विष्णुधर्मोत्तरपुराणम् · अध्याय 2.61.65
2.61
पुष्कर उवाच ॥
राजधर्मव्रतं श्रेष्ठं कृत्वा पुरुषविग्रहम् ॥
पूरुषान्विनियुञ्जीत चोत्तमाधमकर्मसु
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा ॥
शतग्रामाधिपं चापि तथैव विषयेश्वरम्
तेषां भागविभागश्च भवेत्कर्मानुरूपतः ॥
नित्यमेव तथा कार्यं तेषां चारैः परीक्षयेत्
ग्रामदोषान्समुत्पन्नान्ग्रामेशः प्रशमं नयेन् ॥
अशक्तौ देशपालस्य स तु गत्वा निवेदयेत्
श्रुत्वा तु देशपालोपि तत्र युक्तिमुपाचरेत् ॥
सोप्यशक्तः शतेशाय यथावद्विनिवेदयेत्
शतेशो विषयेशाय सोपि राज्ञे निवेदयेत् ॥
अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत्
राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ॥
वित्तमाप्नोति धर्मज्ञ विषयाच्च सुरक्षितात्
रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः ॥
परचक्रोपमर्देषु वित्तवानेव मुच्यते
वित्तवानेव सहति सुदीर्घमपि विग्रहम् ॥
बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिपः
अन्ने प्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम् ॥
धनवान्धर्ममाप्नोति धनवान्काममश्नुते
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बन्धवाः ॥
यस्यार्थः स पुमाँल्लोके यस्यार्थः सोपि पण्डितः
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ॥
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा
विशेषो नास्ति लोकेषु पतितस्याधनस्य च ॥
पतितानां न गृह्णन्ति दरिद्रो न प्रयच्छति
धनहीनस्य भार्यापि नैव स्याद्वशवर्तिनी ॥
गुणौघमपि चैवास्य नैव कश्चित्प्रकाशयेत्
बान्धवा विनिवर्तन्ते धनहीनात्तथा नरात् ॥
यथा पुष्पफलैर्हीनाच्छकुन्ता द्विज पादपात् ॥
दारिद्र्यमरणे चोभे केषांचित्सदृशे मते ॥
सत्यं हासाद्दरिद्रस्य मृतः श्रेयान्मते मम
कोशं राज्यतरोर्मूलं तस्माद्यत्नं तदर्जने ॥
धर्मेणैव ततः कुर्यान्नाधर्मेण कथंचन
धनैरधर्मसम्प्राप्तैर्यद्दृढं हि पिधीयते ॥
तदेव याति विस्तारं विनाशाय दुरात्मनाम्
सुकृतस्य पुराणस्य बलेन बलिनां वर ॥
यद्यधर्मात्फलं शीघ्रं नाप्नुवन्ति दुरात्मनः
तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा ॥
विनश्यन्ति समूलास्ते सपुत्रधनबान्धवाः
नरकेषु तथा तेषां यातना विविधाः स्मृताः ॥
बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः
नित्यं राज्ञा तथा भाव्यं गर्भिणीसहधर्मिणा ॥
यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् । २२ ॥
गर्भिणी तद्वदेवेह भाव्यं भूपतिना सदा ॥
प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः
किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः ॥
सुरक्षिताः प्रजास्तस्य स्वर्गस्तस्य गृहोपमः ॥
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥
राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि
धर्मो नाम महाभाग सम्पद्रक्षण तत्परः ॥
अरक्षितस्तथा सर्वं पापमाप्नोति भार्गव
नैव किञ्चिदवाप्नोति पुण्यभाक्पृथिवीपतिः ॥
आपन्नमपि धर्मिष्ठं प्रजा रक्षत्यथापदि। । २७ ॥
तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीक्षिता ॥
सुभगैश्चाथ दुर्वृत्तराजवल्लभतस्करैः
भक्ष्यमाणाः प्रजा रक्ष्या कायस्थैश्च विशेषतः ॥
रक्षितास्तद्भयेभ्यस्तु प्रजा राज्ञां भवन्ति ताः
अरक्षिता सा भवति तेषामेवेह भोजनम् ॥
साधुसंरक्षणार्थाय राजा दुष्ट निबर्हणम्
तृणानामिव निर्माता सदा कुर्याज्जितेन्द्रियः ॥
शास्त्रोक्तं बलिमादद्याद्धर्मं तत्तस्य जीवितम्
तस्य सन्त्यजनं राजा न समृद्धोपि कारयेत् ॥
आकाराणि च सर्वाणि शुल्कं शास्त्रोदितो बलिः
दण्डं विनयनाद्राज्ञो धर्म्यं तत्तस्य जीवितम् ॥
धर्ता कराणां सर्वेषां प्रभुरुक्तो महीपतिः
निधिं पुराणं संप्राप्य केशवं तु प्रवेशयेत् ॥
अर्थं ब्राह्मणसात्कुर्याद्धर्मकामो महीपतिः ॥
निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ॥
जगतोस्य समग्रस्य प्रभुरुक्तो द्विजोत्तमः
निधिं ज्ञात्वा पुराणं तु क्षत्रविट्शूद्रयोनयः ॥
निवेदयेयुर्भूपाय राजा लब्ध्वापि तं निधिम्
चतुर्थमष्टमं चांशं तथा षोडशमं द्विज ॥
वर्णक्रमेण विसृजेदाख्यातं धर्म कारणम्
तेऽपि लब्ध्वा तदा तेन संविभज्य द्विजोत्तमान् ॥
शेषेण कुर्युः कामार्थौ विदितौ पृथिवीपतेः
प्रकाशविभवो लोके यस्य राज्ञः स भूपतिः ॥
अप्रकाशधनो यस्तु नरकं तस्य मन्दिरम्
ममेदमिति यो ब्रूयान्निधिं सत्येन मानवः ॥
तस्याददीत नृपतिर्भागमब्राह्मणस्य तु
चतुर्विंशतिकं राम द्वादशं षष्ठमेव च ॥
क्षत्रियाश्च तथा वैश्याः शूद्राश्च भृगुनन्दन
अनृतं च वदन्दण्ड्यः स्ववित्तस्यांशमष्टकम् ॥
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्
अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥
ममेदमिति यो ब्रूयादनुयुक्तो यथाविधि
संपाद्य रूपं द्रव्यादीन्स्वामी तद्द्रव्यमर्हति ॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ॥
वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ॥
निधिवद्भागमादद्यात्प्रनष्टाधिगतान्नृपः
बालदायादिकं रिक्थं तावद्राजा तु पालयेत् ॥
यावत्स स्यात्समावृत्तो यावद्वातीतशैशवः
बालपुत्रेषु चैवं स्याद्रक्षणं निष्कुलासु च ॥
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥
जीवन्तीनां तु तासां ये धारयेयुः स्वबान्धवाः ॥
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः
सर्वेषामेव वर्णानां चौरैरपहृतं धनम् ॥
तत्प्रमाणं स्वकात्कोशाद्दातव्यमविधारयन्
ततस्तु पश्चात्कर्तव्यं चौरान्वेषणमञ्जसा ॥
चौररक्षाधिकारिभ्यो राजापि तदवाप्नुयात्
अहृते च तथा वित्ते हृतमित्येव वादिनम् ॥
निर्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत्
न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः ॥
प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम्
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ॥
शुल्कांशं परदेशाच्च निबोध गदतो मम
क्षयव्ययप्रवासांश्च यथायामं द्विजोत्तम! ॥
ज्ञात्वा तु कल्पयेत्तत्र शुल्कांशं पृथवीपतिः
तथा कार्यं यथा लाभं वणिजः समवाप्नुयुः ॥
पुण्यच्छेदश्च नैव स्यात्स्वदेशे पृथवीपतेः
व्ययं शुल्कप्रवासादि लङ्घयित्वा तथा द्विज ॥
विंशांशभागमादद्युर्दण्डनीया अतोन्यथा
दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु ॥
तदतिक्रमतो द्रव्यं राजगामि विधीयते
दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा ॥
स्त्रीणां प्रव्रजितानां च तारशुल्कं विवर्जयेत्
भिन्नकर्षापणं शुल्कं न ग्राह्यं पृथिवीक्षिता ॥
तारेषु दाशदोषेण नष्टं दाशात्प्रदापयेत्
दैवदोषविनष्टं च नष्टं यस्यैव तस्य तत् ॥
शूकधान्येषु षड्भागं शिंबिधान्येष्वथाष्टकम्
राजा बल्यर्थमादद्याद्देशकालानुरूपकम् ॥
राजांशभागमादद्याद्राजा पशुहिरण्ययोः
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥
पत्रशाकतृणानां च वत्सरेण च चर्मणाम्
वैदलानां च भांडानां सर्वस्याश्ममयस्य च ॥
षड्भागमेव चादद्याद्ब्राह्मणेभ्यस्तथा करम्
तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥
न च क्षुधावसीदेत श्रोत्रियो विषये वसन्
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः
श्रुतवृत्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥
रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसम्
संरक्ष्यमाणो राज्ञा यः कुरुते धर्म संग्रहम् ॥
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च
कर्म कुर्युर्नरेन्द्रस्य मासेनैकं च शिल्पिनः ॥
भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः
स्नातानुलिप्ताश्च विभूषिताश्च वेश्याङ्गनावारविवर्तितेन ॥
संवीतगात्रः पृथिवीश्वरस्य सदाभ्युपासां परितस्त्रिकुर्युः ॥
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे रामं प्रति पुष्करोपाख्याने राजधर्मवर्णनोनामैकषष्टितमोऽध्यायः
।
2.62
पुष्कर उवाच ॥
धर्मश्चार्थश्च कामश्च पुरुषार्थः परः स्मृतः ॥
अन्योन्यरक्षणात्तेषां सेवा कार्या महीक्षिता
धर्ममूलोर्थविटपस्तथा कामफलो महान् ॥
त्रिवर्गपादपस्तस्य रक्षणात्फलभाग्भवेत्
धर्माविरोधिनी कार्या कामसेवा सदैव तु ॥
मूलच्छेदे भवेन्नाशो विटपस्य फलस्य च
कामसेवाविहीनस्य धर्मार्थावपि निष्फलौ ॥
ओषधीनां फलार्थाय कीनाशो यत्नवांस्तथा
कामार्थी यत्नवानेवं लोभो धर्मार्थयोर्द्विज ॥
कामस्यापि परं नार्यो धर्मरागमदोत्कटाः
तदर्थं रत्ननिधयो विभवाश्च तथा परे ॥
गीतं वाद्यं सुमधुरं भोज्यं पानं स्रजिस्तथा
भूषणानि सुगन्धीनि तदर्थं सर्वमेव हि ॥
तपश्चापि तपस्यन्ति दुःखं परमुपाश्रिताः
दुर्गमाणि च तीर्थानि व्रजन्ति पुरुषास्तथा ॥
त्यजन्ति समरे प्राणान्प्राणेभ्योऽप्यधिकं धनम्
त्यजन्ति ब्रह्मणादिभ्यस्तथा स्वर्गेप्सवो जनाः ॥
स्वर्गस्यापि धनं राम कारणं विद्धि भार्गव
ता एव चपलापाङ्गविक्षेपविजिताः प्रजाः ॥
क्षयमेव क्षयं तस्य यस्य नाध्यसितं सदा
अधः कृत्वेन्दुबिम्बाग्रवदनाभिः पुरन्ध्रिभिः ॥
तस्यैकं सफलं जन्म सम्पदश्च मनोरथाः
यस्यैताश्चञ्चलापाङ्ग्यस्तरुण्यो वशमागताः ॥
सेव्यास्ता नातिसेव्याश्च भूभुजा विजिगीषुणा
असेवनाद्वृथा जन्म दोषग्रामोऽतिसेवनात् ॥
ऊरुस्तम्भत्रयं प्रोक्तं शरीरेषु शरीरिणाम्
आहारं मैथुनं निद्रा यैर्वृतं सकलं जगत् ॥
असेवनादथैतस्य तथैवात्यन्तसेवनात्
रोगग्रामो नृणां देहे सम्भवत्यतिदारुणः ॥
विश्वासमतिसक्तिं च तीक्ष्णतां स्त्रीषु वर्जयेत्
न चाधिकारे कर्तव्या भूषणाच्छादनाशनैः ॥
सुविभक्ताश्च कर्तव्या लालनीयास्तथैव च
ज्ञेयौ रागापरागौ च तथा तासां विशेषतः ॥
नारी रागवते लोके नानृतेन विशिष्यते
विरक्ताभिर्महीपाल छद्मना बहवो हताः ॥
द्विष्टान्याचरते या तु नाभिनन्दति तत्कथाम्
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ॥
चुम्बिता मार्ष्टि वदनं दत्तं न बहुमन्यते
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यति ॥
स्पृष्ट्वा धुनोति गात्राणि कान्तं चैव रुणद्धि या
ईषत्स्मितेन वाक्यानि प्रियाण्यपि पराङ्मुखी ॥
नयत्यश्रुतवद्या तु जघनं च विगूहति
दृष्टे विवर्णवदना मित्रेष्वपि पराङ्मुखी ॥
तत्कामितासु च स्त्रीषु मध्यस्थैव च लक्ष्यते
ज्ञातमङ्गलकालापि न करोति च मण्डनम् ॥
या सा विरक्ता रक्ता च निबोध गदतो मम
दृष्ट्वैव हृष्टा भवति वीक्षते च पराङ्मुखम् ॥
दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलाम्
तथाप्यपावर्तयति नैव शक्नोत्यशेषतः ॥
विवृणोति तथाङ्गानि सुगुह्यान्यपि भार्गव
गर्हितं च तथैवांगं प्रयत्नेन विगूहते ॥
तद्दर्शनेन कुरुते बालालिङ्गनचुम्बनम्
आभाष्यमाणा भवति सन्नवाक्या तथैव च॥
स्पृष्ट्वा पुलकितैरंगैः सखे दैर्वापि भज्यते
करोति च तथा राम सुलभद्रव्ययाचनम् ॥
ततः स्वल्पमपि प्राप्य प्रयाति परमां मुदम्
नाम संकीर्तनादेव मुदिता बहु मन्यते ॥
करजाङ्काकितान्यस्य फलानि प्रेषयत्यपि
तत्प्रेषितानि हृदये विन्यस्यत्यपि चादरात् ॥
आलिङ्गनैश्च गात्राणि लिम्पन्तीवामृतेन च
सुप्ते स्वपित्यथादौ तु तथा तस्य विबुध्यते ॥
ऊरू स्पृशति चात्यर्थं सुप्तं चैनं विचुम्बते
एवं रक्तां तु विज्ञाय कामयेतात्मवान्नरः ॥
कामं च भोजनं सख्यं ज्ञेयाः कृत्रिमपुत्रिकाः
स्वीकर्तुमिच्छन्बालायाः क्रीडनादिस्तथैव च ॥
गन्धमाल्यप्रदानेन यौवनस्थां वशं नयेत्
वस्त्रभूषणदानेन तया यौवनविच्युताम् ॥
क्रीडासाधुप्रिया बाला तथा यौवनविच्युता
रतिप्रिया तु विज्ञेया तरुणी चोभयप्रिया ॥
आत्मसंभावना स्त्रीषु न कर्तव्या कथंचन
असूया जायतेऽत्यर्थमात्मसंभाविते नरे ॥
न चासां दर्शनं देयं न चात्यन्तमदर्शनम्
उभयेनाप्यथैतासामुत्कण्ठा तु विहन्यते ॥
हृद्यैः सुविहितैर्भोगैर्गन्धयुक्तैश्च कौशलैः ॥
कार्यमाराधनं स्त्रीणां रतिकामैः सदैव तु
एवं सदा यस्तु करोति राम स्त्रीचेतसां स्वीकरणं मनुष्यः ॥
तस्यान्तराया न भवन्ति किञ्चित्स्त्रीद्वारमासाद्य सदासपत्नः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अन्तःपुरचिन्ता नाम द्विषष्टितमोऽध्यायः
2.63
राम उवाच ॥
कल्पना भोजनीयानां गन्धानां या च कल्पना ॥
तानहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर
पुष्कर उवाच ॥
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पानं तथैव च ॥
कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता
अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु ॥
कटुतोयोदकं क्वाथं शोधितानामसंशयम्
पुराणधान्यजातीनां गन्धमाशु विनश्यति ॥
श्रेष्ठं सार्षपकं तैलं शाकानां परिशोधने
मांसं काठिन्यमायाति कौमल्यं चार्द्रकाम्बुना ॥
वरुणक्षारसंयोगान्मत्स्यस्यास्थि विलीयते ॥
गण्डिकाभिः पलाशस्य क्षीरमायाति पक्वताम् ॥
कपित्थचूर्णयोगेन तथा चैव सुजातकैः
घृतैः सुगन्धी भवति दग्धैः क्षिप्तैस्तथा यवैः ॥
पद्मवारिणि योगेन काञ्जिकस्याम्लता भवेत्
गुडाद्यं शुद्धिमाप्नोति क्षीरेण च तथा युतम् ॥
पद्मरागसमं वर्णं चांशुमत्याः प्रजायते
पानकानां महाभाग यस्याप्यन्यस्य चेच्छति ॥
क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति
लवणाधिकविक्षेपं संजातविरसं ध्रुवम् ॥
सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात्
चणकक्षारयोगेन पुष्पाणि च फलानि च ॥
सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत्
गन्धवर्णरसाधानं पानकादिषु सर्वतः ॥
यथाकालं यथादेशं यथासात्म्यं च कारयेत्
नात्यर्थदीप्तेन हुताशनेन नात्यन्तमन्देन च साध्यमन्नम्॥
रसं न चाप्यत्र भवेत्प्रभूतं नात्यल्पमेतत्कथितं मया ते
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० श्रीपरशुरामं प्रति पुष्करोपाख्याने भोज्यकल्पनो नाम त्रिषष्टितमोध्यायः
2.64
पुष्कर उवाच॥
शोधनं वसनं चैव तथैव च विरेचनम् ॥
भावना चैव पाकश्च बोधनं धूपनं तथा
वासनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥
कपित्थबिल्वजम्बाम्रबीजपूरकपल्लवैः
कृत्वोदकं तु यद्द्रव्यं शोधितं शौचितं तु तत् ॥
तेषामभावे शौचं तु मृतदर्शाम्भसा भवेत्
तदभावे तु कर्तव्यं तदा मुस्ताम्भसा द्विज॥।
शुष्कं शुष्कं पुनर्द्रव्यं पञ्चपल्लववारिणा
प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ॥
पञ्चपल्लवतोयेन क्वाथयित्वा पुनःपुनः
द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥
हरीतकीं ततः पिष्ट्वा पञ्चपल्लववारिणा
तेन पथ्याकषायेण तच्चूर्णं भावयेत्सकृत् ॥
शोषितं शोधयेदेतद्विरेकं तत्प्रकीर्तितम्
ततस्तु गन्धद्रव्येण यथेष्टं कुङ्कुमादिना ॥
भावयेत्तेन तद्द्रव्यं भावना सा प्रकीर्तिता
तेनैव भावयेद्द्रव्यं पञ्चपल्लववारिणा ॥
आश्वत्थेनैव तेनाथ द्रव्यं राम तथास्तु तत्
मृदा पिहितसत्त्वो तु मृण्मये भाजनद्वये॥
विपचेत्तु विधूमाग्नावर्तधूमः पुनःपुनः
तावेव क्वाथयेत्तावत्तत्रैवानुगतो रसः ॥
एतत्पाकविधानं ते पञ्चमं परिकीर्तितम्
ततस्तु भावनाद्रव्यं कल्कपिष्टं नियोजयेत् ॥
कल्कपिष्टे तथा द्रव्ये बोधनं परिकीर्तितम्
।
ततस्तु पूजयेद्द्रव्यं पूर्वमेव तु पथ्यया ॥
ततस्तु गुरुशुक्तिभ्यां चन्दनागरुभिस्ततः
कर्पूरमृगदर्पाभ्यां ततश्चैनं प्रधूपयेत् ॥
इत्येतद्वासनं राम कर्म तेऽभिहितं मया
ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः ॥
पुष्पैर्बकुलजातीनां तथान्येषां सुगन्धिभिः
छायासु शोष्यमाणस्य वासना क्रियते तु या ॥
वासना सा विनिर्दिष्टा कर्मैतच्चाष्टमं शुभम्
कर्माष्टकमिदं कृत्वा वचां पिण्डनिभां तथा ॥
मुस्तं शैलेयकं वापि सेव्यं वा द्विजसत्तम
शोधयेद्गान्धिको विद्याद्यथान्यत्कर्मसेत्स्यति ॥
निर्यासानां च पुष्पाणां कर्माष्टकमिदं शुभम्
विदुषा नैव कर्तव्यं कार्यमन्यत्र भार्गव ॥
अशोधितैस्तथा धूपाः कार्या द्रव्यैर्यथाविधि
अतः परं तु ते योगान्कांश्चिद्वक्ष्यामि ताञ्छृणु ॥
नखं कुष्ठं धनं मांसीस्पृक्त्वा शैलेयकं जलम्
तथैव कुङ्कुमं लाक्षा चन्दनागुरुणी नतम् ॥
सरला देवकाष्ठं च कर्पूरं कार्तया सह
बोलं कन्दुरकश्चैव गुग्गुलः श्रीनिवासकः ॥
सह सर्जरसेनेयं धूपद्रव्यैकविंशतिः
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ॥
द्वेद्वे द्रव्ये समादाय सर्जभागे नियोजयेत्
नवे पिण्याकवलयैः संयोज्य मधुना तथा ॥
धूपयोग्या भवन्तीह यथावत्स्वेच्छया कृताः
त्वचं जातीफलं तैलं कुङ्कुमं ग्रन्थिपर्णकम् ॥
शैलेयं तगरं काष्ठं ताम्बूलं तगरं तथा
मांसीसरावकुष्ठं च नव द्रव्याणि निर्दिशेत्॥
एतेभ्यस्तु समादाय द्रव्यं तत्र यथेच्छया
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनम् ॥
द्रुक्सुरानलदैस्तुल्यैर्वान्यकारसमायुतैः
स्नानमुत्पलगन्धि स्यात्सतैलं कुङ्कुमैर्युतम् ॥
जातीपुष्पसुगन्धि स्यात्तगरार्धेन योजितम् ५२८ ॥
बालकाञ्चनसंयुक्तं पाटलाकुसुमायते ॥
सव्यापकं स्याद्बकुलैस्तुल्यगन्धि मनोहरम्
नालिकावंशसहितं कुट्टिपादेन चार्यकम् ॥
द्विकेसरं वेणुपादं कुन्दपुष्पायते तथा
शैलपादार्थसंयुक्तं व्यक्तं मदनकं भवेत् ॥
मञ्जिष्ठा तगरं बालं द्वयं व्याघ्रनखं नखम्
गन्धपत्रं च विन्यस्य गन्धतैलं भवेच्छुभम् ॥
तैलं निष्पीडितं राम तिलैः पुष्पाधिवासितैः
वासनापुष्पसदृशं गन्धने तु भवेद्द्रुतम् ॥
पूर्ववच्छोधयित्वा तु मुस्तं सेव्यं वचां निशाम्
अभीष्टमन्यत्कलुषं यथावदनुलेपयेत् ॥
उद्धृत्य चन्दनादिं च शोधनं वमनं तथा
वर्जयित्वा विरेकं च शेषकर्माणि कारयेत् ॥
तद्वा भवति धर्मज्ञ वर्णकं त्रिदिवप्रियम्
पटवासांसि कार्याणि वर्णकैः श्लक्ष्णचूर्णितैः ॥
एलालवङ्गकक्कोलजातीफलनिशाकराः
जातिपत्रिकया सार्द्धं स्वतन्त्रं मुखवासकम् ॥
कर्पूरं कुङ्कुमं कान्तं मृगदर्पं हरेणुकम्
कक्कोलैलालवङ्गं च जाती कोशकमेव च ॥
द्रुक्पत्रं त्रुटिमुस्तं च लताकस्तूरिकं तथा
कण्टकानि लवङ्गस्य फलपत्रैश्च जातितः ॥
कटुकं च फलं राम कर्षिकाण्डां प्रकल्पयेत्
तच्चूर्णे खादिरं सारं दद्यात्तुल्यतुलार्पितम् ॥
सहकण्यारसेनास्य कर्तव्या गुलिकाः शुभाः
मुखे न्यस्ताः सुगंधास्ता मुखरोगविनाशनाः ॥
पूर्वं प्रक्षालितं सम्यक्पद्यपल्लववारिणा
शक्त्या तु गुलिकद्रव्यैर्वासिकं मुखवासकम् ॥
कटुकं दन्तकाष्ठं च गोमूत्रे वासितं त्र्यहम्
कृतं च पूगवद्राम मुखसौगन्ध्यकारकम् ॥
त्वक्पथ्ययोः समावंशौ सितभागार्धसंयुतौ
नागवल्लीसमो भाति मुखवासो मनोहरः
कटुकफलनताम्बुत्वक्त्रुटिव्याधिपत्त्रैर्नलदनतसुराभिस्तुल्यभागान्वितानि ॥
द्विगुणितकृतमात्राप्रातिकक्कोलसैम्यैः शशिरसरसमोऽयं गन्धपत्रं विदध्यात्
निहितमिदमनर्घं कर्णपत्रं युवत्याः शमयति विविधानि श्रोत्रपालीगदानि ॥
अपरमपि च यावत्काममामोदमत्तुं भ्रमदलिपटलेन व्याप्यते वक्त्रभागः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपाख्याने गन्धयुक्तिर्नाम चतुष्षष्टितमोऽध्यायः
2.65
पुष्कर उवाच ॥
एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः ॥
न चेमां विश्वसेज्जातु पुत्रमात्राविशेषतः
न स्वपेत्स्त्रीगृहे रात्रौ विश्वासं कृत्रिमं भजेत् ॥
राजपुत्रस्य रक्षां च कर्तव्या पृथिवीक्षिता
आचार्यैश्चास्य कर्तव्यं नित्यं युक्त्यैव रक्षणम् ॥
धर्मार्थकाममोक्षाणां धनुर्वेदं च शिक्षयेत्
रथेऽश्वे कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥
शिल्पानि शिक्षयेच्चैवमाप्तैर्मिथ्या प्रियंवदैः
शरीररक्षाव्याजेन रक्षिणोऽस्य नियोजयेत् ॥
न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः
तथा च विनयेदेनं यथायौवनगं सुखे ॥
विषयैर्यैर्न कृष्येत सतां मार्गात्सुदुर्गमात्
गुणाधानं न शक्यं तु यस्य कर्तुं स्वभावतः ॥
बन्धनं तस्य कर्तव्यं गुप्तदेशे सुखान्वितम्
अविनीतकुमारं हि कुलमाशु विशीर्यते ॥
अधिकारेषु सर्वेषु विनीतं विनियोजयेत्
आदौ स्वल्पे ततः पश्चात्क्रमेणाथ महत्स्वपि ॥
मृगयापानमक्षांश्च वर्जयेच्च महीपतिः
एतान्संसेवमानास्तु विनष्टाः पृथिवीक्षितः ॥
बहवो भृगुशार्दूल येषां संख्या न विद्यते
दिवास्वापं वृथावादं विशेषेण विवर्जयेत ॥
वाक्पारुष्यं न कर्तव्यं दण्डपारुष्यमेव च
परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥
अर्थस्य दूषणं राम द्विप्रकारं विवर्जयेत्
अर्थानां दूषणं चैकं तथा चार्थेन दूषणम् ॥
प्राकाराणां समुच्छेदो दुर्गादीनां समक्रिया
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥
अदेशकाले यद्दानमपात्रे दानमेव च
अर्थैस्तु दूषणं प्रोक्तमसत्कर्मप्रवर्तनम् ॥
कामः क्रोधो मदो मानं लोभो हर्षस्तथैव च
जेतव्यमरिषड्वर्गमाहुस्तु पृथिवीक्षिताम् ॥
एतेषां विजयं कृत्वा कार्यो भृत्यजयस्ततः
कृत्वा भृत्यजयं राजा पौरजानपादाञ्जयेत् ॥
कृत्वा च विजयं तेषां शत्रून्बाह्यांस्ततो जयेत्
बाह्याश्च त्रिविधा ज्ञेयास्तुल्यानन्तरकृत्रिमाः ॥
गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत्
पितृपैतामहं मित्रमाश्रितञ्च तथा रिपोः ॥
कृत्रिमं च महाभाग मित्रं त्रिविधमुच्यते
तथापि च गुरुः पूर्वं भवेत्तत्रापि चाश्रितम् ॥
स्वाम्यमात्यजनपदा बलं दुर्गं तथैव च
कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्तितः
तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥
षडङ्गरक्षा कर्तव्या तेन चापि प्रयत्नतः
॥
अङ्गेभ्यो यस्त्वथैकस्य द्रोहमाचरतेऽल्पधीः ॥
वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ॥
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः
काले मृदुर्यो भवति काले भवति दारुणः ॥
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत्
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ॥
भृत्याः परिभवन्तीह नृपं हर्षलसत्कथम्
व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् ॥
लोकसंग्रहणार्थाय कृतकव्यसनी भवेत् ॥
शौण्डीर्यस्य नरेन्द्रस्य नित्यमुत्क्षिप्तचेतसः ॥
जनो विरागमायाति सदा दुःसेव्यभावतः
स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः ॥
मध्येष्वपि महाभागः भ्रुकुटिं न समाचरेत्
भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ॥
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी
अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः ॥
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत्
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥
अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते
राज्ञा संवृतमन्त्रेण संभाव्यं द्विजसत्तम ॥
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्वापदो ध्रुवाः
कृतान्येव हि कर्माणि ज्ञायन्ते यस्य भूपतेः. ॥
नारब्धानि महाभाग तस्य स्याद्वसुधा वशे
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रः सुरक्षितः ॥
कर्तव्यः पृथिवीपालैर्मन्त्रभेदभयात्सदा
मन्त्रवित्साधितो मन्त्रः संयतानां सुखावहः ॥
मन्त्रभेदेन बहवो विनष्टाः पृथिवीक्षितः
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥
नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः
न यस्य कुशलैस्तस्य वशे सर्वा वसुन्धरा ॥
भवतीह महीभर्तुः सदा भार्गवनन्दन
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ॥
बहुभिर्मन्त्रयेत्कामं राजा मन्त्रान्पृथक्पृथक्
मन्त्रिणामपि नो कुर्यान्मन्त्री मन्त्रप्रकाशनम् ॥
क्वचित्कश्चिच्च विश्वास्यो भवतीह सदा नृणाम्
निश्चयश्च तथा मन्त्री कार्य एकेन सूरिणा ॥
भवेद्वा निश्चयावाप्तिः परबुद्ध्युपजीवनात्
एकस्यैव महीभर्तुर्भूयः कार्ये सुनिश्चिते ॥
ब्राह्मणान्पर्युपासीत त्रय्यां राम मुनींश्च तान्
नासच्छास्त्ररतान्मूढांस्ते हि लोकस्य कण्टकाः ॥
वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन्
तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः ॥
समग्रां वशगां कुर्यात्पृथिवीं नात्र संशयः ॥
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ॥
वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे
त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च शाश्वतीम् ॥
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भं च लोकतः
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ॥
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः
यजेत राजा क्रतुभिर्बहुभिश्चाप्तदक्षिणैः ॥
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च
सांवत्सरिकैराप्तैश्च राष्ट्रादाहारयेद्बलिम् ॥
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु
आवृतानां गुरुकुलाद्द्विजानां पूजनं भवेत्॥
नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते
न तं स्तेना नाप्यमित्रा हरन्ति न च नश्यति॥
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः
समोत्तमाधमै राजा ह्याहूताः पालयन्प्रजाः ॥
न निवर्तेत संग्रामात्क्षात्रं व्रतमनुस्मरन् ५२॥
संग्रामेष्वनिवर्तित्वं प्रजानां परिपालनम् ॥
शुश्रूषा ब्राह्मणानां च राज्ञां निश्रेयसं परम्
कृपणानां च वृद्धानां विधवानां च योषिताम् ॥
योगं क्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥
वर्णाश्रमव्यवस्था तु तथा कार्या विशेषतः ॥
स्वधर्मप्रच्युतान्राजा स्वधर्मे विनियोजयेत्
आश्रमेषु यथाकालं तैलभाजनभोजनम् ॥
स्वयमेव नयेद्राजा सत्कृतान्नवमन्य च
तापसे सर्वकार्याणि राज्यमात्मानमेव च ॥
निवेदयेत्प्रयत्नेन देववच्चैनमर्चयेत्
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ॥
शठाञ्ज्ञात्वा न सेवेत प्रतिबोधं तदा गतान्
नास्यच्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ॥
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ॥
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति
विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना ॥
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत्
बकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥
दृढप्रहारी च भवेत्तथा सूकरवन्नृपः
चित्राकारश्च शिखिवद्दृढभक्तस्तथान्धवत् ॥
भवेच्च मधुराभाषी शुककोकिलवन्नृपः
काकशंकी भवेन्नित्यमज्ञातवसतिं वसेत् ॥
नापरीक्षितपूर्वं च भोजनं शयनं स्पृशेत्
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ॥
न गाहेज्जनसंबाधं न चाज्ञातं जलाशयम्
नापरीक्षितपूर्वैस्तु पुरुषैराप्तकारिभिः ॥
नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा
नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुभवाससम् ॥
नारोहेद्विषमां नावं नापरीक्षितनाविकाम्
ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः ॥
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः
यथा न स्यात्कृशीभावः प्रजानामनवेक्षया ॥
तथा राज्ञा विधातव्यं स्वराष्ट्रं परिरक्षता
मोहाद्राजा स्वराष्ट्रं यत्कर्षयत्यनवेक्षया ॥
सोऽचिराद्भ्रंशते राज्याज्जीविताच्च सबान्धवः
भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ॥
तथा राष्ट्रं महाभाग भृतं कर्ममहद्भवेत्
यो राष्ट्रमनुगृह्णाति राजा सुपरिरक्षति ॥
तं प्रजाश्चोपजीवन्ति विन्दते सुमहत्फलम्
दुह्याद्धिरण्यं धान्यं च मही राज्ञा सुरक्षिता ॥
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता
गोपिनो हि सदा कार्यः संविभागः प्रियाणि च ॥
अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च
सर्वं कर्मेदमायत्तं विधानं चैव पौरुषम् ॥
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया
एवं महीं पालयतोऽस्य भर्तुर्लोकानुरागः परमो भवेत्तु॥
लोकानुरागप्रभवा हि लक्ष्मीर्लक्ष्म्या भवेच्चैव परश्च लोकः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०राम पुष्करसंवादे राजधर्मवर्णनन्नाम पञ्चषष्टितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0