भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.36.40

2.36.40.1

2.36
॥ पुष्कर उवाच ॥
वैलोम्यं धर्मराजोऽपि नाचरत्यथ योषिताम् ॥
पतिव्रतानां धर्मज्ञ पूज्यास्तस्यापि तास्सदा

2.36.40.2

अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥
यथा विमोक्षितो भर्ता मृत्युपाशावृतः स्त्रिया

2.36.40.3

मद्रेषु शाकले राजा बभूवाऽश्वपतिः पुरा ॥
अपुत्रस्तप्यमानोऽसौ पुत्रार्थे सर्वकामदम्

2.36.40.4

सावित्र्याः कारयामास लक्षहोमं द्विजोत्तमैः ॥
सिद्धार्थकैर्हूयमाना सावित्री प्रत्यहं द्विज

2.36.40.5

शतसंख्यैश्चतुर्थ्यां तु मासाद्दशदिने गते ॥
काले तु दर्शयामास स्वां तनुं मनुजेश्वरे

2.36.40.6

सावित्र्युवाच ॥
राजन्भक्तोऽसि मे नित्यं प्राप्स्यसे तनयां शुभाम् ॥
मद्दत्तां यत्प्रसादाच्च पुत्रान्प्राप्स्यसि शोभनान्

2.36.40.7

पुष्कर उवाच ॥ एतावदुक्त्वा सा राज्ञः प्रणतस्यैव भार्गव ॥
जगामादर्शनं देवी खे यथा राम चञ्चला

2.36.40.8

मालव्या नाम तस्यास्ति राज्ञः पत्नी पतिव्रता ॥
सुषाव तनयां काले सावित्रीमेव रूपतः

2.36.40.10

सावित्र्या हुतया दत्ता तद्रूपसदृशा ततः ॥
सावित्र्येव भवेदेषा जगाद नृपतिर्द्विजान् ॥ ॥
कालेन यौवनं प्राप्तां ददौ सत्यवते पिता ॥
नारदस्तु ततः प्राह राजानं दीप्ततेजसम्

2.36.40.11

क्षीणायुरेष वर्षेण भविष्यति नृपात्मजः ॥
प्रदीयते सकृत्कन्या चिन्तयित्वा नराधिपः

2.36.40.12

तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभाम ॥
सावित्र्यपि च भर्तारमासाद्य नृपनन्दनम्

2.36.40.13

नारदस्य तु वाक्येन दूयमानेन चेतसा ॥
शुश्रूषां परमां चक्रे भर्तृश्वशुरयोर्वने

2.36.40.14

राज्यभ्रष्टस्सभार्यस्तु नष्टचक्षुर्नराधिपः ॥
तुतोष तां समासाद्य राजपुत्रीं तदा स्नुषाम्

2.36.40.15

चतुर्थेऽहनि मर्तव्यं यदा सत्यवता द्विज ॥
श्वशुरेणाभ्यनुज्ञाता तदा राज्ञा तु सा स्नुषा

2.36.40.16

चक्रे त्रिरात्रं धर्मज्ञ प्राप्ते तस्मिंस्तदा दिने ॥
चारुपुष्पफलाहारं सत्यवान्प्रययौ वनम्

2.36.40.17

श्वशुरेणाभ्यनुज्ञाता याचनाभङ्गभीरुणा ॥
सावित्र्यपि जगामाशु सह भर्त्रा महद्वनम्

2.36.40.18

चेतसा दूयमानेन गूहमाना च तद्भयम् ॥
वने पप्रच्छ भर्तारं द्रुमांश्च समृगांस्तथा

2.36.40.19

आश्वासयामास स राजपुत्रीं क्लान्तां वने पद्मपलाशनेत्राम् ॥
सन्दर्शनेनाथ मृगद्विजानां तथा द्रुमाणां विपिने नृवीरः

2.36.40.36

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सावित्र्युपाख्याने वनप्रवेशो नाम षट्त्रिंशत्तमोऽध्यायः

2.36.40.1

2.37
॥ सत्यवानुवाच ॥ ॥
वनेऽस्मिन्षट्पदाकीर्णं सहकारं मनोहरम् ॥
श्रोत्रघ्राणमुखं पश्य वसन्ते रतिवर्धनम्

2.36.40.2

वने सपुष्पं दृष्ट्वैषा रक्ता श्लोकं मनोहरम् ॥
हसतीव मनः सेर्ष्यं त्वामिवायतलोचने

2.36.40.3

दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ॥
पुष्पितैः किंशुकैर्युक्तां ज्वलितामिव सप्रभैः

2.36.40.4

सुगन्धिकुसुमामोदी वनराजिविनिर्गतः। ।
करोति वायुर्दाक्षिण्यादावयोः क्लमनाशनम्

2.36.40.5

अप्युत्पलविशालाक्षि कर्णिकारैः सुपुष्पितैः ॥
काञ्चनैरिव भात्येषा वनराजी मनोहरा

2.36.40.6

अतिमुक्तलताजालरुद्धमार्गवनस्थलीः ॥
पश्योच्चैश्चारुसर्वाङ्गि कुसुमोत्कर भूषणा

2.36.40.7

मधुमत्तालिझाङ्कारव्याजेन वरवर्णिनि ॥
चापयष्टिं करोतीव कामः पान्थजिघांसया

2.36.40.8

फुल्लचंपकसद्वक्त्रा पुंस्कोकिलविनादिनी ॥
विभाति चारुतिलका त्वमिवैषा वनस्थली

2.36.40.9

कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ॥
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव

2.36.40.10

पुष्परेण्वनुलिप्ताङ्गः प्रियामनुसरन्वने ॥
कुसुमात्कुसुमं याति कूजन्कामी शिलीमुखः

2.36.40.11

मञ्जरीं सहकारस्य कान्ताचञ्च्वग्रखण्डिताम् ॥
स्वादयत्यतिपुष्पेऽपि पुंस्कोकिलयुवा द्रुमे

2.36.40.12

काकः प्रसूतां वृक्षाग्रे सामिषाग्रेण चञ्चुना ॥
काकीं सम्पाययत्येष पक्षाच्छादित पुत्रकाम्

2.36.40.13

भूभागं निम्नमासाद्य दयितासहितो युवा ॥
नाहारमपि चादत्ते कामी कामं कपिञ्जलः

2.36.40.14

कलविङ्कस्तु विरुतैः सप्रियो विटपे स्थितः ॥
मुहुर्मुहुर्विशालाक्षि उत्कण्ठयति कामिनः

2.36.40.15

क्षुद्रशाखां समारूढः शुकोऽयं कान्तया सह ॥
भारेण नमयञ्शाखां करोति सफलामिव

2.36.40.16

वनेभपिशितास्वादतृप्तो निद्रामुपागतः ॥
शेते सिंहयुवा कान्ताचरणावरणाननः

2.36.40.17

व्याघ्रयोर्मिधुनं पश्य शैलकन्दर संस्थितम् ॥
ययोर्नेत्रप्रभालोकैर्गुहा भिन्नेव लक्ष्यते

2.36.40.18

अय द्वीपी प्रियां लेढि जिह्वाग्रेण पुनःपुनः ॥
प्रीतिमायाति महतीं लिह्यमानश्च कान्त्या

2.36.40.19

उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम् ॥
जन्तूद्धरणतः कान्तं सुखयत्येव वानरी

2.36.40.20

भूमौ निपतिता कान्तं मार्जारी दर्शितोदरा ॥
नखैर्दन्तैस्तुदत्येषा न च पीडयते तथा

2.36.40.21

शशकः शशिका चोभे संसुप्ते पीडिते इमे ॥
सँल्लीनगात्रचरणे कर्णैर्व्यक्तिमुपागते

2.36.40.22

स्नातं सरसि पद्माढ्ये वारणं मदमन्थरम् ॥
सम्भावयति तन्वङ्गि मृणालशकलैर्वशा

2.36.40.23

कान्तपोत्रसमुत्खातैः कान्ता मार्गानुसारिणी ॥
करोति कवलं मुस्तैर्वराही पोतकानने

2.36.40.24

दृढाङ्गसन्धिर्महिषः कर्दमार्द्रतनुर्वने ॥
अनुव्रजति धावन्तीं प्रियां बद्धचतुष्ककः

2.36.40.25

पश्य चार्वङ्गि सारङ्गः त्वत्कटाक्षनिभं वने ॥
सभार्यां मां तु पश्यन्तं कौतूहलसमन्वितम्

2.36.40.26

पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ॥
स्नेहार्द्रभावः कषति भर्ता शृङ्गाग्रकोटिना

2.36.40.27

दाडिमे चमरीं पश्य सितवालामगच्छतीम् ॥
अन्वास्ते चमरः कामी वीक्षते मां च गर्वितः ॥

2.36.40.28

आतपे गवयः पश्य निविष्टो भार्यया सह ॥
रोमन्थमास्ये कुर्वाणः काकं ककुदि धारयन्

2.36.40.29

पश्याजं भार्यया सार्धं न्यस्ताग्रचरणद्वयम् ॥
विपुले बदरीस्कन्धे तच्छदग्रासकाम्यया

2.36.40.30

हंसं सभार्यं सरसि विचरन्तं सुनिर्मले ॥
सुशुक्लस्येन्दुबिम्बस्य पश्यैनं सदृश श्रियम्

2.36.40.31

सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ॥
करोति पद्मिनीं कान्तां सपुष्पामिव सुन्दरि

2.36.40.32

मया फलोच्चयः सुभ्रु त्वया पुष्पोच्चयः कृतः ॥
इन्धनं न कृतं किञ्चित्तत्करिष्यामि सांप्रतम्

2.36.40.33

त्वमस्य सरसस्तीरे द्रुमच्छायामुपाश्रिता ॥
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि

2.36.40.34

॥ सावित्र्युवाच ॥ ॥
एवमेतत्करिष्यामि मम दृष्टिपथात्त्वया ॥
दूरे कान्त न गन्तव्यं बिभेमि गहने वने

2.36.40.35

॥ पुष्कर उवाच ॥ ॥
तस्य पातयतः काष्ठं जज्ञे शिरसि वेदना ॥
स वेदनार्त्तः सङ्गम्य भार्यां वचनमब्रवीत्

2.36.40.36

॥ सत्यवानुवाच ॥ ॥
आयासेन ममानेन जाता शिरसि वेदना ॥
तमश्च प्रविशामीव न च जानामि किञ्चन

2.36.40.37

त्वदुत्सङ्गे शिरः कृत्वा निद्रोपहतलोचनः ॥
पुष्कर उवाच ॥
तदुत्सङ्गे शिरः कृत्वा सुष्वाप गतचेतनः

2.36.40.39

पतिव्रता महाभागा ततस्सा राजकन्यका ॥
ददर्श धर्मराजं तु स्वयं तं देशमागतम् । ३८॥
नीलोत्पलदलश्यामं पीताम्बरधरं प्रभुम् ॥
विद्युल्लतानिबद्धाङ्गं सतोयमिव तोयदम्

2.36.40.40

किरीटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥
हारभारार्पितोरस्कं तथाङ्गदविभूषितम्

2.36.40.41

तथानुगम्यमानं च कालेन सह मृत्युना ॥
स तु संप्राप्य तं देशं देहात्सत्यवतस्तदा

2.36.40.42

अङ्गुष्ठमात्रं पुरुषं पाशबद्धं वशङ्गतम् ॥
आकृष्य दक्षिणामाशां प्रययौ सत्वरं तदा

2.36.40.43

सावित्र्यपि वरारोहा त्यक्त्वा तं गतजीवितम् ॥
अनुवव्राज गच्छन्तं धर्मराजमतन्द्रिता

2.36.40.44

तामुवाच यमो गच्छ यथागतमनिन्दिते ॥
और्ध्वदैहिककार्येषु युक्ता भर्तुः समाचर

2.36.40.45

नानुगन्तुमसौ शक्यस्त्वया लोकान्तरं गतः ॥
पतिव्रतासि तेन त्वं मुहूर्तमनुपश्यसि ॥

2.36.40.46

गुरुशुश्रूषणाद्भद्रे तथा सत्यवतो महत् ॥
पुण्यं समर्जितं येन नयाम्येनमहं स्वयम्

2.36.40.47

एतावदेव कर्तव्यं पुरुषस्य विजानतः ॥
मातुः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि

2.36.40.48

गुरुत्रितयमेतच्च सदा सत्यवता वने

2.36.40.49

पूजितं पूजितस्स्वर्गस्तदानेन चिरं शुभे ॥
तपसा ब्रह्मचर्येण त्वग्निशुश्रूषया तथा

2.36.40.50

पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषणेन च ॥
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः

2.36.40.51

नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः

2.36.40.52

माता पृथिव्या मूर्तिश्च भ्राता वै मूर्तिरात्मनः ॥
यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम्

2.36.40.53

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा

2.36.40.54

तेष्वेव त्रिषु तुष्टेषु तपः सत्यं समाप्यते ॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते

2.36.40.55

न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत ॥
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः

2.36.40.56

त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः

2.36.40.57

गुरुराहवनीयस्तु अग्नित्रेता गरीयसी ॥
त्रिष्वप्रमाद्यन्नेतेषु त्रींल्लोकाञ्जयते गृही

2.36.40.58

स हि दिव्येन वपुषा देववद्दिवि मोदते ॥
इमं लोकं मातृभक्तः पितृभक्तस्तु मध्यमम्

2.36.40.59

गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः

2.36.40.60

अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत्

2.36.40.61

तनुं निवेदयेत्तेभ्यो मनो वचनकर्मभिः ॥
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते

2.36.40.62

एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥
गुरुपूजारतिर्भर्ता त्वं च साध्वी पतिव्रता

2.36.40.63

विनिवर्तस्व धर्मज्ञे ग्लानिर्भवति तेऽधुना ॥
सावित्र्युवाच ॥
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम्

2.36.40.64

अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः

2.36.40.65

अमितस्य हि दातारं भर्तारं का न पूजयेत ॥
नीयते यत्र भर्ता मे स्वयं वा यत्र गच्छति

2.36.40.66

मयापि तत्र गन्तव्यं यथाशक्ति सुरोत्तम ॥
पतिमादाय गच्छन्तमनुगन्तुमहं यदा

2.36.40.67

त्वां देव न हि शक्ष्यामि तदा त्यक्ष्यामि जीवितम् ॥
मनस्विनी तथा का च वैधव्याक्षरदूषिता

2.36.40.68

मुहूर्तमपि जीवेत मण्डनार्हाप्यमण्डिता ॥
यम उवाच ॥
पतिव्रते महाभागे परितुष्टोऽस्मि ते शुभे

2.36.40.69

विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥
सावित्र्युवाच ॥
विनष्टचक्षुषो राज्यं चक्षुषा सह कामये ॥
च्युतराज्यस्य धर्मज्ञ श्वशुरस्य महात्मनः

2.36.40.70

॥ यम उवाच ॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥
ममोपरोधस्तव च क्लमः स्यात्तथाध्वना तेन तव ब्रवीमि

2.36.40.37

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने सप्तत्रिंशत्तमोऽध्यायः

2.36.40.1

2.38
सावित्त्र्युवाच॥
कुतः क्लमः कुतो दुःखं सद्भिः सह समागमे ॥
सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम

2.36.40.2

साधूनां वाप्यसाधूनां सन्त एव परा गतिः ॥
नैवासतां नैव सतामसन्तो नैव चात्मनः

2.36.40.3

विषाग्निसर्पशस्त्रेभ्यो न तथा जायते भयम् ॥
अकारणजगद्वैरिखलेभ्यो जायते यथा

2.36.40.4

सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्वते यथा ॥
तथाऽसन्तोऽपि मनुजाः परपीडासु तत्पराः

2.36.40.5

त्यजत्यसूनयं लोकस्तृणवद्यस्य कारणात्॥
परोपधानसक्तास्ते परलोकं तथा सता

2.36.40.6

निकायेषुनिकायेषु पुरा ब्रह्मा जगद्गुरुः ॥
असतामुपघाताय राजानः कृतवान्स्वयम्

2.36.40.7

चारैः परीक्षयेद्राजा धूर्तान्सम्मार्जयेत्सदा ॥
निग्रहं चासतां कुर्यात्स तु लोकजिदुत्तमः

2.36.40.8

धान्यसंरक्षणार्थाय निर्मार्ष्टा कक्षमुद्धरन् ॥
यथा वर्धयते धान्यं वर्द्धनीयास्तथा प्रजाः

2.36.40.9

निग्रहेणा सतां राज्ञा सतां च परिपालनैः ॥
एतावदेव कर्तव्यं राज्ञा स्वर्गमभीप्सता

2.36.40.10

राजकृत्यं हि लोकेषु नास्त्यन्यज्जगतीपते ॥
असतां निग्रहादेव सतां च परिपालनात्

2.36.40.11

राजानुशासिता तेषामसतां शासिता भवान् ॥
तेन त्वमधिको देव देवेभ्यः प्रतिभासि मे

2.36.40.12

जगत्तु धार्यते सद्भिः सतामग्र्यस्तथा भवान् ॥
तेन त्वामभियान्त्या मे क्लमो देव न विद्यते

2.36.40.13

यम उवाच ॥
तुष्टोस्मि ते विशालाक्षि वचनैर्धर्मसंहितैः ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम्

2.36.40.14

सावित्र्युवाच ॥
सहोदराणां भ्रातॄणां कामयामि शतं विभो ॥
अनपत्यः पिता प्रीतिं पुत्रलाभात्प्रयातु मे

2.36.40.15

यम उवाच ॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं तवोक्तम् ॥
ममोपरोधस्तव च क्लमः स्यात्तथाधुना तेन तव ब्रवीमि

2.36.40.38

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० सावित्र्युपाख्याने द्वितीयवरलाभो नामाष्टत्रिंशत्तमोध्यायः

2.36.40.1

2.39
सावित्र्युवाच ॥
धर्मो हि दैवतं स्त्रीणां पतिरेव परायणम् ॥
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः

2.36.40.2

धर्मार्जने सुरश्रेष्ठ कुतो ग्लानिः कुतः क्लमः॥
त्वत्पादमूलमेवेदं परमं धर्मकारणम्

2.36.40.3

धर्मार्जनं सदा कार्यं पुरुषेण विजानता ॥
तल्लाभः सर्वलाभेभ्यो यतो देव विशिष्यते

2.36.40.4

धर्मश्चार्थश्च कामश्च त्रिवर्गं जीवतः फलम् ॥
धर्महीनस्य कामार्थौ वन्ध्यासुतसमावुभौ

2.36.40.5

धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ॥
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम्

2.36.40.6

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥
एको हि जायते जन्तुरेक एव विपद्यते

2.36.40.7

धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ॥
रूपसौभाग्यलावण्यं सम्पद्धर्मेण लभ्यते

2.36.40.8

ब्रह्मेन्द्रोपेन्द्रशर्वेन्द्रयमार्काग्न्यनिलाम्भसाम् ॥
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः

2.36.40.9

धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक ॥
मनोहराणि द्वीपानि वर्षाणि सुमुखानि च

2.36.40.10

प्रयान्ति धर्मेण नरास्तथैवामरतामिताः ॥
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च

2.36.40.11

तानि पुण्येन लभ्यन्ते नाकपृष्ठं तथा नरैः ॥
विमानानि विचित्राणि तथैवाप्सरसः शुभाः

2.36.40.12

तैजसानि शरीराणि सदा पुण्यवतां फलम ॥
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता

2.36.40.13

उपस्कराणि मुख्यानि फलं पुण्यस्य दृश्यते ॥
रुक्मवैडूर्यदण्डानि चन्द्रांशुसदृशानि च

2.36.40.14

चामराणि सुराध्यक्ष भवन्ति शुभकर्मणाम् ॥
( पूर्णेन्दुमण्डलाभेन रक्तांशुकमितेन च

2.36.40.15

धार्यतां यान्ति छत्रेण नरः पुण्येन कर्मणा ॥)
जयशङ्खस्वनादेव सूतमागधनिःस्वनम

2.36.40.16

वरासनं सभृङ्गारं फलं पुण्या कर्मणः ॥
वरान्नपानं गीतं च नृत्यमाल्यानुलेपनम्

2.36.40.17

रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः ॥
रूपौदार्यगुणोपेताः स्त्रियश्चातिनोहराः

2.36.40.18

वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मणाम् ॥
सुवर्णकिंकिणी मिश्रचामराः पीठधारिणः

2.36.40.19

वहन्ति तुरगा देव नरं पुण्येन कर्मणा ॥
हेमकक्षैः समातङ्गैश्चलत्पर्वतसन्निभैः

2.36.40.20

खेलांघ्रिपदविन्यासैर्यान्ति पुण्येन कर्मणा ॥
सर्वकामप्रदे देवे सर्वापद्दुरितापहे

2.36.40.21

वहन्ति भक्तिं पुरुषास्सदा पुण्येन कर्मणा ॥
तस्य द्वाराणि यजनं तपो दानं दया क्षमा

2.36.40.22

ब्रह्मचर्यं च सत्यं च तीर्थानुसरणं शुभे ॥
स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम्

2.36.40.23

गुरूणां चैव शुश्रूषा ब्राह्मणानां च पूजनम् ॥
इन्द्रियाणां जयश्चैव मार्दवं ह्रीरमत्सरम्

2.36.40.24

तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता ॥
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्

2.36.40.25

बाल एवाचरेद्धर्ममनित्यं देव जीवितम् ॥
को हि जानाति कस्याद्य मृत्युः केन भविष्यति

2.36.40.26

पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम् ॥
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम

2.36.40.27

युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा ॥
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते

2.36.40.28

भुवः शैलं समारूढः ततो वृक्षाग्रमाश्रितः ॥
तत्राप्यविन्दतस्त्राणं मृत्योद्भीतस्य का गतिः

2.36.40.29

न भयं मरणादेव प्राणिनामधिकं क्वचित ॥
तत्रापि निर्भयाः सन्तः सदा सुकृतकारिणः

2.36.40.30

यम उवाच ॥
तुष्टोऽस्मि ते विशालाक्षि वचनैर्धर्मसङ्गतैः ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम्

2.36.40.31

सावित्र्युवाच ॥
वरयामि त्वया दत्तं पुत्राणां शतमौरसम् ॥
अनपत्यस्य लोकेषु गतिः किल न विद्यते

2.36.40.32

यम उवाच ॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥
ममोपरोधश्च तव क्लमः स्यात्तथाधुना तेन तव ब्रवीमि

2.36.40.39

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः

2.36.40.1

2.40
सावित्र्युवाच ॥
सर्वधर्मविधानज्ञः सर्वधर्मप्रवर्तकः ॥
त्वमेव जगतां नाथः प्रजासंयमनो यमः

2.36.40.2

कर्मणामानुरूप्येण यस्माद्यमयसि प्रजाः ॥।
तस्मात्त्वमुच्यसे देव यम इत्येव नामतः

2.36.40.3

धर्मेणेमाः प्रजाः सर्वा यथा रञ्जयसे प्रभो ॥
तस्मात्ते धर्मराजेति नाम सत्यं निगद्यते

2.36.40.4

सुकृतं दुष्कृतं चोभे पुरोधाय यथा जनाः ॥
त्वत्सकाशमथायान्ति तस्मात्त्वं मृत्युरुच्यसे

2.36.40.5

सर्वेषामथ भूतानां यस्मादन्तकरो भवान् ॥॥
तस्मात्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते

2.36.40.6

विवस्वतस्त्वं तनयः प्रथमः परिकीर्तितः ॥
तस्माद्वैवस्वतो नाम्ना सर्वदेवेषु कथ्यसे

2.36.40.7

कालं कलाद्यं कलयन्सर्वेषां त्वं हि तिष्ठसि ॥
तस्मात्कालेति ते नाम प्रोच्यते तत्सुदर्शिभिः

2.36.40.8

आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभं जनम् ॥॥।
तस्मात्त्वं कथ्यसे लोके सर्वप्राणहरेति वै

2.36.40.9

तव प्रसादाद्देवेश धर्मे तिष्ठन्ति जन्तवः ॥
तव प्रसादाद्देवेश सङ्करो नैव जायते

2.36.40.10

सतां सदा गतिर्देव त्वमेव परिकीर्तितः ॥
जगतोऽस्य जगन्नाथ मर्यादापरिपालकः

2.36.40.11

पाहि मां त्रिदशश्रेष्ठ दुःखितां शरणागताम् ॥
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ

2.36.40.12

यम उवाच ॥
स्तुतेन भक्त्या धर्मज्ञे मया तुष्टेन सत्यवान् ॥
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले

2.36.40.13

राज्यं कृत्वा त्वया सार्धं वत्सराशीतिपञ्चकम् ॥
नाकपृष्ठमथारुह्य त्रिदशैस्सह रंस्यते

2.36.40.14

स्तोत्रेणानेन धर्मज्ञे कल्यमुत्थाय यश्च माम् ॥
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति

2.36.40.15

पुष्कर उवाच ॥ एतावदुक्त्वा भगवान्यमस्तु विमुच्य तं राजसुतं महात्मा ॥
अदर्शनं तत्र जगाम राम कालेन सार्धं सह मृत्युना च

2.36.40.40

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने चत्त्वारिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc