भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.31.35

2.31.35.1

2.31
॥ पुष्कर उवाच ॥
दुर्गे सर्वगुणोपेते वास्तुलक्षणसंयुते ॥
वसन्विवर्धयेत्कोशं धर्मेण पृथिवीपतिः

2.31.35.2

प्रजानां पालनं कार्यं तत्र स्थाने महीक्षिता ॥
स्वदेशे देवतायाश्च कृता राज्ञः पुरातनैः

2.31.35.3

दायं वित्तं जनं तासां प्रयत्नेन च पालयेत् ॥
देवद्रव्यापहारेण राजा नरकमृच्छति

2.31.35.4

अस्मिन्नपि तथा लोके प्राप्नोति च पराभवम् ॥
पालयन्ति महीं देवाः पूजिताः पृथिवीक्षिता

2.31.35.5

दैवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव ॥
धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः

2.31.35.6

रत्नानुसम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ॥
पूजिताः पूजयन्त्येते चायुषा यशसा श्रिया

2.31.35.7

प्राप्यते देवताभक्त्या चानुष्ठाने महत्पदम् ॥
पूजिताः संप्रयच्छन्ति कामान्नृणामभीप्सितान्

2.31.35.8

एकमप्याश्रितो देवं राजा भार्गवनन्दन ॥
सर्वासां पूजनं कुर्याद्देवतानामसंशयम्

2.31.35.9

देवतानां न चोच्छिन्द्यात्पूर्वदायं कथञ्चन ॥
प्राक्स्थितं तन्न चोच्छिंद्यान्न च च्छिंद्यात्तथा नवम्

2.31.35.10

तच्छेत्ता नरकं याति सह पूर्वैः पितामहैः ॥
अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता

2.31.35.11

स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च

2.31.35.12

देवद्रव्यापहरणान्नरकं प्रतिपद्यते ॥
सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भार्गव

2.31.35.13

दर्शयन्ति रुषं सौम्य राज्यभ्रंशादिभिर्नृणाम् ॥
अस्मिँल्लोके रुषं क्रूरां नैव कुर्वन्ति देवताः

2.31.35.14

तासां वित्तापहरणाद्राजा नरकमृच्छति ॥
पूर्वैः पितामहैस्सार्धं प्रागुक्तं फलमेव तु

2.31.35.15

देवद्रव्यापहरणं नैव जातु भवेद्वृथा ॥
सर्वस्वरहितान्कृत्वा देवद्रव्यापहारिणः

2.31.35.16

अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् ॥
त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः

2.31.35.17

तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः ॥
तेषां सहायकः स्वामी निग्रहानुग्रही भवेत्

2.31.35.18

रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् ॥
दण्डं च देवतागामि देवद्रव्यस्य सूचकम्

2.31.35.19

सर्वान्विवासयेद्राजा धार्मिको धर्मकारणात् ॥
राज्ञा सर्वप्रयत्नेन पालनीयाः सुरालयाः

2.31.35.20

कर्तव्याश्च महाभाग सुरलोकमभीप्सता ॥
देवतास्तु प्रतिष्ठाप्य तल्लोकं ध्रुवमाप्नुयात

2.31.35.21

कृत्वा देवगृहं शुभ्रं स्वर्गमाप्नोत्यनुत्तमम् ॥
तदा भोगप्रमाणेन लक्ष्मीस्तत्रापि भार्गव

2.31.35.22

मृत्प्रासादाद्दशगुणं स्थूलदारुकृते भवेत् ॥
फलं दशगुणं तस्मात्तथा पक्वेष्टकाकृते

2.31.35.23

तस्माद्दशगुणं शैले नात्र कार्या विचारणा ॥
यावत्संख्यं नरः कुर्याद्देववेश्म सुधासितम्

2.31.35.24

तावज्जन्मान्तराणीह यशसा स विराजते ॥
कृत्वा च चित्रविन्यासं गन्धर्वैः सह मोदते

2.31.35.25

कृत्वा संशोधनं तत्र विरोगः समपद्यते ॥
प्रोक्षयित्वा मनस्तापान्मानवः प्रतिमुच्यते

2.31.35.26

कृत्वोपलेपनं राम नाकमाप्नोत्यनुत्तमम् ॥
गान्धर्वलोकमाप्नोति कृत्वा वर्णकरञ्जितम्

2.31.35.27

गन्धैः समुक्षितं कृत्वा गन्धर्वैस्सह मोदते ॥
उपकारप्रदानेन श्रियमाप्नोत्यनुत्तमाम्

2.31.35.28

गीतवाद्यप्रदानेन सुखमाप्नोत्यनुत्तमम् ॥
प्रेक्षणीयप्रदानेन रूपवानभिजायते

2.31.35.29

तथा औज्ज्वल्यमाप्नोति यत्रयत्राभिजायते ॥
स्नापयित्वा घृतेनार्चां सर्वपापैः प्रमुच्यते

2.31.35.30

स्नापयित्वा च तैलेन विरोगः समपद्यत ॥
अम्बुना स्नापयित्वा तु सौभाग्यमधिगच्छति

2.31.35.31

विरूक्षयित्वा तां राम पापं जहति मानवाः ॥
अनुलेपनदानेन रूपमाप्नोत्यनुत्तमम्

2.31.35.32

तथा पुष्पप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥
धूपदानेन धर्मज्ञ रतिमाप्नोति शोभनाम्

2.31.35.33

तथा दीपप्रदानेन चक्षुष्मानभिजायते ॥
अन्नदः सर्वमाप्नोति यत्किंचिन्मनसेच्छति

2.31.35.34

पानकानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम ॥
वसुदो रूपमाप्नोति रूपमाप्नोति रूप्यदः

2.31.35.35

रुक्मदस्सर्वमाप्नोति श्रियमाप्नोति सर्वदः ॥
छत्रदः स्वर्गमाप्नोति तालवृन्तप्रदो दिवम्

2.31.35.36

चामराणां प्रदानेन राजा भवति धार्मिकः ॥
पताकायाः प्रदानेन सर्वपापान्व्यपोहति

2.31.35.37

ध्वजदानेन लोकेऽस्मिन्ध्वजभूतो भवेन्नरः ॥
नानाविधानां भोगानां तथा राम प्रदायकः

2.31.35.38

तानेव भोगानाप्नोति सर्वमाप्नोति भूमिदः ॥
देवमाल्यापनयनाद्गोदानफलमाप्नुयात्

2.31.35.39

तदाहुतिप्रदानेन तल्लोकमभिपद्यते ॥
नमस्कारप्रणामाभ्यामेनोभिः प्रतिमुच्यते

2.31.35.40

प्रदक्षिणं तथा कृत्वा भवत्याचारवारन्नरः ॥
स्तुत्वा च देवतां राम मनोदुःखात्प्रमुच्यते

2.31.35.41

सन्तर्पयित्वा तोयेन तृप्तिं समधिगच्छति ॥
तस्मात्सर्वप्रयत्नेन विशुद्धेनान्तराप्मना

2.31.35.42

अर्चास्थाः पूजयेत्सर्वा देवता भूरिदर्शन ॥
तदाश्रितांश्च युञ्जीत तदा तद्विधिपारगान्

2.31.35.43

तत्पूजने तथा राम तांश्च सम्पूजयेत्सदा ॥
ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने

2.31.35.44

यस्य राज्ञस्तु विषये देववेश्म विशीर्यते ॥
तस्य सीदति तद्राष्ट्रं देववेश्म यथा तथा

2.31.35.45

संस्कारं लम्भयेद्यस्तु देववेश्म पुरातनम् ॥
स च सौख्यमवाप्नोति यत्रयत्राभिजायते

2.31.35.46

वापीकूपतडागानां सदा त्रिदशवेश्मनाम् ॥
भूयः संस्कारकर्ता च लभते मुक्तिजं फलम्

2.31.35.47

देवसम्पूजनाद्राम वृद्धिं समुपगच्छति ॥
राज्ञस्तु विषये यस्य पूज्यन्ते सततं सुराः

2.31.35.48

अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ॥
राक्षसाश्च पिशाचाश्च रिपवश्च सुदारुणाः

2.31.35.49

ईतयश्च तथैवान्या न भवन्ति द्विजोत्तम

2.31.35.50

तस्मात्प्रयत्नेन सदा नरेन्द्रैः पूजा विधेया विषये सुराणाम्॥
सुरार्चनात्पूतसमस्तपापास्स्वर्गं क्षितीशाश्चिरमाप्नुवन्ति

2.31.35.31

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०सुरपूजामाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः

2.31.35.1

2.32
पुष्कर उवाच ॥
ब्राह्मणान्पूजयेद्राजा ब्राह्मणान्पालयेत्सदा ॥
ब्राह्मणा हि महाभाग देवानामपि दैवतम्

2.31.35.2

ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिवः ॥
ब्राह्मणेषु तु यद्दत्तं निधिस्तत्पारलौकिकम्

2.31.35.3

वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भारत ॥
उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते

2.31.35.4

ब्रह्मस्वं चैव नादद्याद्ब्रह्मस्वं पालयेत्तथा ॥
ब्रह्मस्वहरणाद्राम नरकं पश्यते नरः

2.31.35.5

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यतै ॥
विषमेकाकिनं हन्ति ब्रह्मस्वं सप्तपूरुषम्

2.31.35.6

ब्रह्मस्वं प्रणयाद्भुक्तं हिनस्त्यासप्तमं कुलम् ॥
द्रोहाद्भुक्तं तदेवेह कुलानां पातयेच्छतम्

2.31.35.7

सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम्। ॥
हरन्नरकमाप्नोति यावदाभूतसम्प्लवम्

2.31.35.8

दृष्ट्वा विटं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ॥
ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः

2.31.35.9

न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥
नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित्

2.31.35.10

ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥
वर्षाणामयुतं राम पच्यते स्नायुपूरिते

2.31.35.11

शोणितं यावतः पांशून्गृह्णातीह द्विजन्मनाम् ॥
कर्ता तावन्ति वर्षाणि कृतकृन्नरके वसेत्

2.31.35.12

उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥
ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा

2.31.35.13

देहत्यागाच्च नरकं ब्राह्मणोऽपि प्रपद्यते ॥
तेन चाधिकमाप्नोति राम पापं नराधमः

2.31.35.14

अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम् ॥
ब्राह्मणाश्च महाभागा नमस्यास्ते सदैव हि

2.31.35.15

ब्राह्मणानां तथा कार्यं यत्नात्कुर्वीत पार्थिवः ॥
कालातिपातं च तथा विप्रकार्ये न कारयेत्

2.31.35.16

निष्पीडितस्तूपवसेद्येन विद्वान्निशां जनः ॥
स राम नरकं याति वर्षाणां तु दशायुतम्

2.31.35.17

ब्राह्मणी रुदती हन्ति कुलं रोदायते ध्रुवम् ॥
तदश्रुवह्निर्दहति कुलं त्रिपुरुषं ध्रुवम्

2.31.35.18

विद्वानप्यथवाविद्वान्ब्राह्मणो मानमर्हति ॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्द्विजपुङ्गव

2.31.35.19

प्रतिष्ठां प्राप्नुवन्तीह सुरा विप्रप्रतिष्ठिताः

2.31.35.20

तन्मुखे तु तथाश्नन्ति देवाश्च पितृभिः सह ॥
वह्नौ हुताच्छ्रेष्ठतमं हुतं विप्रमुखाग्निषु

2.31.35.21

अस्कन्दमविरुद्धं च प्रायश्चित्तैर्विवर्जितम् ॥
यावतो ग्रसते ग्रासान्विद्वान्विप्रः सुसंस्कृतः

2.31.35.22

अन्नप्रदस्य तावन्तः क्रतवः परिकीर्तिताः ॥
ब्राह्मणानां करान्मुक्तं तोयं शिरसि धारयेत्

2.31.35.23

ब्राह्मणस्य करे यस्मात्सर्वतीर्थसमागमः ॥
ब्राह्मणेभ्यः समुत्पन्नं त्रैलोक्यं सचराचरम्

2.31.35.24

अमोघशापा धर्मज्ञ कथितास्ते जगत्त्रये ॥
आशीर्वादममोघं च ब्राह्मणानां प्रकीर्तितम्

2.31.35.25

आशीर्वादपराः कार्यास्तस्माद्राज्ञा द्विजोत्तमाः ॥
यैः कृतः सर्वभक्ष्योग्निरपेयश्च महोदधिः

2.31.35.26

क्षयी सोमोऽजवृषणस्तथैव च शतक्रतुः ॥
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति

2.31.35.27

विपुलश्च तथा येषां प्रसादो भृगुनन्दन ॥
येषां प्रसादात्क्षीणोऽपि वृद्धिमिच्छति चन्द्रमाः

2.31.35.28

येषां प्रसादाद्रक्षोभिर्नाभिभूयेत भास्करः ॥
येषां प्रसादाद्विपुलां कार्तवीर्यः श्रियं गतः

2.31.35.29

येषां प्रसादाद्धनदो धनाध्यक्षत्वमागतः ॥
अस्नातः स्नानमाप्नोति व्रतमाप्नोत्यथाव्रती

2.31.35.30

येषां वचनमात्रेण किम्भूतमधिकं ततः ॥
भोगं राज्यं तथा स्वर्गं येषां वाक्येन लभ्यते

2.31.35.31

अपावनकरः क्रोधो येषां राम सदा स्थितः ॥
ते पूज्यास्ते च सत्कार्यास्तेषां दाराणि दापयेत्

2.31.35.32

धारयन्ति जगत्सर्वं ब्राह्मणा वेदपारगाः॥
देवानाप्याययन्तीह ब्राह्मणा भृगुनन्दन

2.31.35.33

ते तृप्तास्तर्पयन्तीह भुवनं सकलं सुराः ॥
ब्राह्मणेनाहुतिर्दत्ता वह्नौ भृगुकुलोद्वह

2.31.35.34

आदित्यमाप्नोत्यादित्याद्वृष्टिर्भवति भूतले ॥
अन्नस्य च तथोत्पत्तिरन्नाद्भूतोद्भवः स्मृतः

2.31.35.35

तस्मात्त्रिभुवनं सर्वं ब्राह्मणैरेव धार्यते ॥
ब्राह्मणप्रभवा भूमिर्ब्राह्मणप्रभवो दिवः

2.31.35.36

ब्राह्मणानामिमे लोकाः परलोकास्तथैव च ॥
इज्यास्वाध्यायतपसामुपरोधाद्यदा द्विजाः

2.31.35.37

स्वाम्यं भुवि न विन्दन्ति क्षत्त्रियास्तु तदा कृताः ॥
ब्राह्मणानां वचः कार्यं राजभिः सततोत्थितैः

2.31.35.38

धर्ममर्थं च कामं च तेषां वाचि प्रतिष्ठितम् ॥
ब्राह्मणानां तु वाक्येन निग्रहानुग्रहावुभौ ॥

2.31.35.39

लोके कार्यौ भूमिभृता भूतिकामेन नित्यदा ॥
राजा ब्राह्मणवाक्येन यः कुर्याच्छासनादिकम्

2.31.35.40

सम्यग्वाप्यथवासम्यक्तेन नाके महीयते ॥
उल्लंघ्य शास्त्रं नृपतिर्यो यथारुचि वर्तते

2.31.35.41

स राम नरकं याति सुकृतेनापि कर्मणा ॥
यत्र ब्राह्मणवाक्यानि न करोतीह यो नरः।

2.31.35.42

न तत्र दोषवान्विप्रो राजा दोषेण लिप्यते ॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम्

2.31.35.43

पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥
यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः

2.31.35.44

तस्मात्पूज्या नमस्कार्यास्सं विभाज्यास्तथा द्विजाः ॥
राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता

2.31.35.45

यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः

2.31.35.32

इति श्रीविष्णुधर्मोत्तरे द्वि०खण्डे मा० सं० रामं प्रति पुष्करवाक्ये ब्राह्मणप्रशंसावर्णनंनाम द्वात्रिंशत्तमोऽध्यायः

2.31.35.1

2.33
॥ पुष्कर उवाच ॥
साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः ॥
एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम्

2.31.35.2

भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा ॥
या तु स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम

2.31.35.3

।
एकपत्न्यस्तु यद्दुःखं सहन्ते द्विज सानुगाः ॥
तेन ताः स्वर्गमासाद्य सुखमायन्त्यनेकधा

2.31.35.4

तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम ॥।
न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत्

2.31.35.5

नाहूयेदपराधेषु दण्ड्यस्तासां पतिर्भवेत् ॥
पुत्रो वाप्यथवा नीतौ नैव राजा प्रभुः क्वचित ॥।

2.31.35.6

नैव साध्वी विनिर्दिष्टा केवलोपस्थरक्षणात् ॥
विप्रियं नाचरेत्किञ्चित्पत्युः साध्वीति सा स्मृता

2.31.35.7

कर्मणा मनसा वाचा भर्तुः प्रियहितैषिणी ॥
या नारी सा स्मृता साध्वी पतिपूजनतत्परा

2.31.35.8

नमस्कार्याश्च पूज्याश्च वन्दनीयाश्च भार्गव ॥
राज्ञा सर्वप्रयत्नेन तथा लोकैश्च सर्वशः

2.31.35.9

अनाथां च तथा साध्वीं बिभृयात्पार्थिवोत्तमः ॥
तस्यै यद्दीयते दानं तदनन्तं प्रकीर्तितम्

2.31.35.10

साध्वीनामपमानेन कुलं दहति पूरुषः ॥
तासां सम्पूजनाद्राम स्वकुलं चोन्नतिं नयेत्

2.31.35.11

न धनेन न धान्येन न शीलेन न बन्धुभिः ॥
न यज्ञैर्दक्षिणावद्भिर्नाधीतेन तथैव च

2.31.35.12

अकुलानि कुलान्याहुः किन्तु स्त्रीणां विचेष्टितैः ॥
येषु साध्व्यः स्त्रियो राम कुलेषु कुलधूर्वहाः ॥ ।

2.31.35.13

महाकुलानि तानीह कृशान्यपि धनैर्यदि ॥
पुत्राणामपि तत्पुत्रं साध्वी यस्यारणिर्भवेत्

2.31.35.14

हव्येषु साध्वीतनयं तथा कव्यषु योजयेत् ॥
तत्राल्पस्यापि दानस्य महत्पुण्यं प्रकीर्तितम्

2.31.35.15

गायत्री तु यथा राम यथा गङ्गा सरिद्वरा ॥
पावनी कीर्तनादेव तथा साध्वी वराङ्गना

2.31.35.16

रामास्तु भृगुशार्दूल न प्रदुष्यन्ति कर्हिचित् ॥
मासिमासि रजस्तासां दुष्कृतान्यपकर्षति

2.31.35.17

सोमस्तासां ददौ शौचं गन्धर्वः शिक्षितां गिरम् ॥
अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः

2.31.35.18

ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ॥
अजाश्वौ मुखतो मेध्यौ स्त्रियो मेध्यास्तु सर्वतः

2.31.35.19

यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥
तानि कृत्याह तानीव विनश्यन्ति समन्ततः

2.31.35.20

स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥
तस्मात्सर्वप्रयत्नेन पूजनीयाः सदा स्त्रियः

2.31.35.21

मिथ्या न साध्वी भवतीह लोके भवत्यथास्मिन्नपरे च राम ॥
साध्व्यस्तथा पूज्यतमा प्रदिष्टा लोकेषु सर्वेषु चराचरेषु

2.31.35.33

॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे साध्वीमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥

2.31.35.1

2.34
राम उवाच ॥ ॥
साध्वीनां श्रोतुमिच्छामि देव धर्मानशेषतः ॥
साध्व्यो हि नार्यो लोकानामाधार इह कीर्तितः

2.31.35.2

॥ पुष्कर उवाच ॥ ॥
एतदेव परं राम रामाणां धर्मकारणम् ॥
यदासां सर्वकार्येषु नित्यं हि परतन्त्रता

2.31.35.3

बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ॥
पुत्राणां भर्तरि प्रेते न स्त्री स्वातन्त्र्यमर्हति

2.31.35.4

पित्रा भर्त्रा सुतेनेह नेच्छेद्विरहमात्मनः ॥
तेषां च विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले

2.31.35.5

सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ॥
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया

2.31.35.6

यः प्रदद्यात्पिता त्वेनां तदभावेपि कारकः ॥
तं शुश्रूषेत जीवन्तं संस्थितं न तु लंघयेत्

2.31.35.7

मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजायते ॥
प्रयुज्यते विवाहेषु प्रदानं स्वामिकारितम्

2.31.35.8

अनृतावृतुकालोक्ते मन्त्रसंस्कारकृत्पतिः ॥
सुखं नित्यं ददातीह परलोके च योषितः

2.31.35.9

विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ॥
उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः

2.31.35.10

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते

2.31.35.11

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ॥
पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम्

2.31.35.12

कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ॥
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु

2.31.35.13

आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी ॥
यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्

2.31.35.14

अनेकानि सहस्राणि सुमुग्धब्रह्मचारिणाम् ॥
दिवङ्गतानां विप्राणामकृत्वा कुलसन्ततिम्

2.31.35.15

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता॥
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः

2.31.35.16

अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्त्तते ॥
सेह निन्दामवाप्नोति परलोकाच्च हीयते

2.31.35.17

नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहा ॥
न द्वितीयश्च साध्वीनां कश्चिद्भर्तोपदिश्यते

2.31.35.18

पतिं हित्वा निकृष्टं स्वं चोत्कृष्टं या निषेवते॥
निन्द्यैव लोके भवति परपूर्वेति चोच्यते

2.31.35.19

व्यभिचारात्तु भर्तुः स्त्री लोकान्प्राप्नोति निन्दितान् ॥
शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते

2.31.35.20

पतिं या नाभिचरति मनोवाग्देहसंयता ॥
इहाग्र्यां कीर्त्तिमाप्नोति परलोके च शस्यते

2.31.35.21

पत्युरभ्यधिकं नारी नोपवासव्रतं चरेत् ॥
अनायुष्यं द्विजश्रेष्ठ पत्युस्तस्यास्तदुच्यते

2.31.35.22

देवताराधनं कुर्यात्कामं वा ब्राह्मणोत्तम ॥
नारी पतिव्रता राम प्राप्तानुज्ञां तु भर्त्तृतः

2.31.35.23

नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ॥
विफलं तद्भवेत्तस्या यत्करोत्यौर्ध्वदैहिकम्

2.31.35.24

स्त्रीणां पूज्यतमा लोके देवतागृहवासिनाम् ॥
या स्ताः सम्पूजनीयाः स्युस्तासामेव यथाविधि

2.31.35.25

तासां च पूजनं कार्यं विदितं स्वामिनस्तथा ॥
अन्यथा चेत्प्रवर्त्तेत निर्ग्राह्या सा प्रकीर्तिता

2.31.35.26

गत्वान्यपुरुषं नारी नरकं प्रतिपद्यते ॥
कूटशाल्मलिमित्युक्तं यावदाभूतसम्प्लवम्

2.31.35.27

गर्हिता च तथा पत्युर्नरकं याति भार्गव ॥
दशवर्षसहस्राणि तथैवाप्रियवादिनी

2.31.35.28

सर्वावस्थास्वपि स्त्रीषु न वधो विद्यते द्विज ॥
परेण शङ्कितामेनां संयतां वासयेद्गृहे

2.31.35.29

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ॥
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम्

2.31.35.30

मूलकर्म न कर्त्तव्यं कथञ्चिदपि योषिता ॥
मूलकर्मरता नारी कल्पं नरकमावसेत

2.31.35.31

दौर्भाग्यं महदाप्नोति तत्र यत्राभिजायते ॥
या च नारी सपत्नीनां कुर्याद्दौर्भाग्यकारणम्

2.31.35.32

कुहकैः पश्यति सापि कल्पानां नरके द्विज ॥
पुंस्त्वमूलं तथा लक्ष्मों पत्युर्हिंसति सा तथा

2.31.35.33

यक्षरक्षःपिशाचानां मूलकर्मरता सदा ॥
वश्यो भवति लोकेषु भर्ता तस्यास्तथैव च

2.31.35.34

नारी कृत्वा पतिं वश्यं सततं मूलकर्मणा ॥
लभतेन्ते तु दौर्भाग्यं भूतैर्वा भक्ष्यते ध्रुवम्

2.31.35.35

तस्मात्सर्वप्रयत्नेन मूलकर्म विवर्जयेत् ॥
आत्मानमथ भर्तारं नाशयेन्मूलकर्मणा

2.31.35.36

ब्राह्मणी न पिबेन्मद्यं न च विट्क्षत्रियस्त्रियः ॥
सुरां पिबेयुर्धर्मज्ञ तत्पानान्नाशमाप्नुयुः

2.31.35.37

ततो भवति धर्मज्ञ जलौका रक्तपायिका ॥
कल्पावशेषं सकलं तेन घोरेण कर्मणा

2.31.35.38

परवेश्मरुचिर्न स्यान्न स्यात्कलहशालिनी ॥
न च तिष्ठेत्तथा द्वारि न च राम गवाक्षके

2.31.35.39

मण्डनं वर्जयेन्नारी तथा प्रोषित भर्तृका ॥
देवताराधनपरा भवेद्भर्तृहिते रता

2.31.35.41

धारयेन्मङ्गलार्थाय किञ्चिदाभरणं तथा ॥
न जातु विधवा वेषं कदाचिदपि कारयेत् ॥४०।
पतिव्रता तु या नारी सह भर्त्रा दिवङ्गता ॥
कल्पावशेषं मुदिता पूज्यते त्रिदशालये

2.31.35.42

पतिव्रतां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम ॥
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित्

2.31.35.43

भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ॥
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च

2.31.35.44

मृते भर्तरि या साध्वी पुत्रमाश्रित्य भार्गव ॥
तपसा शातयेद्देहं तेन स्वर्गे महीयते

2.31.35.45

पतिपक्षे नरं कञ्चित्पुत्राभावे समाश्रयेत् ॥
बिभृयाद्धि स चाप्येनां भोजनाच्छादनैः सदा

2.31.35.46

पतिपक्षे समुच्छिन्ने पितृपक्षः प्रभुः स्त्रियः ॥
विषमस्थापि भर्तव्या पितृपक्षे स्वबन्धुभिः

2.31.35.47

मृतं भर्तारमादाय यदि वाथ पतिव्रता ॥
प्रविशेद्द्विजशार्दूल ज्वलितं जातवेदसम्

2.31.35.48

तिस्रः कोट्योर्द्धकोटी च यानि लोमानि मानवे ॥
तावन्त्येव शताब्दानि स्वर्गलोके महीयते

2.31.35.50

व्यालग्राही यथा सर्पं बिलादुद्धरते बलात् ॥
एवं भर्त्तारमादाय सह तेनैव गच्छति ॥ ४९ ।
सद्वृत्तमध्यापयितुं गतानां स्त्रीणां वियोगक्षतकातराणाम् ॥
तासां मृते जीवितवल्लभे हि नाग्निप्रवेशादपरो हि धर्म

2.31.35.34

।
इति विष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्त्रीधर्मो नाम चतुस्त्रिंशत्तमोध्यायः

2.31.35.1

2.35
राम उवाच ॥ ॥
स्त्रीणां पूज्यतमा लोके देवतास्त्वं प्रकीर्तय ॥
तासां कालं विधानं च फलं पूजनतस्तथा

2.31.35.2

पुष्कर उवाच ॥
श्रियः सम्पूजनं कार्यं स्त्रीभिस्तु सततं गृहे ॥
पुप्पार्घमाल्यनैवेद्यधूपदीपानुलेपनैः

2.31.35.3

गृहसम्मार्जनं राम तथा तस्योपलेपनम् ॥
पुष्पोपहारकरणं सुधाशुक्लत्वमेव च

2.31.35.4

सर्वमेतद्विजानीयाच्छ्रियः सम्पूजनं द्विज ॥
स्नानानुलेपनं यच्च गन्धवर्णावधारणम्

2.31.35.5

सुवर्णता च नारीणां श्रियः सम्पूजनाद्भवेत् ॥।
अष्टमीषु च सर्वासु पूजनीयाप्यशोकिका

2.31.35.6

गन्धमाल्यनमस्कारधूपदीपादिभिस्तथा ॥
तस्मिन्नहनि या भुङ्क्ते नक्तं तैलविवर्जितम्

2.31.35.7

भवत्यथ विशोका सा यत्रयत्राभिजायते ॥
अष्टमीषु च सर्वासु न चेच्छक्नोति भार्गव

2.31.35.8

प्रोष्ठपद्यां व्यतीतायां या स्यात्कृष्णाष्टमी द्विज ॥
तस्यामवश्यं कर्त्तव्या देव्याः पूजा यथाविधि

2.31.35.9

अपामिव त्रिलोकेषु प्रकृतिः स्त्रीषु चोच्यते ॥
या प्रेरयति कर्माणि लोकेषु द्विजसत्तम ॥

2.31.35.10

तस्यां सम्पूजनं कार्यं शुक्लां पञ्चदशीं तथा ॥
माल्यानुलेपनैः शुक्लैर्धूपेन च सुगन्धिना

2.31.35.11

रक्तवस्त्रप्रदानेन दीपदानेन चाप्यथ ॥
वैदलैश्च तथा भक्ष्यैर्भोज्यैश्चोष्यैस्तथैव च

2.31.35.12

पूजयित्वा च तां देवीं भोक्तव्यं निशि भार्गव ॥
यदि पञ्चदशीं सर्वां न शक्नोति कदाचन ॥।

2.31.35.13

देव्याः सम्पूजनं कार्यमवश्यमपि कार्तिके ॥
उपार्तिं पूजयेद्या तु सा तु नारी पतिव्रता

2.31.35.14

सदा धर्मरता साध्वी लोके भवति भार्गव ॥
नाशुभे च मतिस्तस्याः कदाचिदपि जायते

2.31.35.15

एकादशीं तथा कृष्णां फाल्गुने मासि भार्गव॥
शुद्धे देवस्य कर्त्तव्या पूजा धर्मभृतां वर

2.31.35.16

पूजनाच्छन्दोदेवस्य तनयं गुणवर्जितम् ॥
न प्राप्नोति तथाऽप्नोति गुणवन्तमसंशयम्

2.31.35.17

गन्धमाल्यादिभिर्भक्त्या तथा वै वास्तुदेवताम् ॥
एकादशीं तथा प्राप्य चैत्रशुक्लस्य पूजयेत्

2.31.35.18

संपूज्य तां महाभाग गृहभङ्गो न जायते ॥
शुक्लाष्टमीं तु सम्प्राप्य मासि भाद्रपदे तथा

2.31.35.19

दूर्वाप्रतानं लुप्पेत्तदुत्तराशाभिगामिनम् ॥
पूजयेद्गृहमानीय गन्धमाल्यानुलेपनैः

2.31.35.20

फलमूलैस्तथा राम धूपदीपौ विवर्जयेत् ॥
अग्निपक्वं तथा सर्वं न निवेद्यं कथञ्चन

2.31.35.21

भोक्तव्यं च तथा राम वह्निपाकविवर्जितम् ॥
दूर्वांकुरस्थां सम्पूज्य विधिना यौवनश्रियम्

2.31.35.22

यौवनं स्थिरमाप्नोति यत्रयत्राभिजायते ॥
सोपवासा तु या नारी कृष्णपक्षस्य कार्तिके

2.31.35.23

द्वादश्यां पूजयेद्विष्णुं गां सवत्सामनन्तरम् ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा

2.31.35.24

नैवेद्यं गोरसं सर्वं वर्जनीयं प्रयत्नतः ॥
भोक्तव्यं च न धर्मज्ञ दोग्धव्या नैव चार्जुने

2.31.35.25

गावः प्राप्नोति कृत्वैवं नात्र कार्या विचारणा ॥
धेनुं तां यदि विप्राय प्रददाति यथाविधि

2.31.35.26

स्वर्गलोकमथासाद्य न ततो विनिवर्तते ॥
कार्तिके च तथा मासि कृत्तिकायां च पूजनम्

2.31.35.27

कर्तव्यं गन्धकलशैर्गन्धमाल्यानुलेपनैः ॥
भक्ष्यैश्च परमान्नैश्च कुल्माषैः पर्पटैस्तथा

2.31.35.28

शक्त्या वस्त्रैश्च धर्मज्ञ महारञ्जनरञ्जनैः ॥
गुडेन मधुना चैव सितया लवणेन च

2.31.35.29

आर्द्रकेणेक्षुणा चैव तथा कालोद्भवैः फलैः॥
सर्वैश्च विविधैरन्नैर्गन्धैर्नानाविधैस्तथा

2.31.35.30

पानकैश्च तथा हृद्यैः पूजनीयाश्च कृत्तिकाः ॥
सह चन्द्रमसा राम तेन सौभाग्यमश्नुते

2.31.35.31

नारी च रूपलावण्ये धर्मे चाग्र्यां तथा मतिम् ॥
अवैधव्यं च धर्मज्ञ यत्रयत्राभिजायते

2.31.35.32

लवणस्य तुलां कृत्वा महारञ्जनरंजिते ॥ ॥।
वस्त्रे वस्त्रेण तेनाथ सालङ्कारां सितच्छविम्

2.31.35.33

कृत्वा पिण्डं हरिद्राक्तं कृत्तिकानां निवेदयेत् ॥
ग्राहयेद्ब्राह्मणं तां च प्राप्ते चन्द्रोदये तथा

2.31.35.34

अनेन कर्मणा नारी सौभाग्यं महदश्नुते ॥
पुरुषोऽप्यथ वै शुद्धो सौभाग्यं महदश्नुते ॥
कृत्तिकाप्रतिपादे तु तासां कृत्वैव पूजनम्

2.31.35.35

।
या भुङ्क्ते गोरसप्रायं कृत्वा ब्राह्मणपूजनम् ॥
सप्त जन्मान्तराण्येव सौभाग्यं रूपमेव च

2.31.35.36

स्वर्गे तु भोगानाप्नोति सह भर्त्रा तु सा शुभा ॥

2.31.35.37

प्राप्य पञ्चदशीं राम तथा शुक्लां च कार्तिकीम् ॥
कार्तिकं कार्तिकीं राम गृहभित्तौ समालिखेत्

2.31.35.38

उपद्वारं गृहाद्बाह्यं नानावर्णैस्तु वर्णकैः ॥
गृहोपकरणं शक्त्या तयोश्चैवाभितो लिखेत्

2.31.35.39

पीठखड्गासनाद्यत्र शकटोलूखलादिकम् ॥
ततस्तौ पूजयेन्नारी नानाभक्तिपरा शुचिः

2.31.35.40

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
इक्षुणेक्षुविकारैर्वा विशेषेण च पूजयेत्

2.31.35.41

तयोस्तु पूजनं कृत्वा मत्स्यं च सिकतायुतम् ॥ ॥
शुक्तिनेत्रं न्यसेत्क्षीरे तच्च दद्याद्द्विजातये

2.31.35.42

ततश्च नक्तं भुञ्जीत तिलतैलविवर्जितम् ॥
अनयोः पूजनाद्राम गृहभङ्गं न चाप्नुयात्

2.31.35.43

पतिव्रता महाभाग दीर्घमाप्नोति जीवितम् ॥
कार्तिके च तथा मासि सार्धं चन्द्रमसा सदा

2.31.35.44

रोहिण्यां रोहिणीपूजा कर्तव्या विधिना द्विज ॥
सर्वैरविधवाचिह्नैर्लवणेन च भूरिणा

2.31.35.45

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
तथा कुंकुमरक्तेन शक्त्या भार्गव वाससा

2.31.35.46

सौभाग्यं परमाप्नोति कृत्वैतत्परमाङ्गना ॥
शुक्लपक्षत्रयोदश्यां या च नारी पतिव्रता

2.31.35.47

पूजयेत्सोपवासा च कामदेवमतन्द्रिता ॥
पट्टवर्णकविन्यासं तस्य भार्या तथा पतिम्

2.31.35.48

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥
गुडेन मधुना चैव सितया चार्द्रकेण च

2.31.35.49

लवणेन रसैश्चान्यैर्गन्धैः सस्यैः पृथक्पृथक् ॥
भक्ष्यैर्नाविधैश्चैव कुंकुमार्द्रेण वाससा

2.31.35.50

गन्धतोयाम्बुपूर्णेन द्रुमपल्लवशालिना ॥
पूर्णकुम्भेन भव्येन माल्यकण्ठेन भार्गव

2.31.35.51

कामदेवाय नो दद्याद्यदम्लं किञ्चिदेव तु ॥
ततश्च पश्चाद्धोक्तव्यं सर्वमम्लविवर्जितम्

2.31.35.52

सर्वान्कामानवाप्नोति कामपूजाविधायिनी ॥
अथ चेन्नैव शक्नोति सर्वां राम त्रयोदशीम्

2.31.35.53

चैत्रशुक्लेन सर्वासां फलमाप्नोत्यसंशयम्॥
तस्मात्सर्वप्रयत्नेन चैत्रशुक्लत्रयोदशीम्

2.31.35.54

कामस्य पूजा कर्तव्या सर्वकामप्रदायिनी ॥
कामदेवं समभ्यर्च्य कार्यमात्माभिपूजनम्

2.31.35.55

कुंकुमाङ्कैस्तथा वस्त्रैर्गन्धमाल्यविभूषणैः ॥
भर्तारं पूजयेत्पश्चान्नारी तु कृतमण्डना

2.31.35.56

कुकुमांकेन वस्त्रेण गन्धमाल्यैर्मनोहरैः ॥
पुरुषोऽपि समभ्यर्च्य कामदेवमसंशयम्

2.31.35.57

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥
तथा शुक्लचतुर्थीषु गौरीपूजा सदा भवेत्

2.31.35.58

स्नाताभिः सोपवासाभिः सूर्यस्योदयनं प्रति ॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा

2.31.35.59

गुडेन सितया चापि मधुना चार्द्रकेण च ॥
सर्वैश्चाविधवाचिह्नैर्लवणेन च भूरिणा

2.31.35.60

चतुर्थीद्वितये पूज्या सर्वशक्त्या विशेषतः ॥
आषाढेऽप्यथवा मासि माघे चाप्यथवा द्विज

2.31.35.61

चतुर्णामपि कुण्डानां मध्ये सूर्यांशुसेविनी ॥
आषाढे सोपवासा तु तृतीयायां तथा वसेत्

2.31.35.62

न तस्या दुर्लभं लोके किञ्चिद्भवति भार्गव ॥
माघेऽप्युपोषिता मासि रात्र्यन्ते तुहिनोत्करैः

2.31.35.63

शुक्लीकृत्याखिलान्यङ्गान्यध्यास्ते शयनं यया ॥
ततश्च शीततोयेन पश्चात्स्नानं समाचरेत् ॥

2.31.35.64

सापि कामानवाप्नोति यान्राम मनसेच्छति॥
पतिव्रता सदा लोला सुभगा रूपसंयुता

2.31.35.65

धर्मप्रिया च भवति गौरीपूजनतत्परा ॥
आषाढे दाडिमं पुष्पं मधौ कर्पाससम्भवम्

2.31.35.66

निवेद्य सर्वमार्यायै सौभाग्यं महदश्नुते ॥
शक्राणी च तथा पूज्या मासि भाद्रपदे भवेत् ॥

2.31.35.67

स्त्रीणां गौरीविधानेन सर्वकामप्रदा हि सा ॥
प्रोष्ठपदस्य मासस्य चतुर्थ्यां द्विजसत्तम

2.31.35.68

शक्राणीपूजनं कृत्वा नाकपृष्ठे महीयते ॥
पूजातिथिषु सर्वासु राम ब्राह्मणपूजनम्

2.31.35.69

कर्तव्यं यच्च नैवेद्यं देयं तत्सुभगासु च ॥
अनभ्यर्च्य तथा गौरीं गौरीदीपं प्रपश्यति ॥

2.31.35.70

दौर्भाग्यं महदाप्नोति वर्जितं तस्य दर्शनम् ॥
गौरीपूजनकामा स्त्री तस्मिन्नहनि या द्विज

2.31.35.71

स्नानमुष्णाम्बुना कुर्यात्सापि सौभाग्यमश्नुते ॥
सम्पूज्य विधिना गौरीं यत्रयत्राभिजायते

2.31.35.72

रूपलावण्यसौभाग्ययुक्ता भवति चाप्यथ ॥
नित्यं चाविधवा राम तथैव च पतिव्रता

2.31.35.73

एताः पूज्यतमा स्त्रीषु दैवतास्ताः प्रकीर्तिताः ॥
अतः परं तु या कुर्यात्सतीमार्गविवर्जनम्

2.31.35.74

हिंसात्मकमनिर्दिष्टमशुद्धं वा द्विजोत्तम ॥
देवताराधनं सा तु चिरं नरकमृच्छति

2.31.35.75

ततस्तु चाप्यनायुष्यं ग्रहभूतविवर्धनम् ॥
हिंसात्मका तु या नारी देवताराधने रता

2.31.35.76

मूलकर्मरता भर्त्रा सा विवाह्या भृगूत्तम ॥
पौंश्चल्यादपि नारीणां राम हिंसा विवर्जिता

2.31.35.77

स्त्रीस्वभावं शुभं राम सौम्यत्वं मार्दवं दया ॥
निर्दया राक्षसी राम पिशाची वा द्विजोत्तम

2.31.35.78

अथवा सर्वमुत्सृज्य पतिपूजनतत्परा ॥
केशवाराधनं कुर्याच्छ्रियश्च पुरुषर्षभ

2.31.35.79

तेनैव सर्वमाप्नोति यत्किञ्चित्परमृच्छति ॥
अफलं सर्वमेव स्याद्भर्त्रनुज्ञां विना कृतम्

2.31.35.80

केशवाराधनं राम तथापि सफलं स्त्रियः ॥
सर्वभूतानि गोविन्दो भर्ता नान्यस्तु योषितः ॥
भर्त्रनुज्ञां विना तस्मात्ततः पूजा विधीयते

2.31.35.81

नारायणः पूज्यतमो हि लोके नारायणः सर्वगतः प्रधानः ॥
नारायणाराधनतत्परा स्त्री कामानवाप्नोति न संशयोऽत्र

2.31.35.35

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करवाक्ये स्त्रीदेवतापूजननिरूपणं नाम पञ्चत्रिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc