विष्णुधर्मोत्तरपुराणम् · अध्याय 2.26.30
2.26
॥ पुष्कर उवाच ॥ ॥
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ॥
रम्यमानतसामन्तः पशव्यं देशमावसेत्
वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ॥
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा
अदेवमातृकं कर्मस्वनुरक्तजनाचितम् ॥
करैरपीडितं चापि बहुपुष्पं फलं तथा
अगम्यं परचक्राणां तद्वादसहमापदि ॥
समदुःखसुखं राज्ञः सततं च प्रिये स्थितम्
सरीसृपविहीनं च व्याधितस्करवर्जितम् ॥
एवंविधं यथालाभं राजा विषयमावसेत
तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः ॥
धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च
वार्क्षं चेवांबुदुर्गं च गिरिदुर्गं च भार्गव ॥
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते
दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम् ॥
शतघ्नीयन्त्रमुख्यैश्च शतशश्च तथा युतम्
गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम् ॥
सपताकगजारूढो येन राजा विशेत्पुरम्
चतस्रश्च तथा तत्र कार्याश्चापणवीथयः ॥
एकस्मिँस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम्
वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते ॥
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके
चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते ॥
आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम्
मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ॥
अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत्
अर्धचन्द्रं प्रशंसन्ति नदीतीरं तु तद्वशात् ॥
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता
राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः ॥
तस्यापि दक्षिणे भागे गजस्थानं विधीयते
गजानां प्राङ्मुखी शाला कर्तव्या चाप्युदङ्मुखी ॥
आग्नेये च तथा भागे आयुधागार इष्यते
महानसं च धर्मज्ञः कर्मशालास्तथापराः ॥
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः
मन्त्रिदैवविदां चैव चिकित्साकर्तुरेव च ॥
तत्रैव च तथा भागे कोष्ठागारं विधीयते
गवां स्थानं तु कर्त्तव्यं तुरगाणां तथैव च ॥
उत्तराभिमुखी श्रेणी तुरगाणां विधीयते
प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता ॥
तुरगाश्च तथा धार्या प्रशस्तैः सार्वरात्रिकैः ॥
कुक्कुटान्वानरांश्चैव मर्कटांश्च नराधिप ॥
धारयेदथ शालासु सवत्सां धेनुमेव च
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा ॥
गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम्
अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ॥
ततस्तत्र यथान्यायं राजा विज्ञाय सारवित्
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः ॥
योधानां शिल्पिनां चैव सर्वेषामविशेषतः
दद्यादावसथान्दुर्गे मन्त्रकालविदां सताम ॥
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च
आहरेत भृशं राजा दुर्गे परबलारुजः ॥
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥
न बहूनां न तैर्दुर्गं विना कार्यं तथा भवेत् ॥
दुर्गे च यन्त्राः कर्तव्या नानाप्रहरणान्विताः
सहस्रघातिनो राम तैस्तु रक्षा विधीयते ॥
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा
सञ्चयश्चात्र सर्वेषां चायुधानां प्रशस्यते ॥
धनुषां क्षेपणीयानां तोमराणां च भार्गव
शराणामथ खड्गानां खनकानां तथैव च ॥
लगुडानां गुडानां च हुडानां परिघैः सह
अश्मनां च प्रभूतानां मुद्गराणां तथैव च ॥
कणियानां त्रिशूलानां पट्टिशानां च भार्गव
प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम ॥
परश्वधानां चक्राणां चर्मणां चर्मभिः सह
कुद्दालरज्जुवेत्राणां पिटिकानां तथैव च ॥
ह्रस्वकानां च पात्राणामगरस्य च संश्रयम
सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते ॥
वादित्राणां च सर्वेषामौषधानां तथैव च
यवसानां प्रभूतानां चेन्धनस्य च सञ्चयम् ॥
गुडस्य सर्वशैलानां गोरसानां तथैव च
चर्मणां च ससज्जानां स्नायूनामस्थिभिः सह ॥
गोरसस्य पटानां च धान्यानां सर्वतस्तथा
तथैव प्रपटानां च यवगोधूमयोरपि ॥
रत्नानां सर्ववस्त्राणां लोहानां चाप्यशेषतः
कलायमुद्गमाषाणां चणकानां तिलैः सह ॥
तथा च सर्वसस्यानां पांशुगोमययोरपि
।
सणसर्जरसं भूर्जजतुलाक्षाकटंकटाम् ॥
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन
कुम्भाः साषीविषा धार्या व्याघ्रसिंहादयस्तथा ॥
मृगाश्च पक्षिणश्चैव पशवश्च पृथग्विधाः ॥४ ० ॥
सञ्चेयानि विरुद्धानां सुगुप्तानि पृथक्पृथक ॥
कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता
उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ॥
सुगुप्तानि पुरे कुर्याज्जनानां हित काम्यया
जीवकर्षभकाकोलीरामलक्यः परूषकम् ॥
शालिपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च
माषपर्णी तथा चैव सारिवे द्वे बलाभयम ॥
वीराश्वगन्धा वृथ्वीका बृहती कण्टकारिका
शृङ्गाटिका रोद्रगोधी वर्षाभूदर्भगुन्द्रका ॥
मधुपर्णीविदार्यौ द्वे महादुर्गा महा तथा
धन्वना महऋग्व्याह्या त्रिकोटी रण्डकं विषम् ॥
पर्णासनाह्वी मृद्वीका फल्गुः खर्जूरयष्टिका
शुक्रातिशुक्रकाश्मर्यश्छत्रातिच्छत्रवीरणा ॥
इक्षुरिक्षुविकारश्च फाणिताद्याश्च भार्गव
सहाश्च सहदेवाश्च विश्वेदेवाढरूपकम् ॥
मधूकपुष्पं हंसाख्या शतपुष्पमधूलिका
शतावरी मधूकं च प्रियालं तालमेव च ॥
आत्मगुप्ता कट्फलाख्या दरदा राजसेरुका
राजर्षभकधानक्या ऋष्यप्रोक्ता तथोत्कटा ॥
कटंकटा पद्मबीजं गोवल्ली मधुवल्लिका
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपत्रिका ॥
एर्वारुम्रपसौ चोभौ मुञ्जातकपुनर्नवा
काशेरुका तुगाक्षीरा बिल्वेशालूककेसरम् ॥
शूकधान्यानि सर्वाणि शम्बीधान्यानि यानि च
क्षीरं क्षौद्रं तथा शुक्लं मज्जा तैलं वसा घृतम ॥
निकोचाभिषुकाक्षोटं वातापं सोरुखाणकम्
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ॥
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः
दाडिमांम्रातकां लीनं तितन्तिडीकाम्लवेतसम् ॥
भव्यकः कण्डलीकश्च मकरन्दकरूपकम्
बीजपूरककाण्डीरमालती राजधन्वना ॥
कोलकद्वयपर्णानि द्वयोरल्लीकयोरपि
पालेवतं भागरिकं प्राचीनारूकमेव च ॥
कपित्थामलकं चुक्रं कलिन्दं च शठस्य च
जाम्बवं नवनीतं च सौवीरकतुपोचके ॥
सुरासवं च मद्यानि मण्डं तक्रदधीनि च
शुक्लानि चैव सर्वाणि ज्ञेयान्यम्लगणानि वै ॥
सैन्धवोद्भेदनादेयपाक्यसामुद्ररोचसम् ॥
कूप्यसौवर्चलविडं वालकैलोपबाहुकम्
ऊषक्षारं कालभस्म विज्ञेयौ लावणो गणः ॥
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ॥
कुठेरकं समरिचं शिग्रुं भल्लात दुर्गं सुगुप्तं नृपतिस्सदैव
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्कराख्याने दुर्गसम्पत्तिर्नाम षड्विंशतितमोऽध्यायः
2.27
राम उवाच ॥
रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा ॥
अगदानि समाचक्ष्व तानि धर्मभृतां वर
पुष्कर उवाच ॥
बिल्वाढकी यवक्षारपाटलीबाह्लिकोषणाः ॥
श्रीपर्णी सल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम्
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषः ॥
यवसैन्धवपानीयवसुशय्यासनौदनम्
कवचाभरणच्छत्रबालव्यजनमेव च ॥
शैलूपाटल्यतिविषाशिग्रुगोपीपुनर्नवाः
ससङ्गावृक्षमूलत्वक्कपित्थं वृक्षशोणितम् ॥
सहदन्तशठं तद्वत्प्रोक्षिणं विषनाशनम्
लाक्षा प्रियङुमञ्जिष्ठासमङ्गा सहरेणुका ॥
सयष्ट्याह्वमधूपेता बभ्रुपित्तेन कल्किताः
निखनेद्गोविषाणस्था सप्तरात्रं महीतले ॥
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥
संस्पृष्टस्सविषस्तेन सद्यो भवति निर्विषः ॥
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥
धनोगवः कपिल्लायाः सौम्याख्योऽयं पुरो गदः
विषजित्परमः प्रोक्तो मणिरत्र च पूर्ववत् ॥
मूषकाजिरका चापि हस्ते बद्ध्वा विषापहा
हरेणुमासी मंजिष्ठा रजनीमधुकं मधु ॥
अक्षत्वक्सुरसं.... ..श्वपित्तं पूर्ववर्मणि
वादित्राणि पताकाश्च विष्टैरेतैः प्रलेपिता ॥
श्रुत्वा दृष्ट्वा समाधाय सद्यो भवति निर्विषः
तत्पूषणं पञ्चलवणं मञ्जिष्ठारजनीद्वयम् ॥
सूक्ष्मैला त्रिवृतापत्रं विरुङ्गानींद्रवारुणी
मधुकं चेति सक्षौद्रं गोविषाणैर्निधापयेत् ॥
तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा ॥
विषं भुक्तं जरां याति निर्विषोपि न दोषकृत् ॥
संतुसर्जरसोशीरसर्षपापत्रवालुकैः
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च॥
धूपोवासो गृहे हन्ति विषं स्थावरजङ्गमम्
न तत्र कीटा न विषा दर्दुरा न सरीसृपाः ॥
न कृत्याः कर्म नाऽन्यच्च धूपोयं यत्र दह्यते
कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ॥
पूर्वैलवालुसुरसानाकुलीतण्डुलीयकैः
क्वाथः सर्वोदकार्येषु काकमाचीजलैर्वृतः ॥
रोचनापत्र नैपालीकुंकुमैस्तिलकं वहन्
विषं न बाधते स्याच्च नरनारीनृपप्रियः ॥
चूर्णैर्हरिद्रामंजिष्ठाकिणिहीकणनिम्बकैः
जिघ्रं न्निर्विषतामेति गात्रं सर्वविषार्दितम् ॥
शिरीषस्य फलं पत्रं पुष्पं त्वङ्मलमेव च
गोमूत्रपिष्टो ह्यगदः सर्वकर्मकरः स्मृतः ॥
एता वीरमहौषध्यः शृणु चातः परं द्विज
वन्ध्या कर्कोटकी राम विष्णुक्रान्ता तथोत्कटा ॥
शतमूला शतानन्दा बलास्फोटा पटोलिका
सोमा पिण्डा निशा चैव तथा दग्धरुहा जया ॥
स्थले कमलिनी या च पिंगली शृङ्गमूलिका
चण्डाली हस्तिचण्डाली गोचण्डाली कवन्धिका ॥
रक्ता चैव महारक्ता तथा बर्हिशिखा च या
कोशातकी नक्रमालं पियालं च स्वलक्षणा ॥
चारणा च सुगन्धा च तथा वै गन्धनाकुली
ईश्वरी च सलिङ्गी च सोमली वंशनालिका ॥
जतुकारी तथा श्वेता श्वेता च मधुयष्टिका
वज्जटः पारिभद्रश्च तथा वै सिन्धुवारिका ॥
जीवानन्दी वसुमती न तं नागकटं कटम्
तालना जालपातालं तथा च वटपत्रिका ॥।
करक्षीरा महानीली कह्लारं हंसपादिका
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके ॥
सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखंकरी
रुजापहा शुद्धिकरी तथा शल्यापहा च या ॥
पत्रिका रोहिणी चैव रक्तला च महौषधी
तथामलकवन्दारु यावचित्रा पटोलिका ॥
काकोली क्षीरकाकोली पीलुपर्णी मनोवती
केशनी वृश्चिका काली महानागा शतावरी ॥
तथा गरुडवेगा च स्थलेकुमुदिनी च या
स्थले चोत्पलिनी या च महाभूमिलता च या ॥
उन्मादिनी सोमराजी सर्वरत्नानि भार्गव
विशोषामरकतं तत्र कीटपक्षं विशेषतः ॥
जीवजाताश्च मणयस्सर्वे धार्या विशेषतः
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशिनः ॥
विशेषान्तरनागाश्च गोखरोष्ट्रसमुद्भवाः
सर्पतित्तिरगोमायुबभ्रुमण्डूकजाश्च ये ॥
सिंहव्याघ्रर्क्षमार्जारद्वीपवानरसम्भवाः
कपिञ्जलाजगोधाविमहिषैणभवाश्च ये
इत्येवमेतैस्सकलैरुपेतं द्रव्यैः पुरं रक्षितसञ्चयं च ॥
राजा वसेत्तत्र गृहं च शुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम्
इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे अगदङ्कराध्यायो नाम सप्तविंशतितमोऽध्यायः
2.28
॥ राम उवाच ॥
राजरक्षारहस्यानि यानि दुर्गे निधापयेत् ॥
कारयेद्वा महीभर्ता कथयस्वाशु तानि मे
पुष्कर उवाच ॥
शिरीषोदुम्बरशमीबीजपूरं घृतप्लुतम् ॥
क्षुद्योगः कथितो राम मासार्धस्य पुरातनैः
कषेरूत्पलमूलानि इक्षुमूलं तथा विमम् ॥
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परम्
शूलप्रोतं नरं प्राप्य तस्यास्थ्नामरणी भवेत् ॥
कल्माषवीणुना तत्र जनयेत्तु विभावसुम्
गृहे त्रिरपसव्यं तत्क्रियते यत्र भार्गव ॥
नान्योग्निर्ज्वलते तत्र नात्र कार्या विचारणा
कर्पासास्थि भुजङ्गस्य तथा निर्मोचनं परम् ॥
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे
सान्द्रसत्त्वा च वयसा विद्युद्दग्धा च मृत्तिका ॥
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते द्विज
दिवा च दुर्गे रक्षोऽग्निर्वाति वाते विशेषतः ॥
विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे
क्रीडानिमित्तं नृपतेर्धार्याः स्युर्मृगपक्षिणः ॥
अन्नं च प्राक्प्ररीक्षेत वह्नावथ नरेषु च
वस्त्रं पत्रमलङ्कारं भोजनाच्छादने तथा ॥
नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः
श्यावास्यवक्त्रः सन्तप्तः सोद्वेगं च परीक्षते ॥
विषदेन विषं दत्तं यत्र तत्र निरीक्षते
स्रस्तोत्तरीयो विमनाः स्तम्भकुण्ड्यादिभिस्तथा ॥
प्रच्छादयति चात्मानं खिद्यते लज्जते तथा
भुवं विलिखते ग्रीवां तथा चालयते द्विज ॥
कण्डूयति च मूर्धानं परिलेढ्यधरं तथा
क्रियासु त्वरते राम विपरीतास्वपि ध्रुवम् ॥
एवमादीनि चिह्नानि विषदस्य परीक्षयेत्
ततो विचायेदग्नौ तदन्नं त्वरयान्वितः ॥
इन्द्रायुधसवर्णस्तु वृक्षस्फोटसमन्वितः
एकावर्तोऽथ दुर्गन्धी भृशं चटचटायते ॥
तद्धूमसेवनाज्जन्तोः शिरोरोगश्च जायते
सविषेऽन्ने निलीयन्ते न च भार्गव मक्षिकाः ॥
निलीनाश्च विपद्यन्ते दृष्टे च सविषे तथा
विरज्यति चकोरस्य दृष्टिर्भार्गवसत्तम ॥
विकृतिं च स्वरो याति कोकिलस्य तथा द्विज
गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति ॥
क्रौंचो मदमथाभ्येति कृकवाकुर्विरौति च
विक्रोशति चकोरश्च शारिका वाशते तथा ॥
चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा
मेहते वानरो राम ग्लायते जीवजीवकः ॥
हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति
हर्षमायाति च शिखी सविषे दर्शने द्विज ॥
अन्नं च सविषं राम चिरेण च विपच्यते
तथा भवत्यतिस्रावं पक्वं पर्युषितोपमम् ॥
व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम्
व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदोद्भवः ॥
ससैन्धवानां द्रव्याणां जायते फेनमालिका
रसस्य राजी नीला स्यात्ताम्रा च पयसस्तथा ॥
कोकिलाभा च सध्यस्य तोयस्य च भृगूत्तम
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च ॥
मधुश्यावा च तक्रस्य नीला पीता तथैव च
घृतस्योदकसंकाशा कपोताभा च मस्तुनः ॥
हरिता साक्षिकस्यापि तैलस्य च तथारुणा
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ॥
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा
मृदुता कठिनानां स्यान्मृदूनां च विपर्ययः ॥
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता
श्याममण्डलता चैव वस्त्राणामविशेषतः ॥
लोहानां च मणीनां च मलपङ्कोपदिग्धता
अनुलेपनगन्धानां स्नानानां च भृगूत्तम ॥
विगन्धता च विज्ञेया पर्णानां म्लानता तथा
पीता नीला सिता ज्ञेया तथा रामाञ्जनस्य च ॥
दन्तकाष्ठत्वचः शान्तास्तन्तुसत्त्वं तथैव च
एवमादीनि चिह्नानि विज्ञेयानि भृगूत्तम ॥
तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधीगणैः
आप्तैः संरक्षितो राम प्रमाद परिवर्जकैः
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्वृत्तिमुपैति राष्ट्रम् ॥
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या भृगुवंशचन्द्र
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राजरक्षावर्णनन्नामाष्टाविंशतितमोऽध्यायः
2.29
राम उवाच ॥ ॥
वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज ॥।
हिताय मानवेन्द्राणां तथान्येषां च मानद
पुष्कर उवाच ॥ ॥
भूमिमादौ परीक्षेत शुभलक्षणलक्षिताम् ॥
पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम्
न तथा शिकटच्छिन्नां नान्यत्तोयपरिप्लुताम् ॥
वल्मीकमूषिकावासश्वभ्रकण्टकितैर्द्रुमैः
विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम् ॥
न तथा यवसंस्थानां नेभवज्रोपमां तथा
न शूर्पकूर्मसंस्थानां शक्तिहीनां तथैव च॥
सम्पूर्यमाणां कृमिभिस्तथाधिकमृदं शुभाम्
गर्भे च कुसुमं यस्यां न म्लानिमुपगच्छति ॥
न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव
उदकं च तथा यस्यां शीघ्रं राम न जीर्यते ॥
सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्॥
विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज
घृतासृगन्नमद्यानां तुल्यगन्धा तथैव च ॥
मधुरा च कषाया च अम्लोषणरसा तथा
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता ॥
परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा
सम्पूज्य ब्राह्मणान्पूर्वं निश्शल्यां तां तु कारयेत्॥
खातपूर्वां ततः कृत्वा देवभागांश्च कल्पयेत्
चतुःषष्टिपदं कृत्वा वास्तुपूर्वं यथाविधि ॥
चतुःषष्टिविभागेन कल्पयित्वा समन्ततः ॥
एकैकं तु गृहं तत्र तथैव परिकल्पयेत् ॥
यस्मात्पुरविभागेन द्वारन्यासः प्रकीर्तितः
अतः परं प्रवक्ष्यामि देवभागान्यथाविधि॥
मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥ १४.॥
प्राक्तथा निग्रहः स्वामी कथितश्च तथार्यमा ॥
दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः
उदक्पृथ्वीधरश्चैव विकोणेष्वथ मे शृणु ॥
विकोणे शिवदैवत्ये कामपक्षावुभौ सुरौ
सावित्रीसवितारौ तु तथाग्नेये प्रकीर्तितौ ॥
तथा नैरृतकोणे तु जयेन्द्रौ राम कीर्तितौ
भद्रव्याधी तु वायव्ये कथितौ भृगुनंदन ॥
देवतानां तथैतासां भूयो बाह्ये तु मण्डले
पूर्वादिषु यथा दिक्षु देवतास्तान्निबोध मे ॥
महेन्द्रश्च रविस्सत्यो भृशः प्राग्राम कीर्तिताः
गृहक्षितो यमो भृङ्गो गन्धर्वश्चैव याम्यतः ॥
भल्लाटश्च तथा सोम अदितिर्धनदस्तथा
उत्तरेण स्मृता देवा विकोणेष्वथ मे शृणु ॥
दितिरीशौ मेघजयौ शिवकोणे प्रकीर्तितौ
व्योमाग्नी पूषवितथौ शिखिकोणे च भार्गव ॥
मृगपित्रीशदौवारिसुग्रीवाश्चैव नैरृते
रोगानायुश्च नागश्च मुख्याश्वानिलदिक्स्थिताः ॥
ततोऽपि बाह्यतश्चाष्टौ शृणुष्व गदतो मम
अष्टावष्टौ विनिर्दिष्टा देवा दिक्षु विदिक्षु च ॥
आद्यन्तौ तु तयोर्देवौ प्रोक्तावथ ग्रहेश्वरौ।
पर्जन्यः प्रथमो देवो द्वितीयश्च करग्रहः ॥
महेन्द्ररविसत्याश्च भृशोऽथ गमनस्ततः
पवनश्च महाभागाः पूर्वेणैते प्रकीर्तिताः ॥
पुष्योऽथ त्रितुदश्चैव तथैव च ग्रहर्क्षतः
यमो भृशश्च गन्धर्वो मृगोऽथ पितरस्तथा ॥
दक्षिणेन विनिर्दिष्टा देवा भृगुकुलोद्वह
दौवारिकश्च सुग्रीवः पुष्पदंतस्तथा सुरः ॥
वरुणस्तु तथा यक्षो रोगः शोषस्तथैव च
पश्चिमेन विनिर्दिष्टा देवा दानवनाशनाः ॥
नागराजस्तथा मुख्यो भल्लाटश्च तथा शशी
अदितिश्च कुबेरश्च नागश्चाथ हुताशनः ॥
एते देवा विनिर्दिष्टास्तथा चोत्तरतो द्विज
एतेषामेव देवानां भागे द्वाराणि कारयेत् ॥
शुभानि तेषु वक्ष्यामि शेषाणि परिवर्जयेत्
महेन्द्रसोमदैवत्यौ पूर्वतः शुभदौ स्मृतौ ॥
गृहर्क्षतश्च पुष्पश्च तथा दक्षिणतः शुभौ
सुग्रीवः पुष्पदन्तश्च शुभौ पश्चिमतो द्विज ॥
भल्लाटः सोमदेवश्च द्वारे श्रेष्ठौ तथा ह्युदक्
द्वात्रिंशच्च बहिर्देवास्तथान्तर्द्वादश स्मृताः ॥
मध्ये ब्रह्मा तथा प्रोक्त एवं ते पिण्डदेवताः
चत्वारिंशद्विनिर्दिष्टास्तथा पञ्च च भार्गव ॥
विन्यस्याजिरमेवादौ चतुष्षष्टिपदं द्विज
तत्र देवविभागेन गृहकर्म विधीयते ॥
चन्द्रसुग्रीवपर्जन्यसत्येन्द्रार्यमवारुणे
भगवत्संग्रहं कुर्याद्यथासंस्थानतो द्विज ॥
सूर्यान्तरिक्षसत्याग्निभागेषु च महानसम्
वाय्वन्तरिक्षसुग्रीवभल्लाटपितृदैवते ॥
गंधर्वपुष्पदन्ताख्ये भागे कूपं तु कारयेत्
एकवृक्षाधिकं तत्र तथा कुर्याद्द्विजोत्तम ॥
अथवा दिग्विभागेन गृहकर्म विधीयते
ऐशान्यां देवतावेश्म तथाग्नेय्यां महानसम् ॥
अग्न्यागारं च तत्रैव भ्रमं नैरृतके तथा
कोष्ठागारायुधागारौ वायव्यां च तथा स्मृतौ ॥
कूपादिस्थोदकं शस्तं दिक्षु चैवोत्तरासु च
अन्यासु गर्हितं राम प्रयत्नेन विवर्जयेत् ॥
पुराणं नवमिश्रं तु दारुवेश्मनि वर्जयेत्
सकुड्यं परकुड्यं च नैव कार्यं विजानता ॥
विनार्कचन्द्रग्रहणं द्वारसम्परिवर्तनम्
वृद्धिक्षयौ न कर्तव्यौ भूयः कर्मणि वेश्मनः ॥
प्रागुत्तरेऽथवा कार्यौ ब्राह्मणानुमते तथा ॥
ब्रह्मस्थानं शुचिर्नित्यं कार्यं भवति भार्गव
न पीडनीयं च तथा नागदन्तादिभिर्भवेत् ॥
मर्माणि राम जानीयाद्देवतापदसन्धिषु
न पीडयेत्तथा तानि नागदन्तादिभिर्द्विज ॥
ये द्रुमा वटसंसिक्तास्तथा ये च सकोटराः
हस्तिविद्युद्धता ये च देवतावेश्मजाश्च ये ॥
वह्निस्पृष्टाः श्मशाने च ये च जाताश्चतुष्पथे
रोकवृक्षाश्च ये केचिन्न ते शस्ताः कथञ्चन ॥
वृक्षस्य महतीं पूजां कृत्वा तद्वासकस्य च
मध्वाज्यदिग्धेन तथा छिन्द्यात्परशुना द्विजः ॥
पूर्वोत्तरेण पतनं प्रशस्तं परिकीर्तितम्
शेषासु पतनं दिक्षु गर्हितं द्विजसत्तम ॥
वटाश्वत्थौ च निर्गुण्डी कोविदारविभीतकौ
पुष्यकं शाल्मलिश्चैव पलाशं च विवर्जयेत ॥
विस्तारद्द्विगुणोच्छ्रायं द्वारं कार्यं तथा गृहे
निधिप्रथमको नागहंससारसचित्रितम् ॥
द्वारको नेत्रमद्वाभ्र चतुष्पथसुरालयैः
कूपैकवृक्षरथ्याभिर्विद्धं द्वारं विवर्जयेत्॥
द्विगुणात्तु गृहोच्छायाद्भूमिं त्यक्त्वा न दोषभाक्
आध्मातं सकटं राम तथाम्बुप्लवि यद्भवेत्॥
द्वारं न तत्प्रशंसन्ति तस्मात्तु परिवर्जयेत्
पुरद्वाराधिकं श्रीदं भागेषु च तथा भ्रमम्॥
धनदस्य तथा भागैर्धनवेश्म विधीयते
इन्द्रसत्येन्द्रसुग्रीवद्वारमन्यत्र कारयेत् ॥
स्तम्भं तु नवधा कृत्वा पीठे भागं तु कारयेत्
भागे कुम्भस्तथा कार्यो भागे पद्मं निवेशयेत् ॥
स्तम्भं भागत्रये कार्यमष्टास्रमथ वर्तुलम्
तस्योपरि तथा भागे भवत्यामलसारकम् ॥
भागदोषे तुला कार्या भागे कार्या तथा तुला
एकशालचतुश्शालौ कर्तव्यौ स्वेच्छया सदा ॥
पूर्वोत्तराभिः शालाभिर्हीनं कार्यं द्विशालकम्
अन्यथा गर्हितं राम सुतार्थक्षयदं मतम् ॥
अष्टहस्तोच्छ्रयादूर्ध्वं भूमिकां तु न कारयेत्
वास्तूच्छ्रायं न कर्तव्यं तथा हस्तशताधिकम् ॥
आरम्भं सशिलान्यासं द्वारस्तम्भोच्छ्रयावुभौ
तथारोहणनिष्पत्ती तथा वास्तुप्रवेशनम् ॥
सर्वाण्येतानि कार्याणि दिवसे राम पूजिते
शेषेष्वेतेषु कर्तव्यं देवब्राह्मणपूजनम् ॥
कालज्ञपूजनं चैव स्थपतीनां च भार्गव
प्रावृट्काले न कर्तव्यं वास्तुकर्म विजानता॥
कृष्णपक्षत्रिभागान्ते शुक्लाद्ये च भृगूत्तम
तिथिं चतुर्थी नवमीं वर्जयेच्च चतुर्दशीम् ॥
अङ्गारकदिनं राम करणं विष्टिसंज्ञितम्
दिव्यान्तरिक्षक्षितिजैरुत्पातैर्भं च पीडितम् ॥
ग्रहोपस्पृष्टं च तथा व्यतीपातहतं च यत्
चन्द्रतारानुकूले भे वास्तुकार्यं विजानता ॥
ध्रुवाणि तानि शस्तानि शाक्रं वै नैरृतं तथा
सौम्यं च वैष्णवं पुष्यं पौष्णं सावित्रमेव च ॥
स्थिरलग्ने स्थिरांशे च कर्तुश्चोपचयात्मके
यस्य सौम्यग्रहाः केन्द्रे त्रिकोणे चापि भार्गव ॥
पापाश्चोपचयस्थाने तस्मिन्कार्यं प्रवेशनम्
केन्द्रस्थं वर्जयेत्पापं सर्वयत्नेन कर्मसु ॥
केन्द्रं सौम्ययुतं देवं न तु शून्यं कदाचन
अतः परं प्रवक्ष्यामि शिलान्यासविधिं तव ॥
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम्
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज ॥
श्रियः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ
पूजनं मण्डले कार्यं वास्तुदेवगणस्य च ॥
गन्धार्धपुष्प नैवेद्यधूपदीपैर्भृगूत्तम
तेषां सम्पूजनं कृत्वा समादाय हुताशनम् ॥
ओंकारपूर्वमाज्यं तु जुहुयाच्छ्रीधरस्य तु
श्रियः कृत्वा ततो होमं ब्रह्मणः कारयेत्ततः ॥
ब्रह्माणं तु पुरस्कृत्य वास्तुदेवगणस्य च
होतव्यमाज्यं धर्मज्ञ यस्य देवस्य हूयते ॥
तत्कालमाशु भजते लक्षणेग्नौ द्विजोत्तम
तस्य देवस्य यत्स्थानं तत्र शल्यं विनिर्दिशेत् ॥
शल्यस्योद्धरणं कार्यं राम यत्नेन जानता
मध्ये शैलमयं कुम्भं शंकुं च स्थापयेद्बुधः ॥
ऐशाने च ततः कोणे शिलां पूर्वं प्रतिष्ठयेत्
प्रदक्षिणं ततो राम शिलान्यासं विधीयते ॥
कुम्भस्य च शिलानां च ततः स्नानं विधीयते
वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ॥
ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना
आच्छादनं ततः कार्यं वासोभिः कुसुमैः शुभैः ॥
धूपं प्रदीपं नैवेद्यं तेषां राम निवेदयेत्
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ॥
कालवित्स्थपती पूज्यौ ततो राम विजानता
ततो मन्त्रं जपेत्कर्ता कालज्ञः स्थपतिः स्वयम् ॥
गृहं पुष्टिकरं राम मुनिवक्त्राद्विनिस्सृतम्
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥
जये जयावहे देवि प्रजानां जयमावह
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम ॥
भद्रे कश्यपदायादे कुरु भद्रां मतिं मम
सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते ॥
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह
प्रजापतिसुते देवि चतुरग्रे महीमये ॥
सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यताम्
पूजिते परमाचायैर्गन्धमाल्यैरलंकृते ॥
भवभूतिकरी देवि गृहं भार्गवि रम्यताम्
अव्यङ्गे चाकृते पूर्णे सुनेत्र्यङ्गिरसः सुते ॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम्
देशस्वामिपुरस्वामिगृहस्वामिगृहे वस ॥
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव
गृहप्रवेशेऽपि तथा शिलान्याससमो विधिः ॥
कर्तव्यः सकलो राम शिलान्यासविवर्जितः
पूजितापरलक्ष्मीकं हुत्वाग्निं चाप्यलंकृतम् ॥
पञ्चरङ्गेन सूत्रेण बद्धप्रतिसरं तथा
सफलेषु च बाणेषु दिशासु विदिशासु च ॥
गवाक्षकेषु कर्तव्याश्चक्रा रक्षोहणास्तथा
सर्वस्यास्य तथा न्यासं मन्त्रै रक्षोहणैर्भवेत् ॥
गोपृष्ठविन्यस्तकरः प्रविशेच्च गृही गृहम्
स्वऽनुलिप्तस्सुखी स्रग्वी सपत्नीकस्तथैव च ॥
द्विजपुण्याहघोषेण वीणावेणुरवेण च ॥
बन्दिनां च निनादेन पटहानां स्वनेन च
काले शुभे कालविदा प्रदिष्टे सतोरणं पूर्णघटाभिरामम् ॥
प्रविश्य कालज्ञसमर्चितानां कृत्वार्चनं तत्र सुरोत्तमानाम्
सम्पूज्य वह्निं द्विजपुङ्गवांश्च माङ्गल्यमालभ्य च भोजयित्वा ॥
विप्रान्मधुक्षीरघृतोत्कटान्नैः सदक्षिणांस्तांश्च तथा विसर्ज्य
सप्ताहमग्निं परिचर्य तत्र सम्पूज्य विप्रान्विधिवच्च राम ॥
गृहे वसेत्पूजितदेवविप्रे शुचौ सदा सर्वगुणोपपन्ने
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु वास्तुविद्यावर्णनन्नामैकोनत्रिंशत्तमोऽध्यायः
2.30
॥ पुष्कर उवाच ॥ ॥
उत्तरेण शुभः प्लक्षो वटः प्राग्भार्गवोत्तम ॥
उदुम्बरश्च याम्येन सौम्येनाश्वत्थ एव च
एते क्रमेण नेष्यन्ति दक्षिणादिसमुद्भवाः ॥
समीपजाताश्च तथा वर्ज्याः कण्टकिनो द्रुमाः
वामभागे तथोद्यानं कुर्याद्वासगृहाच्छुभम् ॥
वापयेत्प्राक्तिलांस्तत्र मृन्दीयात्तांश्च पुष्पितान्
ततस्तु रोपयेद्वृक्षान्प्रयतः सुसमाहितः ॥
स्नातो द्रुममथाभ्यर्च्य ब्राह्मणांश्च शिवं तथा
ध्रुवाणि पञ्च वायव्यं हस्तः पुष्यः सवैष्णवः ॥
नक्षत्राणि तथा मूलं शस्यते द्रुमरोपणे ५५॥
उद्यानं सजलं राम नाभिरामं यदा तदा ॥
प्रवेशयेन्न विपट (कुरुहान् )पुष्करिण्यश्च कारयेत्
संस्कार्यमुद्भिदं तोयं कूपाः कार्याः प्रयत्नतः ॥
हस्तं मघा तथा मैत्रं सौम्यं पुष्यं च वासवम्
उत्तरात्रितयं राम तथा पूर्वा च फल्गुनी ॥
जलाशयसमारंभे प्रशस्ते वारुणं तथा
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यमेव च ॥
तर्पयित्वा द्विजान्कामैस्तदारंभकरो भवेत्
अथोद्याने प्रवक्ष्यामि प्रशस्तान्पादपान्द्विज ॥
अरिष्टाशोकपुन्नागशिरीषाम्रप्रियङ्गवः
पनसाशोकदचलीजम्बूलकुचदाडिमाः ॥
माङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा
कृत्वा बहुत्वमेतेषां रोप्यास्सर्वे ह्यनन्तरम् ॥
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम्
असनं देवदारुं च पलाशं पुष्करं तथा ॥
न विवर्ज्यस्तथा कश्चिद्देवोद्यानेषु जानता
तत्रापि बहुता कार्या माङ्गल्यानां द्विजोत्तम ॥
सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥
उत्तमं विंशतिर्हस्तं मध्यमं षोडशांतरम्
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥
अभ्याशजातास्तरवः संस्पृशन्तः परस्परम्
अव्यक्तमिश्रमूलत्वाद्भवन्ति विफला द्विज ॥
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम्
आदौ संशोधनं तेषां किञ्चिच्छस्त्रेण कारयेत् ॥
विडङ्गघृतपङ्काक्तान्सेचयेच्छीतवारिणा
फलनाशे कुलुत्थैश्च माषैर्मुद्गैस्तिलैर्यवेः ॥
श्रितशीतपयस्सेकः फलपुष्पाय सर्वदा ॥
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ॥
गोमांसमुदकं चेति सप्तरात्रं निधापयेत्
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ॥
रंगतोयोषितं बीजं रंगतोयाभिषेचितम्
उदग्रपुष्पं भवति यौवने नात्र संशयः ॥
मत्स्याम्भसा तु सिक्तेन वृद्धिर्भवति शाखिनाम्
ततः प्रधानतो वक्ष्ये द्रुमाणां दोहदान्यहम् ॥
मत्स्योदकेन शीतेन चाम्राणां सेक इष्यते
मृद्वीकानां तथा कार्यस्तेनैवं रिपुसूदन ॥
पक्वासृग्रुधिरं चैव दाडिमानां प्रशस्यते
तुषं देयं च भव्यानां मद्यं च बकुलद्रुमे ॥
विशेषात्कामिनीवक्त्रसंसर्गात्तु गुणं च यत्
प्रशस्तं चाप्यशोकानां कामिनीपादताडनम् ॥
सृगालमांसतोयं च नारङ्गाक्षोटयोर्हितम्
मधुयष्ट्युदकं चैव बदराणां प्रशस्यते ॥
गन्धोदकं च गोमांसं कतकानां प्रशस्यते
क्षीरसेकेन भवति सप्तपर्णो मनोहरः ॥
मांसपूतो वसामज्जासेकः कुरबके हितः
पूतिमत्स्यघृतं पूतिकर्पासाफलमेव च ॥
अरिमेदस्य सेकोऽयं पाटलेषु च शस्यते
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् ॥
जातीनां मल्लिकायाश्च गन्धतोयं परं हितम्
तथा कुब्जकजातीनां कूर्ममांसं प्रशस्यते ॥
खर्जूरनारिकेराणां वंशस्य कदलस्य च
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः ॥
विडङ्गः तण्डुलोपेतं मत्स्यमांसं भृगूत्तम ॥
सर्वेषामविशेषेण दोहदं परिकल्पयेत
एवङ्कृते चारुपलाशपुष्पाः सुगन्धिनो व्याधिविवर्जिताश्च ॥
भवन्ति नित्यं तरवः सरस्याश्चिरायुषः साधुफलान्विताश्च
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वृक्षायुर्वेदवर्णनं नाम त्रिंशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0