य च

2.86.90.17

अरिमेदं प्रियङ्गुं च कण्टकिन्याश्च भार्गव ॥
प्रक्षाल्य भक्षयेत्पूर्वं प्रक्षाल्यैव च संत्यजेत्

2.86.90.18

पतितेऽभिमुखं शस्तं शान्ताशाभिमुखे दिनम् ॥
सौभाग्यकामो वामेन भक्षयेत्प्राक् सुसंयतः

2.86.90.19

मुखभागेन धर्मज्ञ वाग्यतश्चैव भक्षयेत् ॥
मलशौचं ततः कृत्वा सम्यक् स्नानमथाचरेत्

2.86.90.2.88.20

न स्नानमाचरेद्भुक्त्वा नाविज्ञाते जलाशये ॥
नातुरो नारुणकरैरनाक्रान्ते नभस्तले

2.86.90.21

अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात ॥
परांभसि तथैवाल्पे नासिरस्कः कथञ्चन

2.86.90.22

नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम्

2.86.90.23

खानि रात्रौ शयानस्य स्रवन्ति पुरुषस्य च॥
तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्

2.86.90.24

प्रातःस्नायी सदा राम नरकं न च पश्यति ॥
यः करोति सदा राम स्नानं तु सवनद्वयम्

2.86.90.25

स तु स्वर्गमनुप्राप्य त्रिदशैरपि पूज्यते ॥
तथा त्रिषवणस्नायी स्वर्गलोके महीयते

2.86.90.26

मानुष्यं प्राप्य भवति रूपयौवनसंयुतः ॥
धनधान्यवति स्फीते कुले चैव प्रसूयते

2.86.90.27

रूपौदार्यगुणोपेताः स्त्रियश्चाप्नोत्यनिन्दिताः ॥
धर्मे मतिश्चास्य भवेद्यशसा च विराजते

2.86.90.28

तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव ॥
स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय

2.86.90.88

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः

2.86.90.1

2.89
पुष्कर उवाच॥
माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत् ॥
नान्यत्र धारयेत्प्राज्ञो बहिर्गन्धं न धारयेत्

2.86.90.2

यश्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव ॥।
कण्टकिभ्योऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत्

2.86.90.3

कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे ॥
चन्दनेनानुलिप्तेन कुंकुमागुरुभिस्तथा

2.86.90.4

।
कर्पूरेण तथाङ्गानि शुभेन च प्रियङ्गुना ॥
वस्त्रं नान्यधृतं धार्यं न रक्तं मलिनं तथा

2.86.90.5

जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः ॥
उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत्

2.86.90.7

हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥
व्यालैरदान्तैर्वाहैश्च न व्रजेच्च कदाचन ॥ ६
स्नानभोजनपानादि तेषामाद्यो न वाचरेत् ॥
नैकः प्रपद्येदध्वानं नाधार्मिकसहायवान्

2.86.90.8

न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति ॥
न चातिविषमे वाते सन्ध्ययोश्च तथा द्विज

2.86.90.9

नासन्निहितपाने वा न वेगान्न च सन्ततम् ॥
सातपत्र पदत्राणः सोष्णीषश्च तथा चरेत्

2.86.90.2.89.10

चतुष्पथं न सः कुर्याद्विख्यातांश्च वनस्पतीन् ॥
मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम्

2.86.90.11

अमङ्गल्यानि वामानि कर्तव्यानि विजानता ॥
वरस्य भूमिपालस्य स्नातकस्याथ चक्रिणः

2.86.90.12

भाराक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः ॥
व्यालयुद्धं न चेक्षेत विना विषममास्थितः

2.86.90.13

न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि ॥
तिरस्कृतं तु वस्त्रेण न कुद्धस्य गुरोर्मुखम्

2.86.90.14

न स्त्रीं स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम् ॥
न पत्नीं भोजनस्वप्नस्नानासक्तां विभूषणाम्

2.86.90.15

नाञ्जयन्तीं स्वके नेत्रे नाश्लीलं किञ्चिदेव तु ॥
नानास्थानं न पश्येच्च न पश्येच्च महानसम्

2.86.90.16

जलाशयतटस्थांश्च न पश्येत्तु कदाचन ॥
हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः

2.86.90.17

व्यालैरदान्तैर्वाहैश्च न व्रजेत्तु कदाचन ॥
स्नानभोजनपानादि तेषामादौ न चाचरेत्

2.86.90.18

चतुष्पथस्तुषाङ्गारशन्यवेश्माटवीस्तथा

2.86.90.19

कार्पासास्थि तथा भस्म नाक्रमेद्यश्च कुत्सितम् ॥
अन्तःपुरं ऋतुगृहं परदूतगृहं तथा

2.86.90.2.89.20

नारोहेद्विषमां नावं न वृक्षं न च पर्वतम् ॥
न लोष्टेन न काष्ठेन नाश्मना च फलद्रुमान्

2.86.90.21

न पातयेन्न कुर्वीत सर्वत्र च कुतूहलम् ॥
अर्थायतनशास्त्रेषु सर्वत्र स्यात्कुतूहली

2.86.90.22

दण्डेन करपातैर्वा न कुर्यादम्बुवादनम् ॥
तृणच्छेदं न कुर्वीत न च लोष्टाभिमर्दनम्

2.86.90.23

नखानां भक्षणं चैव दन्तानां कुट्टनं तथा ॥
छेदनं च नखैर्लोम्नां वृथा चेष्टां विवर्जयेत्

2.86.90.24

मुखाङ्गवादनं चैव क्ष्वेडोत्क्रुष्टं तथा वृथा ॥
अवगुंठ्य शिरो रात्रौ न शयीत कदाचन ॥॥

2.86.90.25

पर्यटेन्न तथा रात्रौ विना राम प्रदीपिकाम् ॥
नाद्वारेण पशुगृहे नाद्वारेण रिपोर्गृहम्

2.86.90.26

प्रविशेन्न च तिष्ठेच्च निद्रितं न च बोधयेत् ॥
नाक्षिपेत्परवाक्यं तु न च रक्तं विरागयेत्

2.86.90.27

कथाभङ्गं न कुर्वीत न च वासोविपर्ययम् ॥।
नोर्ध्वजानुश्चिरं तिष्ठेदुत्पतन्तीं न लंघयेत्

2.86.90.28

परक्षेत्रे चरन्तीं गां पाययन्तीं च वत्सकम्॥
नाचक्षीत तथान्यस्य शक्रचापं न दर्शयेत्

2.86.90.29

भद्रं भद्रमिति ब्रूयान्नानिष्टं वर्तयेत्क्वचित् ॥
पालाशमासनं वर्ज्यं पादपीठं च पादुके

2.86.90.2.89.30

सुरार्चा गुरुभूपानां ब्राह्मणानां विशेषतः ॥
नाक्रमेच्च तथा छायां श्वपचस्य च भार्गव

2.86.90.31

द्विजयोश्चैव दम्पत्योर्भूपयोर्युध्यमानयोः ॥
अग्निब्राह्मणयोश्चैव द्विजभूपालयोस्तथा

2.86.90.32

शिष्योपाध्याययोश्चैव न च मध्ये न पूज्ययोः ॥
तैले जले तथा वक्त्रमादर्शे च मलान्विते

2.86.90.33

न पश्येन्न तथा पश्येदुपरक्तं दिवाकरम् ॥
नोच्छिष्टस्तारकाराहुः स्तुतिनाशं हुताशनम्

2.86.90.34

न तिष्ठेत्प्रतिवातं च तथा च प्रतिभास्करम् ॥
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः

2.86.90.35

रोदनं च तथा नग्नः कुर्यात्तोयावगाहनम् ॥
निष्कारणं नदीपारं बाहुभ्यां न तरेत्तथा

2.86.90.36

न प्रशंसेन्नदी तोये नदीमन्यां कथंचन ॥
न गिरौ पर्वतं राम न राज्ञः पुरतो नृपम्

2.86.90.37

असंतर्प्य पितुर्देयं नदीपारं न च व्रजेत् ॥
भोजनं वर्जयेन्नावि ष्ठीवनं च तथांभसि

2.86.90.38

नैवाप्सु प्रक्षिपेद्विद्वानमेध्यं रुधिरं विषम् ॥
समाल्यो नाचरेत्स्नानं न द्विवासा विकारणम्

2.86.90.39

आत्मनश्च तथा राम नैव त्वपनयेत्स्रजम् ॥
स्नातः शिरो नावधुनेन्नांगेभ्यस्तोयमुद्धरेत्

2.86.90.2.89.40

तद्दिने चानुलिप्तांगं तथा स्नानं विवर्जयेत् ॥
शिरःस्नातश्च तैलेन स्पृशेदंगं न किञ्चन

2.86.90.41

वाससा वामभागस्य रजसा पूर्ववाससा ॥
संमार्जनं रजोवर्ज्यः खराश्वादेस्तथैव च

2.86.90.42

मेध्यानि च तथा राम गोगजाश्वरजांसि च ॥
नाधः कुर्वीत दहनं न च पादौ प्रतापयेत्

2.86.90.43

दर्भैर्न मार्जयेत्पादौ न च कांस्ये प्रधापयेत् ॥
गोगजाश्वाजपुच्छेषु खरस्य च विशेषतः

2.86.90.44

यल्लग्नमुदकं तस्माद्विप्रुषो दूरतस्त्यजेत् ॥
अकस्मादप्यशस्तास्ताः खञ्जांगस्पर्शनं तथा

2.86.90.45

हीनं वा न वहेद्राम श्रुतरूपधनादिभिः॥
हीनैर्न च वसेत्सार्धं न देशे वैद्यवर्जिते

2.86.90.46

न भूपालविहीने च न सांवत्सरवर्जिते ॥
दुष्टकूपान्विते राम तथा च बहुनायके

2.86.90.47

स्त्रीनायके बालपतौ शूद्रराज्ये तथैव च ॥
म्लेच्छवेषो न कर्तव्यो म्लेच्छभाषा तथैव च

2.86.90.48

चण्डालैः पतितैर्म्लेच्छैर्भाषणं न कदाचन ॥
नकारं कायतः कृत्वा कीर्तयेत्केशवं विभुम्

2.86.90.49

नासंवृतमुखः कुर्याद्धासं जृम्भां तथा क्षुतम् ॥
गोपयेज्जन्मनक्षत्रमृणसारं गृहे मलम्

2.86.90.2.89.50

प्रभोरप्यवमानं स्वं तस्य दुश्चरितं च यत् ॥
नानुकूल्यं तथा कार्यमिन्द्रियाणां सुखेप्सुना

2.86.90.51

युक्त्या च कामसेवी स्यान्नाकस्मान्निःसुखी भवेत् ॥
वेगरोधं न कर्तव्यमन्यत्र क्रोधवेगतः

2.86.90.52

।
नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पोऽपि भार्गव ॥
स्नात्वा भुक्त्वा च धर्मज्ञ भक्तिकामः सुरार्चने

2.86.90.53

मलायनानां संस्पर्शे मलानां चैव भार्गव ॥
वाससश्च परीधाने रथ्याचंक्रमणे तथा

2.86.90.54

आचमेच्च तथा राम तथा स्वप्नोत्थितो नरः ॥
न हुंकुर्याच्छिवं पूज्यं बिभृयान्नाग्निचारिणीम्

2.86.90.55

न भुक्तमात्रं प्रायस्येन्नीचसेवां विवर्जयेत् ॥
पादेन नाक्रमेत्पादं न कण्डूयेन्न शौचयेत्

2.86.90.56

वर्जयेच्छवधूमं च गिरं चाश्लीलसंयुताम् ॥
प्रत्यक्षं वा परोक्षं वा कस्यचिन्नाप्रियं वदेत्

2.86.90.57

वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ॥
नास्तिक्यमनृतं चैव चेतसो दूषणं तथा

2.86.90.58

स्त्रीणामीर्ष्या न कर्तव्या विश्वासं तासु वर्जयेत् ॥
लाडितास्ताडिताः कार्या देहे स्वे स्त्रीकुमारिकाः ॥

2.86.90.59

सर्वेषामेव धर्माणां कर्तव्यं श्रवणं तथा ॥
नमस्कारं च देवानां सर्वेषामेव कारयेत्

2.86.90.2.89.60

सर्वेषां चरितं राम धर्मतो न विकुत्सयेत् ॥
न चाचरेच्च धर्मज्ञ ते हि तेजोपहाहताः

2.86.90.61

धर्मस्यार्थस्य कामस्य पीडावर्ज्या परस्परम् ॥
देवस्य वयसश्चैव शिल्पस्य स्वकुलस्य च

2.86.90.62

आचरेत्सदृशं वेषं व्यवसायानुरूपतः ॥
स्नात एवाशु बिभृयात्सोष्णीषे धौतवाससी

2.86.90.63

अनुलिप्येत्तथांगानि सितं माल्यं च धारयेत् ॥
नासंस्कृतं च बिभृयात्काञ्चनं पुरुषोत्तम

2.86.90.64

निराशनस्य सुप्तस्य शयानस्य तथैव च ॥
तथा भुक्तवतो राम स्नातस्य भाषितस्य च

2.86.90.65

यात्रायुद्धोत्सुकस्यापि श्मश्रुकर्म विवर्जयेत् ॥
वैष्णवं वारुणं त्वाष्ट्रं सावित्रं वासवं तथा

2.86.90.66

वायव्यमिन्द्रिकं पौष्णं शाक्रमाश्विनमेव च ॥
मैत्रादित्ये तथा पुष्यः शंखचक्रगणं भवेत्

2.86.90.67

नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः ॥
अर्कार्किभौमवाराश्च रिक्ताश्च तिथयस्तथा

2.86.90.68

प्रतिपच्च तथा षष्ठी वर्जयेत्क्षौरकर्मणि ॥
वर्जयेज्जन्मनक्षत्रं नानुकूलं तथैव च

2.86.90.69

जन्मनक्षत्रगे सौम्ये शिरःस्नानेन यत्नतः ॥
पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः

2.86.90.2.89.70

श्राद्धं कुर्यात्प्रयत्नेन वह्निब्राह्मणपूजनम् ॥
वाहनायुधच्छत्राद्यं पूजनीयं प्रयत्नतः

2.86.90.71

सुराणामर्चनं कार्यं केशवस्य विशेषतः ॥
समं स्वलंकृतस्तिष्ठेच्छिरस्नातश्च मानवः

2.86.90.72

निर्मलानि च कार्याणि दन्तकेशनखानि च ॥
अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम्

2.86.90.73

शिरोभ्यङ्गं न कुर्वीत पर्वसन्धौ तथैव च ॥
तथैवामलकस्नानं सप्तमीषु विवर्जयेत्

2.86.90.74

विना तु सततं स्नानं न स्नायाद्दशमीषु च ॥
अमावस्यां सुरार्चासु नववस्त्रं न धारयेत्

2.86.90.75

न च भौमदिने राम तेष्वनक्तेषु चाप्यथ ॥
सावित्र रौहिणं मैत्रमादित्यं तिष्यमाश्विनम्

2.86.90.76

उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम् ॥
इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दिशेत्

2.86.90.77

नक्षत्राणामथैतेषां मुहूर्ताश्च हितप्रदाः ॥
परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत्

2.86.90.78

केशग्रहान्प्रहारांश्च शिरस्येतां तथैव च ॥
दूरादावसन्थामूत्रं पूरीषं च समुत्सजेत्

2.86.90.79

पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत् ॥
सर्वमेतत्त्यजेत्प्राज्ञो येन स्यादरिमर्दनम्

2.86.90.2.89.80

।
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत् ॥
तथैकमनसा कार्यं देवतानां च पूजनम्

2.86.90.81

वह्निसंपूजनं चैव न चास्नातेन भार्गव ॥
माल्यानुलेपनादीनि न प्रपद्यात्तु कस्यचित्

2.86.90.82

अन्ये च देवताविप्रगुरूणां भृगुनन्दन ॥
कोविदारगणाशाकं चतुर्थी पिप्पली तथा

2.86.90.83

वर्जये --न्मांसं सुखार्थी सर्वमेव तु ॥
राजद्विष्टं न कर्तव्यं विरोधं च महाजनैः

2.86.90.84

शुष्कवैरं विवादं च प्रयत्नेन विवर्जयेत् ॥
न वसेच्च तथा वासं वास्तुविद्याविगर्हितम्

2.86.90.85

आगाराद्याखुघातां च परोच्छिष्टां तथैव च॥
ऊषराच्चैव वल्मीकान्मृदं शौचे विवर्जयेत्

2.86.90.86

येनेच्छेद्विपुलां प्रीतिं तेन सार्धमरिन्दम ॥
न कुर्यादर्थसंबन्धं दारसंदर्शनं तथा

2.86.90.87

आत्माभिष्टवनं निन्दां परस्य च विवर्जयेत् ॥
दृढभक्तो भवेन्नित्यं कृतज्ञश्च विशेषतः

2.86.90.88

इन्द्रियाणां जये योगमातिष्ठेच्च सदा नरः ॥
इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात्

2.86.90.89

अभिगत्वा तु धर्मज्ञो योगक्षेमार्थमीश्वरम् ॥
गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः

2.86.90.2.89.90

अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ॥
कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात्

2.86.90.91

यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः ॥
ऋचमेकां च योध्येति समौ स्यातां न चाधिकः ॥
स्वाध्यायाऽनन्तरं स्नातः कृतजप्यः समाहितः

2.86.90.92

संपूजनं देववरस्य कुर्यात्तस्याप्रमेयस्य जनार्दनस्य ॥
संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रमवाप्नुवन्ति

2.86.90.1

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोध्यायः ॥ ८९
2.90
॥ पुष्कर उवाच॥
स्वाचान्तः प्रयतः स्नातः प्रविशेद्देवतागृहम् ॥
नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः

2.86.90.2

आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनिवेदयेत् ॥
हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः

2.86.90.3

शन्न आप इत्यनेन देयं सौदामनं भवेत् ॥
इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः ॥।

2.86.90.4

रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने ॥
युवा सुवास इति च मन्त्रो वासस ईरितः

2.86.90.5

पुष्पं पुष्पवतीत्येव धूपं धूरसि चाप्यथ ॥
तेजोसि शुक्रमसि दीपं दद्याद्विचक्षणः

2.86.90.6

दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत् ॥
हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने

2.86.90.7

अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ॥
चामरव्यजने मात्रां छत्रं यानासने तथा

2.86.90.8

यत्किञ्चिदेवमादिः स्यात्सावित्रेण निवेदयेत् ॥
पौरुषं च जपेत्सूक्तं तदेव जुहुयात्तथा

2.86.90.9

अर्चाभावे तथा वेद्यां स्थले पूर्णघटे तथा ॥
नदीतीरेऽथ कमले केशवं पूजयेन्नरः

2.86.90.2.90.10

सर्वाशुभानां परिघातकारि संपूजनं देववरस्य विष्णोः ॥
कृत्वानघान्क्षिप्रमनुप्रयाति यत्रैक्यतां याति पितामहस्य

2.86.90.90

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने देवकर्माध्यायो नाम नवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc