विष्णुधर्मोत्तरपुराणम् · अध्याय 2.51.55
2.51
पुष्कर उवाच ॥
दुर्गमायुधसंघातं कुञ्जरास्तुरगास्तथा ॥
पुरुषैश्च विना राम सर्वमेतदपार्थकम्
तस्मात्प्रयत्नं कुर्वीत पुरुषाणां समर्जने ॥
तेषां चैवान्तरज्ञाने मूलमेतद्यतः श्रियः
सुसहायार्थसम्पन्न बलं यस्य महीपतेः ॥
संग्रामे तुमुले राम नूनं तस्य जयो भवेत्
सकृद्येन कृतं पापं तस्य राजा न विश्वसेत् ॥
पापं तु सुकरं तस्य सुकृतश्चास्य दुष्करम्
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ॥
तथा चलितवृत्तस्तु वृत्तशेषं न रक्षति
राजा न वेशयेत्कार्ये जनो यो नास्तिको भवेत् ॥
आस्तिका अपि तत्सङ्गात्प्राप्नुयुः संशयं द्विज
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः ॥
कृष्णता राहुसंसर्गात्किन्न सूर्यस्य वा भवेत्
अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः ॥
विचिकित्सुर्ध्रुवं राम पश्चादपि निवर्तते
कार्यं बुद्ध्वा त्वकार्याणि यः करोति नराधमः ॥
अकार्यकरणे श्रद्धा तस्य भूयोभिवर्धते
लोकः सर्वो महाभाग परलोकनिबन्धनः ॥
निरपेक्षस्य तत्रान्या का गतिः स्यान्निबन्धने
महापातकिनो येऽपि तेभ्योऽपि च महत्तरः ॥
पापकृन्नास्तिको लोकस्तस्मात्तं परिवर्जयेत्
आस्तिकानां च साधूनां संग्रहः शस्यते सदा ॥
ते सहाया नरेन्द्राणां तथा ये राम पण्डिताः
न पण्डितो मतो राम बहुपुस्तकधारणात् ॥
परलोकभयं यस्य तमाहुः पण्डितं बुधाः
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ॥
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्
शीलोपपन्नो नृपतिः सहायैः शरैस्तथाल्पैरपि सम्प्रयुक्तः ॥
प्रभूतनागाश्वबलोत्कटानां करोत्यरीणां कदनं रणेषु
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुरुषप्रशंसा नामैकपञ्चाशत्तमोऽध्यायः
2.52
॥ पुष्कर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि नराणां ते चिकित्सितम् ॥
तत्राप्यादौ तथा स्त्रीणां यन्मूलं प्रजनं यतः
महाजम्बूद्वयं रोध्रं मधुकं मधु शर्करा ॥
तण्डुलोदकसंयुक्तं शोणितप्रदरे पिबेत्
ऊर्ध्वं संवत्सरान्नारीं रक्तगुल्मे विरेचयेत् ॥
स्निग्धस्विन्नशरीराञ्च राम तीक्ष्णौर्विरेचनैः
ज्वरेण च पलाशस्य संसिद्धं यावकं पिबेत् ॥
अग्निसन्धुक्षणं चान्यास्तथा कार्यं प्रयत्नतः
प्रस्थं वृषकमूलस्य तैलं प्रस्थं विपाचयेत् ॥
योनीनां परिकोपेषु वेदनामपकर्षति
सौराष्ट्री रोचना रोध्रं मधूकं त्रिफला मधु ॥
भद्रमुस्तानि चूर्णानि वाजीकरणमुत्तम्
अश्वगन्धाविपक्वेन वराहस्य तु मेदसा ॥
ग्रन्थीकरणमभ्यङ्गं योषितां परिकीर्तितम्
एकमामलकं काले सलिलांजलिना पिबेत् ॥
सृष्टं कृष्णायसे भाण्डे तेन शातोदरी भवेत्
त्रिफलां चित्रकं शुण्ठीं मधुना तु लिहेत्सदा ॥
स्थूलानां वरनारीणां कृषीकरणमुत्तमम्
अश्वगन्धां पयस्यां च संसृज्य पयसा पिबेत् ॥
मासमेतत्प्रयुञ्जाना कृशा भवति मांसला
वराहवसया कार्यमश्वगन्धाविपक्वया ॥
स्तनानां मर्दनं तेन नारी पीनस्तनी भवेत्
मूलकस्य च्युतं बीजं तथैव तगरस्य च ॥
सप्तरात्रं तु गोमूत्रे सिध्मनाशनमुत्तमम्
क्षारेण हस्तिपिण्डस्य अवल्गुजरसेन च ॥
एतेन प्रोक्षितं श्वित्रं त्रिरात्रेण विनश्यति
गुञ्जायाः सफलं मूलं चित्रकं तगरं तथा ॥
भल्लातकानां च फलं मूलं चैवाश्वमारकम्
अर्कक्षीरसमं तैलं द्रव्यैरेतैर्विपाचयेत् ॥
प्रोक्षणेन विनिर्दिष्टं रोमशातनमुत्तमम्
हस्तिदन्तमयीं पिष्ट्वा पयसा लेपयेच्छिरः ॥
अजातेष्वपि केशेषु रोमसञ्जननं परम्
भृङ्गराजरसैस्तैलं सिद्धमभ्यञ्जनाद्द्रुतम् ॥
दृढमूलानि केशानि कुर्यात्कृष्णासितानि च
कटुकं दन्तकाष्ठं तु गोमूत्रपरिभावितम् ॥
भुक्त्वा तैलेन गण्डूषं वक्त्रगन्धहरं परम् ॥
इन्दीवराणि शुष्काणि प्राश्यानि तण्डुलैस्सह ॥
सर्वरात्रं मुखे वाति सुगन्धिविशदं शुचि
सर्षपोन्मथितं कृत्वा शाल्मलीनां तु कण्टकैः ॥
पयःपिष्टैर्मुखे लेपान्मुखं स्यात्कमलोपमम्
व्यङ्गानां तिलकानां च शमनं तत्प्रकीर्तितम् ॥
यौवने पिटकानां च ये च दोषा मुखे स्मृताः
कषायकल्कसिद्धेन शतावर्या घृतेन च ॥
अभ्यङ्गपानैर्भवति नारी वर्णयुता परम्
षोडशर्तुनिशाः स्त्रीणामाद्यास्तिस्रस्तु निन्दिताः ॥
अस्पृश्या तासु नारी स्यात्स्पृष्ट्वा तां स्नानमाचरेत्
दिनत्रयं तु तन्नारी स्नानाभ्यङ्गौ विवर्जयेत् ॥
आहारं गोरसानां च पुष्पालङ्कारधारणम्
अञ्जनं कङ्कणं गन्धाः पीतं शय्याधिरोहणम् ॥
मृल्लोहभाण्डवर्ज्येषु तथा भाण्डेषु भोजनम्
अग्निसंस्पर्शनं चैव वर्जयेत्तु दिनत्रयम् ॥
चतुर्थेऽहनि कुर्वीत स्नानं सा तु यथाविधि
अभिषेकोदिताभिश्च मृद्धिरद्भिश्च मानसैः ॥
ओषध्यश्च तथा कुम्भे निक्षिप्य स्नापयेत्तु ताम्
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा
सहां च सहदेवीं च पूर्णकोशां शतावरीम् ॥
अरिष्टां शिवां भद्रां गोलोमीं विजयप्रदाम्
ब्राह्मीं क्षेत्रामजां चैव सर्वबीजानि चाञ्जनम् ॥
बिल्वं गन्धानि रत्नानि पञ्चगव्यं तथैव च
कुम्भे निक्षिप्य कुम्भं च गन्धमाल्यानुलेपनैः ॥
पूजयित्वा ततो देवं तस्यात्र शुभवर्धनम्
मन्त्रं राजाभिषेकोक्तं पठेदत्र च कालवित् ॥
वस्त्रच्छन्नमुखी स्नाता स्नापके च विनिर्गते ॥
पश्येत्तदेव प्रतिमां वासुदेवस्य रूपिणः ॥
अथवा राम भर्तारं नान्यं कंचन सत्वरम्
तत्काले वदनं तस्य पश्यत्यथ यथा विधि ॥
सा प्रसूते सुतं राम शुभं वाऽप्यथवा शुचिम्
पूजनं वासुदेवस्य सा कृत्वात्मन एव च ॥
मण्डनं च यथान्यायं शुक्लवस्त्रोत्तरच्छदा।
षष्टिकान्नं तु पयसा समश्नीयाद् घृतेन सा ॥
घृतस्य पीत्वा प्रसृतिं नागपुष्पावचूर्णितम्
ऋतुकाले समाप्नोति नारी गर्भं द्विजोत्तम ॥
उपोषितेन शुचिना शुक्लपक्षे समुद्धृतम्
पुष्येण बृहतीमूलमुत्तरां वा मुखे नयेत ॥
श्वेतपुष्पा तु बृहती द्रुमूलस्यैष निश्चयः
नस्या देयाश्च चत्वार उन्मूला द्रुमबिन्दवः ॥
तस्मिन्नहनि सा तेन गर्भं धत्ते वरांगना
एवमप्यभवन्ती तु पुत्रीयां राम सप्तमीम् ॥
पुत्रीयमथवा स्नानं केशवाराधनं व्रतम्
पुत्रीयमेव वा कुर्यात्केशवाराधनं प्रिया ॥
स्नातानुलिप्ता भर्तारं हृष्टैर्बृंहितमेव च
यायाद्रात्रौ तथा नारी गन्धधूपादिवासिता ॥
आत्तगर्भां चिकित्सेत ततस्तामपराजित
मधुरौषधिसिद्धेन पयसा सर्पिषा तथा ॥
इच्छाविमानगाः काश्चिन्नास्याः कार्या कथञ्चन
कटुतिक्तकषायाणि चात्युष्णलवणानि च ॥
आयासं च व्यवायं च गर्भिणी वर्जयेत्सदा
विना कर्म न तिष्ठेत तथा सा राहुदर्शने ॥
प्रादुर्भावाणि वेदेस्य विष्णोरमिततेजसः
शृणुयात्तन्मना भूत्वा चरितं च महात्मनः ॥
पुन्नाम्नि नामनक्षत्रे ह्यासन्नप्रसवा गृहम्
प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः ॥
सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः
प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ॥
देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम्
विप्र पुण्याहघोषेण शंखवाद्यरवेण च ॥
प्रसूता बहुशस्तत्र तथा क्लेशक्षमाश्च याः
हृद्या विश्वसनीयाश्च परिचरेयुः स्त्रियश्च ताम् ॥
वातानुलोमनैर्हृद्यैस्तत्रैनामुपचारयेत्
आहारैश्च विहारैश्च प्रसवाय सुखं द्विज ॥
एरण्डमूलमिश्रेण सघृतेन तथैव ताम्
सुखप्रसवनार्थाय पश्चात्काये तु म्रक्षयेत् ॥
बलाकल्ककषायेण सिद्धं क्षीरं चतुर्गुणम्
तैलमभ्यञ्जनार्थाय सूतायामुपकल्पयेत् ॥
अथ जातान्न पानेच्छां पञ्चकोलप्रसादिताम्
पिबेद्यवागूं सस्नेहां तथा वै नीलकुञ्चिकाम् ॥
दशाहं सूतिकागारं चायुधैश्च विशेषतः
वह्नि कातिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः ॥
मुसलेन तथा द्वारि वर्णकैश्चित्रितेन च
रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ॥
राम जागरणं कार्यं जन्मदानां तथार्चनम्
पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ॥
रात्रौ जागरणं कुर्युर्दशमेऽहनि सूतिका
स्नाता पूर्वविधानेन रक्षणीया समीरणात् ॥
बालस्य जातमात्रस्य नाभिं छित्त्वा यथाविधि
तालुमुत्तापयेन्नारी पिचुना शोधयेन्मुखम् ॥
ब्राह्मी सुवर्चला सोमं सैन्धवं पिप्पली वचा
कनकं सर्पिषा दद्याल्लेह्यमेतद्द्विजोत्तम ॥
लेह्येनानेन मेधावी शूरः पण्डित एव च
दर्शनीयो यशस्वी च सुभगः स भविष्यति ॥
बिभीतकास्थि क्षौद्रेण घृष्टं श्रेष्ठमथाञ्जनम्
नेत्ररोगेषु बालानां सहरिद्रं च गोरसम् ॥
शारिवा चन्दनं कुष्ठं समभागानि कारयेत्
शिरोलेपमिदं दद्यादक्षिरोगविनाशनम् ॥
आम्रास्थि सैन्धवं लाजा मधुना सह लेहयेत्
एष लेहवरः श्रेष्ठश्छर्दिप्रशमनः शुभः ॥
अपामार्गविडङ्गानि पिप्पली मरिचं तथा
सैन्धवं तण्डुलं चैव मधुसर्पिःसमन्वितम् ॥
व्याघ्रीरसेन लेहोऽयं हिक्काश्वासविनाशनः
बिभीतकत्वचा श्रेष्ठं हरितालं मनःशिला ॥
एतत्तैलं पचेद्दद्रुपामाकिटिभनाशनम्
क्षौद्रेण लेह्या तुवरा पिप्पल्यतिविषापहा ॥
श्लेष्मरोगेषु सर्वेषु बालानां भेषजं परम्
रोध्रत्वङ्मधुना सार्धमतीसारविनाशिनी ॥
सप्त पर्णत्वक् च दूर्वा तथा कटुकरोहिणी
एतदुद्वर्तनं श्रेष्ठं सर्वग्रहविनाशनम् ॥
भङ्गां वचां शङ्खपुष्पीमेरण्डसप्तपर्णकम्
समन्तपुष्पीसंयुक्तमपामार्गं च पुष्करम् ॥
क्वाथयित्वा च दातव्यं स्नानं सद्यः सुखावहम्
सर्पिषा निम्बपत्राणि गोविषाणं घृतं मधु ॥
एतेन धूपितो बालो ग्रहदोषैर्विमुच्यते
अपामार्गस्य बीजानि बिल्वमूलफलानि च ॥
अगुरुं चन्दनं चैव सप्तपर्णस्य वल्कलम्
एतदालेपनं कुर्यात्सर्वग्रहविनाशनम् ॥
मातरश्च ग्रहाश्चैव बालं तु बलिकर्मणा
क्षिप्रमेव प्रमुञ्चन्ति तस्माद्यत्नेन कारयेत् ॥
तरक्ष्वर्क्ष वराहाणां दंष्ट्रा गोरोचना वचा
रत्नान्ययस्तथा कृष्णं वस्त्रं धार्यं तु बालकैः ॥
जातस्य राम बालस्य हेमन्ते प्रथमेऽथवा
शिशिरे वापि कर्तव्यं कर्णवेधं तथा शृणु ॥
ग्रहाणां तत्र सर्वेषां दिनवारः प्रशस्यते
तिथिं चतुर्थीं नवमीं वर्जयित्वा चतुर्दशीम् ॥
सावित्रं वैष्णवं त्वाष्ट्रमादित्यं पौष्णमाश्विनम्
कर्णवेधे प्रशस्यन्ते सोमदेवं तथैव च ॥
पूर्वाह्णे पूजनं कृत्वा केशवस्य हरस्य च
ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानां तथैव च ॥
नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा
गुरूणां मण्डलं कृत्वा तत्र दत्त्वा सुखासनम् ॥
दत्त्वोपवेशयेत्तत्र धात्रीं शुक्लाम्बरां तथा
स्वलंकृतां तदुत्संगे बालं कृत्वा तु सान्त्वितम् ॥
धृतस्य निश्चलं सम्यग्गले कुकरसांकिते
विध्येद्दैवकृते छिद्रे सकृदेव तु लाघवात् ॥
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ॥
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं वानुनिधापयेत्
तैलाभ्यक्ते ततः कर्णे कार्यमाभरणं भवेत् ॥
कर्णवेधदिने विप्रं सांवत्सरचिकित्सकौ ॥
पूज्याश्चाविधवा नार्यः सुहृदश्च तथा द्विजाः ॥
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ॥
सौरभौमदिनं चैव तिथिं रिक्तां च वर्जयेत्
चतुर्थीं नवमीं चैव रिक्तां चैव चतुर्दशीम् ॥
आर्यम्णं वैष्णवं हस्तमादित्यं पौषमश्विनम्
भाग्यं त्वाष्ट्रं च पुष्यं च तत्र कर्मणि शस्यते ॥
दिगीशानां दिशं तत्र तथा चन्द्रार्कयोर्द्विज
पूजनं वासुदेवस्य गगनस्य च कारयेत् ॥
तत्र स्वलंकृता धात्री बालमादाय पूजितम्
बहिर्निष्क्रामयेद्गेहाच्छङ्खपुण्याहनिस्वनैः ॥
ततस्तत्र पठेन्मंत्रं यं तु राम निबोध मे
चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च ॥
निक्षेपार्थमिदं दद्मि ते मे रक्षन्तु सर्वदा
अप्रमत्तं प्रमत्तं वा दिवा रात्रावथापि वा ॥
रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः
स्त्रीणामविधवानां तु द्विजानां सुहृदां तथा ॥
तदा तु पूजा कर्तव्या गीतनृत्यैस्तथोत्सवैः
पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् ॥
तत्र सर्वे ग्रहाः शस्ता भौमो राम विशेषतः
तिथिं च वर्जयेद्रिक्तामृक्षाणि शृणु भार्गव ॥
उत्तरात्रितयं सौम्यं चाश्वत्थं शक्रदैवतम्
प्राजापत्यं च हस्तं च शस्तमाश्विनदैवतम् ॥
वराहं पूजयेद्देवं पृथिवीं च द्विजोत्तम
पूजनं सर्वतः कृत्वा गुरुदेवद्विजन्मनाम् ॥
भूभागमुपलिप्याथ कृत्वा तत्र तु मण्डलम्
शङ्खपुण्याहशब्देन भूमौ तमुपवेशयेत् ॥
मन्त्रश्चात्र भवेद्राम तन्मे निगदतः शृणु
रक्षणं वसुधे देवि सदा सर्वगतं शुभे ॥
आयुःप्रमाणं सकलं निक्षेपस्ते हरिप्रिये
अन्तरादायुषस्तस्य ये केचित्परिपन्थिनः ॥
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान्
वरेण्याशेषभूतानां माता त्वमसि कामधुक् ॥
अजरा चाप्रमेया च सर्वभूतनमस्कृता
चराचराणां भूतानां प्रतिष्ठा त्वं त्वर्हमसि ॥
कुमारं पाहि मातस्त्वं बालं तदनुमन्यताम्
तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् ॥
शक्त्या कृत्वा ततः कार्यश्चोत्सवः पूर्ववद्द्विज
षष्ठेऽन्नप्राशनं मासि कर्तव्यं भौमवर्जिते ॥
दिनवारे तिथिं रिक्तां वर्जनीया तथैव च
नक्षत्राणि तथैवात्र दारुणोग्राणि वर्जयेत् ॥
साधारणे तथा राम ज्येष्ठान्तेष्वपि शस्यते
ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिगीश्वरान् ॥
भुवं दिशश्च सम्पूज्य हुत्वा वह्नौ तथा चरुम्
एतेषामेव देवानां कृत्वा ब्राह्मणपूजनम् ॥
देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च
अलंकृतस्य दातव्यं वीर कांस्ये तु काञ्चने ॥
मध्वाज्यकनकोपेतं प्राशयेत्पायसं ततः
ततस्त्वन्नपते राम मन्त्रश्चात्र विधीयते ॥
कृतप्राशं तदोत्सङ्गाद्धात्री बालं तु विन्यसेत्
देवाग्रतोऽथ विन्यस्य शिल्पभण्डानि सर्वशः ॥
शस्त्राणि चैव शास्त्राणि ततः पश्येत लक्षणम्
प्रथमं यं स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ॥
जीविका तस्य बालस्य तेनैव तु भविष्यति
दन्त जन्मनि बालानां तेनैव तु भविष्यति ॥
दन्तजन्मनि बालानां लक्षणं तु निबोध मे
उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः ॥
दन्तैर्वा सह यस्य स्याज्जन्म भार्गव जायते
मातरं पितरं वापि खादेदात्मानमेव च.॥
तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥।
गजपृष्ठगतं बालं नौस्थं वा स्थापयेद्द्विज ॥
तदभावे तु धर्मज्ञ काञ्चने तु वरासने
सर्वौषधैः सर्वगन्धैर्बीजैः पुष्पैः फलैस्तथा ॥
पञ्चगव्ये तु रत्नैश्च पताकाभिश्च भार्गव
स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ॥
सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम्
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ॥
काञ्चनं रजतं गाश्च भुवं चात्मानमेव वा
दन्तजन्मनि मासान्यसम्भवे सप्तमादपि ॥
अष्टमेऽहनि विप्राणां शृणु स्नानमतः परम्
भद्रासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ॥
सर्वौषधैः सर्वगन्धैः सर्वबीजैस्तथैव च
स्नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम् ॥
पूर्वतश्च तथा ख्यातान्देवदेवं च केशवम्
एतेषामेव जुहुयाद्घृतमग्नौ यथाविधि ॥
ब्राह्मणानां च दातव्या ततः पूजा च दक्षिणा
ततस्त्वलंकृतं बालं चासने तूपवेशयेत् ॥
आसनं छत्रमूर्धानं बीजैस्तं स्नापयेत्ततः
सुस्विन्नैर्बालकानां च तैश्च कार्यं च पूजनम् ॥
पूज्याश्चाविधवा नार्यो ब्राह्मणाः सुहृदस्तथा
प्राप्तेऽथ पञ्चमे वर्षे त्वप्रसुप्ते जनार्दने ॥
प्रतिपदां तथा षष्ठीं वर्जयित्वा तथाष्टमीम्
रिक्तां पञ्चदशीं चैव सौरभौमदिने तथा ॥
धुवाणि याम्यं च तथा नक्षत्राणि विवर्जयेत्
सौम्यवर्गश्चरे लग्ने हिते तत्र नवांशके ॥
त्रिकोणकेन्द्रगाः सौम्याः पापाश्चोपचये शुभाः
नक्षत्राणां विवर्ज्यानां मुहूर्ताश्च विवर्जयेत् ॥
एवं सुनिश्चिते काले विद्यारम्भं च कारयेत्
पूजयित्वा हरिं लक्ष्मीं तथा देवीं सरस्वतीम् ॥
सुविद्यां सूत्रकाराँश्च स्वां विद्यां च विशेषतः
एतेषामेव देवानां नाम्ना तु जुहुयाद्घृतम् ॥
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं चात्र पूजनम्
धात्र्युत्सङ्गादथादाय बालं तु कृतवापनम् ॥
स्वलंकृतं प्रदातव्यमुत्सङ्गे तु तदा गुरोः
गुरुश्चात्र भवेद्विद्वान्स्नातः शुक्लाम्बरः शुचिः ॥
प्रगृह्य तं तु निक्षेपं गुरुरप्यथ भार्गव
प्राङ्मुखः सुमुखासीनो वारुणाशामुखं शिशुम् ॥
अध्यापयेत्तु प्रथमं कुर्याद्बालोऽपि वन्दनम्
ब्राह्मणानां गुरूणां च देवतानामनन्तरम् ॥
ततस्तु पूज्या वित्तेन धात्री राम गुरुस्तथा
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं तर्पणं तथा ॥
ततः प्रभृत्यनध्यायान्वर्जनीयान्विवर्जयेत्
अष्टमीद्वितयं राम पक्षान्ते च दिनद्वयम् ॥
अशौचमिन्द्रयात्रां च भूकम्पं राहुदर्शनम्
व्यतीतं चाप्यहोरात्रमुल्कापातं च भार्गव ॥
अकालस्तनितं चैव निर्ज्योतिषमथाम्बरम्
तथा काले प्रचण्डश्च यदा वायुस्तदा भवेत् ॥
प्रदोषे चाप्यसंश्रद्धे चैत्यवृक्षचतुष्पथे
गोयाने कुञ्जरे चाश्वे न च नावि तथा भवेत् ॥
श्वशृगालरवे घोरे तथा च खरनिस्वने
तथा वादित्रशब्दे च तथैव नगरोत्सवे
कालेषु देशेषु मयोदितेषु पठन्ति ये नाम न तेषु विद्या ॥
फलं प्रयच्छेत्यथवाऽरिशत्रोर्लोके परे वा यदि वाऽपि चास्मिन्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बालतन्त्रो नाम द्विपञ्चाशत्तमो
ऽध्यायः
2.53
श्रीपरशुराम उवाच ॥
पुत्रीयं भगवन्स्नानं पुत्रीयमथ सप्तमीम् ॥
पुत्रीयं च समाचक्ष्व तथा वै केशवव्रतम्
पुष्कर उवाच ॥
उपोषितौ कृत्तिकासु यजमानपुरोहितौ ॥
रोहिण्यां स्नपनं कुर्युर्यजमानस्य भार्गव
क्षीरवृक्षप्ररोहाभ्यां सितमाल्यविभूषितम्॥
प्रियङ्गुचन्दनोपेतान्पञ्च कुम्भान्प्रपूजयेत्
प्राङ्मुखं व्रीहिराशिस्थं कुम्भैस्तैरभिषेचयेत् ॥
विष्णुं शशाङ्कं वरुणं रोहिणीं च प्रजापतिम्
पूजयेत्प्रयतः श्रद्धी गन्धमाल्यानुलेपनैः ॥
धूपः प्रजापतेर्देयस्तथैव शटकेशयाः
पञ्चपृष्ठवृषान्दिग्धान्दध्ना च विनिवेदयेत् ॥
प्रजाध्यक्षाय होमञ्च देवतानां तु कारयेत्
घृतेन सर्वबीजैश्च शुक्लवासा जितेन्द्रियः ॥
दक्षिणां गुरवे देयात्काम्यं गौर्वाससी शुभे
सुवर्णं च महाभाग विप्राणामथ शक्तितः ॥
शुक्ला च गौर्वृषः शुक्लस्तयोर्लोम शफं तथा
शृङ्गाणि त्रिवृतं कृत्वा मणिर्धार्यस्ततो भवेत्
अलंकृतं केशमिदं सदैव स्नानं तु कुर्वन्पुरुषोऽथवा स्त्री ॥
पुत्रानवाप्नोति तथेष्टतां च पुष्टिं तथाग्र्यां विपुलां च कीर्तिम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयरोहिणीस्नानवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः
2.54
॥ पुष्कर उवाच ॥
मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम ॥
पुत्रीयां सप्तमीं राम गृह्णीयात्प्रयतः शुचिः
अथवा पुत्रकामा स्त्री विधिना येन तच्छृणु ॥
हविष्याशी शिरःस्नातः कृत्वा ब्राह्मणपूजनम्
अधःशायी द्वितीयेऽह्नि गोविषाणोदकेन च ॥
स्नात्वोपविश्य च तथा शुभे देशे तु मण्डलम्
तत्राष्टपत्रं कमलं विन्यसेद्वर्णकैः शुभैः ॥
तस्यैव कर्णिकामध्ये भास्करं चन्दनेन तु
रक्तेन पूजयेद्देवं गन्धमाल्यानुलेपनैः ॥
भक्ष्यैर्भोज्यैस्तथा पेयैर्धूपैर्दीपैस्तथैव च
एवं संपूजनं कृत्वा सर्वकामप्रदस्य तु ॥
नक्तं भुञ्जीत धर्मज्ञ सर्वकर्मविवर्जितः
दन्तोलूखलको भूत्वा कृत्वा संवत्सरव्रतम् ॥
व्रतावसाने दातव्या शक्त्या ब्राह्मणदक्षिणा
तथात्रिमधुरप्रायं कर्तव्यं द्विजभोजनम् ॥
अधःशाय्यनिशं तां च भूय एव तथा भवेत्
पुत्रीयमेतद्व्रतमुत्तमं ते मयोदितं कल्मषनाशकारि ॥
आराधनं देववरस्य राम सर्वामयघ्नं च तथैतदुक्तम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयासप्तमीव्रतं नाम चतुष्पञ्चाशत्तमोऽध्यायः
2.55
पुष्कर उवाच ॥
प्रोष्ठपद्यामतीतायां कृष्णपक्षाष्टमी तु या ॥
सोपवासो नरस्तस्यां योषिद्वा तनयार्थिनी
स्नाता सरसि धर्मज्ञ तोये चाप्यथ सारसे ॥
पूजनं वासुदेवस्य यथा कुर्यात्तथा शृणु
घृतप्रस्थेन गोविन्दं स्नापयित्वा जगद्गुरुम् ॥
क्षौद्रेण च ततः पश्चाद्दध्ना च स्नपयेत्ततः
क्षीरेण स्नपनं कृत्वा ततः पश्चाद्विवक्षितम् ॥
सर्वौषधैश्च गन्धैश्च सर्वबीजफलैस्तथा
स्नापयित्वानुलिप्येत चन्दनागुरुकुङ्कुमैः ॥
कर्पूरेण तथा राम तथा जातीफलैः शुभैः
ततः कालोद्भवैः पुष्पैः पूजयित्वा जनार्दनम् ॥
धूपं चागुरुणा दत्त्वा कृत्वा नैवेद्यमुत्तमम् ॥
विशेषाद्गोरसप्रायं पुन्नागैरन्वितैः फलैः ॥
पौरुषेण च सूक्तेन हुत्वा चानन्तरं घृतम्
शूद्रो वाप्यथवा नारी नाम्ना हुत्वा जगद्गुरुम् ॥
यवपात्राणि दद्यात्तु फल्गुनि कनकं तथा
पुत्रार्थं प्राशनं कुर्यात्फलैः पुन्नामभिः शुभैः ॥
स्त्रीनामभिश्च कन्यार्थी ततो भुक्त्वा यथेप्सितम्
पुत्रकामानवाप्नोति तथा सर्वमभीप्सितम् ॥
हविष्यं देवदेवस्य भूमिशोभां तु कारयेत्
संवत्सरमिदं कृत्वा व्रतमाप्नोत्यभीप्सितम् ॥
पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान्
पुत्रीयमेतद्व्रतमुत्तमं ते मयेरितं यद्यपि धर्मनित्यम् ॥
तथाप्यनेनैव समस्त कामान्कृतेन लोके पुरुषा लभन्ते
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पुत्रीयाष्टमीव्रतं नाम पञ्चपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0