विष्णुधर्मोत्तरपुराणम् · अध्याय 2.56.60
2.56
॥ श्रीपरशुराम उवाच ॥
भगवञ्च्छ्रोतुमिच्छामि पुरुषाणां चिकित्सितम् ॥
तन्ममाचक्ष्व देवेश तत्र मे संशयो महान्
पुष्कर उवाच ॥
रक्षन्बलं महाभाग लङ्घयेज्ज्वरितं नरम् ॥
सविश्वं लाजमण्डं तु लंघितं तत्तु भोजयेत् ॥
मुस्तपर्पटकोशीरचन्दनोद्दीप्यनागरैः ॥
घृतं शीतं पयश्चात्र दातव्यं तृट्प्रशान्तये
षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्रसम् ॥
स्नेहयेत्पाकदोषं च ततस्तं च विरेचयेत्
जीर्णषष्टिकनीवाररक्तशालिप्रमोदकाः ॥
तद्विधाश्चतुरः श्रेष्ठाः यवानां विकृतिस्तथा
मुद्गा मसूराश्चणकाः कुलत्थाः समकुण्ठकाः ॥
आढकी च फलं मूले यूषार्थं ज्वरिणां हितम्
कृष्णशुक्लकवन्तीर्कतित्तिरैणकपिञ्जलाः ॥
लावाद्या जाङ्गलश्रेष्ठाः ज्वरिणां तद्विधाश्च ये
पटोलं सफलं निम्बं कर्कोटककटिल्लकम् ॥
शाकं पर्पटकं चाद्यादम्लार्थे दाडिमं हितम् ॥
अयोगे वमनं शस्तमूर्द्धगे च विरेचनम् ॥
रक्तपित्ते तथा पाने षडङ्गं शुण्ठिवर्जितम्
लाजा सिञ्चति कामं तु यवगोधूमशालयः ॥
मसूरमुद्गचणकाः खण्डिताः समकुष्ठिकाः
हृद्या गोधूमिका भक्ष्या घृतक्षीरोपसाधिताः ॥
सक्षौद्रशर्करोपेतास्तथा वृषरसो हितः
अतीसारे पुराणानां शालीनां भक्षणं हितम् ॥
अनभिष्यदि वा चान्यद्रौद्रवत्सकसंयुतम्
मारुतानां जये यत्नः कार्यो गुल्मेषु सर्वथा ॥
वाट्यक्षीरेण चाश्नीयाद्वस्तुकं घृतसाधितम्
कुक्कुटा बर्हिणः श्रेष्ठास्तिक्ता गोधूमशालयः ॥
हिता जठरिणां भोज्ये यवगोधूमशालयः
मुद्गाः कुलत्थाः कौलानि जाङ्गला मृगपक्षिणः ॥
पटोलनिम्बधान्यास्तु शुष्कमूलकसैन्धवैः
मातुलुङ्गरसा जातिहिङ्गुवृक्षाम्लवेतसैः ॥
आहारं जठरे युक्त्या यथादोषं प्रकल्पयेत्
कुष्ठिनां च तथा शस्तं पानार्थे खदिरोदकम्॥
मसूरमुद्गौ यूषार्थे भोज्ये जीर्णाश्च शालयः
निम्बपर्पटकौ शाकौ छागलानां तथा रसः ॥
विडङ्गं मरिचं शुण्ठी कुष्ठं रोध्रं ससर्जिकम्
मनःशिलैः कृतो लेपः कुष्ठहा मूत्रपेषितः ॥
अपूपसक्तुकुल्माषवाज्याद्या मेहिनां हिताः
यवान्नविकृतिर्मुद्गाः कुलत्थाजीर्णशालयः ॥
तिक्तरूक्षाणि शाकानि तिक्तानि हरितानि च
तिलानि तिलशिग्रुर्वा बिभीतेङ्गुदजानि तु ॥
अनभिष्यन्दि यच्चान्यद्भोजने तत्प्रशस्यते
।
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितं च यत् ॥
जाङ्गालस्वरसः प्रोक्तो भोजने राजयक्ष्मिणाम्
कुलत्थमुद्गकालाबुशुष्कमूलकजाङ्गलैः. ॥
यूषैर्वा वाष्किरैः स्निग्धैर्दधिदाडिमसाधितैः
मातुलुङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ॥
यवगोधूमशाल्यन्नैर्भोजयेच्छावसं परम्
।
दशमूलफलारास्नाकुलत्थैरुपसाधितैः ॥
पयोव्यूषरसक्वाथः श्वासहिक्कानिवारणः
शुष्कमूलककौलत्थमौद्गजांगलजै रसैः ॥
यवगोधूमशाल्यन्नं जीर्णाशोंऽशं समाचरेत्
जीर्ण पक्वरसं शीधुमार्द्वीकाँस्त्वथ वा पिबेत् ॥
शोथवान्सगुडां पथ्यां खादेद्वा गुडलावनम् ॥
चित्रं विचित्रकं चोभौ ग्रहणीरोगनाशनौ ॥
पुराणयवगोधूमशालयो जाङ्गलं रसम्
मुद्गामलकखर्जूरमृद्वीकाबदराणि च ॥
मधुसर्पिःपयस्तक्रं निम्बपर्पटकौ वृषम्
तक्रवृद्ध्यानुशस्यन्ते सततं वातरोगिणाम् ॥
हृद्रोगिणे प्रदातव्यं प्रयत्नेन विरेचनम्
पिप्पलीनां प्रयोगश्च प्रमृते धर्मिणस्तथा ॥
चकार नाडी शीधूनि युक्ता च शिशिराम्भसा
युक्तसौवर्चलाजाक्षिमथ शस्तं मदात्यये ॥
सक्षौद्रपयसा लाक्षां पिबेत क्षतवान्नरः
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ॥
शालयो भोजने शक्ता नीवारकलमादयः
यवान्नविकृतिर्मांसं शाकं सौवर्चलं सुधीः ॥
पथ्यं तथैव तासां च मण्डं तक्रं च वारुणी
मुस्ताभ्यासस्तथा लेपः चित्रकेण हरिद्रया ॥
यवान्नविकृतिः शालिर्वास्तुकी च सुवर्चलम्
त्रपुसी चारुगोधूमाः क्षीरेक्षुघृतसंयुताः ॥
मूत्रकृच्छे च शस्ताः स्युः पाने मण्डसुरादयः .
लाजा सक्तु तथा क्षौद्रं शाल्यं मांसपरूषकम् ॥
वृन्ताकालाबुशिखिनश्छर्दिघ्नाः पानकानि च ॥
शाल्यन्नं तोयपयसी केवलोष्णश्रितेऽपि वा ॥
तृष्णाघ्ना मुस्तगुडयोर्गुलिका वा मुखे धृता
यवान्नविकृतिर्यूषं शुष्कमूलकजं तथा ॥
शाकं पटोलवेत्राश्रमूरुस्तम्भविनाशनम्
मुक्ताढकमसूराणामतीरैर्जाङ्गलैस्तथा ॥
ससैन्धवघृतद्राक्षाशुण्ठ्यामलकोलजैः
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ॥
विसर्पं ससिताक्षौद्रमृद्वीकादाडिमोदरः
रक्तषष्टिकगोधूमयवमुद्गादिवल्लघु ॥
काचमाची च वेत्राग्रं वास्तुकं च सुवर्चला
वातशोषितनाशाय तोयं शस्तं सिता मधु ॥
नासारोगे च सहितं घृतदूर्वाप्रसाधितम्
भृङ्गराजरसे सिद्धे तैलं धात्रीरसोऽपि वा ॥
न स्यात्सर्वामयेष्विष्टं मूर्धजत्रूद्भवेष्वथ
शीततोयान्वपतनं तिलानां राम भक्षणम् ॥
द्विजदार्ढ्यकरं प्रोक्तं तथा पुष्टिकरं शुभम्
गण्डूषस्तिलतैलेन द्विजदार्ढ्यकरः परः ॥
विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशनम्
धात्रीफलान्यथाज्यं च शिरोलेपनमुत्तमम्॥
शिरोरोगविनाशाय स्निग्धशीतं च भोजनम्
तैलं वा वस्ति मूत्रं वा कर्णपूरणमुत्तमम् ॥
कर्णशूलविनाशाय शुद्धं तैलं निषेचयेत्
गिरिभृच्चन्दनं माल्यं मालतीकालिकास्तथा ॥
संयोज्य याकृतावर्तिः क्षतचक्रहरीतुसा
व्योषं त्रिफलयायुक्तं सुरूकं च रसाञ्जनम् ॥
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम्
आज्यभृष्टं शिलापिष्टरोथकाञ्जिकसैन्धवैः ॥
आश्च्योतनविनाशाय सर्वरोगामयेषु च
गिरिभृच्चन्दनैर्लेपो बहिर्लेपस्य शस्यते ॥
नेत्रामयविघातार्थं त्रिफलां शीलयेत्सदा
रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्जिजीविषुः ॥
शतावरे रसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ
कलविङ्कानि माषाश्च वृषौ क्षीरं घृतं तथा ॥
आयुष्या त्रिफला चैव पूर्ववन्मधुकान्विता
मधुकायोरजोपेता वलीपलितनाशिनी ॥
वचसिद्धं घृतं राम तदा भूतविनाशनम्
कण्ठे बुद्धिप्रदं चैव तथा सर्वार्थसाधकम् ॥
वल्गकल्ककषायेण सिद्धमभ्यञ्जनं हितम्
रास्ना सहचरैर्वापि तैलं वातविकारिणाम् ॥
अनभिष्यन्दि यच्चान्यत्तद्व्रणेषु प्रशस्यते
पक्वस्य च तथा भेदं निम्बशीलं च रोपणे ॥
तथा तस्योपचारश्च बलिकर्मार्थिशेषतः
सूतिका च तथा रक्षा व्रणिनां तु सदा हिता ॥
जङ्गमे विषदंशे तु दातव्यं स्थावरं विषम् ॥
स्थावरे सर्पदष्टस्य हितं मांसस्य भक्षणम् ॥
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम्
वन्ध्याकार्कोटजं मूलं छागमूत्राभिभावितम् ॥
नस्यं काञ्चिकसंपिष्टं विषवेगविनाशनम्
बन्धनाद्दूषणं छेददाहस्रावाः प्रकीर्तिताः ॥
पूर्वदष्टस्य पाने च हृदयावरण घृतम् ॥
तालनिम्बदलं केशा जीर्णचैलं यवा घृतम् ॥
धूपो वृश्चिकविद्धस्य शिखिपत्रं घृतेन वा
अर्कक्षीरेण संपिष्टं लेपबीजं पलाशजम्॥
वृश्चिकार्त्तस्य कृष्णा वा शिरीषफलसंयुता
तिलकास्फोटयोर्दूनं गिरिकर्ण्यास्तिलस्य च ॥
शर्करामधुसर्पींषि पानमाखुविषापहम् ॥
आर्कक्षीरं तिलास्तैलं पललं च गुरु समम् ॥
पानाज्जयति दुर्वारमविषं शीघ्रमेव च
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा॥
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि
चन्दनं पद्मकं कुष्ठं नताम्बूशीरपाटलाः ॥
निर्गुण्डीशाखिशैलूषलूताविषहरोऽगदः
शिरोविरेचनं शस्तं गुडनागरकं द्विज ॥
नस्यकर्मणि वस्तौ च तथा भृङ्गे च भार्गव
तैलमेव परं विद्यात्स्नेहपाने तथा घृतम् ॥
स्वेदनीयः परो वह्निः सिताम्भःस्तम्भनं परम्
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ॥
वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु
रक्तपित्ते बला रास्ना क्रमेण परमौषधम् ॥
शारीरमानसाग्रं तु सहजा व्याधयो मताः
शारीरज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः ॥
आगन्तवोऽभिघातोत्थाः सहजाः क्षुत्तृषादयः
शारीरागन्तुनाशाय सततं सूर्यवासरे ॥
गुडाज्यलवणोपेतं सहिरण्यं द्विजातये
दद्याच्च धूपं धर्मज्ञ प्रीणयेच्च दिवाकरम् ॥
आरोग्यमेतेनाप्नोति कामाँश्च मनसेप्सितान्
सततं दिवसे चान्द्रे स्नानमभ्यङ्गपूर्वकन् ॥
यः प्रयच्छति विप्राय सोऽपि रोगैर्विमुच्यते ॥
शनैश्चरदिने दत्त्वा तैलं विप्रेषु शक्तितः॥
नित्यमेव महाभाग रोगनाशनमाप्नुयात्
आश्विनं सकलं मासं प्रत्यहं गोरसैर्द्विजान् ॥
भोजयित्वा महाभाग रोगनाशनमाप्नुयात्
स्नापयित्वा तथा लिङ्गं देवदेवस्य शूलिनः ॥
घृतेन पयसा चैव सर्वरोगैर्विमुच्यते
गायत्र्यावाहयेद्विद्वान्दूर्वां त्रिमधुनाप्लुताम् ॥
पूतश्च ब्राह्मणाशीर्भिः सर्वरोगैर्विमुच्यते
यस्मिन्भे व्याधिमाप्नोति कृत्वा तस्य बलिक्रियाम् ॥
भपूजाविधिना राम तस्माद्रोगाद्विमुच्यते
कर्तव्यमथवा स्नानं तथारोग्यविवर्धनम् ॥
आरोग्यदां द्वितीयां वा प्रतिपद्वा भृगूत्तम
कर्तव्यं वैष्णवं वापि व्रतमारोग्यकारकम् ॥
मानसानां निजानां च तथा चैवाविपत्तये
शरणं देवदेवेशं व्रजेत मधुसूदनम् ॥
सर्वगं तं जगन्नाथमजेयं पुरुषोत्तमम्
स्तुवन्नामसहस्रेण व्याधीन्सर्वान्व्यपोहति ॥
दोषधातुमलाधारं शरीरं प्राणिनां द्विज
वातपित्तकफा दोषा धातवश्च तथा शृणु ॥
भुक्तं पक्वाशयादन्नं द्विधा याति भृगूत्तम
अंशेनैकेन किट्टत्वं रसतां चापरेण च ॥
किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषकः
नासामलं देहमलं तथा कर्णमलं च यत् ॥
रसभागे रसं तत्र सम्यक्शोणिततां व्रजेत्
मांसं रक्तन्ततो मेदो मेदसोस्थ्नां च सम्भवः ॥
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्राम ततो रसः
सर्वेषामेव धातूनां सारमोजः प्रकीर्तितम् ॥
देशं सात्म्यं च यां शक्तिं कालं प्रकृतिमेव च
ज्ञात्वा चिकित्सितं कुर्याद्भेषजस्य तथा बलम् ॥
तिथिं रिक्तां दिनेशं च तथैव च कुजार्कजौ॥
दारुणोग्राणि चर्क्षाणि वर्जयेद्भेषजे सदा ॥
हरिगोद्विजचन्द्रार्कसुराग्नीन्प्रतिपूज्य च
श्रुत्वा मन्त्रमिमं विद्वान्भेषजारम्भमाचरेत् ॥
ब्रह्मत्र्यक्षाश्विरुद्रेन्द्रभूचन्द्रार्कनलानिलाः
ऋषय ओषधिग्रामा भूतसर्गाश्च पान्तु ते॥
रसायनमिवर्षीणां देवानाममृतं यथा
स्वधेवोत्तमनागानां भैषज्यमिदमश्नुते ॥
वातश्लेष्मात्मको देशो बहुवृक्षो बहूदकः
अनूप इति विख्यातो जाङ्गलस्तद्विवर्जितः ॥
किंञ्चिद्वृक्षाधिको देशस्तथा साधारणः स्मृतः
जाङ्गलः पित्तबहुलो मध्यः साधारणो मतः॥
रूक्षशीतश्चलो वातः पित्तमुष्णकटुद्रवम्
स्थिराम्लस्निग्धमधुरं बलासं च प्रचक्षते ॥
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः
समाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥
कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः
कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः ॥
तिक्ताः स्वादुकषायाश्च तथा पित्तविनाशनाः
स्वभावतस्तथा कर्म ते च कुर्वन्ति भार्गव ॥
शिशिरे च वसन्ते च निदाघे च तथा क्रमात्
चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तिताः ॥
निदाघे वारिदा रात्रे तथा शरदि भार्गव
चयप्रकोपप्रशमास्तथा वातस्य कीर्तिताः ॥
चयप्रकोपप्रशमाः श्लेष्मणश्च प्रकीर्तिताः
संवत्सरो द्वादशाङ्गो मासभेदेन कीर्तितः ॥
द्विधा तु मतभेदेन भूय एव प्रकीर्तितः
आदानश्च विसर्गश्च तत्रापि परिकीर्तितौ ॥
वर्षादयो विसर्गाश्च हेमन्ताद्याः स्मृतास्त्रयः
मेघकाले च शरदि हेमन्ते च यथाक्रमात् ॥
चयप्रकोपप्रशमस्तथा पित्तस्य कीर्तितः
शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥
सौम्यो विसर्गस्त्वादानं चाग्नेयं परिकीर्तितम्
वर्षादीन्स्त्रीनृतून्राम चतुःपर्यायगोरसान् ॥
विवर्धयेत्तथा तिक्तकषायकटुकान्क्रमात्
यथा रजन्यो वर्धन्ते बलमेवं विवर्धते ॥
क्रमशोऽथ मनुष्याणां हीयमानासु हीयते
रात्रिभुक्तं दिनान्ते तु दिवसस्य तथैव च ॥
आदिमध्यावसानेषु कफपित्तसमीरणाः
प्रकोपं यान्ति कोपादौ काले येषां चयः स्मृतः ॥
प्रकोपान्तरजे काले शमस्तेषां प्रकीर्तितः
अतिभोजनतो राम तथा चाभोजनेन च ॥
सर्वेऽपि रोगा जायन्ते वेगोदीरणधारणैः
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ॥
आश्रयं पवनादीनां तथैकमवशेषयेत
व्याधेर्निदानस्य तथा विपरीतमथौषधम् ॥
कर्तव्यमेतदेवात्र मया सार्धं प्रकीर्तितम्
नाभेरूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥
बलासपित्तवातानां देहे स्थानं प्रकीर्तितम्
तथापि सर्वगा एते देहे वायुर्विशेषतः ॥
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम्
कृशोल्पकेशश्चपलो बहुवाग्विषमानलः ॥
व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते
अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते
दृढाङ्गः स्थिरचित्तश्च सुप्रजः स्थिरमूर्धजः ॥
शुक्लाम्बुदर्शौ स्वप्ने च कफप्रकृतिको नरः
तामसा राजसाश्चैव सात्त्विकाश्च तथा स्मृताः ॥
मानुषा भृगुशार्दूल वातपित्तकफाधिकाः
रूक्षशीतव्यवायाध्वगुरु कर्म प्रवर्तते ॥
कदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति
विदाहिनां तथोष्णानामुच्चैरध्वनिषेविणाम् ॥
पित्तं प्रकोपमायाति भयेन च तथा द्विज
अत्यंबुपानविषमभोजिनां भुवि शायिनाम् ॥
श्लेष्मा प्रकोपमायाति तथा ये चाल्पभोजनाः
वातपित्तकफोत्थानि सर्वरोगाणि देहिनाम् ॥
लक्षयेल्लक्षणं विद्वाञ्शमयेत्तदनन्तरम्
अस्थिभङ्गः कषायित्वमास्ये शुष्कास्यता तथा ॥
जृंभणं लोमहर्षश्च वातिकव्याधिलक्षणम्
नखनेत्रशिराणां च पीतता कटुता मुखे ॥।
तृष्णा दाहोऽम्लता चैव पित्तव्याधिनिदर्शनम् ।
आलस्यं च प्रसेकश्च गुरुता मधुरास्यता ॥
उष्णाभिलाषिता चेति श्लैष्मिकं व्याधि लक्षणम्
स्निग्धोष्णमन्नं ससुखा च शय्या मनोऽनुकूलाः सुहृदः कथाश्च ॥
अभ्यञ्जनं चाप्यतितैलपानं वातप्रकोपप्रशमाय दृष्टम् ॥।
सरांसि वाप्यः सरितः सुशीताश्चन्द्रांशवश्चन्दनपङ्कलेपाः ॥
संसेवितेनाशु शमं प्रयाति विलासमग्र्यं मनसः प्रहर्षात्
सर्वामयार्तिप्रशमार्थमेकां त्वमोषधीं राम निबोध गुह्याम्॥
भक्तिः प्रभोर्देववरस्य विष्णोर्या सर्वकामैः पुरुषं युनक्ति
॥
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० सं० पुरुषचिकित्सानाम षट्पञ्चाशत्तमोऽध्यायः
2.57
॥ राम उवाच ॥ ॥
आरोग्यकरणं नाम द्वितीया प्रतिपत्तथा ॥
आरोग्यदं व्रतं चैव वैष्णवं कथयस्व मे
॥ पुष्कर उवाच ॥ ॥
धनिष्ठासु महाभाग यजमानपुरोहितौ ॥।
उपोष्य वारुणं स्नानं यजमानस्य कारयेत्
कृत्वा कुम्भशतं साग्रं शंखमुक्ताफलोदकैः ॥
भद्रासनोपविष्टस्तैः स्नातश्चैवाहताम्बरः
।
केशवं वारुणं चन्द्रं नक्षत्रं वारुणं तथा ॥
पूजयेत्प्रयतो राम गन्धमाल्यानुलेपनैः
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥
देवतानां यथोक्तानां कुर्वीत हवनं तथा
सर्वौषधैस्तथाज्येन यथाशक्ति विधानतः ॥
गुरवे वाससी देये रसकुम्भं च काञ्चनम्
ब्राह्मणानां प्रदातव्या वित्तशक्त्या च दक्षिणा ॥
शमीशाल्मलिजैः पत्रैवंशाग्रेण तथैव च
त्रिवृतस्तु बलिः कार्यः सर्वरोगविनाशनः ॥
शाकानि हरितं माल्यं सर्वसस्यानि वाससी ॥
वरुणायाशु निक्षिप्य गन्धैर्धूपैर्निवेदयेत्
अलङ्घ्यमानस्य हि वारुणं तं स्नानेन दानेन कृतेन सम्यक् ॥
रोगाः समस्ताः प्रशमं प्रयान्ति बद्धस्तथा मोक्षमवाप्नुयाच्च
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शतभिषास्नानवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः
2.58
॥ पुष्कर उवाच ॥ ॥
पौषशुक्लद्वितीयायां गवां शृङ्गोदकेन तु ॥
स्नात्वा शुक्लाम्बरो भूत्वा सूर्येस्तं समुपागते
बालेन्दोः पूजनं कृत्वा गन्धमाल्यानुलेपनैः ॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा
दध्ना च परमान्नेन गुडेन लवणेन च ॥
पूजनैर्ब्राह्मणानां च पूजयित्वा निशाकरम्
यावदस्तं न यातीन्दुस्तावदेव समाचरेत् ॥
आहारं गोरसप्रायमधःशायी निशं नयेत्
ततः संवत्सरे पूर्णे सौम्यमासे द्विजोत्तम ॥
बालेन्दोः पूजनं कृत्वा ब्राह्मणानां च पूजनम्
वाससी रसकुम्भं च काञ्चनं च द्विजातये ॥
दत्त्वा च पूजयित्वा च व्रतपारङ्गतो भवेत्
व्रतेनानेन धर्मज्ञ रोगमेवं व्यपोहति ॥
सर्वसौख्यं तथा द्रव्यं पुष्टिं च मनुजोत्तम
कामं समाप्नोत्यथवैकमिष्टं येन व्रतेनाथ समस्तधर्मम् ॥
अभ्यासतस्तस्य समस्तकामान्नरः समाप्नोति किमत्र चित्रम्
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आरोयद्वितीयानामाष्टपञ्चाशत्तमोऽध्यायः
2.59
॥ पुष्कर उवाच ॥ ॥
संवत्सरावसाने तु पञ्चदश्यामुपोषितः ॥
पूजयेद्भास्करं देवं वर्णकैः कमले कृते
शुक्लेन गन्धमाल्येन चन्दनेन सितेन च ॥
तथा कूर्मेण धूपेन घृतदीपेन भार्गव
अपूपैः सैकतैर्दध्ना परमान्नेन भूरिणा ॥
ओदनेन च शुक्लेन सितालवणसर्पिषा
क्षीरेण च फलैः शुक्लैर्वह्निब्राह्मणतर्पणैः ॥
पूजयित्वा जगद्धाम दिनभागे चतुर्थके
आहारं प्रथमं कुर्यात्सघृतं मनुजोत्तमः ॥
रसं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत्
भुक्त्वा च सकृदेवान्नं नाहारं समुपाचरेत् ॥
पानीयपानं कुर्वीत ब्राह्मणानुमते पुनः
संवत्सरमिदं कृत्वा ततः कृत्वा त्रयोदशम् ॥
पूजनं देवदेवस्य तस्मिन्नहनि भार्गव
समापयेद्व्रतं पुण्यं राम कुम्भं द्विजातये ॥
सहिरण्यं सवस्त्रं च तथा दद्याद्द्विजोत्तम
व्रतेनानेन धर्मज्ञ रोगमेव व्यपोहति ॥
आरोग्यमाप्नोति गतिं तथाग्र्यां यशस्तथाग्र्यं विपुलांश्च भोगान् ॥
व्रतेन सम्यक्पुरुषो धनार्थी सम्पूजयेद्यश्च जगत्प्रधानम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अरोग्यप्रतिपन्नामैकोनषष्टितमोऽध्यायः
2.60
पुष्कर उवाच ॥
शुक्लपक्षावसाने तु यद्राम दिनपञ्चकम् ॥
तत्र सम्पूजयेद्विष्णुं विधिना येन तं शृणु
गोमूत्रं गोमयं क्षीरं दधिसर्पिस्तथैव च ।
एकैकेन चरेत्स्नानमेकादश्यादिषु क्रमात
कौपताडागनादेयैः पद्मिनीसारसैर्जलैः ॥
कर्तव्यं क्रमशः स्नानं स्नातः सम्पूजयेद्धरिम्
तैलमिक्षुरसं क्षौद्रं क्षीरं सर्पिश्च भार्गव ॥
स्नपयेद्देवदेवस्य कर्तव्यं स्याद्दिनक्रमात्
कालागुरुमुशीरं च तथा जातीफलं द्विज ॥
कर्पूरं चन्दनं चैव कल्पयेदनुलेपने
कुसुमेष्वम्बुजातेषु गन्धवत्सु सितेषु च ॥
एकैकं कल्पयेज्जातिं श्रद्धया दिवसक्रमात्
कृष्णा गौरी तथा ताम्रा कपिला च सिता तथा॥ ॥
या धेनुस्तद्घृतं देयं दीपार्थं दिवसक्रमात् ॥ ७
माषमुद्गकलापानां चणकस्य तिलस्य च ॥
भक्ष्याणि विनिवेद्यानि तथैव दिवसक्रमात्
फाणितं च गुडं चैव तथा मत्स्यण्डिका शुभा ॥
खण्डं च शर्करां चैव क्रमशो विनिवेदयेत्
क्षीरवृक्षस्य समिधस्तथा दूर्वास्तिलानपि ॥।
सिद्धार्थकान्यथाज्यं च भावयेद्दिवसक्रमात्
अनिरुद्धाय देवाय प्रद्युम्नाय तथैव च ॥
संकर्षणाय देवाय वासुदेवाय चाप्यथ
नाम्ना तु जुहुयाद्वह्निं प्रणवेनान्तिमेऽहनि ॥
अयः सीसं तथा ताम्रं रजतं कनकं तथा
दक्षिणार्थं प्रदातव्यं द्विजेभ्यो दिवसक्रमात् ॥
नक्तं च गोरसप्रायं भोक्तव्यं तैलवर्जितम्
भूशोधनं च कर्तव्यं देवस्य पुरतस्तथा ॥
गीतवाद्यस्तवैश्चैव पूजयेद्दिनपञ्चकम्
एवं संवत्सरं कृत्वा सर्वान्रोगान्व्यपोहति ॥
ग्रहणे च व्रतस्यास्य न कालनियमः स्मृतः
नित्याभ्यासेन चैवास्य विष्णुलोके महीयते॥
व्रतं श्रेष्ठमिदं प्रोक्तं मया ते भृगुनन्दन
धन्यं यशस्यं रिपुनाशकारि सौभाग्यदं पापहरं पवित्रम् ॥
आयुष्यमग्र्यं सुगतिप्रदं च व्रतोत्तमं विघ्नविनाशनं च
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यव्रतन्नाम षष्टितमोध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0