भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.66.70

2.66.70.1

2.66
राम उवाच ॥
दैवे पुरुषकारे च किं ज्यायस्तद्वदस्व मे॥
अत्र मे संशयो देव संशयच्छिद्भवाँस्तथा

2.66.70.2

पुष्कर उवाच ॥
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ॥
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः

2.66.70.3

प्रतिकूलं तथा दैवं पौरुषेण विहन्यते॥
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम्

2.66.70.4

येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ॥
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम्

2.66.70.5

कर्मणा प्राप्यते लोके राजन्सम्यक्तथा फलम् ॥
पौरुषेणाप्यते राम मार्गितव्यं फलं नरैः

2.66.70.6

दैवमेव न जानाति नरः पौरुषवर्जितः ॥
तस्मात्सत्कार्ययुक्तस्य दैवं तु सफलं भवेत्

2.66.70.7

पौरुषं चैव सम्पत्त्या काले फलति भार्गव ॥
दैवं पुरुषकारश्च कालश्च मनुजोत्तम

2.66.70.8

त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥
कृषिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः

2.66.70.9

तास्तु कालेन दृश्यन्ते नैवाकाले कथञ्चन ॥
तस्मात्सदैव कर्तव्यं सधर्मं पौरुषं नृभिः

2.66.70.11

विपत्तावपि यस्येह परलोके फलं धुवम् ॥
नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ॥
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥2.66.१ ०॥
त्यक्तालसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुषान्हि लक्ष्मीः॥
अन्विष्य यत्नाद्वृणुते द्विजेन्द्र तस्मात्समुत्थानवता हि भाव्यम्

2.66.70.66

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे पुरुषकाराध्यायो नाम षट्षष्टितमोऽध्यायः

2.66.70.1

2.67
राम उवाच ॥
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते ॥
लक्षणं च तथा तेषां प्रयोगं वरुणात्मज

2.66.70.2

पुष्कर उवाच ॥
सामभेदौ तथा राम दण्डं च मनुजोत्तम ॥
उपेक्षा च तथा माया इन्द्रजालञ्च भार्गव

2.66.70.3

प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु ॥
द्विविधं कथितं साम तथ्यं चातथ्यमेव च

2.66.70.4

तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ॥
तच्च साधुप्रियं ते च सामसाध्या न राम ते

2.66.70.5

महाकुलीना ऋजवो धर्मनिष्ठा जितेन्द्रियाः ॥
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत्

2.66.70.6

तथ्यं च साम कर्तव्यं कुलशीलादिवर्णनम् ॥
तथा तदुभयं राम कृतानां चैव वर्णनम्

2.66.70.7

अनयैव तथा युक्त्या कृतज्ञख्यापनं स्वकम् ॥
एवं सान्त्वेन कर्तव्या वशगा धर्मतत्पराः

2.66.70.8

साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः ॥
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम्

2.66.70.9

अतिसन्धिकमित्येव पुरुषं सामवादिनम् ॥
असाधवो विजानन्ति तस्मात्तत्तेषु वर्जितम्

2.66.70.2.67.10

ये शुद्धवंशा ऋजवः प्रतीता धर्मे स्थिताः सत्यपरा विनीताः ॥
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राम

2.66.70.67

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे सामविधिर्नाम सप्तषष्टितमोऽध्यायः

2.66.70.1

2.68
पुष्कर उवाच ॥
परस्परं तु ये दुष्टाः क्रुद्धा भीतावमानिताः ॥
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः

2.66.70.2

ये तु येनैव दोषेण परस्माद्राम बिभ्यति ॥
ते तु तद्दोषपालेन भेदनीया भृशं ततः

2.66.70.3

आत्मीयाद्दर्शयेदाशां परस्माद्दर्शयेद्भयम् ॥
एवं हि भेदयेद्भिन्नान्यथावद्वशमानयेत्

2.66.70.4

संहिता हि विना भेदं शक्रेणापि सदःसहा ॥
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः

2.66.70.5

स्वमुखेनाथ यद्धेदं भेदं परमुखेन च ॥
परीक्ष्य साधु मन्येऽहं भेदं परमुखाच्छ्रुतम्

2.66.70.6

भेद्या स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः ॥
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः

2.66.70.7

अन्तःकोपबहिःकोपौ यत्र स्यातां महीक्षिताम् ॥
अन्तःकोपो महांस्तत्र नाशनः पृथिवी क्षिताम्

2.66.70.8

सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः ॥
महिषीभ्लवराजाभ्यां तथा सेनापतेर्द्विज

2.66.70.9

अमात्यान्मन्त्रिपुत्राच्च राजपुत्रात्तथैव च ॥
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम्

2.66.70.2.68.10

बहिःकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ॥
शुद्धान्तस्तु महाभाग शीघ्रमेव जयेदरीन्

2.66.70.11

अपि शक्रसमो राजा कोपेनान्तर्विनश्यति ॥
स्वान्तःकोपं प्रयत्नेन तस्माद्यत्नात्परीक्षता

2.66.70.12

परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा ॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः

2.66.70.13

ज्ञातयः परितप्यन्ते सततं यद्यपि श्रिया ॥
तथापि तेषां कर्तव्यं सुगम्भीरेण चेतसा

2.66.70.14

ग्राहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः॥।
नाज्ञातिरनुगृह्णाति नाज्ञातिः स्नेहमिच्छति

2.66.70.15

।
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः

2.66.70.16

भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सेन्येन निहन्तुमाजौ ॥
सुसंहितेनाथ ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः

2.66.70.68

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भेदविधानन्नामाष्टषष्टितमोऽध्यायः

2.66.70.1

2.69
पुष्कर उवाच ॥
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ॥
सुदत्तेनैव भवति दानेनोभयलोकजित्

2.66.70.2

स नास्ति राम दानेन वशगो यो न जायते ॥
दानवान्गोचरं नैति तथा रामापदां क्वचित

2.66.70.3

दानवानेव शक्नोति संहतान्भेदितुं परान् ॥
यद्यप्यलुब्धा गम्भीराः पुरुषाः सागरोपमाः

2.66.70.4

न गृह्णंति तथाप्येते जायन्ते पक्षपातिनः ॥
अन्यत्रापि कृतं दानं करोत्यन्यांस्तथा परैः ॥

2.66.70.5

उपायेभ्यः प्रयच्छंति दानं श्रेष्ठतमं नराः ॥
दानं संवर्धनं श्रेष्ठं दानं श्रेयस्करं परम्

2.66.70.6

दानवानेव लोकेषु पुत्रवत्प्रीयते सदा ॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीर ॥
जयन्ति ते राम सुरेन्द्रलोकं सुदुर्जयं यद्विबुधाधिवासम्

2.66.70.69

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामपुष्करसंवादे दानविधिर्नामैकोनसप्ततितमोऽध्यायः

2.66.70.1

2.70
पुष्कर उवाच॥
न शक्या ये स्वयं कर्तुं चोपायत्रितयेन तु॥
दण्डेन तान्वशीकुर्याद्दण्डो हि वशकृत्परः

2.66.70.2

सम्यक्प्रणयनं तस्य सदा कार्यं महीक्षिता ॥
धर्मशास्त्रानुसारेण सुसहायेन धीमता

2.66.70.3

तस्य सम्यक्प्रणयनं त्रिदशानपि पीडयेत् ॥
वानप्रस्थांश्च धर्मज्ञ निर्देशान्निष्परिग्रहान्

2.66.70.4

स्वदेशे परदेशे च धर्मशास्त्रविशारदाः ॥
समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम्

2.66.70.6

आश्रमी यदि वा वर्णी पूज्योऽथवा गुरुर्महान्॥
नादण्ड्यो राम राज्ञा तु यः स्वधर्मे न तिष्ठति॥॥।
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ॥
इह राज्यपरिभ्रष्टो नरकं प्रतिपद्यते

2.66.70.7

तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः ॥
दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया

2.66.70.8

यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ॥
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति

2.66.70.9

बाल वृद्धातुर यति द्विजाति विकलाबलाः ॥
मत्स्यन्यायेन भक्षेरन्यदि दण्डो न पालयेत्

2.66.70.2.70.10

देवदैत्योरगनराः सिद्धभूतपतत्रिणः ॥
उत्क्रामेयुः स्वमर्यादां यदि दण्डो न पालयेत्

2.66.70.11

एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ॥
सर्वविक्रमकोपेषु व्यवसाये च तिष्ठति

2.66.70.12

पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥
न ब्राह्मणं न धातारं न पूषार्यमणावपि

2.66.70.13

यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥
रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा

2.66.70.14

विष्णुं देवगणाँश्चान्ये दण्डिनः पूजयन्ति हि ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति

2.66.70.15

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
राजदण्डभयादेव पापाः पापं न कुर्वते

2.66.70.16

यमदण्डभयादन्ये परस्परभयादपि ॥
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्

2.66.70.17

अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ ॥
तस्माद्दम्यान्दमयति उद्दण्डान्दण्डयत्यपि

2.66.70.18

दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥
दण्डस्य भीतैस्त्रिदशैः समस्तैर्भागो धृतः शूलधरस्य यज्ञे ॥
चक्रुः कुमारं ध्वजिनीपतिं च वरं शिशूनां च भयाद्बलस्थम्

2.66.70.70

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० पुष्करोपाख्यानेषु दण्डप्रशंसा नाम सप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc