भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.6.10

2.6.10.1

॥ पुष्कर उवाच ॥ ॥
सर्वलक्षणलक्षण्यो मन्त्री राज्ञस्तथैव च ॥
ब्राह्मणो वेदतत्त्वज्ञो विनीतः प्रियदर्शनः

2.6.10.2

स्थूललक्षो महोत्साहः स्वामिभक्तः प्रियंवदः ॥
बृहस्पत्युशनः प्रोक्तां नीतिं जानाति सर्वतः

2.6.10.3

रागद्वेषेण यत्कार्यं न वदन्ति महीक्षितः ॥
लोकापवादाद्राजार्थे भयं यस्य न जायते

2.6.10.4

क्लेशक्षमस्तथा यश्च विजितात्मा जितेन्द्रियः ॥
गूढमन्त्रश्च दक्षश्च प्राज्ञो भक्तजनप्रियः

2.6.10.5

इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ॥
शूरश्च कृतविद्यश्च न च मानी विमत्सरः

2.6.10.6

चारप्रचारकुशलः प्रणिधिप्रणयात्मवान् ॥
षाड्गुण्यविधितत्त्वज्ञ उपायकुशलस्तथा

2.6.10.7

वक्ता विधाता कार्याणां नैव कार्यातिपातिता ॥
समश्च राजभृत्यानां तथैव च गुणप्रियः

2.6.10.8

कालज्ञः समयज्ञश्च कृतज्ञश्च जनप्रियः ॥
कृतानामकृतानाञ्च कर्मणां चान्ववेक्षिता

2.6.10.9

यथानुरूपमर्हाणां पुरुषाणां नियोजिता ॥
राज्ञः परोक्षे कार्याणि सम्पराये भृगूत्तम

2.6.10.10

कृत्वा निवेदिता राजन्कर्मणां गुरुलाघवम् ॥
शत्रुमित्रविभागज्ञो विग्रहास्पदतत्त्ववित्

2.6.10.11

स राज्ञः सर्वकार्याणि कुर्याद्भृगुकुलोद्वह ॥
विदितानि यथा कुर्यान्नाज्ञातानि महीक्षिता

2.6.10.12

अज्ञातानि नरेन्द्रस्य कृत्वा कार्याणि भार्गव ॥
अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति

2.6.10.13

करोति यस्तु कार्याणि विविधानि महीपते ॥
भेदो नो तस्य भवति कदाचिदपि भूभुजा

2.6.10.14

एवंगुणो यस्य भवेच्च मन्त्री वाक्ये च तस्याभिरतस्य राज्ञः ॥
राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्वंशश्च दीप्तो भुवनत्रयेऽपि

2.6.10.6

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे मत्रिलक्षणं नाम षष्ठोऽध्यायः

2.6.10.1

2.7
॥ पुष्कर उवाच ॥ ॥
राज्ञाग्र्यमहिषी कार्या सर्वलक्षणपूजिता ॥
विनीता गुरुभक्ता च ईर्षाक्रोधविवर्जिता

2.6.10.2

राज्ञः प्रियहितासक्ता चारुवेशा प्रियंवदा ॥
भृताभृतजनज्ञा च भृतानामनुवेक्षिणी

2.6.10.3

अभृतानां जनानां च भृतिकर्मप्रवर्तिनी ॥
रागद्वेषवियुक्ता च सपत्नीनां सदैव या

2.6.10.4

भोजनासनपानेन सर्वेषामनुवेक्षिणी ॥
सपत्निपुत्रेष्वपि या पुत्रवत्परिवर्तते

2.6.10.5

मन्त्रिसंवत्सरामात्यान्या च पूजयते सदा ॥
ब्रह्मण्या च दयायुक्ता सर्वभूतानुकम्पिनी

2.6.10.6

कृताकृतज्ञा राज्ञश्च विदिता मण्डलेष्वपि ॥
परराजकलत्रषु प्रीयमाणा मुदा युता

2.6.10.7

दूतादिप्रेषणकरी राजद्वारेषु सर्वदा ॥
तद्द्वारेण नरेद्राणां कार्यज्ञा च विशेषतः

2.6.10.8

एवंगुणगणोपेता नरेन्द्रेण सहानघा ॥
अभिषेच्या भवेद्राज्ये राज्यस्थेन नृपेण वा

2.6.10.9

एवं यदा यस्य भवेच्च पत्नी नरेन्द्रचन्द्रस्य महानुभावा ॥
वृद्धिं व्रजेत्तस्य नृपस्य राष्ट्रं सचारकं नात्र विचारणास्ति

2.6.10.7

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अग्र्यमहिषीलक्षणं नाम सप्तमोऽध्यायः

2.6.10.1

॥
2.8
राम उवाच ॥ पुरुषाणां तथा स्त्रीणां गजानां तुरगैस्सह ॥
वालव्यजनच्छत्राणां तथा भद्रासनस्य च

2.6.10.2

रत्नानां धनुषां चैव खड्गस्य च सुरात्मज ॥
लक्षणं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः

2.6.10.3

पुष्कर उवाच ॥
आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम् ॥
निबोध तन्मे गदतो भृगुवंशाविवर्धन

2.6.10.4

एकाधिको द्विशुक्लश्च त्रिभिर्व्याप्नोति यस्तथा ॥
त्रिवलीवाँस्त्रिविनतः त्रिकालज्ञश्च भार्गव

2.6.10.5

पुरुषः स्यात्सुलक्षण्यो विपुलश्च तथा त्रिषु ॥
चतुर्लेखस्तथा यश्च तथैव च चतुःसमः

2.6.10.6

चतुष्किष्कुश्चतुर्दंष्ट्रश्चतुष्कृष्णस्तथैव च ॥
चतुर्गंधश्चतुर्ह्रस्वः पञ्चसूक्ष्मस्तथैव च

2.6.10.7

पञ्चदीर्घो भृगुश्रेष्ठ तथैव च षडुन्नतः ॥
सप्तस्नेहोऽष्टवंशश्च नव स्थानामलस्तथा

2.6.10.8

दशपद्मो दशबृहन्न्यग्रोधपरिमण्डलः ॥
चतुर्दशसमद्वन्द्वः षोडशाख्यश्च शस्यते

2.6.10.9

राम उवाच ॥
एकाधिकाद्या ये प्रोक्ताः पुरुषस्य त्वया गुणाः ॥
तानहं श्रोतुमिच्छामि यथावद्वरुणत्मज

2.6.10.11

पुष्कर उवाच ॥
धर्मे चार्थे च कामे च जनः सर्वोऽभिषज्यते ॥
एकाधिकस्तु विज्ञेयो यस्तु धर्मे विशेषतः ॥ १ ०॥
तारकाभ्यां विना नेत्रे शुक्लाश्च दशनास्तथा ॥
द्वात्रिंशद्राम यस्य स्युर्द्विशुक्लः स तु कीर्तितः ॥

2.6.10.12

उरो नाभिस्तथा सक्थिर्गंभीरा यस्य देहिनः ॥
प्रोच्यते स तु धर्मज्ञ त्रिगम्भीरो नरोत्तमः ॥
अनसूया दया क्षान्तिस्त्रिकमेकं प्रकीर्तितम् ॥

2.6.10.14

मङ्गलाचारसंस्पर्शः शौचं चेत्यपरं त्रयम् ॥
अनायासमकार्पण्यमैश्वर्यं च त्रयस्त्रिकाः॥
त्रिप्रलम्बो भुजाभ्यां तु वृषणेन च कीर्त्यते ॥
दिग्देशजातिसर्गैश्च तेजसा यशसा श्रिया

2.6.10.15

व्याप्नोति यो भृगुश्रेष्ठ त्रिभिर्व्याप्नोत्यसौ स्मृतः ॥
उदरे वलयस्तिस्रो गम्भीरा यस्य देहिनः

2.6.10.16

स उच्यते भृगुश्रेष्ठ त्रिवलीवान्नरोत्तमः ॥
देवतानां द्विजानां च गुरूणां च तथा नतः

2.6.10.17

पुरुषो भार्गवश्रेष्ठ प्रोक्तस्त्रिविनतः सदा ॥
धर्मस्यार्थस्य कामस्य संपत्कालविभागवित्

2.6.10.18

सेवते यश्च धर्मज्ञः प्रोच्यते स त्रिकालवित् ॥
उरौ ललाटं वक्त्रं च विस्तीर्णं यस्य देहिनः

2.6.10.19

कथितः स भृगुश्रेष्ठ विपुलस्त्रिषु मानवः ॥
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ

2.6.10.20

लेखाभिर्यस्य निर्दिष्टश्चतुर्लेखः स मानवः ॥
अङ्गुल्यो हृदयं पृष्ठं कटिर्यस्य तथा समाः

2.6.10.21

पुरुषः स भृगुश्रेष्ठ चतुस्सम उदाहृतः ॥
षष्णवत्यङ्गुलोत्सेधश्चतुष्किष्कुः प्रमाणतः

2.6.10.22

प्रमाणयोगाद्धर्मज्ञ चतुकिष्कुः स कीर्तितः ॥
दंष्ट्राश्चतस्रश्चन्द्राभा दशनेभ्यः समुन्नताः

2.6.10.23

किञ्चिद्यस्य स धर्मज्ञ चतुर्दंष्ट्रः प्रकीर्तितः ॥
नेत्रतारे भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च

2.6.10.24

यस्येह स चतुष्कृष्णः प्रोच्यते मनुजोत्तमः ॥
नासायां वदने स्वेदे कक्ष्यासु च नरोत्तम

2.6.10.289

गन्धस्तु सुरभिर्यस्य चतुर्गन्धः स कीर्तितः ॥
बाहू जानूरुगण्डश्च चत्वार्यस्य समानि तु ॥

2.6.10.26

पुरुषस्य भृगुश्रेष्ठ चतुस्सम उदाहृतः ॥
आस्यासृङ्मध्यपद्मानां तुल्यो गन्धस्तु यस्य वै

2.6.10.27

कथितः स भृगुश्रेष्ठ चतुर्गन्ध इति द्विजैः ॥
ह्रस्वं लिङ्गं तथा ग्रीवा जंघे ह्रस्वे तु देहिनः

2.6.10.28

यस्य भार्गवशार्दूल चतुर्ह्रस्वः स कीर्तितः ॥
अङ्गुलीनां तु पर्वाणि नखकेशद्विजत्वचम् ॥
सूक्ष्मणि यस्य तं राम पञ्च सूक्ष्मं प्रचक्षते

2.6.10.29

हनू नेत्रे ललाटं च नासा चैव स्तनान्तरम् ॥
दीर्घाणि यस्य तं राम पञ्चदीर्घं विदुर्बुधाः

2.6.10.30

वक्षः कक्षौ नखा नासा मुखं चैव कृकाटिका ॥
षडुन्नतानि यस्येह तं वदंति षडुन्नतम

2.6.10.31

त्वक्केशलोमदंताश्च दृष्टिर्वाणी नखास्तथा ॥
स्निग्धा यस्येह तं प्राहुः सप्त स्निग्धं बहुश्रुताः

2.6.10.32

जानुवंशावुभौ राम भुजवंशौ तथाप्युभौ ॥
ऊरुवंशद्वयं चैव पृष्ठवंशं च भार्गव

2.6.10.33

नासावंशः समो यस्य सोऽष्टवंशः प्रकीर्तितः ॥
नेत्रे नासापुटौ कर्णौ मेढ्रपायू मुखं तथा

2.6.10.34

छिद्रा नवैते विमला यस्य तं तु नवामलम् ॥
जिह्वोष्ठतालु नेत्रान्तर्हस्तपादनखाः स्तनौ

2.6.10.35

शिश्नाग्रवक्षो यस्यैते पद्माभा दश देहिनाम् ॥
पाणी पादौ मुखं ग्रीवा श्रवणे हृदयं शिरः

2.6.10.36

ललाटमुदरं पृष्ठं बृहन्तः पूजिता दश ॥
प्रसारितभुजस्येह मध्यमाग्रत्वयांतरात्

2.6.10.37

उच्छ्रायेण समो यः स न्यग्रोधपरिमण्डलः ॥
कथितः स नृपश्रेष्ठः सर्वलक्षणपूजितः

2.6.10.38

पादौ गुल्फौ स्फिचौ पार्श्वौ वृषणावक्षिणौ हनू ॥
कर्णोष्ठसक्थिनी जंघे हस्तौ बाहू तथा भ्रुवौ

2.6.10.39

द्वन्द्वान्येतानि यस्य स्युः समानि तु चतुर्दश ॥
चतुर्दशसमद्वन्द्वः कथितः स नृपोत्तमः

2.6.10.40

विद्यास्थानानि यानीह कथितानि चतुर्दश ॥
प्रपश्यति च यो राम नेत्राभ्यां च नरोत्तमः

2.6.10.41

सम्यक्स कथितो लोके षोडशाक्षो भृगूत्तम ॥
रूक्षं शिराततं गात्रं तथा मांसविवर्जितम ॥
दुर्गन्धि चाशुभं सर्वं विपरीतं च शस्यते

2.6.10.42

दृष्टिः प्रसन्ना मधुरा च वाणी मत्तेभतुल्या च गतिः प्रशस्ता ॥
एकैककूपप्रभवाश्च रोमा सत्त्वं प्लुतं हासमनुल्बणं च

2.6.10.43

श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषा परिगतस्य परेषु रक्षा ॥
एतानि यस्य पुरुषस्य भवंति काले तं धन्यमाहुरधिभूमि नरं द्विजेन्द्राः

2.6.10.8

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरुषलक्षणं नामाष्टमोऽध्यायः

2.6.10.1

2.9
पुष्कर उवाच ॥
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ॥
गुरूरुजघना या च मत्तपारावतेक्षणा

2.6.10.2

सुनीलकेशी तन्वङ्गी परपुष्टनिनादिनी ॥
तनुमध्या विलोमाङ्गी स्निग्धवर्णा मनोहरा

2.6.10.3

समग्रभूस्पृशौ यस्याश्चरणौ कमलोपमौ ॥
नाभिः प्रदक्षिणावर्ता संहतौ च तथा स्तनौ

2.6.10.4

विभक्तमधरोष्ठं च दर्शनं मधुरं तथा ॥
गुह्यं प्रदक्षिणावर्तमश्वत्थदलसन्निभम्

2.6.10.5

गुल्फौ निगूढौ गूढे च तथा यस्याः ककुन्दरे॥
मध्यनाभेश्च यस्याः स्याद्धस्तांगुष्ठप्रमाणतः

2.6.10.6

पिण्डिके च न सन्नद्धे न लम्बा च तथा कटिः ॥
जठरं च प्रलंबं च नयने च न केकरे

2.6.10.7

कचाश्च कपिशा केशाः केशा रूक्षास्तथैव च ॥
न च वृक्षनदीनाम्नी न देवगिरिनामिका

2.6.10.8

न चैवोरगगन्धर्वभूतप्रेतसनामिका ॥
न वाचाला न लुब्धा च न शठा कलहप्रिया

2.6.10.9

न लोलुपा न दुर्भावा न वा कुण्ठकपालिका ॥
देवद्विजातिसिद्धानां साधूनां पूजने रता

2.6.10.10

।
शीलोपेता गुणोपेता न शिराला न लोमशा

2.6.10.11

गण्डैर्मधूकपुष्पाभैः स्निग्धैश्च दशनच्छदैः ॥
न संहतभ्रूः संश्लिष्टचरणांगुलिकुड्मला ॥।

2.6.10.12

पतिप्रिया पतिप्राणा या नारी पतिदेवता ॥
अलक्षणापि संज्ञेया सर्वलक्षणसंयुता

2.6.10.13

भ्रुवं कनीनिका यस्या न स्पृशेत कथंचन ॥
न तां कुर्वीत भार्यार्थं मृत्युः सा कथिता बुधैः

2.6.10.14

सरोममुत्तरोष्ठं च गण्डौ यस्याः सकूपकौ॥
अतिदीर्घा कषाया च चलन्मांसचया तथा

2.6.10.15

सा विवर्ज्या विशेषेण नरेण हितमिच्छता

2.6.10.16

संक्षेपतस्ते कथितं मयैतत्स्याल्लक्षणं चारु नितम्बिनीनाम् ॥
रहस्यमेतत्कथितं तु तत्र यत्राकृतिस्तत्र गुणा वसन्ति

2.6.10.9

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे स्त्रीलक्षणं नाम नवमोऽध्यायः

2.6.10.1

2.10
पुष्कर उवाच ॥
नागाः प्रशस्ता धर्मज्ञ प्रमाणेनाधिकास्तु ये ॥
दीर्घहस्ता महोच्छ्वासा स्वासनाश्च विशेषतः

2.6.10.2

निगूढवंशा मध्वाक्षा मूढा मूढोष्ठमस्तकाः ॥
विंशत्यष्टाधिकनखाः शीतकालमदाश्च ये

2.6.10.3

येषां चैव कराः पादा दीर्घा लाङ्गूलमेव च॥
दक्षिणं चोन्नतं दीप्तं बृंहितं जलदोपमम्

2.6.10.5

अत्यर्थवेदना ये च शूराः शब्दसहिष्णवः ॥
कर्णौ च विपुलौ येषां सूक्ष्मबिन्दुयुतत्वचः। ४॥
ते प्रशस्ता महाभाग ये तथा सप्तसुस्थिताः ॥
दन्तच्छदेषु दृश्यन्ते येषां स्वस्तिकलक्षणाः

2.6.10.6

शृङ्गारवालव्यजनं वर्द्धमानाङ्कुशास्तथा ॥
ते धार्या न तथा धार्या वामना मत्कुणादयः

2.6.10.7

हस्तिन्यो याश्च गर्भिण्यो ये च मूढा मतङ्गजाः ॥
अपाकलाश्च कुब्जाश्च सद्दन्ता ये च भार्गव

2.6.10.8

कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः ॥
अस्रुस्पृशश्च कूटाश्च शठाश्च विकटाश्च य

2.6.10.9

राम उवाच ॥
वामनाद्यश्च ये नागाः प्रोक्ता निन्दितलक्षणाः ॥
तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज

2.6.10.10

॥ पुष्कर उवाच ॥
आयामेन न संपूर्णो योतिह्रस्वो भवेद्गजः ॥
वामनस्तु समाख्यातो मत्कुणो दन्तवर्जितः

2.6.10.11

दशां चतुर्थीं संप्राप्य वर्धते यस्य न द्विजौ ॥
स्थूलावनायतौ स्यातां स मूढाख्यो गजाधमः

2.6.10.12

अपाकलो विशालेन दन्तेनैकेन वारणः ॥
संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः

2.6.10.13

प्रमाणहीनतन्नाभिः स कुब्जो वारणाधमः ॥
अत्युन्नतांसः सद्दन्तः कुदन्तः स्यान्नतो बहिः

2.6.10.14

वामदन्तोन्नतो नागो वामकूटश्च कथ्यते ॥
दन्तौ वक्त्रस्पृशौ यस्य सोऽस्रुस्पृक्कथितो गजः

2.6.10.15

एकदन्तस्तथा नागः कूट इत्यभिधीयते ॥
पादयोः सन्निकर्षः स्याद्यस्य नागस्य गच्छतः

2.6.10.16

स शठोध्वनि युद्धे च लक्षणज्ञैर्न्न पूजितः ॥
अरत्न्यभ्यधिकं यस्य विस्तरेण स्तनान्तरम्

2.6.10.17

विकटः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ॥
राम उवाच ॥
श्रोतुमिच्छामि धर्मज्ञ कुञ्जरं सप्तसुस्थितम्

2.6.10.18

यं प्राप्य किल राजानो जयन्ति वसुधां नृपाः ॥
॥ पुष्कर उवाच ॥
वर्णं सत्त्वं बलं रूपं कान्तिस्संहननं जवम् ॥
सप्तैतानि सदा यस्य स गजः सप्तसुस्थितः

2.6.10.59

येषां भवेद्दक्षिणपार्श्वभागे रोम्णां च पुंजः पिटकोऽथवापि ॥
ते नागमुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र

2.6.10.10

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे हस्तिलक्षणं नाम दशमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc