भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.46.50

2.46.50.1

॥ पुष्कर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि शृणु तेषां चिकित्सितम् ॥
वृषो निम्ब बृहत्यौ च गुडूची च समांसिका

2.46.50.2

शिङ्घाणकहरापिण्डी स्वेदस्य शिरसस्तथा ॥
यावशूकं समदनं पिप्पली विश्वभेषजम्

2.46.50.3

सर्षपा गृहधूमश्च निर्गुण्डी सुरसा वचा ॥
निम्बपत्रयुता पायौ वर्तिः शूलविनाशिनी

2.46.50.4

हिङ्गु पुष्करमूलं च नागरं साम्लवेतसम् ॥
पिप्पली सैन्धवयुतं शूलघ्नं तूष्णवारिणा

2.46.50.5

नागरातिविषौ मुस्ता सानन्ता बिल्वमालका ॥
क्वाथो मासं पिबेद्वाजी सर्वातीसारनाशनम्

2.46.50.6

प्रियंगुशारिवाभ्यां च युक्तमाजं शृतं पयः ॥
पर्याप्तशर्करं पीत्वा श्रमाद्वाज्यवमुच्यते

2.46.50.7

द्रोणिकायां तु दातव्या तैलवस्तिस्तुरङ्गमे ॥
कोष्ठजाश्च शिरा वेध्यास्तेन तस्य सुखं भवेत्

2.46.50.8

दाडिमं त्रिफलां व्योषं गुडं च समभागिकम् ॥
पिण्डमेतत्प्रदातव्यमश्वानां कासनाशनम्

2.46.50.9

प्रियङ्गुरोध्रमधुभिः पिबन्ति स्म रसं हयाः ॥
क्षीरं वामं च कालोड्यं कश्मलाद्विप्रमुच्यते

2.46.50.2.46.10

प्रस्कन्नेषु च सर्वेषु श्रेय आदौ विशोषणम् ॥
अभ्यङ्गोद्वर्तनस्नेहनस्यवर्तिक्रमस्ततः

2.46.50.11

प्रस्कन्नं प्रशमं याति यदि नानेन कर्मणा ॥
उरस्युपान्तपार्श्वे च ततो विस्रावयेच्छिराम्

2.46.50.12

ज्वलितानां तुरङ्गाणामयमेव क्रियाक्रमः ॥
नस्यमेकं विना राम सर्वमेतत्प्रशस्यते

2.46.50.13

रोध्रकरञ्जयोर्मूलं मातुलुङ्गाग्निनागराः ॥
कुष्ठहिङ्गुवचारास्नालेपोऽयं शोफनाशनः

2.46.50.14

समासेन शिरां विध्याद्देया वापि जलौकसः ॥
त्र्यहेत्र्यहे वा धर्मज्ञ नस्यकर्म समाचरेत्

2.46.50.15

मञ्जिष्ठा मधुकं द्राक्षा बृहत्यौ रक्तचन्दनम् ॥
त्रपुसीबीजमूलानि शृङ्गाटककशेरुकम्

2.46.50.16

अजापयः शृतमिदं सुशीतं शर्करान्वितम्॥
पीत्वा निरशनो वाजी रक्तमेहात्प्रमुच्यते

2.46.50.17

मन्याहनुनिगालस्थः शिरःशोफो गलग्रह ॥
अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते

2.46.50.18

यवैः स्निग्धकुलत्थैश्च ततः स्वेदं प्रयोजयेत् ॥
मृदूकृते ततः शोफे नस्यकर्म समाचरेत्

2.46.50.19

वचा- - - - सैन्धवं स्वरसो रसः ॥
कृष्णाहिङुयुतैरेभिः कृत्वा नस्यं न सीदति

2.46.50.2.46.20

निशा ज्योतिष्मती पाठा कृष्णा कुष्ठा वचा मधु ॥
जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतो हितः

2.46.50.21

तिलैर्युक्ता रजन्या च निम्बपत्रैश्च योजिता ॥
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपिणी

2.46.50.22

अभिघातेन खञ्जन्ति येनाश्वास्तीव्रवेदनाः ॥
परिषेकक्रिया तेषां तैलेनाशु रुजापहा

2.46.50.23

दोषकोपाभिघाताभ्यां तिलजे जृम्भते सदा ॥
शान्तिर्मध्वाज्यबन्धाभ्यां पक्वम्भिन्ने व्रणे क्रमः

2.46.50.24

अश्वत्थोदुम्बरप्लक्षमधूकवटकल्ककैः॥
प्रभूतसलिलः क्वाथः सुखोष्णो व्रणशोधनः

2.46.50.25

शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ॥
देवदारुवचायुग्मरजनीरक्तचन्दनैः

2.46.50.26

तैलं सिद्धं कषायेण गुडूच्या पयसा सह ॥
प्रक्षीणे वस्तिनस्ये च योज्यं सर्वत्र लंघने

2.46.50.27

रक्तस्रावो जलौकाभिर्नेत्रान्ते नेत्ररोगिणः ॥
खदिरोदुम्बराश्वत्थकषायेण च धावनम्

2.46.50.28

धात्रीदुरालभातिक्ता प्रियङ्गुकुङ्कुमैः समैः ॥
गुडूच्या कृतकः कल्को हितमुष्णावलम्बिते ॥

2.46.50.29

उपान्ते च शिरास्रावे मुष्कशोफे तथैव च ॥
क्षिप्रकारिणि दोषे च सद्यो वेधनमिष्यते

2.46.50.2.46.30

गोशकृत्सर्जिकाकुष्ठरजनीतिलसर्षपैः ॥
गवां मूत्रेण पिष्टैश्च मर्दनं कण्डुनाशनम्

2.46.50.31

सितामधुयुतः क्वाथो वाशिकायाः सशर्करः ॥
रक्तपित्तहरः पानादश्वकर्णात्तथैव च

2.46.50.32

आमे परिणते पक्वं पक्वमांसे जरां गते ॥
पक्वमांसयुतं नेष्टं सर्वं जीर्णं प्रशस्यते

2.46.50.33

सप्तमेसप्तमे देयमश्वानां लवणं दिने ॥
तथा भुक्तवतां देया परिपाने तु वारुणी

2.46.50.34

जीवनीयैः सुमधुरैर्मृद्वीकाशर्करायुतैः ॥
सपिप्पलीकैः शरदि प्रतिमानं सपद्मकम्

2.46.50.35

विडङ्गपिप्पलीधान्याशताह्वा रोध्रसैन्धवैः ॥
सावित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे

2.46.50.36

।
रोध्रं प्रियङ्गुका रास्ना पिप्पलीविश्वभेषजैः ॥
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम्

2.46.50.37

प्रियङ्गुपिप्पलीरौद्रयष्ट्याह्वैः समहौषधैः ॥
निदाघे सगुडा देया मदिराप्रतिपानके

2.46.50.38

भद्रकाष्ठा सलवणं पिप्पल्या विश्वभेषजम् ॥
भवेत्तैलयुतैरेभिः प्रतिपानं घनागमे

2.46.50.39

निदाघावृतपित्तानां क्षरन्मदोष्णशोणिताः ॥
प्रावृड्भिन्नपुरीषाश्च पिबेयुर्वाजिनो घृतम्

2.46.50.2.46.40

पिबेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ॥
स्नेहव्यापद्भवेद्येषां तेषां कार्यं विरूक्षणम्

2.46.50.41

त्र्यहं यवागू रूक्षा स्यात्सुरा च लवणान्विता ॥
भोजने तक्रसंयुक्तं ह्येष वै रूक्षणे विधिः

2.46.50.42

प्रायोगिकस्तथा देयो वस्तिस्तस्य निरत्ययः ॥
ये पिबन्ति हयाः स्नेहं तेषां वस्तिं न दापयेत्

2.46.50.43

शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः ॥
वर्षासु शिशिरे चैव वस्तौ देयमिहेष्यते

2.46.50.44

गुर्वभिष्यन्दिभक्तानि व्यायामः स्नानमातपम् ॥
पायुर्वस्तं च वाहस्य स्नेहपीडस्य वर्जितम्

2.46.50.45

स्नानं पानं सकृद्दृष्टमश्वानां सलिलागमे ॥
अत्यर्थदुर्दिने काले स्नानमेकं प्रशस्यते

2.46.50.46

युक्तशीतातपे काले द्विः पानं लवणं सकृत् ॥
ग्रीष्मे त्रिः स्नानपानं स्याच्चिरं तस्यावगाहनम्

2.46.50.47

निस्तुषाणां प्रदातव्यं यवानां चतुराढकम् ॥
ववर्णव्रीहिमौदालाकलनां वापि दापयेत्

2.46.50.48

अहोरात्रेण चान्द्रस्य यवसस्य तुला दश ॥
अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ बुसस्य वा

2.46.50.49

दूर्वा पित्तं बुसः कार्श्यं तद्बुसः श्लेष्मसञ्चयम् ॥
नाशयत्यर्जुनः श्वासं तथा माषो बलक्षयम्

2.46.50.2.46.50

वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः ॥
न रोगाः पीडयिष्यन्ति दूर्वाहारं तुरङ्गमम्

2.46.50.51

द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ॥
पश्चाद्बन्धश्च कर्तव्यो हरकीलव्यपाश्रयः

2.46.50.52

केशानुरूपमास्यस्य केशपुच्छप्रकल्पनम् ॥
छेदः खुरप्रवृद्धौ च वर्जयेत्तु कनीनिकाम्

2.46.50.53

यत्नोपन्यस्तयवसः कृतधूपनभूमयः ॥
वसेयुः सम्भृते स्थाने प्रदीपैः सार्वरात्रिकैः

2.46.50.54

शाखामृगोजाः कृकवाकवश्च धार्याश्च शालासु तथैव धेनुः ॥
कुर्युर्निशीथे पुरुषाः सशस्त्राः संरक्षणं राम तुरङ्गमाणाम्

2.46.50.46

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वचिकित्सा नाम षट्चत्वारिंशत्तमोऽध्यायः

2.46.50.1

पुष्कर उवाच ॥ ॥
नित्यं नैमित्तिकं काम्यं शान्तिकर्म निबोध मे ॥
पञ्चमीषु च सर्वासु श्रीधरं पूजयेद्भृशम्

2.46.50.2

श्रियश्च पूजनं कार्यं हयराज्ञस्तथैव व ॥
रामोच्चैःश्रवसो नित्यं गन्धमाल्यानुलेपनैः ॥

2.46.50.3

धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥
शरद्वसन्तयोः कार्यमेकदन्तस्य पूजनम्

2.46.50.4

प्रतिपत्पञ्चमी षष्ठी सप्तमी द्वादशी तथा ॥
प्रशस्तास्तिथयो राम सूर्यवारो विशेषतः

2.46.50.5

कृत्तिकां रोहिणीं भाग्यं चार्यम्णमश्विनीं तथा ॥
त्वाष्ट्रं सावित्रमादित्यं वायव्यं च भृगूत्तम ॥

2.46.50.6

नक्षत्राणि प्रशस्तानि शुक्लपक्षस्तथैव च ॥
उद्यानेषु विचित्रेषु नदीनां पुलिनेषु च

2.46.50.7

देवतायतनं राम पूजनं तस्य कारयेत् ॥
अर्घधूपनमस्कारदीपपुष्पान्नसम्पदा

2.46.50.8

कुल्माषोल्लोपिकाभक्ष्यमद्यमांससुरासवैः ॥
ओदनैः परमान्नेन फलैः कालोद्भवैः शुभैः

2.46.50.9

नृत्य गीतेन वाद्येन शङ्खशब्दैस्तथैव च ॥
सावित्रैश्च तथैवाज्यं जुहुयाज्जातवेदसि

2.46.50.2.47.10

ॐकारपूर्वं च तथा रेवन्ताय पुनःपुनः ॥
द्विजातिपूजनं कार्यं माल्यमोदकचन्दनैः

2.46.50.11

दक्षिणाभिश्च धर्मज्ञ यथावदनुपूर्वशः ॥
नारीषु वर्जयेत्सर्वं रेवन्तस्य निवेदितम्

2.46.50.12

एवं सम्पूजितो दद्यात्तुरङ्गमशतान्यपि ॥
बलं तेजस्तथारोग्यं तुरङ्गाणां च भार्गव

2.46.50.13

अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां नरोत्तम ॥
तुरङ्गमाणां कर्तव्यं शान्तिकं तन्निबोध मे

2.46.50.14

दिगीशानीं विनिष्कृष्य ग्रामाद्देशे मनोरमे॥
प्रागुदक्प्रवणे राम स्थण्डिलं परिकल्पयेत्

2.46.50.15

नासत्यौ वरुणं देवं तथैवाश्वयुजे द्विज ॥
पूजयेत्प्रयतो विद्वान्गन्धमाल्यानुलेपनैः

2.46.50.16

धूपैर्दीपैर्नमस्कारैस्तथा चान्नेन भूरिणा ॥
समुल्लिख्य ततो वेदिं शाखाभिः परिवारयेत्

2.46.50.17

समन्ततस्तथार्द्राभिर्वस्त्रैश्चाप्यहतैस्तथा ॥
घटान्सर्वरसैः पूर्णान्दिक्षु दद्याद्यथाविधि

2.46.50.18

विदिक्षु च तथा दद्याद्ध्वजच्छत्राणि बुद्धिमान् ॥
ततः समुपधायाग्निं जयप्रभृतिभिः पुनः

2.46.50.19

हुत्वोक्तदेवतालिङ्गैर्मन्त्रैश्च जुहुयाद्घृतम् ॥
ततः सम्पूजनीयास्तु गन्धमाल्यैस्तुरङ्गमा

2.46.50.2.47.20

सन्नद्धपुरुषारूढाः सुसन्नद्धास्तुरङ्गमाः ॥
सायुधैः पुरुषैः सार्धं वह्निं कुर्युः प्रदक्षिणम्

2.46.50.21

त्रिः परिक्रामतो वह्निं क्ष्वेडोत्कृष्टनिनादितैः ॥
शङ्खवाद्यरवोन्मिश्रैर्नेतव्याः स्वगृहं ततः

2.46.50.22

रसानि तानि वासांसि गौः कांस्यं कनकं तथा ॥
दक्षिणायै प्रदातव्यं कर्तुर्द्विजवरोत्तम

2.46.50.23

कर्मणानेन भवति प्रभूतं राम वाहनम् ॥
हृष्टपुष्टं च धर्मज्ञ गदामयविवर्जितम्

2.46.50.24

नित्यमेतत्तवोद्दिष्टं शृणु नैमित्तिकं तथा ॥
अश्वानां मारके प्राप्ते व्याधौ वाप्यतिदारुणे

2.46.50.25

प्रकृतेश्च विपर्यासे तथा भृगुकुलोद्भव ॥
हयचारे शुभे देशे स्थण्डिलं परिकल्पयेत्

2.46.50.26

विन्यसेत्कमलं तत्र तन्मध्ये पूजयेद्धरिम् ॥
श्रियं च देवीं तत्रैव केसरेषु च देवताः

2.46.50.27

ब्रह्माणं शङ्करं सोममादित्यं च तथाश्विनौ ॥
रेवन्तमुच्चैःश्रवसं दिक्पालाँश्च दलेष्वपि

2.46.50.28

सर्वेषां पूजनं कार्यं गन्धधूपान्नसम्पदा ॥
दीपमाल्यनमस्कारपुष्पैर्मूलैः सगोरसैः

2.46.50.29

प्रत्येकं पूर्णकुम्भैश्च गन्धमाल्याद्यलङ्कृतैः ॥
तथा पिशितवस्त्रैश्च वर्धमानैः सतण्डुलैः

2.46.50.2.47.30

तथा प्रतिसरासूत्रैः पताकाभिश्च भार्गव ॥
तस्यै वोत्तरतो वेदिं कल्पयित्वा यथाविधि

2.46.50.31

ततः समुपधायाग्निं यथोक्तानां पृथक्पृथक् ॥
ततोऽग्निहवनस्यानु कांस्यं गां काञ्चनं तथा

2.46.50.32

देयं वस्त्रयुगं कर्त्रे कारयित्रे तथैव च ॥
कर्मैतत्सर्वरोगघ्नं सर्वबाधाविनाशनम्

2.46.50.33

उपोषितेन कर्तव्यं ब्राह्मणेन यथाविधि ॥
उपोषितस्तदा तिष्ठेद्यजमानोऽपि भार्गव

2.46.50.34

अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥
उपोषितौ सदा पौष्णे यजमानपुरोहितौ

2.46.50.35

अश्विनर्क्षे सदा स्नानं कुर्युर्यन्मे निबोधत ॥
अकालमूलौ द्वौ कुम्भौ मधूककुसुमोत्कटौ

2.46.50.36

अश्वगन्धायुतौ कृत्वा स्नाप्यस्ताभ्यां तदा भवेत् ॥
उत्तमं पूजयेद्विद्वान्नासत्यौ शशिनं तथा

2.46.50.37

अश्विनौ वरुणं चैव शुक्लवासास्तथा हरिम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा

2.46.50.38

ततोऽश्वमिथुनं कार्यं सर्वौषधियुतं मृदा ॥
प्रणतेन ततो विद्वान्नासत्याभ्यां निवेदयेत्

2.46.50.39

धूपमश्वशफं दद्याद्दैवतानां तथैव च ॥
यथोक्तानां द्विजश्रेष्ठ जुहुयाच्च पृथक्पृथक्

2.46.50.2.47.40

चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ॥
स्वाहान्तेनाथ शतशो मन्त्रपूतं घृतं द्विज

2.46.50.41

अश्वलोम तथा धार्यं फलमूले तथैव च ॥
एकत्र त्रिवृतं कृत्वा मणिर्धार्यस्तु पूर्ववत्

2.46.50.42

अलंघयन्नश्विनतिं सदैव स्नानं च कुर्यात्प्रयता मनुष्यः ॥
अश्वानवाप्नोति सहस्रसंख्यान्कुलोद्भवान्वीर्यबलोपपन्नान्

2.46.50.47

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने अश्वानां शान्तिकर्मविधानन्नाम सप्तचत्वारिंशत्तमोऽध्यायः

2.46.50.1

2.48
पुष्कर उवाच ॥
कुञ्जराः परमा शोभा शिबिरस्य बलस्य च॥
आयाति कुञ्जरेष्वेव विजयः पृथिवीक्षिताम्

2.46.50.2

तेषां संमार्जने यत्नं पालने च भृगूत्तम ॥
यथावन्नृपतिः कुर्याद्गन्धर्वाः कुञ्जरा मताः

2.46.50.3

जयन्ताश्च तथा धार्या यावतां पोषणं सुखम् ॥
कर्तुं शक्यं न धार्यास्ते क्षुधिता दुःखितास्तथा

2.46.50.4

दुःखितास्ते नृणां हन्युः कुलानि च भृगूत्तम ॥
तस्मात्तेषां सुखं कार्यं यशःश्रीविजयप्रदम्

2.46.50.5

सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः ॥
अनल्पैरपि यद्युक्तं बलं परबलप्रणुत्

2.46.50.6

।
तदैकस्यापि समरे कुञ्जरस्य सवर्मणः ॥
न शक्यं प्रमुखे स्थातुं वेगादापततो द्विज

2.46.50.7

अभिन्नानां तु संघानां संहृतानां च भेदनम् ॥
एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधु चोदितः

2.46.50.8

मदक्लिन्नकपोलस्य किञ्चिदञ्चितचक्षुषः ॥
बृहदाभोगशुण्डस्य कः शोभां कथितुं क्षमः

2.46.50.9

वेगेन धावमानस्य प्रसारितकरस्य च ॥
कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्तिनः

2.46.50.2.48.10

यस्य फूत्कारमात्रेण तुरङ्गमशतान्यपि॥
स्वारूढान्यपि वेगेन विद्रवन्ति दिशो दश

2.46.50.11

तत्सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः ।
मूर्तिमान्विजयो राम कुञ्जरा मदगर्विताः

2.46.50.12

सपक्षा देववाह्यास्ते मनुजानां त्वपक्षकाः ॥
वाहनार्थं कृता राम स्वयमेव तु वेधसा

2.46.50.48

दृष्ट्वा पताकाभिरलंकृतं तु नागेन्द्रसैन्यं प्रबलं यथाद्रिम्॥
पतन्ति शीघ्रं हृदयान्यरीणां तस्मात्प्रधानाः सततं गजेन्द्राः १३ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गजप्रशंसा नामाष्टचत्वारिंशत्तमोऽध्यायः

2.46.50.1

2.49
पुष्कर उवाच ॥
अतः परं प्रवक्ष्यामि कुञ्जराणां चिकित्सितम् ॥
पाकलेषु तु सर्वेषु कर्तव्यमनुवासरम्

2.46.50.2

घृततैलपरीषेकः स्थानं वातविवर्जितम् ॥
स्कन्धेषु च तथा कार्या क्रिया पाकलवद्द्विज

2.46.50.3

गोमूत्रं पाण्डुरोगे तु रजनीभिर्युतं हितम् ॥
आनाहे तैलसिक्तस्य निवातस्थं प्रशस्यते

2.46.50.4

लवणैः पञ्चभिर्मिश्रा प्रतिपानाय वारुणी ॥
विडङ्गत्रिफलाव्योषसैन्धवैः कवलाः कृताः

2.46.50.5

मूर्च्छास्वभोजयेन्नागं क्षौद्रतोयं तु पाययेत् ॥
अभ्यङ्गः शिरसः कार्यो नस्यश्चैव प्रशस्यते

2.46.50.6

नागानां स्नेहकटुकैः पादरोगानुपक्रमेत् ॥
पञ्चकल्ककषायेण शोधनं च विधीयते

2.46.50.7

.......मन्दनं कार्यं मृदुस्निग्धं च भोजयेत् ॥
शिखितित्तिरलावानां पिप्पलीमरिचान्वितैः

2.46.50.8

रसैः सम्भोजयेन्नागं वेपधुर्यस्य जायते ॥
बालबिल्वं तथा रोध्रं धातुकीं वितुषा सह

2.46.50.9

अतीसारविनाशाय पिण्डं भुञ्जीत कुञ्जरः॥
नस्यं करग्रहे देयं घृतं लवणसंयुतम्

2.46.50.2.49.10

मागधी मरिचाढ्या च यवागुर्मस्तुसाधितः॥
तत्कर्णके च दातव्यं वाराहं च तथा रसम्

2.46.50.11

दशमूलकुलत्थाम्ल काकमाची विपाचितम्॥
तैलमूषणसंयुक्तं गलग्रहगदापहम्

2.46.50.12

अष्टभिर्लवणैः पिष्टैः प्रसन्नां पाययेद्युताम् ॥
मूत्रसंघेऽथवा बीजं क्वथितं त्रपुसस्य च

2.46.50.13

त्वग्दोषेषु पिबेन्निम्बं वृषं वा क्वथितं द्विपः ॥
गवां मूत्रं विडङ्गानि कृमिदोषेषु शस्यते

2.46.50.14

शृङ्गबेरकणाद्राक्षाशर्कराभिः शृतं पयः ॥
क्षतक्षयहरं पानात्तथा मांसरसः शुभः

2.46.50.15

मुद्गोदनं व्योषयुतं ह्यरुचौ च प्रशस्यते ॥
द्रोणिकाशान्तये यूषं पटोलीनिम्बदुर्गजम्

2.46.50.16

त्रिवृद्योषाग्निदन्त्यर्कश्यामक्षीरेभपिप्पली ॥
एष गुल्महरः स्नेहः कृतश्चैव तथासवः

2.46.50.17

क्षीरवृक्षनदीजम्बुमल्लकीनां त्वचः शुभाः ॥
हृद्रोगशान्तये देया विदार्यश्च रसोदनात्

2.46.50.18

भेदनश्रावाणभ्यङ्गस्नेहपानानुवासनैः ॥
सर्वानेव समुत्पन्नान्विद्रवेत्समुपाचरेत्

2.46.50.19

यष्टिकं मुद्गयूषेण शारदेषु तथा पिबेत् ॥
बालबिल्वैस्तथा लेपः कटिरोगेषु शस्यते

2.46.50.2.49.20

विडंगेन्द्रयवा हिङ्गुसरलं रजनीद्वयम् ॥
पूर्वाह्णे दापयेत्पिण्डं सर्वशूलोपशान्तये

2.46.50.21

भारेण चलितं दन्तं कुञ्जरस्य समुद्धरेत् ॥
प्रधाना भोजने तेषां यष्टिकाव्रीहिशालयः

2.46.50.22

मध्यमौ यवगोधूमौ शेषाः प्रत्यवराः स्मृताः ॥
विधौ योगे प्रयत्नेन दग्धिकां तु विवर्जयेत्

2.46.50.23

यवसेषु तथैवेक्षुर्नागानां बलवर्धनम् ॥
नागानां यवसं शुष्कं कफवातप्रकोपनम्

2.46.50.24

मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ॥
जीवनीयैस्तथा द्रव्यैः शृतो मांसरसः शुभः

2.46.50.25

मदवृद्धिकरान्योगान्वक्ष्याम्यहमतः परम् ॥
रणकाले समापन्ने यान्राजा संप्रयोजयेत्

2.46.50.26

वायसः कुरवश्चोभौ काकोली नाकुली हरिः ॥
भवेत्क्षौद्रेण संयुक्तः पिण्डः सद्यः प्रभेदनः

2.46.50.27

जातिभंगं समूलश्च कपोतत्वक्तथेङ्गुदी ॥
अश्वसारकभङ्गश्च पिण्डोऽयमपरस्तथा

2.46.50.28

अजशृङ्ग्यर्कमूलाभ्यां सकुञ्जमधुसंयुतः ॥
मधुमिश्रोप्ययं पिण्डः पुष्पमूलफलान्वितः

2.46.50.29

युद्धकालेऽत्र नागस्य कर्तव्या मदवर्धिनी ॥
कटुमत्स्या विडङ्गानि क्षारः कोशातकी पयः

2.46.50.2.49.30

हरिद्रा चेति धूपोऽयं कुञ्जरस्य जयावहः ॥
पिप्पल्यः श्वेतलशुनं हरितालं मनःशिला

2.46.50.31

अश्वमूत्रोषितो धूपः स्यात्सूर्यपरिशोषितः ॥
मार्द्वीकं कटुमत्स्याश्च तथा कटुकरोहिणी

2.46.50.32

आभयं च त्रयः शैलं धूपोऽयमपरः शुभः ॥
अग्निकः सर्ववर्णश्च पीलुरित्येष दीपनः

2.46.50.33

प्रदेयः कवलो युद्धे मनुष्यास्थिप्रधूपितः ॥
जीर्णे विधानो देयः स्यात्पिण्डश्च तृट्क्षयङ्करः

2.46.50.34

पिप्पली तण्डुलस्तैलं मार्द्वीकं माक्षिकं तथा ॥
नेत्रयोः परिषेकोऽयं दीपनीयः प्रशस्यते

2.46.50.35

पुरीषं वृश्चिकायाश्च तथा पारावतस्य च ॥
क्षीरवृक्षकरीराश्च प्रपन्नाविष्टमञ्जनम्

2.46.50.36

अनेनाञ्जितनेत्रस्तु करोति कदनं रणे ॥
उत्पलानि च नीलानि मुस्तं तगरमेव च

2.46.50.37

तण्डुलोदकपिष्टानि नेत्रनिर्वापणं परम् ॥
प्रवृद्धये नदीजानां पञ्चमेऽब्दे वनौकसाम्

2.46.50.38

दन्तमूलपरीणाहाद्विगुणात्कल्पयेत्परम् ॥
वनेवृद्धैर्न्नवे च्छेदः कर्तव्यश्च तदा भवेत्

2.46.50.39

शय्यास्थानं भवेच्चास्य करीषैः पांसुभिस्तथा ॥
तैलावसेकः शीते स्यान्मासिमासि तथैव च

2.46.50.2.49.40

शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥
राज्यद्विपादभ्यधिकां तु शोभां नागस्य चान्यस्य न जातु कुर्यात् ॥
शोभाविधानं त्वधिकं सदैव राज्यद्विपस्यैव नृपस्तु कुर्यात्

2.46.50.49

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने हस्तिचिकित्सा नामैकोनपञ्चाशत्तमोऽध्यायः

2.46.50.1

2.50
पुष्कर उवाच ॥
अतः परं तु नागानां शान्तिकर्म निबोध मे ॥
नित्यं नैमित्तिकं काम्यं यथावदनुपूर्वशः

2.46.50.2

पञ्चमीषु च शुक्लासु वासुदेवस्य पूजनम् ॥
श्रियश्च राम कर्तव्यं नागस्यैरावणस्य च

2.46.50.3

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
तथा च कृष्णपक्षान्ते मासिमासि द्विजोत्तम

2.46.50.4

भूतेज्या सततं कार्या तिलमांसपयोगुडैः ॥
मत्स्यैः पक्वामिषैर्भक्ष्यैः सुमनोभिश्च भार्गव

2.46.50.5

चतुष्पथेषु रथ्यासु तथा शून्यगृहेषु च ॥
एक वृक्षश्मशानेषु गोपुराट्टालकेषु च

2.46.50.6

सङ्गमेषु नदीनां च पर्वतानां गुहासु च ॥
त्रिकण्टकेषु मुख्येषु शून्यदेवगृहेषु च

2.46.50.7

शुक्लपक्षावसानेषु देवतेज्या विधीयते ॥
गजस्थानोत्तरे भागे प्रागुदक्प्रवणे शुभे

2.46.50.8

ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्रवणं यमम् ॥
चन्द्रार्कौ वरुणं वायुं त्वग्निं पृथ्वीं तथा खगम्

2.46.50.9

शेषं च नागराजं तु भूधराँश्चैव कुञ्जरान् ॥
विरूपाक्षं महापद्मं भद्रं सुमनसं तथा

2.46.50.2.50.10

अष्टौ च दिग्गजा ये वै ते स्मृता देवयोनयः ॥
कुमदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः

2.46.50.11

सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ॥
यथोक्तानां सुकर्तव्यं पूजनं वै पृथक्पृथक्

2.46.50.12

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
ॐकारपूतेनाज्येन तथाग्निहवनं भवेत्

2.46.50.13

पृथक्पृथक् च सर्वेषां चतुर्थ्यन्तैश्च नामभिः ॥
दक्षिणाभिस्ततो राम ब्राह्मणान्स्वस्ति वाचयेत्

2.46.50.14

ततः शान्त्युदकं कृत्वा मन्त्रै रक्षोहणैर्द्विपान् ॥
अभ्युक्षयेत्कुशाग्रेण पूज्यास्ते च तथा तदा

2.46.50.19

अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ॥
गजानां मरणे प्राप्ते तथा व्याधौ च दारुणे

2.46.50.16

दन्तच्छेदाशुभोत्पत्तौ मृते गजद्विपे तथा ॥
दन्तभङ्गे तथा जाते वा सुपक्षमृते गजे

2.46.50.17

कृष्णपक्षे मृते नागे वह्निपृष्ठे मृते तथा ॥
दारुणासु च वेलासु दक्षिणापरमूर्धनि

2.46.50.18

हस्तिन्याथ मदे जाते प्रकृतेश्च विपर्यये ॥
पूर्वोत्तरे च दिग्भागे नगरात्सुमनोहरे

2.46.50.19

स्निग्धप्राशन तोयेषु द्रुमवीतवनस्पतौ ॥
प्रागुदक्प्रवणं राम स्थण्डिलं परिकल्पयेत्

2.46.50.2.50.20

कमलं विन्यसेत्तत्र कर्णिकाकमले हरिम् ॥
श्रियं च विन्यसेत्तत्र केसरेषु च विन्यसेत्

2.46.50.21

ब्रह्माणं भार्गवं पृथ्वीं तथा स्कन्दं च भार्गव ॥
अनन्तं खं शिवं सोमं सर्वाण्येतानि भार्गव

2.46.50.22

दलेषु तत्र दिक्पालान्विन्यसेत्सह कुञ्जरैः ॥
पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः

2.46.50.23

वज्रं तु विन्यसेद्धीमान्शक्रपत्रादनन्तरम् ॥
ततश्चक्रं ततो दण्डं तोरणं तदनन्तरम्

2.46.50.24

ततश्च विन्यसेत्पाशं तोमरं सशरं धनुः ॥
ततो गदां महाभाग ततः शूलं च विन्यसेत्

2.46.50.25

पद्मञ्च सान्तरदलं वृत्तया लेखया भजेत् ॥
आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत्

2.46.50.26

वसूनग्निदिशाभागे साध्यान्याम्ये च विन्यसेत ॥
तथा च नैरृते भागे देवानङ्गिरसो न्यसेत्

2.46.50.27

पश्चिमे भृगवो भागे वायव्ये मरुतस्तथा ॥
विश्वेदेवास्तथोदक् च रुद्राञ्शिवदिशि न्यसेत्

2.46.50.28

कृत्वैतद्देवतान्यासं वृत्तया रेखया भजेत् ॥
बाह्येन विन्यसेत्तस्याः सूत्रकारानॄषीन्द्विज

2.46.50.29

पूर्वेण राम याम्येन तथा देवीं सरस्वतीम् ॥
नदीः पश्चिमतः शैलांस्तथोदग्भृगुनन्दन

2.46.50.2.50.30

महाभूतानि वेदीषु कोणहस्तगतानि तु॥
पद्मं चक्रं गदां शङ्खमीशान्यादिषु विन्यसेत्॥ ।

2.46.50.31

चतुरस्रं तथा कार्यं चतुर्द्वारं च मण्डलम् ॥
प्रमाणं मण्डलस्यात्र भवेद्भूमिवशात्तथा ॥
विदिक्षु पूर्णकलशान्पूर्णपात्रयुतान्न्यसेत

2.46.50.32

।
सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत् ॥
सिता रक्ताः सिताः पीता यथावदनुपूर्वशः ॥
दिक्षु तोरणविन्यासं तोरणानां च वेष्टनम्

2.46.50.33

क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत् ॥
तोरणस्य प्रमाणं च षड्ढस्तं परिकीर्तितम्

2.46.50.34

उच्छ्रायेण तथा यामाज्ज्ञेयं राम समद्वयम् ॥
तार्क्ष्यं तालं च मकरं ऋष्यं चैवानुपूर्वशः

2.46.50.35

तोरणोपरि मध्ये तु दानवान्विनिवेशयेत् ॥
कर्णकैर्लक्षणोपेतान्विन्यसेद्देवतागणान्

2.46.50.36

सायुधान्सपताकाँश्च सातपत्रं शतक्रतुम् ॥
दिग्गजानां च विन्यासमोषधीभिः प्रकल्पयेत्

2.46.50.37

ऐरावणं दले शक्रे लाजाभिर्विन्यसेद्बुधः ॥
नागं पुष्पमयं पद्ममाग्नेये विन्यसेद्दले

2.46.50.38

पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियंगुभिः ॥
तथा च नैरृते भागे नागः पुष्पेण वामनः ॥।

2.46.50.39

वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः ॥
नीलश्च पत्रे कौबेरे शतपुष्पामयो भवेत्

2.46.50.2.50.40

ऐशान्ये कुमुदं कुर्यान्नागेन्द्रं सिततन्दुलैः ॥
ततस्तु पूजनं कार्यं सोपवासेन भार्गव

2.46.50.41

जितेन्द्रियेण दान्तेन शिरःस्नातेन चाप्यथ ॥
शुक्लवस्त्रावृतेनापि सोष्णीषेण तथैव च

2.46.50.42

काञ्चनालंकृतेनापि सपवित्रेण भार्गव ॥
सर्वासां पूजनं कुर्याद्देवतानां पृथक्पृथक

2.46.50.43

अस्त्राणां कुञ्जराणां च पद्मादीनां तथैव च ॥
तोरणे तु निविष्टानां तार्क्ष्यादीनां पृथक्पृथक्

2.46.50.44

सागराणां तु कुम्भेषु गन्धमाल्यानुलेपनैः ॥
धूपैर्दीपैर्नमस्कारैर्वासोभिश्च पृथक्पृथक्

2.46.50.45

तथा प्रतिसराभिश्च भूषणैश्च पृथक्पृथक् ॥
भूरिणा च तथान्नेन पानैश्च विविधैस्तथा

2.46.50.46

कुल्माषपरमान्नाभ्यां पूज्यास्ते कृसरेण च ॥
भूदकोल्लोपिकाभक्ष्यैः सितया गुडफाणितैः

2.46.50.47

मासौदनपयःक्षौद्रदधिपायससक्तुभिः ॥
अपूपफलमूलान्नरागखण्डवकैर्दलैः

2.46.50.48

एवं सम्पूजनं कृत्त्वा शङ्खवाद्यरवैर्द्विज ॥
गीतेन च महाभाग सुभगानर्तितेन च

2.46.50.49

ततस्तु पूजनं कृत्वा पूजास्थानात्तथाप्युदक्॥
आहिताग्निकुलादग्निं वेदिमुल्लिख्य बोधयेत्

2.46.50.2.50.50

देवतानां तु सर्वासामेकैकं तु पृथक्पृथक् ॥
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव

2.46.50.51

शतमाज्येन जुहयान्महाव्याहृतयस्तथा ॥
ततस्तु पूजिता नागा वह्निं देवगणान्द्विजान्

2.46.50.52

कृत्वा प्रदक्षिणं सर्वे व्रजेयुः स्वगृहाणि ते ॥
उपद्रष्ट्रे तथा कर्त्रे सर्वं तत्र निवेदयेत्

2.46.50.53

भवेन्निष्कं च निष्कं च धेनुधेनुं भुवंभुवम् ॥
अश्वमश्वं तथान्या च दक्षिणा शक्तितो भवेत्

2.46.50.54

न भवेत्सा महाद्रोणा कथञ्चिदपि कस्यचित् ॥
तथा च हस्तिभिषजा प्रवृत्तेन च भूरिणा

2.46.50.55

पूजनीयौ तथैवात्र सांवत्सर पुरोहितौ ॥
हस्तिन्यां मदमत्तायां शान्तिकेऽस्मिन्द्विजोत्तम

2.46.50.56

राष्ट्रान्निर्वास्य तां कुर्याच्छान्तिमेतां द्विजोत्तम ॥
नागराज्ञि मृते कृत्वा तत्रैवान्यं मतङ्गजम्

2.46.50.57

स्नातं सर्वौषधैर्नागं सर्वगन्धैस्तथैव च ॥
सर्वबीजैश्च रत्नैश्च सर्वतीर्थजलैस्तथा

2.46.50.58

आहताम्बरसंवीतदर्शनं श्वेतलक्षणम् ॥
काञ्चनापीडिते वाद्यगीतपुण्याहनिस्वनैः

2.46.50.59

अर्चितं दैवतो वह्निं कृतविप्रप्रदक्षिणम् ॥
करिणीं तु समारुह्य वदेत्कर्णे तु कालवित्

2.46.50.2.50.60

श्रीगजस्त्वत्कृते राजा भवस्वास्य गजाग्रणीः ॥
गन्धमाल्याग्रभक्तैस्त्वां पूजयिष्यति पार्थिवः

2.46.50.61

लोकस्तदाज्ञया पूजां करिष्यति तथानघ ॥
पालनीयस्त्वया राजा घोरयुद्धे तथाहवे

2.46.50.62

तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर ॥
देवासुराणां युद्धे च श्रीगजस्त्रिदशैः कृतः

2.46.50.63

ऐरावणसुतः श्रीमानरिष्टो नाम रावणः ॥
श्रीगजानां तु तत्तेजः सर्वमेवात्र तिष्ठति

2.46.50.64

तत्तेजस्तव नागेन्द्र दिव्यभागसमन्वितम् ॥
उपतिष्ठतु भद्रं ते रक्ष राजानमाहवे

2.46.50.65

इत्येवमभिषिक्त्वेन शुभेऽहनि नराधिपः ॥
नित्यं चैवास्य कर्तव्यं ब्राह्मणैः स्वस्तिवाचनम्

2.46.50.66

तस्यानुगमनं कुर्युः शस्त्रहस्ताश्च मानवाः ॥
सितवर्णश्च कर्तव्यो राज्ञः पुण्याहकर्मसु

2.46.50.67

एतत्ते सर्वमाख्यातं गजानां शान्तिकर्मसु ॥
नक्षत्राणि प्रशस्तानि तिथयश्च तथा शृणु

2.46.50.68

चतुर्दशीं चतुर्थीं च नवमीं च विवर्जयेत् ॥
अङ्गारकदिने राम दिनं भास्करजस्य च

2.46.50.69

ऋक्षाणि वैष्णवं त्वाष्ट्रं शस्यते शक्रदैवतम् ॥
नक्षत्राणि मुहूर्ताश्च एत एव महाबल

2.46.50.2.50.70

देशकालोपसम्पन्नं विधिना च तथा कृतम् ॥
शान्तिकर्म गजेन्द्राणां सर्वबाधाविनाशनम्

2.46.50.71

धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ॥
भार्गवश्च्यवनः क्रुद्धो यथा शक्रस्य भार्गव

2.46.50.72

मदो नाम समुत्पन्नस्तथा दैत्यः सुदारुणः ॥
इन्द्रनाशाय शक्रार्थी ततः पश्चात्प्रसादितः

2.46.50.73

मदं स बहुधा चक्रे प्रजापतिसमो द्विज ॥
स्त्रीष्वक्षेषु तथा पाने मृगयायां धने तथा

2.46.50.74

विद्यासु चैव सर्वासु सर्वशिल्पेषु चाप्यथ ॥
जीवेषु राम सर्वेषु तथा रूपे बले कुले

2.46.50.75

एकोऽस्य धारणे शक्तो न कश्चिदितिचिन्तयन् ॥
यथोक्तेष्वधिकं भागं किञ्चित्पाने निवेशयेत्

2.46.50.76

प्राणिनामथ सर्वेषां नागेष्वभ्यधिकं तथा ॥
मदो यदा समभ्येति नागं ब्राह्मणसत्तम

2.46.50.77

राम शान्तिस्तदा कार्या यादृशी तां निबोध मे ॥
शालाप्रागुत्तरे भागे स्थण्डिलं कल्पयेद्बुधः

2.46.50.78

स्थण्डिले कमलं कृत्वा दिक्पत्रेषु तथेश्वरान् ॥
केसरं च्यवनं नागान्भुवं कं च सरस्वतीम्

2.46.50.79

पूजयेड्डिण्डिमं मध्ये गन्धमाल्यानुलेपनैः ॥
धूपदीपनमस्कारैर्वासोभिश्च पृथक्पृथक्

2.46.50.81

सर्वासां पूजनं कृत्वा पाद्याद्यनुरतो द्विज ॥
देवतानां घृतं हुत्वा यथाश्रद्धमनिन्दितम्॥ 2.50.८०
रसपूर्णो घटो देयो दक्षिणार्थे च काञ्चनम् ॥
दत्त्वा वासांसि नागस्य गजाध्यक्षं च पूजयेत्

2.46.50.82

हस्तिपं कर्मिणश्चान्यान्दक्षिणाभिर्द्विजोत्तमान् ॥
सांवत्सरे च वित्तेन यतः सांवत्सरः स्वयम्

2.46.50.83

गजाध्यक्षाय तं दद्याद्दिण्डिमं प्रयतः स्वयम्॥
प्राङ्मुखश्च गजाध्यक्षो वादयेत्तं यथाविधि

2.46.50.84

उच्चैर्गम्भीरनिर्घोषे डिण्डिमे तु शुभं वदेत् ॥
अन्तरा पातिते तस्मिँस्तथैवाप्यशुभं वदेत्

2.46.50.85

डिण्डिमे सम्यगादत्ते शुभमेव विनिर्दिशेत् ॥
तदा प्रभृति मत्तस्य तदा नागस्य वै नृप

2.46.50.86

अशुभे लक्षणे जाते भूयस्तत्कर्म चाचरेत् ॥
शुभे तु लक्षणे जाते गजाध्यक्षस्य डिण्डिमम्

2.46.50.87

जये संस्थाप्य नन्दाद्याग्रजपाय..........................सर्वबाधाविनाशनम्

2.46.50.88

अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ॥
उपोषितस्तथा याम्ये यजमाने पुरोहितः

2.46.50.89

शुभप्रदमिदं स्नानं यजमानस्य कारयेत् ॥
न्यग्रोधोदुम्बराश्वत्थमधुकोदकसंयुतैः

2.46.50.2.50.90

अकालमूलैः कलशैः पञ्चभिर्गजलक्षणैः ॥
स्नातः शुक्लाम्बरो विष्णुं चन्द्रार्कौ वरुणं तथा

2.46.50.91

हस्तिनं पूजयेद्विद्वान्गन्धमाल्यान्नसम्पदा ॥
धूपदीपनमस्कारैर्वासोभिश्च तथैव च

2.46.50.92

हस्तिदन्तेन सूर्याय दत्त्वा धूपमतः परम् ॥
चतुर्थ्यन्तेन वै नाम्ना प्रणवाद्येन भार्गव ॥
सहस्रशो गजाश्चात्र दक्षिणा काञ्चनं तथा

2.46.50.93

यः स्वासते स्नानमिदं प्रकुर्वन्गजेन्द्रमुख्यान्गिरिसन्निकाशान् ॥
बहूनवाप्नोति तथास्य नागा भवन्त्यरोगा विनिमुक्तदोषाः

2.46.50.50

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गजानां शान्तिकर्मविधानं नाम पञ्चाशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc