भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.1.5

2.1.5.1

2.1
श्रीगणेशाय नमः ॥
वज्र उवाच ॥
आदौ भगवता प्रोक्तो विजयो भरतस्य मे ॥
यच्छ्रुत्वा वेद्मि चात्मानं ब्रह्मन्विगतकल्मषम्

2.1.5.2

सुखश्राव्यश्च हृद्यश्च कथासारस्तु भार्गव ॥
कथाश्च विविधाः प्रोक्तास्तत्प्रसङ्गात्त्वयानघ

2.1.5.3

रसवत्यश्च धर्मज्ञ सर्वपापक्षयङ्कराः ॥
यास्ता ब्रह्मन्प्रसङ्गेन मयापहृतचेतसा

2.1.5.4

प्रस्तुतास्ताः कथास्त्यक्तास्ता एव कथस्व मे ॥
भगवन्सर्वधर्मज्ञ प्रत्यक्षामलदर्थन ॥
कथानां तु प्रसङ्गेन प्रस्तुता याः कथाः पुरा

2.1.5.5

सुदूरमन्तरीभूत्वा रामस्य विदितात्मनः ॥
ता एव श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह

2.1.5.6

लोकं वारुणमासाद्य रामो भृगुकुलोद्वहः ॥
श्रुतवान्देवदेवेशान्किन्नु भूयः प्रचेतसः

2.1.5.7

एतन्मे सर्वमाचक्ष्व तत्र मे संशयो महान् ॥
मार्कण्डेय उवाच ॥
कालस्य संख्यां तां श्रुत्वा रामप्रोक्तां प्रचेतसा

2.1.5.8

पप्रच्छ वरुणं देवं राजधर्मानतः परम् ॥
पृष्टस्तु जामदग्न्येन रामं प्राह जलेश्वरः

2.1.5.9

राजधर्माञ्छृणुष्वार्य पुष्करात्तनयान्मम ॥
राजधर्माः श्रुतास्तेन देवाद्दशशतेक्षणान्

2.1.5.10

स यथावद्विजानाति राजधर्मान्द्विजोत्तम ॥
एवमुक्त्वा तदा राममानाय्य च तथा सुतम्

2.1.5.11

उवाच भार्गवस्यास्य धर्मान्कथय पुत्रक ॥
यत्रयत्रास्य सन्देहो भविष्यति महात्मनः

2.1.5.12

तदुपानुद भद्रन्ते मम वाक्येन पुत्रक ॥
एवमुक्तस्तथेत्युक्त्वा गृहान्निन्ये भृगूत्तमम् ॥
तत्रास्य कथयामास राजधर्मान्महोदयान्

2.1.5.13

रामेण पृष्टो वरुणस्य पुत्रो जगाद धर्मान्नृपसत्तमानाम् ॥
द्रव्यान्महार्थान्भुवि पालनाय लोकस्य सर्वस्य नरेन्द्रचन्द्र

2.1.5.1

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामस्य पुष्करगृहगमनं नाम प्रथमोऽध्यायः

2.1.5.1

2.2
मार्कण्डेय उवाच ॥
सुखासीनो नरश्रेष्ठः पुष्करस्य निवेशने ॥
पप्रच्छ पुष्करं रामो धर्मनित्यो जितेन्द्रियः

2.1.5.2

राम उवाच ॥
राष्ट्रस्य किं कृत्यतमं तन्माचक्ष्व पृच्छतः ॥
आदावेव महाभाग यादोगणनृपात्मज

2.1.5.3

पुष्कर उवाच ॥
राष्ट्रस्य कृत्यं धर्मज्ञ राज्ञ एवाभिषेचनम् ॥
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत

2.1.5.5

अराजकेषु राष्ट्रेषु धर्मावस्था न विद्यते ॥
वर्णानामाश्रमाणां च व्यवस्थानं च भार्गव ॥ ४ ।
अराजकेषु राष्ट्रेषु नैव कन्या प्रदीयते ॥
विद्यते मम ता नैव तथा वित्तेषु कस्यचित्

2.1.5.6

स्वात्म्यो न्यायः प्रवर्तेत विश्वलोपस्तथैव च ॥
लोके न कश्चिद्विद्येत गुरोर्वचनकारकः

2.1.5.7

।
नाधीयीरँस्त्रयीं विद्यां त्रयो वर्णा द्विजातयः ॥
देवानां यजनं न स्यादनावृष्टिस्ततो भवेत्

2.1.5.8

नृलोकसुरलोकौ च स्यातां संशयितावुभौ ॥।
जनमारी भवेद्घोरा यदि राजा न पालयेत्

2.1.5.9

प्रजानां रक्षणार्थाय विष्णुतेजोपबृंहितः ॥
मानुष्ये जायते राजा देवसत्त्ववपुर्धरः

2.1.5.10

यस्मिन्प्रसन्ने देवस्य प्रसादस्तूपजायते ॥
यस्मिन्क्रुद्धे जनस्यास्य क्रोधः समुपजायते

2.1.5.11

महद्भिः पुण्यसम्भारैः पार्थिवो राम जायते ॥
यस्यैकस्य जगत्सर्वं वचने राम तिष्ठति

2.1.5.12

चातुर्वर्ण्यं स्वधर्मस्थं तेषु देशेषु जायते ॥
येषु देशेषु राजेन्द्र राजा भवति धार्मिकः

2.1.5.13

(मारकं न च दुर्भिक्षं नाग्निचौरभयं तथा ॥
न च व्यालभयं तेषां येषां धर्मपरो नृपः)

2.1.5.14

आदौ विन्देत नृपतिं ततो भार्यां ततो धनम् ॥
कुराजनि जनस्यास्य कुतो भार्या कुतो धनम्

2.1.5.15

तस्मात्सर्वप्रयत्नेन राष्ट्रमुख्ये नरेश्वरः ॥
परीक्ष्य पूर्वैः कर्तव्यो धार्मिकः सत्य सङ्गरः

2.1.5.16

येषां हि राजा भुवि धर्मनित्यस्तेषां न लोके भयमस्ति किञ्चित् ॥
तस्मात्प्रयत्नेन नरेन्द्र कार्यो राष्ट्रप्रधानैर्नृपतिर्विनीतः

2.1.5.2

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजप्रशंसा नाम द्वितीयोऽध्यायः

2.1.5.1

2.3
पुष्कर उवाच ॥
सर्वलक्षणलक्षण्यो विनीतः प्रियदर्शनः ॥
अदीर्घसूत्री धर्मात्मा जितक्रोधो जितेन्द्रियः

2.1.5.2

स्थूललक्षो महोत्साहः स्मितपूर्वाभिभाषकः ॥
सुरूपः कुलसंपन्नः क्षिप्रकारी महाबलः

2.1.5.3

ब्रह्मण्यश्चाविसंवादी दृढभक्तिः प्रियंवदः ॥
अलोलुपस्संयतवाग्गंभीरः प्रियदर्शनः ॥

2.1.5.4

नातिदण्डो न निर्दण्डः चारचक्षुरजिह्मगः ॥
व्यवहारे समः प्राप्ते पुत्रस्य रिपुणा सह

2.1.5.5

रथे गजेऽश्वे धनुषि व्यायामे च कृतश्रमः ॥
उपवासतपःशीलो यज्ञयाजी गुरुप्रियः

2.1.5.6

मन्त्रिसांवत्सराधीनः समरेष्वनिवर्तकः ॥
कालज्ञश्च कृतज्ञश्च नृविशेषज्ञ एव च

2.1.5.7

पूज्यं पूजयिता नित्यं दण्ड्यं दण्डयिता तथा ॥
षाड्गुण्यस्य प्रयोक्ता च शक्त्युपेतस्तथैव च ॥

2.1.5.8

उक्तैरनुक्तैस्तु गुणैरनेकैरलङ्कृतो भूमिपतिश्च कार्यः ॥
सम्भूय राष्ट्रप्रवरैर्यथावद्राष्ट्रस्य रक्षार्थमदीनसत्त्वः

2.1.5.3

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये राजलक्षणं नाम तृतीयोऽध्यायः

2.1.5.1

2.4
॥ पुष्कर उवाच ॥
एवं गुणगणाकीर्णं वरयेयुर्नराधिपम् ॥
सम्भूय राष्ट्रप्रवराः क्षत्रियं तु कुलोद्गतम्

2.1.5.2

वृतश्च तैर्व्रतं राजा गृह्णीयाद्विजितेन्द्रियः ॥
पालयिष्यामि वः सर्वान्धर्मस्थान्नात्र संशयः

2.1.5.3

व्रतं गृहीत्वा राज्यार्थी वृणुयाद्ब्राह्मणोत्तमम् ॥
सांवत्सरं सुखायास्य सर्वस्य जगतो नृपः

2.1.5.4

सर्वलक्षणलक्षण्यं विनीतं प्रियदर्शनम् ॥
सुरूपं वेशसंपन्नं नित्यमूर्जितदर्शनम

2.1.5.5

अदीनवादिनं धीरं धर्मनित्यं जितेन्द्रियम् ॥
अव्यङ्गं नाधिकाङ्गं च वेदवेदाङ्गपारगम्

2.1.5.6

चतुःषष्ट्यङ्गतत्त्वज्ञमूहापोहविशारदम् ॥
भूतभव्यभविष्यज्ञं गणितज्ञं विशेषतः

2.1.5.7

विचन्द्रा शर्वरी यद्वन्मुकुटं च च्युतोपलम् ॥
गणितेन तथा हीनं ज्योतिषं नृपसत्तम

2.1.5.8

आस्तिकं श्रद्दधानं च अनुकूलं महीपतेः ॥
सांवत्सरं नृपो गत्वा वरयेत्प्रयतः शुचिः

2.1.5.9

येनाभिषिक्तो नृपतिर्विनष्टस्तु नराधिप ॥
सांवत्सरं न तं विद्वान्वरयेन्नृपसत्तम

2.1.5.10

न हीनाङ्गं न वाचालं न च निष्प्रतिभं नृपः ॥
कुवेशमलिनं मुण्डं नास्तिकं पापनिश्चयम्

2.1.5.11

भिन्नवृत्तिं च वरयेद्वरयेत्सद्गुणं सदा ॥
वरयित्वा तु वक्तव्याः स्वयमेव महीभुजा

2.1.5.12

यथैवाग्निमुखा देवास्तथा राजमुखाः प्रजाः ॥
यथैवाग्निमुखा मन्त्रा राज्ञां सांवत्सरास्तथा

2.1.5.13

त्वं मे माता पिता चैव देशिकश्च गुरुस्तथा ॥
दैवं पुरुषकारश्च ज्ञातव्यौ सततं त्वया

2.1.5.14

समधर्मज्ञ भद्रं ते राज्यं साधारणं हि नौ ॥
समानेयः शुभो देवस्त्वयैव मम सत्तम

2.1.5.15

पौरुषेण पदं कार्यं समरं च तथा मया ॥
स चेत्तदभिमन्येत पार्थिवस्य महागुणम्

2.1.5.16

अथवा गुणदोषेण प्रज्ञया चाशु यो नृणाम् ॥
दैवोपघातसमरे विज्ञानं पौरुषस्य च

2.1.5.17

वाडवं न च प्राज्ञस्तु तस्यैवानुमते तदा ॥
तेनोद्दिष्टौ तु वरयेद्राजा मन्त्रिपुरोहितौ

2.1.5.18

तेनोद्दिष्टां च वरयेन्महिषीं नृपसत्तमः ॥
ततोऽभिषेकसम्भाराँस्तस्य कुर्यात्स दैववित्

2.1.5.19

कुञ्जरं तुरगं कुर्यात्तस्य राज्ञः परीक्षितौ ॥
भद्रासनं च च्छत्रं च वालव्यजनमेव च

2.1.5.20

खड्गरत्नं तथा चापं रत्नानि विविधानि च ॥
राज्ञो मृतस्य ये त्वासन्सर्वाणि तु नराधिप

2.1.5.21

ते न कार्या नरेन्द्रस्य तेन दैवविदा तथा ॥
कामं संवत्सरं कार्या अलाभेऽन्यस्य भूभुजा

2.1.5.22

गुणाधिकस्य नो कार्या येऽन्यत्राभिहिता मया

2.1.5.23

न तत्र नागाः सुभृता न योधा राज्ञो न माता न पिता न बन्धुः ॥
यत्रास्य साध्यं भवतीह विद्वान्सांवत्सरो धर्मविदः प्रमत्तः

2.1.5.4

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु सांवत्सरिक लक्षणं नाम चतुर्थोऽध्यायः

2.1.5.1

2.5
राम उवाच ॥
राज्ञा पुरोहितः कार्यस्तथा मन्त्री च कीदृशः ॥
महिषी च तथा ज्येष्ठा तन्ममाचक्ष्व पृच्छतः ॥

2.1.5.2

पुष्कर उवाच ॥
अव्यङ्गं लक्षणोपेतमनुकूलं प्रियंवदम् ॥
अथर्ववेदविद्वांसं यजुर्वेदविशारदम्

2.1.5.3

द्विवेदं ब्राह्मणं राजा पुरोहितमथर्वणम् ॥
पञ्चकल्पविधानज्ञं वरयेत सुदर्शनम्

2.1.5.4

नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥
चतुर्थोङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः

2.1.5.5

पञ्चकल्पविधानज्ञमाचार्यं प्राप्य भूपतिः ॥
सर्वोत्पातप्रशान्तात्मा भुनक्ति वसुधां चिरम्

2.1.5.6

स च राज्ञस्तथा कुर्यान्नित्यं कर्म सदैव तु ॥
नैमित्तिकं तथा काम्यं दैवज्ञवचने रतः

2.1.5.7

न त्याज्यस्तु भवेद्राजा दैवज्ञेन पुरोधसा ॥
पतितस्तु भवेत्त्याज्यो नात्र कार्या विचारणा

2.1.5.8

तथैव पतितौ राम न त्याज्यौ तौ महीभुजा ॥
तयोस्त्यागेन राजेन्द्र राज्यभ्रंशो विनिर्दिशेत

2.1.5.10

दुर्गतिः परलोके च बहुकालमसंशयम् ॥
सांवत्सरविरुद्धस्तु त्याज्यो राज्ञा पुरोहितः ॥
पुरोहितोऽन्यथा राज्ञो यथा माता यथा पिता ॥
अनिष्टमस्य व्यसनं हन्याद्दैवोपघातजम्

2.1.5.11

ब्राह्मणो निष्कृतिस्तस्य कुत्र शक्या महीभुजा ॥
यावन्न राज्ञा विद्वांसौ सांवत्सरपुरोहितौ

2.1.5.12

वृत्तिच्छेदे तयो राज्ञः कुलं त्रिपुरुषं व्रजेत् ॥
नरकं वर्जयेत्तस्माद्वृतच्छेदं तयोः सदा

2.1.5.13

स्थावरेण विभागश्च तयोः कार्यो विशेषतः ॥
अनुरूपेण धर्मज्ञ सांवत्सरपुरोहितौ

2.1.5.14

भाव्यं सदा भार्गववंशचन्द्र पुरोहितस्यात्मसमस्य राज्ञा ॥
राज्ञो यथापि स्वजनेन भाव्यो विद्वान्प्रभुः स्यान्नृपतेः पुरोधाः

2.1.5.5

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरोहितलक्षणं नाम पञ्चमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc