भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.41.45

2.41.45.1

2.41
॥ पुष्कर उवाच ॥
सावित्री च ततः साध्वी जगाम वरवर्णिनी ॥
यथायथागतेनैव यत्रासौ सत्यवान्मृतः

2.41.45.2

सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ॥
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे

2.41.45.3

सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैः शनैः ॥
उन्मीलयति ते नेत्रे प्रस्यन्दत च भार्गव

2.41.45.4

ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ॥
क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति

2.41.45.5

जानामि न वरारोहे कश्चासौ पुरुषः शुभे ॥
वनेऽस्मिँश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम्

2.41.45.6

उपवासपरिक्लान्ता कर्षिता भवती मया ॥
अस्माद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा

2.41.45.7

द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ॥
सावित्र्युवाच ॥
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो

2.41.45.8

आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ॥
यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे

2.41.45.9

पुष्कर उवाच ॥
एतावदुक्त्वा भर्तारं सह भर्त्रा ययौ तदा ॥
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा

2.41.45.2.41.10

एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ॥
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव

2.41.45.11

सावित्र्यपि वरारोहा सह सत्यवता तदा ॥
ववन्दे तत्र राजानं सभार्यं भृगुनन्दन

2.41.45.12

परिष्वक्तस्तदा पित्रा सत्यवान्राजनन्दनः ॥
अभिवाद्य ततः सर्वान्वने तस्मिँस्तपोधनान्

2.41.45.13

उवास तां तदा रात्रिमृषिभिः सह धर्मवित् ॥
सावित्र्यपि जगादाथ यथा वृत्तमनिन्दिता

2.41.45.14

व्रतं समापयामास तस्यामेव तदा निशि ॥
ततस्तु राम रात्र्यन्ते शाल्वेभ्यस्तस्य भूपतेः

2.41.45.15

आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे ॥
आज्ञापयामास तदा तथा प्रकृतिशासनम्

2.41.45.16

विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम् ॥
अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप

2.41.45.17

एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ॥
लेभे च सकलं वाक्यं धर्मराज्ञो महात्मनः

2.41.45.18

भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ॥
एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा

2.41.45.19

उज्जहार वरारोहा भर्तृपक्षं तथैव च ॥
मोचयामास भर्तारं मृत्युपाशवशीकृतम्

2.41.45.2.41.20

तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ॥
तासां राम प्रसादेन धार्यते वै जगत्त्रयम्

2.41.45.21

तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ॥
तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः

2.41.45.41

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशात्तमोऽध्यायः

2.41.45.1

2.42
पुष्कर उवाच ॥
गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ॥
गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः

2.41.45.2

गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ॥
शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम्

2.41.45.3

तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता ॥
उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता

2.41.45.4

गवां मूत्रपुरीषेषु ष्ठीवनाद्यं न सन्त्यजेत् ॥
गोरजः परमं पुण्यमलक्ष्मीविघ्ननाशनम्

2.41.45.5

गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥
तासां शृङ्गोदकश्चैव जाह्नवीजलसन्निभम्

2.41.45.6

गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च रोचनम् ॥
षडङ्गमेतन्माङ्गल्यं पवित्रं तु पृथक्पृथक्

2.41.45.7

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव

2.41.45.9

रक्षोघ्नमेतन्माङ्गल्यं कलिदुःखप्रणाशनम् ॥
रोचना च तथा धन्या रक्षोरगगदापहा ॥
यस्तु कल्ये समुत्थाय मुखमाज्ये निरीक्षते ॥
तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम्

2.41.45.2.42.10

गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ॥
यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे

2.41.45.11

धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ॥
दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे

2.41.45.12

नरकं समवाप्नोति नात्र कार्या विचारणा ॥
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते

2.41.45.13

शैशिरं सकलं कालं ग्रासं परगवे तथा ॥
दत्त्वा स्वर्गमवाप्नोति संवत्सरशतानि षट्

2.41.45.14

अग्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ॥
मासषट्केन लभते नाकलोकं समायुतम्

2.41.45.15

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ॥
तत्रैवमशनं दत्त्वा गवां नित्यमतन्द्रितः

2.41.45.16

द्वितीयं यः समश्नाति तेन संवत्सरान्नरः ॥
गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज

2.41.45.17

गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ॥
वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ॥
परां तृप्तिमवाप्नोति यत्रयत्राभिजायते

2.41.45.16

गवां प्रचारभूमिं तु वाहयित्वा हलादिना ॥
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश

2.41.45.19

गवां पानप्रवृतानां यस्तु विघ्नं समाचरेत ॥
ब्रह्महत्या कृता तेन घोरा भवति भार्गव ॥
सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम्

2.41.45.2.42.20

गामुद्धृत्य नरः स्वर्गे कल्पभोगानुपाश्नुते ॥
गवां यवसदानेन रूपवानभिजायते

2.41.45.21

सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ॥
औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ॥

2.41.45.22

औषधं लवणं तोयमाहारं च प्रयच्छतः ॥
विपत्तौ पातकं नास्य भवत्युद्बन्धनादिकम

2.41.45.23

वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ॥
तत्रापि तन्नियुक्तश्च कश्चिदन्यो न चेद्भवेत्

2.41.45.24

तासां चेदविरुद्धानां चरन्तीनां मिथो वने ॥
यामुत्पत्य वृको हन्यान्नपालस्तत्र किल्बिषी

2.41.45.25

संरुद्धासु तथैवासु वृकः पाले त्वनायति ॥
यामुत्पत्य वृको हन्यात्पाले तत्किल्बिषं भवेत

2.41.45.26

गोवधेन नरो याति नरकानेकविंशतिम् ॥
तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम्

2.41.45.27

विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ॥
तासां च कीर्तनादेव नरः पापाद्विमुच्यते

2.41.45.28

तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ॥
दानेन च तथा तासां कुलान्यपि समुद्धरेत्

2.41.45.29

उदक्या सूतिको दोषो नैव तत्र गृहे भवेत् ॥
भूमिदोषास्तथान्येऽपि यत्रैका वसते तु गौः

2.41.45.2.42.30

गवां निश्वासवातेन परा शान्तिर्गृहे भवेत ॥
नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम्

2.41.45.31

गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

2.41.45.32

एकरात्रोपवासं च श्वपाकमपि शोधयेत् ॥
पृथक्त्वप्रत्ययाभ्यस्तमतिसन्तपनं स्मृतम्

2.41.45.33

सर्वाशुभविमोक्षाय पुरा चरितमीश्वरेः ॥
प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम्

2.41.45.34

सर्वकामप्रदं राम सर्वाशुभविनाशनम् ॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम्

2.41.45.35

निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ॥

2.41.45.36

त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥
तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम्

2.41.45.37

शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः प्रकीर्तितः ॥
सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम्

2.41.45.38

गोमूत्रेण चरेत्स्नानं वृत्तिं कुर्यात्तु गोरसैः ॥
उत्थितामुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः

2.41.45.39

अभुक्तवत्सु नाश्नीयादपीतासु च नो पिबेत् ॥
त्राणं तु रामाकृत्वैव तथा देवे प्रवर्षति

2.41.45.2.42.40

त्राणं नैवात्मनः कार्यं भया र्त्ताश्च समुद्धरेत् ॥
आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम्

2.41.45.41

सर्वपापप्रशमनं मासेनैकेन भार्गव ॥
व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत्

2.41.45.42

अभीष्टमथ वा राम यावदिन्द्राश्चतुर्दश ॥
गवां निर्हारनिर्मुक्तानश्नन्प्रतिदिनं यवान्

2.41.45.43

मासेन तदवाप्नोति यत्कि ञ्चिन्मनसेच्छति ॥
गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन्

2.41.45.44

गोलोकमाप्नोति नरो नात्र कार्या विचारणा ॥
उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः

2.41.45.45

निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि ॥
विमानेषु विचित्रेषु वृतेष्वप्सरसां गणैः

2.41.45.46

किङ्किणी जालचित्रेषु वीणामुरजनादिषु ॥
सदा कामजला नद्यः क्षीरपायसकर्दमाः

2.41.45.47

शीतलामलपानीयाः सुवर्णसिकतास्तथा ॥
पुष्करिण्यः शुभास्तत्र वैडूर्यकमलोत्पलाः

2.41.45.48

मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ॥
तञ्च लोकं नरा यान्ति गवां भक्त्या न संशयः

2.41.45.49

गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ॥
तां तु मे वदतो विप्र शृणुष्व सुसमाहितः

2.41.45.2.42.50

गावः सुरभयो नित्यं गावो गुग्गु लुगन्धिकाः॥।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम्

2.41.45.51

अन्नमेव परं गावो देवानां हविरुत्तमम् ॥
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च

2.41.45.52

हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥
ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः

2.41.45.53

सर्वेषामेव भूतानां गावः शरणमुत्तमम् ॥
गावः पवित्रं परमं गावो मङ्गलमुत्तमम्

2.41.45.54

गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ॥
ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च

2.41.45.55

नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम्

2.41.45.56

एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत्

2.41.45.57

धार्यते वै सदा तस्मात्सर्वे पूज्यतमा सदा ॥
यत्र तीर्थे सदा गावः पिबन्ति तृषि ता जलम् ॥
उत्तरन्ति पथा येन स्थिता तत्र सरस्वती

2.41.45.58

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा तद्रजसि प्रवृद्धा ॥
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात्

2.41.45.42

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं शत्तमोऽध्यायः

2.41.45.1

2.43
॥ पुष्कर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ॥
संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ॥

2.41.45.2

शृङ्गमूलेषु धेनूनां तैलं दद्यात्ससैन्धवम् ॥
शृङ्गीवीरबलामांसीकल्कसिद्धं समाक्षिकम्

2.41.45.3

सिमिचूर्णयुतं देयमथवापि तथा घृतम् ॥
कर्णमूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः

2.41.45.4

सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः ॥
माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिहाम्

2.41.45.5

अजाक्षीरेण संपेष्य गुलिकां कारयेद्भिषक् ॥
एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम्

2.41.45.6

बिल्वमूलमपामार्गं धातकीं च सपाटलाम् ॥
कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम्

2.41.45.7

दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितम् ॥
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम्

2.41.45.8

शृङ्गवेरं हरिद्रे द्वे त्रिफलां च गलग्रहे ॥
शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च

2.41.45.9

अपामार्गविडंगांश्च लवणेन विमिश्रितम् ॥
औषधं मुखरोगघ्नं ज्वरदाहविनाशनम्

2.41.45.2.43.10

हृच्छूले बस्तिशूले च वातरोगे क्षते तथा ॥
त्रिफलाघृतसमिश्रं गवां पानं प्रशस्यते

2.41.45.11

शतपुष्पायुतं पक्वं तैलं कुटजचित्रकैः ॥
गवां राम प्रदातव्यं सर्वहृद्रोगनाशनम्

2.41.45.12

अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत् ॥
आनाहे घृतसंयुक्तां दापयेत्पद्मचारिणीम् ॥

2.41.45.13

सर्वेषु कुष्ठरोगेषु तथा शाखागदेषु च ॥
शृङ्गवेरं च दार्वीं च कासे श्वासे प्रदापयेत्

2.41.45.14

दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ।
वातरोगेषु सर्वेषु शतपुष्पाविपाचितम्

2.41.45.15

गवां तैलं प्रदातव्यं सर्ववातगदापहम् ॥
यूषणं मधुसंमिश्रं कफरोगेषु दापयेत्

2.41.45.16

पित्त रोगेषु सर्वेषु मधुयष्टिविपाचितम् ॥
गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम्

2.41.45.17

शाखोटकरमापानं रक्तपित्ते प्रशस्यते ॥
गोधूमानां च चूर्णानि माषाश्चैव ससर्षपाः

2.41.45.18

पयसा च समालोड्य गुरुमिश्राः प्रदापयेत् ॥
रक्तस्रावेषु कृच्छ्रेषु गवामेतत्प्रशस्यते

2.41.45.19

तिलाम्भकरुहांश्चैव हरितालं घृतं तथा ॥
भग्नक्षतानां धेनूनां लेपने तत्प्रशस्यते

2.41.45.2.43.20

वत्सानां च सरोगाणां पाठां तक्रेण पाययेत् ॥
हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये

2.41.45.21

माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ॥
एषां पिण्डाः प्रदातव्या लवणेन सुसँस्कृताः॥
पुष्टिप्रदा तु वत्सानां वृषभाणां बलप्रदा

2.41.45.22

देवदारुवचामांसीगुग्गुलुर्हिङ्गुसर्षपाः ॥
एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः

2.41.45.23

सर्वग्रह विनाशाय पलङ्कशयुतः शुभः ॥
घण्टा चापि गवां कार्या धूपेनानेन धूपिता

2.41.45.24

अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते ॥
अश्वगन्धायुतं तक्रं तिलान्वस्ति प्रशस्यते ॥
भवति क्षीरिणी तेन धेनुर्भृगुकुलोद्भव

2.41.45.25

पिण्याकमेव निर्दिष्टं गवां राम रसायनम् ॥
शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत्

2.41.45.26

जरान्विता तथा स्थानं तच्च शीतं द्विजोत्तम ॥
धार्यं चैव गवां मध्ये मत्तोजः सर्वथा भवेत् ॥

2.41.45.27

गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः

2.41.45.28

गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव ॥
आनाहशूलारुचिनाशनं तदजाविकस्यापि तथा प्रशस्तम्

2.41.45.43

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०- रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रिच
त्वारिंशत्तमोऽध्यायः

2.41.45.2

2.44
पुष्कर उवाच ॥
अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव ॥
नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ॥ ऽ ॥
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते ॥
गवां पुरीषे धर्मज्ञ धूपदीपान्नसम्पदा

2.41.45.3

वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम् ॥
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम्

2.41.45.4

स हि सर्वगतो देवः क्षीरोदधिनिकेतनः ॥
त्रैलोक्याधारभूतानां विशेषेण तथा गवाम्

2.41.45.6

आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम ॥
वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ॥ ऽ५ ॥
गन्धधूपनमस्कारपुष्पदीपान्नसम्पदा ॥
इह प्रजायाः साम्राधः पृषदश्वा तथैव च

2.41.45.7

घृतप्रतीकश्च तथा रौद्रीभिश्च भृगूत्तम ॥
नित्याभिश्च तथा वह्निं घृतेन जुहुयाद्बुधः

2.41.45.8

अम्भस्थेति च मन्त्रेण लवणं चाभिमन्त्रयेत् ॥
दध्ना संप्राशनं कार्यं दधिक्राव्णेत्यनन्तरम्

2.41.45.9

यजमानेन देया च धेनुः स्याच्छतधेनुना ॥
तदूनवित्तो दद्याच्च होत्रे शक्त्यैव दक्षिणाम्

2.41.45.2.44.10

गावः स्वलंकृताः पश्चाद्गन्धमाल्यफलादिभिः ॥
स्वाशिता मुक्तवत्साश्च कुर्युर्वह्निं प्रदक्षिणम्

2.41.45.11

क्ष्वेडाकिलकिलाशब्दैः शङखवाद्यरवैस्तथा ॥
वृषाणां योजयेद्युद्धं गोपालानां तथैव च

2.41.45.12

द्वितीयेऽहनि धेनूनां वृषाणां सह वत्सकैः ॥
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम

2.41.45.14

भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ॥
स्वस्ति वाच्यं ततः पश्चाद्दत्तदायान्विसर्जयेत ॥ १ ३॥
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम् ॥
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव

2.41.45.15

धेनूनां मारके प्राप्ते तथा रोगाऽद्युपद्रवे ॥
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये

2.41.45.16

त्रिरात्रोपोषितो विद्वानेकरात्रोषितोऽथ वा ॥
गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत

2.41.45.17

अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् ॥
पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह

2.41.45.18

कृसरैः पूजन कार्यं देवतानां यथाक्रमम् ॥
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव

2.41.45.19

सुभद्रां नाम दिग्धेनुं पूर्वभागे समर्चयेत् ॥
पूजनीयस्ततो ब्रह्मा सुरभिस्तदनन्तरम् ॥

2.41.45.2.44.20

ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम ॥
ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत्

2.41.45.21

ततश्च विश्वरूपाक्षं दिग्धेनुं तदनन्तरम् ॥
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत्

2.41.45.22

रोहिणी नाम दिग्धेनुस्ततः पूज्या द्विजोत्तम ॥
ततश्चन्द्रमसं देवं महादेववृषं ततः

2.41.45.23

महादेवं ततो देवं पूजयेत्तदनन्तरम् ॥
इत्येता देवताः प्रोक्ताः कृसरे तव षोडश

2.41.45.24

पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा

2.41.45.25

प्रत्येकां पूजयेद्राम देवतां प्रयतो द्विजः ॥
पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत

2.41.45.26

भक्त्यास्थगितवक्त्राणि वर्धमानैस्सतण्डुलैः ॥
सहिरण्यैर्यथाशक्ति ततो होमं समारभेत्

2.41.45.27

वेदिं कृत्वा यथशास्त्रं समिध्य च हुताशनम् ॥
एकैकं दैवतं राम समुद्दिश्य यथाविधि

2.41.45.28

चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना ॥
होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत्

2.41.45.29

समिधः क्षीरवृक्षस्य अक्षतानि तिलाँस्तथा ॥
सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात्

2.41.45.2.44.30

ततो रक्षोहणैर्मन्त्रैर्जुहुयाद्गौरसर्षपान् ॥
ततः समापयेद्विद्वानग्निकर्म यथाविधि

2.41.45.31

सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा ॥
कर्तुर्देयमुपस्रष्टुर्वस्त्रयुग्मं गुरोस्तथा

2.41.45.32

भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ॥
स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः

2.41.45.33

रक्षोहणैस्तथा मन्त्रैः कुर्युरभ्युक्षणं गवाम् ॥
गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः

2.41.45.34

मोक्तव्याश्च तदा वत्सा यथाकामं द्विजोत्तम ॥
शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये

2.41.45.35

कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम् ॥
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ

2.41.45.36

कर्ता तूपवसेत्तत्र कारकैश्च तथैव च ॥
पूर्वभाद्रपदायोगमाहिर्बुध्न्यगते तथा

2.41.45.37

स्नानं निशाकरे कुर्याद्द्वितीयेऽहनि शास्त्रवित् ॥
उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम्

2.41.45.36

रोचनां च समंगां च क्षिपेत्कुम्भद्वये ततः ॥
कुम्भद्वयं बुधः कुर्याद्गन्धमाल्योज्ज्वलं दृढम्

2.41.45.39

अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत् ॥
स्नात्वा गोवालचीराणि परिधाय समाहितः

2.41.45.2.44.40

पूजयेच्चाप्यहिर्बुध्न्यमादित्यं च तथैव च ॥
वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ॥

2.41.45.41

धूपदीपनमस्कारैस्तथैव बलिकर्मणा ॥
अक्षतानां च पात्राणि ततो राम चतुर्दश

2.41.45.42

अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्॥
खट्वांगेन तु दातव्यं तथा धूपं द्विजोत्तम

2.41.45.43

ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः ॥
ॐकारपूर्वमाज्यं च सर्वासां जुहुयात्ततः

2.41.45.44

देवतानां यथोक्तानामेकैकस्य शतंशतम् ॥
गोवालशफशृङ्गैश्च त्रिवृतं कारयेन्मणिम्

2.41.45.45

धारणं तस्य कर्तव्यं कण्ठे मूर्ध्न्यथवा भुजे ॥
कर्त्रे चैवोपद्रष्ट्रे च शक्त्या देया च दक्षिणा

2.41.45.46

ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः ॥
अलंघयन्भद्रपदामथान्त्यां करोति यः स्नानमिदं सदैव ॥
भवन्ति तस्यायुतशश्च गावः परामवाप्नोति तथैव वृद्धिम्

2.41.45.44

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः

2.41.45.1

2.45
पुष्कर उवाच ॥
राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन ॥
तस्मात्सर्वं प्रयत्नेन तुरङ्गाणां समर्जनम्

2.41.45.2

राज्ञा यत्नवता भाव्यं पालने च विशेषतः ॥
तावन्तस्तुरगा धार्या यावतां पोषणं सुखम्

2.41.45.3

कर्तुं शक्यं न धार्यास्ते दुःखिताः क्षुधितास्तथा ॥
दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा

2.41.45.4

धारणीयाः सुविहिता विधिना यवसादिताः॥
विधृतास्ते तथा कुर्युर्लोकद्वयजयं तथा

2.41.45.5

मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च ॥
कैवल्यस्यैव ते भक्ता देवस्य परमेष्ठिनः

2.41.45.6

अन्ति मध्ये तथा तेन नानुज्ञाता दिवौकसाम् ॥
ततोऽश्वमेधतुरगस्तस्यैवैकस्य हूयते

2.41.45.7

सर्वरत्नाधिको जातस्तुरगोऽमृतमन्थनात् ॥
उच्चैःश्रवास्तेन हयः सर्वरत्नोत्तमः स्मृतः

2.41.45.8

सपक्षा देववाह्यास्ते मनुष्याणामपक्षकाः ॥
पद्मना शालिहोत्रेण वाहनार्थं पुरा कृताः

2.41.45.9

नीराजयन्ति ते देशान्ह्रेषितैर्बलशालिनः ॥
गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः

2.41.45.2.45.10

प्रधानमंगं सैन्यस्य शोभा च परमा हयाः ॥
सुदूरगमने युद्धे यानश्रेष्ठास्तुरङ्गमाः

2.41.45.11

वल्गन्तमुच्चैस्तुरगं चामरापीडधारिणम् ॥
आरुह्य या भवेत्तुष्टिर्न सा राम त्रिविष्टपे

2.41.45.12

सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः ॥
दृष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम्

2.41.45.13

तुरङ्गपादोद्धृतधूलिदण्डं यस्यातपत्रानुकृतिं करोति ॥
नभः समग्रा वसुधा तु तस्य शैलावतंसा भवतीह वश्या

2.41.45.45

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने अश्वप्रशंसा नाम पञ्चचत्वारिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc