विष्णुधर्मोत्तरपुराणम् · अध्याय 2.11.15
2.11
॥ पुष्कर उवाच ॥
अश्वानामृषिभिः प्रोक्ता महादोषा भृगूत्तम ॥
यैरन्विता परित्याज्यास्तन्मे निगदतः शृणु
हीनदन्तो द्विदन्तश्च कराली कृष्णतालुकः ॥
कृष्णजिह्वश्च यमजो जातमुष्कश्च यस्तथा
द्विशफश्च तथा शृङ्गी नृवर्णो व्याघ्रवर्णकः ॥
खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी
श्वित्री च काकसादी च खरशारस्तथैव च ॥
वानराख्यः कृष्णसटः कृष्णमुष्कस्तथैव च
कृष्णप्रोथश्च मूकश्च यश्च तित्तिरसन्निभः ॥
विषमश्वेतपादश्च ध्रुवावर्तविवर्जितः
अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥
॥ राम उवाच ॥
वाजिनः के ध्रुवावर्ताः केषु स्थानेषु शोभनाः ॥
वाजिनः के तदा शस्तास्तन्ममाचक्ष्व पृच्छतः
पुष्कर उवाच ॥
रन्ध्रोपरन्ध्रयोर्द्वौद्वौ द्वौद्वौ मस्तकवक्षसोः ॥
प्रमाणे च ललाटे च ध्रुवावर्ता दश स्मृतः
एकोपि न भवेद्यस्य धुवावर्तस्तु वाजिनः ॥
न तं शंसन्ति धर्मज्ञ तस्मात्तं परिवर्जयेत
उत्तरोष्ठे भृगुश्रेष्ठ प्रमाणस्य तथोपरि ॥
नासापुटे तथा प्रोथे गण्डप्रोथाक्षिमध्यगः
कथयोरश्रुपातेन भ्रुवोः कण्ठाग्रयोस्तथा ॥
नाभ्यां हनुबला कक्षास्कन्धोपस्कन्धसन्धिषु
विदो बाहुप्रदेशे च गलमध्ये तथैव च ॥
आसने ककुदे प्रोथे जानुजंघासु भार्गव
कुष्टिकानाभिकक्षासु मुष्कयोर्मूत्रदेशजः ॥
त्रिके च मूलपुच्छे च उपरि स्थूणयोस्तथा
पिण्डयोर्जठरे चैव सीवनीयोपकुक्षिषु ॥
आवर्त्तैर्वर्जनीयाः स्युः प्रयत्नेन तुरङ्गमाः
ककुदे कर्णयोश्चैव यस्यावर्तः कुवाजिनः ॥
अत्यन्तमप्रशस्तं तं राजा राष्ट्राद्विवासयेत्
हस्तिदेवमणिः सर्वं पूर्वकायेषु लक्षणः ॥
सुव्यक्तो रोचमानो वा न तु काकुदिनं क्वचित
मेखला वाप्यधःकायाद्धन्यादावर्तसम्भवम् ॥
दोषान्सर्वांस्तुरङ्गस्य न हन्यात्काकसादिनम्
अतः परं प्रवक्ष्यामि शुभमावर्तलक्षणम् ॥
सृक्किण्योश्च ललाटे च तथा श्रवणमूलयोः
निगाले च तथा कण्ठे स्तुतकेशान्तयोस्तथा ॥
बाहुमूले तथा शस्ता रोमजातास्तुरङ्गमाः
आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः ॥
कण्ठजो रोचमानश्च सर्वावर्त्तो जनाधिपः
अर्केन्द्रगोपचन्द्राभा ये च वायस सन्निभाः ॥
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते
दीर्घग्रीवाक्षकूटाश्च ह्रस्ववर्णाश्च ये तथा ॥
ह्रस्वप्रोथाश्च शस्यन्ते मेघौघसदृश स्वनाः ॥
पृथूरुपादजवना मुखपुण्ड्राश्च वै हयाः
चन्द्रांशुशुक्लास्तुरगाः प्रशस्ताः कर्णान्तकेशैर्गवलालिवर्णैः ॥
ये रक्तवर्णाश्च समग्रपादैः शुक्लाश्च वर्णैश्च महानुभावाः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अश्वलक्षणं नामेकादशोऽध्यायः
2.12
पुष्कर उवाच ॥
चमरीबालसम्भूताः शशाङ्कांशुसमप्रभाः ॥
संहताः स्निग्धदीर्घाश्च तथा स्थालिनिबन्धनाः
दण्डश्च चामरे कार्यो रुक्मरूप्यमयस्तथा ॥
प्रवालवैडूर्यमयस्तथैव कनकान्वितः
क्षीरवृक्षस्य वा कार्यो रुक्मरूप्यनिबन्धनः ॥
रत्नैः प्रशस्तैश्चित्रो वा काञ्चनस्य प्रशस्यते
चन्दनस्याथ दन्तस्य शार्ङ्गः कार्यो यथा भवेत ॥
अर्धहस्तान्न चाप्यूनो मध्यर्धान्न तथाधिकः
कर्तव्यं चामरं राज्ञा न च भार्गव रञ्जितम
आपीतवर्णं तु भवेत्प्रशस्तं सांवत्सरामात्यपुरोहितानाम् ॥
नरेन्द्रपत्नीयुवराजसैन्यस्यालस्य शेषस्य जनस्य कृष्णः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चामरलक्षणं नाम द्वादशोऽध्यायः
2.13
पुष्कर उवाच ॥
हंसपक्षैर्विरचितं मयूरस्य शुकस्य च ॥
पक्षैरथ बलच्छाया च्छत्रं राज्ञः प्रशस्यते
मित्रपक्षं न कर्तव्यं हीनं परिमितं तथा ॥
चतुरस्रं तु कर्तव्यं ब्राह्मणस्य भृगूत्तम
वृत्तं राज्ञां प्रशस्तं स्याच्छुक्लवस्त्रविभूषितम् ॥
सितं दूकूलसंछन्नं पताकाभिर्विभूषितम्
एतस्मिन्दिग्विभागे तु कार्याश्चन्द्रांशुनिर्मलाः ॥
चतस्रस्तस्य धर्मज्ञ पताका रुक्मभूषिताः
दण्डं चामरवत्कार्यं वैणवं च प्रशस्यते॥
त्रिचतुःपञ्चषड्सप्तचाष्टपर्वः प्रशस्यते
दशद्वादशभिर्वापि शेषैस्तु परिवर्जयेत् ॥
छत्रं दण्डोग्रपर्वाणं दण्डः सर्वत्र शस्यते
धारयन्ति च दण्डं वै वैणवं गृहमेधिनः ॥
राज्ञां प्रशस्तं षड्ढस्तं छत्रदण्डं भृगूत्तम
अथ पञ्चोनहस्तं तु महिषीयुवराजयोः ॥
सेनापतिसुराध्यक्षसांवत्सरपुरोहितैः
पञ्चहस्तस्तु कर्तव्यश्छत्रदण्डो भृगूत्तम ॥
चतुर्हस्तस्तु कर्तव्यो मया येऽत्र न कीर्तिताः
व्यासो दण्डार्धमानेन सदा छत्रस्य शस्यते ॥
छत्रं विभूषयेद्राज्ञां त्वर्धचन्द्रदिवाकरैः
वज्रेन्द्रनीलैः स्फटिकैश्च राम वैदूर्यमुक्ताफलसत्प्रवालैः ॥
विभूषितं रश्मियुतं प्रशस्तं सदातपत्रं तु महीपतीनाम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे छत्रलक्षणं नाम त्रयोदशोऽध्यायः
2.14
पुष्कर उवाच ॥
भद्रासनं नरेन्द्रस्य क्षीरवृक्षेण कारयेत् ॥
उच्छ्रायश्च तथा तस्य अध्यर्धं तु समं भवेत्
हस्तत्रयं तथा विष्टं विस्तरेण तु कारयेत् ॥
आयामश्चास्य कर्तव्यो विस्तरेणार्धसम्मितः
चतुरस्रं तु कर्तव्यं राज्ञो भद्रासनं शुभम्॥
नाष्टास्रं न तथा वृत्तं न च दीर्घं भृगूत्तम
सुवर्णरूप्यताम्रैश्च चित्रं कार्यं विशेषतः ॥
रत्नैः प्रशस्तैर्न तथा न रत्नप्रतिरूपकैः
चत्वारः पुरुषास्तत्र विन्यस्ता भृगुनन्दन ॥
द्विगुणाश्च तथा सिंहास्तेभ्यस्तु द्विगुणास्तथा
भद्रासनं तत्र भवेन्नृपस्य तलेन पूर्णं ससुखं परार्ध्यम् ॥
वैयाघ्रचर्मास्तरणं सुखार्थं वरासनं तस्य समामनन्ति
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे भद्रासनलक्षणं नाम चतुर्दशोऽध्यायः
2.15
पुष्कर उवाच ॥
वज्रं मरकतं चैव पद्मरागं च मौक्तिकम् ॥
इन्द्रनीलं महानीलं वैडूर्यमथ सस्यकम्
इन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ॥
कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज
स्फटिकं राजवर्तं च तथा राजमयं शुभम् ॥
सौगंधिकं तथा सख्यं शङ्खब्रह्ममयं तथा
गोमेधं रुधिराक्षं च तथा बल्लातकं द्विज ॥
धूलीमरकतं चैव तुत्तूकं शेषमेव च
पलुं प्रवालकं चैव गिरिवज्रं च भार्गव ॥
भुजगेशमणिं चैव तथा वज्रमणिं शुभम्
टीटिभं च तु तापिच्छं भ्रामरं च तथोत्पलम् ॥
रत्नान्येतानि धार्याणि सर्वाण्येव महीक्षिता
सुवर्ण प्रतिबद्धानि जयारोग्यसमृद्धये ॥
तेषां गुरुत्वं रागश्च स्वच्छत्वं रश्मिमालिता
सुजातता मसृणता सुसंस्थानत्वमेव च ॥
गुणवन्तो विनिर्दिष्टा धार्यास्ते गुणसंयुताः
खंडास्सशर्करा ये च निष्प्रभा मलिनास्तथा ॥
न ते धार्या नरेन्द्राणां जयश्रीजीवितैषिणाम्
समस्तरत्नवर्गेऽपि वज्रधारणमिष्यते ॥
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत्
तथा च शुद्धं षट्कोणं लघु भार्गवनन्दन ॥
प्रभा च शक्रवापाभा यस्यार्काभिमुखी भवेत्
तं वज्रं धारयन्राजा सर्वाञ्जयति शात्रवान् ॥
शुक्लपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा
सुवर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः ॥
शस्तो मरकतो राम गम्भीरश्चोन्नतस्तथा
धार्यश्च पृथिवीशानां सर्वोपद्रवनाशनः ॥
कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकाद्द्विज
स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥
जहरङ्गा भवन्तीह कुरुविन्दभवाश्च ये
कषायरङ्गा निर्दिष्टा ये च सौगन्धिकोद्भवाः ॥
स्वच्छाश्च रागवन्तश्च विज्ञेयाः स्फटिकोद्भवाः
मुक्ताफलाः शुक्तिभव बहवो मत्स्यजास्तथा ॥
उत्कृष्टा न तथा तेभ्यो ये तु शङ्खोद्भवा द्विज
तेभ्यः प्रशस्ता विज्ञेया नागकुम्भसमुद्भवाः ॥
निष्प्रभास्ते समुद्दिष्टाः श्रेष्ठाः क्रोडिभवा द्विज
तेभ्यो वेणुदलाः श्रेष्ठास्तेभ्यो भुजङ्गसम्भवाः ॥
तेभ्योऽपि भुविदुष्प्राप्यं मौक्तिकं मेघसम्भवम्
धारणात्तस्य नृपतेः सर्वसिद्धिः प्रकीर्तिता ॥
मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते
सुष्ठुता च सुशुक्लत्वं महत्त्वं च भृगूत्तम ॥
इन्द्रनीलस्तु यः क्षीरं राजते भाजने स्थितम्
रञ्जयेत्स्वप्रभावेन तममूल्यं विनिर्दिशेत् ॥
नीलरक्तं तु वैडूर्यं सर्वतः श्रेष्ठमुच्यते
सर्वेषामेव रत्नानां धार्यं कर्केतनं स्मृतम् ॥
पुष्परागास्तथा राम ये चान्ये कीर्तिता मया
प्रशस्तरत्नैर्भूपानां मुकुटान्यङ्गदानि च ॥
हाराणि राम कार्याणि केयूराभरणानि च
अप्रशस्तानि रत्नानि वर्जनीयानि दूरतः ॥
सर्वरत्नोत्तमं राजा विवर्णं मलिनं तथा
न धारयेत धर्मज्ञः सुशुद्धं धारयेत्सदा ॥
धृतिः प्रशस्ता भृगुवंशचन्द्र रत्नोत्तमानां सततं नृपाणाम् ॥
रत्नांशुदग्धं तु नरस्य देहादनर्थमाशु प्रशमं प्रयाति
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रत्नलक्षणं नाम पञ्चदशोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0