विष्णुधर्मोत्तरपुराणम् · अध्याय 2.21.25
2.21
॥ पुष्कर उवाच ॥ ॥
स्नानं समाचरेद्राज्ञो होमकाले पुरोहितः ॥
आदौ तु स्वेच्छया स्नातः पुनर्मृद्भिः समाचरेत्
पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः ॥
वल्मीकाग्रमृदा कर्णौ चन्दनैः केशबालकान्
चन्द्रालयमृदा ग्रीवां हृदयं तु नृपाजिरात् ॥
करिदन्तोद्धृतमृदा दक्षिणं तु तथा भुजम्
वृषशृङ्गोद्धृतमृदा वामं चैव तदा भुजम्
सरोमृदा तथा पृष्ठं चोदरं साङ्गमे मृदा ॥
नदीकूलद्वयमृदा पार्श्वे संशोधयेत्तथा
अश्वस्थानात्तथा जंघे राजा संशोधयेद्बुधः ॥
रथचक्रोद्धृतमृदा तथैव च करद्वयम्
मृत्स्नातः स्नपनीयः स्यात्पञ्चगव्यजलेन तु ॥
ततो भद्रासनगतं मुख्यामात्यचतुष्टयम्
वर्णप्रधानं भूपालमभिषिञ्चेद्यथाविधि ॥
पूर्वतो हेभकुम्भेन घृतपूर्णेन ब्राह्मणः
रूप्यकुम्भेन याम्येन क्षीरपूर्णेन क्षत्रियः ॥
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतो द्विज
माहेयेन जलेनो दक्शूद्रामात्योऽभिषेचयेत् ॥
ततोऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः
कुर्वीत मधुना राम च्छन्दोगश्च कुशोदकैः ॥
सम्पातवन्तं कलशं तथा नुत्वा पुरोहितः
विधाय वह्निरक्षां तु सदस्येषु यथाविधि ॥
राजसूयाभिषेके तु ये मन्त्राः परिकीर्तिताः
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनेन तु ॥
ततः पुरोहितो गच्छेद्वेदिमूलं तदैव तु
विभूषितं तु राजानं सर्वतोभद्र आसने ॥
शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि
अभिषिञ्चति धर्मज्ञ यजुर्वेदविशारदः ॥
या ओषधीरौषधीभिः सर्वाभिः सुसमाहितः
रथे अक्षेति गन्धैश्च आब्रह्मन्ब्रह्मणेति च ॥
बीजैः पुष्पैस्तथा चैनं राम पुष्पवतीति च
तेनैव चाभिमन्त्रेण फलैस्तमभिषेचयेत् ॥
आशुः शिशान इत्येव सर्वरत्नैश्च भार्गव
ये देवाः पुरस्सदेति कुशाभिः परिमार्जयेत् ॥
ऋग्वेदक्रतुतो राज्ञे रोचनाया यथाविधि
मूर्धानं च तथा कण्ठे गन्धद्वारेति संस्पृशेत् ॥
ततो ब्राह्मणमुख्याश्च क्षत्त्रियाश्च विशस्तथा
शूद्राश्च वारमुख्याश्च नानातीर्थसमुद्भवैः ॥
नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः
चतुस्सागरजैर्लाभादलाभाद्द्विजकल्पितैः ॥
गङ्गायमुनयोश्चैव निर्झरैश्च तथोद्भिजैः
छत्रपाणिर्भवेत्कश्चित्केचिश्चामरपाणयः ॥
अमात्यमुख्यास्तं कालं केचिद्वेत्रकरास्तथा
शंखभेरीनिनादेन बन्दीनां निस्वनेन च ॥
गीतवादित्रघोषेण द्विजकोलाहलेन च ॥
राजानमभिषिञ्चेयुस्समेत्य सहिता जनाः ॥
सर्वैः स्तुतोऽभिषिक्तश्च संमिश्रजलमिश्रितम्
सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा ॥
रत्नबीजसमायुक्तं फलबीजयुतं तथा
ऊर्जितं सितसूत्रेण वेष्टितग्रीवमेव च ॥
श्वेतवस्त्राम्रपत्रैश्च संवीतं सुविभूषितम् ॥
क्षीरवृक्षलताछत्रं सुदृढं कांचनं नवम् ॥
आदाय कलशं राज्ञा स्वयं सांवत्सरस्तथा
मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह ॥
ततः पश्येन्मुखं राजा दर्पणे चाथ सर्पिषि
सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः ॥
कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा
लोकपालान्ग्रहांश्चैव नक्षत्राणि च भार्गव ॥
ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥
व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् ॥
पुरोधा मधुपर्केण तत्रस्थं तं समर्चयेत्
राजा चैवार्चयेत्तत्र सांवत्सरपुरोहितौ ॥
मधुपर्केण धर्मज्ञस्ततस्तस्य सदैव हि
पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् ॥
ततः स बद्धमुकुटः काले पूर्वं मयेरितम्
परार्ध्यास्तरणोपेते पञ्चचर्मोत्तरच्छदे ॥
ध्रुवा द्यौ इति मन्त्रेण सोपवेश्य पुरोधसा
वृकस्य वृषदंशस्य द्वीपिनश्च भृगूत्तम ॥
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम्
तत्रोपविष्टस्य ततः प्रतीहारः प्रदर्शयेत् ॥
अमात्यांश्च तथा पौरान्नैगमांश्च वणिग्वरान्
ततः प्रकृतयश्चान्या यथावदनुपूर्वशः ॥
ततो ग्रहावरास्त्रेभतुरङ्गकनकोत्तमैः
गोजाविग्रहदानैश्च सांवत्सरपुरोहितौ ॥
पूजयित्वा ततः पश्चात्पूजयेद्ब्राह्मणत्रयम्
अनेनैव विधानेन येन राजाभिषेचितः ॥
ततस्त्वमात्यान्संपूज्य सांवत्सरपुरोधसः
ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् ॥
गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥
मोदकाक्षतपुष्पैश्च महीदानैश्च पार्थिवः ॥
मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः
वह्निं प्रदक्षिणीकृत्य प्रणिपत्य तथा गुरुम् ॥
पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव
पूजयित्वा च तुरगं मन्त्रितं चाभिषेचितम् ॥
मन्त्रितं दक्षिणे कर्णे स्वयं वेदविदा ततः
आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् ॥
मुख्यामात्यैश्च सामन्तैः सांवत्सरपुरोहितैः
सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः ॥
तासां संपूजनं कृत्वा नगरे या निवेशिताः
प्रविशेत गृहं राजा प्रहृष्टनरवाहनः ॥
दानमानानि सत्कारैर्गृह्णीयात्प्रकृतीस्ततः
संपूजितास्तास्तु विसर्जयित्वा गृहे स्वके स्यान्मुदितो महात्मा ॥
विधानमेतत्समवाप्य राजा कृत्स्नां स पृथ्वीं वशगां हि कुर्यात्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे राज्याभिषेकविधिर्नामैकविंशतितमोऽध्यायः
2.22
राम उवाच ॥
मंत्रेण येन धर्मज्ञ कुर्याद्राज्ञोऽभिषेचनम् ॥
तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन
॥ पुष्कर उवाच ॥
शृणुष्वाव हितो मन्त्रं राम कल्मषनाशनम् ॥
येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति
राज्ञोऽभिषेकशब्दान्ते दैववित्कुशवारिणा ॥
कुम्भादभ्युक्षणं कुर्यान्मन्त्रान्ते सकलं न्यसेत्
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः
प्रद्युम्नश्चानिरुद्धस्तु भवन्तु विजयाय ते ॥
आखण्डलोग्निर्भगवान्यमो वै नैरृतिस्तथा
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा
भद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च पार्थिव ॥
भृगुरत्रिर्वसिष्ठश्च सनकश्च सनन्दनः
सनत्कुमारश्च तथा भगवानपि चाङ्गिरा ॥
पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः
एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः ॥
प्रभासुरा बर्हिषदो ह्यग्निष्वात्तास्तथैव च
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥
एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह
लक्ष्मीर्देवी सती ख्यातिरनसूया तथा स्मृतिः ॥
संभूतिस्सन्नतिश्चैव क्षमा प्रीतिस्तथैव च
स्वाहा स्वधा च त्वा राजन्नभिषिञ्चन्तु मातरः ॥
कीर्तिलक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिश्च पार्थिव ॥
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः
अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती ॥
संकल्पा च मुहूर्ता च साध्या विश्वास्तथैव च
धर्मपत्न्यस्तथान्यास्त्वामभिषिञ्चन्तु पार्थिव ॥
अदितिश्च दितिस्ताम्रा ह्यरिष्टा सुरसा मुनिः ॥
कद्रूः क्रोधवशा प्राधा विनता सुरभिस्त्रिभिः ॥
एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः
पत्नी ते बहुपुत्रस्य सुप्रभा या च भामिनी ॥
समायात्वभिषेकाय विजयाय च पार्थिव
कृशाश्वपत्नी च तथा सुप्रभा च जया तथा ॥
अस्त्रग्रामस्तयोः पुत्रो विजयं विदधातु ते
मनोरमा भानुमती विशाला या च बाहुदा ॥
अरिष्टनेमी पत्न्यस्त्वामभिषिञ्चन्तु पार्थिव
कृत्तिका रोहिणी दैवी इल्वला बाहुरेव च ॥
पुनर्वसुश्च तिष्यश्च तथाश्लेषा च पार्थिव
मघा च फाल्गुनी पूर्वा तथैवोत्तरफाल्गुनी ॥
हस्तश्चित्रा तथा स्वातिर्विशाखा च नराधिप
अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप ॥
आषाढा च तथा पूर्वा तथैव नृप चोत्तरा
अभिजिच्च तथाश्वत्थो धनिष्ठा च नराधिप ॥
तथा शतभिषक्चैव पूर्वाभाद्रपदा च या
उत्तरा रेवती राजन्नश्विनी भरणी तथा ॥
एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः
मृगी च मृगमन्दा च श्वेता भद्रासना हरिः ॥
भूता च कपिशा दंष्ट्री सुरसा सरमा तथा
एताः पुलहपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा
पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः ॥
आयतिर्नियतिश्चैव रात्रिर्निद्रा तथैव च
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ॥
उमा मेना शची चैव घ्रूम्रोर्णा निवृतिस्तथा
गौरी शिवा च सिद्धिश्च वेला चैवाथ नड्वला ॥
असिक्नी च तथा ज्योत्स्ना या च देवी वनस्पतेः
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च
संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ॥
ऋतवश्च तथा मासाः पक्षौ रात्र्यहनी तथा
संध्याश्च तिथयश्चैव मुहूर्ताः करणानि च ॥
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः
आदित्यश्चन्द्रमा भौमो बुधो जीवः सितार्कजौ ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव
स्वायम्भुवो मनुः पूर्वमनुः स्वारोचिषस्तथा ॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा
वैवस्वतो यथाकर्णो दक्षो ब्रह्मसुतावुभौ ॥
धर्मपुत्रो रुद्रपुत्रो रोच्यो भौत्यश्च यो मनुः
एते त्वामभिषिञ्चन्तु मनवश्च चतुर्दश ॥
विश्वभुक्च विपश्चिच्च सुशान्तिश्च शिखी विभुः
मनोजवस्तथोजस्वी बहिरद्भुतशान्तिकौ ॥
वृषश्च ऋतधामा च दिवस्पाच्छुचिरेव च
एते त्वामभिषिञ्चन्तु देवनाथाश्चतुर्दश ॥
रैवतश्च कुमारश्च तथा वर्चाविनायकः ॥
वीरभद्रश्च नन्दी च विश्वकर्मा मनोजवः ॥
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः
आत्मा चायुर्मनोदक्षो ह्यापः प्राणस्तथैव च॥
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च पार्थिव
अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसा दश ॥
क्रतुर्दक्षो वसुस्सत्यः कालः कामो मुनिस्तथा॥
कुरवोन्मनुजश्चैव रोचमानस्तथैव च ॥
एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश
अङ्गारकस्तथा सर्पो निरृतिश्च तथा घसः ॥
अजैकपादहिर्बुध्न्यो धूमकेतुस्तथा द्विजः
भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः ॥
एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा ॥
क्रतुः सर्वश्च मूर्धा च त्याज्यश्चैव स्तुतस्तथा
प्रसवश्चाव्ययश्चैव दक्षश्च मनुजाधिप ॥
एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः
मनो मन्ता च प्राणश्च नरोऽपानश्च वीर्यवान् ॥
विनिर्भयो नयश्चैव हंसो नारायणस्तथा
विभुश्चापि प्रभुश्चापि देवश्रेष्ठा जगद्धिताः ॥
एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव
धाता मित्रोऽर्यमा पूषा शक्रेशौ वरुणो भगः ॥
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशमस्तथा
एते त्वामभिषिञ्चन्तु कश्यपादितिसम्भवाः ॥
एकज्योतिश्च द्विज्योतिस्त्रिचतुर्ज्योतिरेव च॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥
इन्द्राश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तया
मितश्च सम्मितश्चैव अमितश्च महाबलः ॥
ऋतजित्सत्यजिच्चैव सुषेणः सत्यजित्तथा
अतिमित्रो नमित्रश्च पुरुमित्रः पुरानितः ॥
ऋतश्च ऋतधाता च विधाता धारणो ध्रुवः
विधारणो महातेजा वासवस्य परः सखा ॥
ईदृक्षश्चाप्यदृक्षश्च एतादृगमिताशनः
क्रीतिनः प्रसदृक्षश्च सरभश्च महा यशाः ॥
धातुरुग्रोध्वनिर्भीमो ह्यतियुक्तः क्षिपः सहः
द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥
एते त्वामभिषिञ्चन्तु मरुतस्ते समा गताः
देवा एकोनपञ्चाशन्महाबलपराक्रमाः ॥
चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान्
ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥
धृतराष्ट्रश्च गोपश्च सूर्यावर्तस्तथैव च
युगपस्त्रणयः कार्ष्णिर्नंदश्चित्रस्तथैव च ॥
कलिः शालिः शिरा राजन्पर्जन्यो नारदस्तथा
वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥
विश्वावसुस्तुम्बुरुश्च तथा च सुरुचिश्च यः
एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥
आहुत्यस्ता भवत्यश्च वर्गवत्यस्तथैव च
आयुर्वत्यस्तथोर्जाश्च तथा वै कुरवाः स्तवाः ॥
बह्वायुश्चामृतायुश्च भुवश्चैव रुचस्तथा
भीरवः शोभयंत्यश्च दिव्या याश्चाप्सरोगणाः ॥
एते त्वामभिषिञ्चन्तु समागत्य महीपते
अनवद्या सत्यकामा चानूना वरुणा प्रिया ॥
अनूपा सुभगा चैव सुकेशा च मनोवती
मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥
कृतस्थला घृताची च विश्वाची पूर्वचित्यपि
प्रम्लोचा चाप्यनुम्लोचा रंभा चैवोर्वशी तथा ॥
पञ्चचूडा सानुमती चित्रलेखा च पार्थिव
मिश्रकेशी मरीचिश्च विद्युत्पर्णा तिलोत्तमा ॥
अद्रिका लक्ष्मणा क्षेपा असिता रुचिका तथा
सुहेमा चाथ हेमा च शाड्वली च वपुस्तथा ॥
सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा
पुण्डरीका सुदाना चासुदाना सुरसा तथा ॥
हेमा शारद्वती चैव सूनृता कमलालया
सुमुखी हंसपादी च वारुणी रतिलालसा ॥
एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः
प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥
बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः॥॥।
अभिषिञ्चन्तु दैत्यास्त्वां दिव्येनाप्यम्भसा स्वयम् ॥
विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः
अभिषिञ्चन्तु राजेन्द्र राजराज्येन सत्वराः ॥
हेतिश्चैव प्रहेतिश्च माली शङ्कुस्तथैव च
सुकेशी पौरुषेयश्च यज्ञहा पुरुषाधमः ॥
विद्युत्स्फूर्जस्तथा व्याघ्रो वधश्च रसनस्तथा
एते त्वामभिषिञ्चन्तु समागम्याद्य राक्षसाः ॥
सिद्धार्थो मणिभद्रश्च सुमनो नन्दनस्तथा
काण्डभिः पञ्चमश्चैव मणिमानुयमाँस्तथा ॥
सर्वानुभूतः शंखश्च पिङ्गाक्षश्चस्तरस्तथा
यशो मन्दरशोभी च पद्मचन्द्रप्रभङ्कराः ॥
मेघवर्णः सुभद्रश्च प्रद्योतश्च महाघसः
द्युतिमान्केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥
श्वेतश्च विपुलश्चैव पुष्पदन्तो जयावहः
पद्मवर्णो बलाकश्च कुमुदश्च बलाहकः ॥
पद्मनाभः सुगन्धश्च प्रवीरो विजयः कृतिः
पूर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥
एते त्वामभिषिञ्चन्तु राजन्यक्षेन्द्र सत्तमाः
शंखपद्मस्तु राजेन्द्र मकरः कच्छपस्तथा ॥
एते त्वामभिषिञ्चन्तु निधयस्तु समागताः
पलगाश्चैव वक्राश्च ये च सूचीमुखा नृप ॥
दुःपूरणा विषादाश्च ज्वलनाङ्गारकास्तथा
कुम्भपाताः प्रतुण्डाश्च तपवीरा उलूखलाः ॥
अकर्णाश्च कुषण्डाश्च तथा ये पात्र पाणयः
पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा ॥
एते त्वामभिषिञ्चन्तु पिशाचानाञ्च जातयः
ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शिनः ॥
नानाप्रकारवदना नानाबाहुशिरोधराः
चतुष्पथपुराट्टालशून्यालयनिकेतनाः ॥
मधुरत्वे भवेदेवं ये गता मनुजेश्वराः
ते त्वामद्याभिषिञ्चन्तु भूता भूतपतेः स्वयम् ॥
महाकालं पुरस्कृत्य नरसिंहं च मातरः
सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥
गुहः स्कन्दो विशाखश्च नैगमेयस्तथैव च
अभिषिञ्चन्तु राजँस्त्वां सर्वे स्कन्दग्रहाः शुभाः ॥
डाकिन्यो याश्च योगिन्यः खेचरीभूचरीश्च याः
सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥
गरुडश्चारुणश्चैव आरुणिश्च महाखगः
संपाती विनतश्चैव विष्णुगन्धः कुमारकः ॥
एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते
अनन्तश्च महानागः शेषो वासुकितक्षकौ ॥
सपर्णीरश्च कुम्भश्च वामनश्चाञ्जनस्तथा
ऐरावतो महानागः कम्बलाश्वतरावुभौ ॥
ऐलमन्त्रश्च शंखश्च कर्कोटकधनञ्जयौ
महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ॥
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा
सूचीमुखो दधिमुखः कालियः शालिपिण्डकः ॥
बिल्वपादः पाण्डुरको नागश्चापूरणस्तथा
कपिलश्चाम्बरीषश्च कुमारश्चाथ कश्यपः ॥
प्रह्रादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः
नहुषः खररोमा च शंखपालस्तथैव च ॥
पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः
नागास्त्वामभिषिञ्चन्तु राजराज्येन पार्थिव ॥
कुमुदैरावणौ पद्मः पुष्प दन्तोऽथ वामनः
सुप्रतीकोञ्जनो नीलः पान्तु त्वां सर्वतः सदा ॥
चक्रं त्रिशूलं वज्रश्च नन्दकोस्त्राणि चाप्यथ
पैतामहास्तथा हंसा वृषभः शङ्करस्य च ॥
दुर्गासिंहश्च पान्तु त्वां यमस्य महिषस्तथा
उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ॥
कौस्तुभः शंखराजश्च पान्तु त्वां सर्वतः सदा
सर्वेऽभिषेकं दत्त्वा ते दिशन्तु विजयं धुवम् ॥
धर्मश्च व्यवसायश्च सत्यो दानं तपस्तथा
यमो यज्ञस्तथा वायुर्ब्रह्मचर्य दमः शमः ॥
एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव
दण्डश्च पिङ्गलश्चैव मृत्युकालावुभौ तथा ॥
वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते
दिग्धेनवश्चतस्रस्त्वां सुराभिश्च तथा नृप ॥
अभिषिञ्चन्तु सर्वाभिर्गोभिः सार्धं नरेश्वर
वेदव्यासश्च वाल्मीकिः कमठोऽथ पराशरः ॥
देवलः पर्वतश्चैव दुर्वासाश्च तथा मुनिः
याज्ञवल्क्यश्च जाबालिः जमदग्निः शुचिश्रवाः ॥
विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः
एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥
शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः
बृहदश्वः कुटिशठो जटाजानुर्घटोदरः ॥
यवक्रीतोऽर्थरैत्यश्च आत्मवानथ जैमिनिः
ऋषिः शार्ङ्गरवश्चैव तथागस्त्यो महातपाः ॥
उन्मुवुर्मुमुवुश्चैव इध्मबाहुर्महोदयः
कात्यायनश्च कण्वश्च वल्वकाम्बोरुनन्दनः ॥
एते त्वामभिषिञ्चन्तु ऋषयः पार्थिवोत्तम
पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्बली ॥
मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः
मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥
आयुश्च नहुषश्चैव ययातिरपराजितः
इक्ष्वाकुश्च यदुश्चैव पुनर्भूरिश्रवास्तथा ॥
अम्बरीषश्च नाभागो बृहदश्वो महाहनुः
प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः ॥
एते चान्ये च राजानस्तव राजन्दिवङ्गताः
समायान्त्वभिषेकाय विजयाय तथा श्रिये ॥
पर्जन्याद्यास्तथा सर्वे वास्तुदेवास्समासतः
द्रुमाश्चौषधयो रत्नबीजानि विविधानि च ॥
सर्वे त्वामभिषिञ्चन्तु राजन्राज्येन सत्वराः
पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च ॥
पृथिवीवायुराकाशमापो ज्योतिस्तथैव च
मनोबुद्धिस्तथैवात्मा अव्यक्तश्च महीपते ॥
एते त्वामभिषिञ्चन्तु समेता वसुधाधिप
रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः ॥
पीतो रक्तक्षितिश्चैव श्वेतभौमस्तथैव च
एते त्वामभिषिञ्चन्तु विजयाय महीपते ॥
भूलोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महज्जनः
तपः सत्यश्च राजेन्द्र विजयाय भवन्तु ते ॥
जम्बूशाककुशक्रौञ्चाः शाल्मलिद्वीप एव च
गोमेधः पुष्करश्चैव स्वसाम्यं प्रदिशन्तु ते ॥
उत्तराः कुरवः पुण्या रम्या हैरण्वतस्तथा
भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ॥
हरिवर्षः किंपुरुषो वर्षो भारतसंज्ञिकः
एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥
इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान्
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥
अयं चरुवसस्तेषां स्वसाम्यं प्रदिशन्तु ते
हिमवान्हेमकूटश्च निषधो नीलपर्वतः ॥
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥
विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः
समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप! ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च
अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥
इतिहासो धनुर्वेदो गन्धर्वश्चायुस्संज्ञितः
वेदोपवेदाश्च तथा विजयाय भवन्तु ते ॥
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः
छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
धर्मशास्त्रं पुराणञ्च विद्या एताश्चतुर्दश ॥
सांख्ययोगः पञ्चरात्रं वेदाः पाशुपतं तथा
कृतान्नपञ्चकं ह्येतच्छास्त्राणि विविधानि च ॥
गायत्री पापशमनी दुर्गा देवी महाशिवा
गन्धारी च तथा विद्या विजयं प्रदिशन्तु ते ॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः
ऋषयो मनवो गावो देवमातर एव च ॥
देवपत्न्यो द्रुमा नागाः दैत्याश्चाप्सरसाङ्गणाः
शस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥
औषधानि च रत्नानि कालस्यावयवास्तथा
स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥
जीमूतानि च सर्वाणि तद्विकाराश्च ये तथा
उक्तानि चाप्यऽनुक्तानि विजयाय भवन्तु ते ॥
लवणः क्षारतोयश्च घृतमण्डोदकस्तथा
दधिमण्डोदकश्चैव सुरोदश्च नराधिप ॥
तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः
गर्भोदश्च स्वतोयैस्त्वामभिषिञ्चन्तु पार्थिव ॥
चत्वारस्सागराश्चैव स्वेन तोयेन पार्थिव
समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते ॥
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा
तथा ब्रह्मसरः पुण्यं गयाशीर्षं च पार्थिव ॥
कालोदको नन्दिकुण्डः तथैवोत्तरमानसः
स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः ॥
भृगुतीर्थं चौजसश्च तथैवामरकण्टकः
आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः॥
गोपतीर्थं चापतीर्थं विमलः स्वर्ग एव च
जम्बूमार्गश्च राजेन्द्र पुण्यस्तण्डुलिकाश्रमः ॥
कपिलस्य तथा तीर्थं तीर्थे वाटिकषण्डिके
महासरस्तथागस्त्यः कुमारी तीर्थ एव च ॥
गङ्गातीरः कुशावर्तो बिल्वको नीलपर्वतः
वराहपर्वतश्चैव तीर्थः कनखलस्तथा ॥
स्वर्गन्धा वशकुम्भा च तथा शाकम्भरी च या
भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमम्
चमसोद्भेदनः पुण्यस्तथा विनशनः शुभः ॥
अजतुङ्गश्च सोमश्च अजोगन्धश्च पार्थिव ॥
कालिञ्जरश्च केदारो रुद्रकोटिस्तथैव च
महालग्नश्च राजेन्द्र वदनाश्रम एव च ॥
नन्दा च सूर्यतीर्थं च सोमतीर्थं शतक्रतोः
अश्विनोर्वरुणस्यापि वायोवैर्श्रवणस्य च ॥
ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य च
विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप ॥
ऋषीणां च वसूनां च साध्यानां मरुतां तथा
आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप ॥
विश्वेदेवभृगूणां च गन्धर्वाणां च मानद
प्लक्षप्रस्रवणश्चैव सुषेणश्च नराधिप ॥
शालिग्रामसरश्चैव वाराहो वामनस्तथा
कामश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च ॥
सप्तर्चः क्रतुसारश्च तथा विष्णुपदं सरः
कपिलस्य तथा तीर्थं वासुकेस्तीर्थमेव च ॥
सिन्धूत्तमं तपो दानं तथा शूर्पाकरः शुभः
पौण्डीरकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥
सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः
तथा कुन्दावसुन्धश्च मानसं च महत्सरः ॥
तथा बिन्दुसरः पुण्यं सरश्चाच्छोदकं तथा
धर्मारण्यं फल्गुतीर्थं सविमुक्तं तथैव च ॥
लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः
तीर्थं सप्तऋषीणां च वह्नितीर्थं च पार्थिव ॥
वस्त्रापथस्ततो मेषश्छागलेशश्च पार्थिव ॥
पुष्पन्यासस्सकामेशस्तीर्थो हंसपदस्तथा ॥
अश्वशीर्षः स कृष्णाख्यो मणिभद्रस्तथैव च
देविका सिन्धुमार्गश्च स्वर्णबिन्दुस्तथैव च ॥
आहल्यकस्तथा तीर्थस्तीर्थश्चैरावतस्तथा
ऐरावतिसमुद्भेदे तीर्थं भोगयशस्तथा ॥
करवीराश्रमश्चैव नागमोदानिकस्तथा
पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥
उद्वेजनस्तथा पुण्यः पुण्यश्च हरिशेश्वरः
देवब्रह्मसरः पुण्यं सर्पिर्दर्वी च पार्थिव ॥
एते चान्ये च बहवः पुण्यसङ्कीर्तनाः शुभाः
तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥
गङ्गा महानदी पुण्या ह्रादिनी ह्लादिनी तथा ॥
पावनी च तथा सीता चक्षुः सिन्धुश्च नर्मदा ॥
सुप्रभा कातराक्षी च शिथिला मानसी ह्रदा
सरस्वत्योघनादा च सुवेणुर्विमलोदका ॥
सिप्रा शोणः शतद्रुश्च सरयूर्गण्डकी तथा
अच्छोदा च विपाशा च चन्द्रभागा इरावती ॥
वितस्ता देविका रम्भा पीता देवह्रदा शिवा
तथैवेक्षुमती पुण्या कौशिकी यमुना तथा ॥
गोमती धूतपापा च बाहुदा च दृषद्वती
निःशीरा च तृतीया च लौहित्यश्च महानदः ॥
वेदस्मृतिर्वेदसिनी वेत्रघ्नी वरदा तथा
वर्णा मा चन्दना चैव बहुनीरा कुमुद्वती ॥
पारा चर्मण्वती रूपा विदिशा वेणुवत्यपि
अवन्ती च तथा कुन्ती सुरसा च पलाशिनी ॥
मन्दाकिनी दशार्णा च चित्रकूटा दृषद्वती ॥
तमसा पिप्पला सेनी करमोदा पिशाचिका ॥
चित्रोपला चित्त्रवर्णा मंजुला वालुकावती
शुक्तीमती सिली रन्ध्रा सङ्कुणात्ययकाप्ततः ॥
तापी पयोष्णी निर्विन्ध्या सिता च निषधावती
वेणा वैतरणी भीमा चर्मा रामा तथा कुहुः ॥
तोया चैव महागौरी दुर्गा मतुशिला तथा
गोदावरी भीमरथी कृष्णा वेणा च वंजुला ॥
तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च
कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती ॥
त्रिसमा ऋषिकुल्या च पृथुका त्रिदिवालया
लाङ्गूलिनी वंशधरा सुकुमारा कुलावती ॥
ऋषिका करिवेगा च मन्दगा मन्दवाहिनी
कृपी दर्वी दया व्योमा परोष्णी कोलवाहिनी ॥
कम्पना च विशल्या च करतोयांशुवाहिनी
ताम्रारुणा वेत्रवती गोमती चाथ नद्यपि ॥
अद्रिणी त्रिकसा चैव सुप्रकारा हिरण्वती
आपगा चालका भासी सन्ध्या च मडवा नदी ॥
नन्दा चालकनन्दा च शुद्धा च वसुवाहिनी
एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विमलोदकाः ॥
सर्वपापप्रशमनास्सर्वलोकस्य मातरः ॥
स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव
एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् ॥
ससागरां भुंक्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० भार्गवरामं प्रति पुष्करव्याख्यानेऽभिषेकमन्त्रो नाम द्वाविंशतितमोऽध्यायः
2.23
पुष्कर उवाच ॥
मन्त्रा ये कीर्तिता राम मयास्मिंस्तव भार्गव ॥
तेषां संकीर्तनं धन्यं सर्वपापप्रणाशनम्
ऐतेषां कल्यमुत्थाय यः कुर्यात्कीर्तनं नरः ॥
सर्वपापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्
तिर्यग्योनिं न गच्छेत्तु नरकं संकराणि च ॥
न च दुःखं न च भयं मरणं न स च मुह्यति
एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः ॥।
न तस्य तिष्ठते पापमब्बिन्दुरिव पुष्करे
एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः ॥
महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते
एतेषां पुष्पदानेन महतीं श्रियमश्नुते ॥
एतेषां चार्घ्यदानेन पूज्यो भवति मानवः
एतेषां दीपदानेन भ्राजन्ते चन्द्रवद्दिवि ॥
एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान्
नैवेद्यं च बलिं दत्त्वा भोगान्प्राप्नोत्यनुत्तमान ॥
एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम्
संतर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् ॥
अभिषेकदिने राज्ञां पुष्पस्नाने तथैव च
तथा संवत्सरग्रन्थौ सर्वे पूज्या हितैषिणा ॥
यानि तीर्थानि चोक्तानि सरितश्च समासतः
तेषां गमेन पूज्यन्ते येऽपि पातकिनो जनाः ॥
स्नानं महाफलं तेषां तपः श्राद्ध क्रियास्तथा
दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् ॥
कीर्तनं भार्गवश्रेष्ठ न मे चास्ति विचारणा
तीर्थेष्वथैतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्र सद्यः॥
तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे तीर्थफलवर्णनो नाम त्रयोविंशतितमोध्यायः
2.24
॥ राम उवाच ॥ ॥
राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत् ॥
एतन्मे सर्वमाचक्ष्व सर्वं वेत्ति यतो भवान्
॥ पुष्कर उवाच ॥ -
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन ॥
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम्
यदप्यल्पतरं कर्म तदथैकेन दुष्करम् ॥
पुरुषेणासहायेन किन्नु राज्यं महत्पदम्
तस्मात्सहायान्वरयेत्कुलीनान्नृपतिः स्वयम् ॥
शूरानुत्तमजातीयान्बलयुक्ताञ्छ्रुतान्वितान्
रूपसत्वगुणौदार्यसंयुक्तान्क्षमया युतान्॥
क्लेशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान्
हितोपदेशिकान्प्राज्ञान्स्वामिभक्तान्यशोर्थिनः ॥
एवं विधान्सहायांस्तु शुभ कर्मणि योजयेत्
गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् ॥
कर्मस्वेव नियुञ्जीत यथायोग्येषु भार्गव
कुलीनाः शीलसंपन्ना धनुर्वेदविशारदाः ॥
हस्तिशिक्षाश्वशिक्षासु कुशलाश्श्लक्ष्णभाषितैः
निमित्ते शकुनज्ञाने वित्तवैद्यचिकित्सके ॥
पुरुषान्तरविज्ञाने षाड्गुण्येन विनिश्चिताः
कृतज्ञाः कर्मणां शूरास्तथा क्लेशसहा ऋजुः ॥
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित्
राज्ञां सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा ॥
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः
चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ॥
यथोक्तवादी धूर्त्तः स्याद्देशभाषाविशारदः
शाब्दः क्लेशसहो वाग्मी देशकालविभाषिता ॥
विज्ञाय देशं कालं वा हितं यत्स्यान्महीक्षितः
वक्तापि तस्यः यः काले स दूतो नृपतिर्भवेत् ॥
प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः
राज्ञा तु रक्षिणः कार्यास्तदा क्लेशसहा हिताः ॥
अहार्याश्चानृशंसाश्च दृढभक्ताश्च पार्थिवे
ताम्बूलधारी भवति नारी चाप्यथ तद्गुणा ॥
षाड्गुण्यविधि तत्त्वज्ञो देशभाषाविशारदः
सन्धिविग्रहकः कार्यो राज्ञा नयविशारदः ॥
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः
कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद्दक्षरक्षिता ॥
सुरूपस्तरुणः शूरो दृढभक्तः कुलोचितः
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥
शूरश्च बहुयुक्तश्च गजाश्वरथकोविदः
कोशधारी भवेद्राज्ञः सदा क्लेशसहश्च यः ॥
निमित्तशकुनज्ञानहयशिक्षाविशारदः
हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥
बलाबलज्ञो रथिनां स्थिरदृष्टिर्विशारदः
शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥
अनाहार्यः शुचिर्दक्षः चिकित्सकवचोरतः
सूदशास्त्रविधानाज्ञः सूदाध्यक्षः प्रशस्यते ॥
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः
सर्वे महानसे कार्या नीचकेशनखा जनाः ॥
समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः
विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥
कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः
सर्वदेशाक्षराभिज्ञाः सर्वशास्त्रविशारदाः ॥
लेखकाः कथिता राम सर्वाधिकरणेषु वै
शीर्षोपेतान्सुसंपूर्णान्समद्रोणीगतान्समान् ॥
अक्षरान्विलिखेद्यस्तु लेखकः स वरः स्मृतः
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ॥
बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥
धर्माधिकरणे कार्या जनाह्वानकरा नराः
एवंविधास्तथा कार्या राज्ञो दौवारिका जनाः ॥
लोहवस्त्रादिधातूनां रत्नानां च विभागवित्
विज्ञाता फल्गुसाराणां त्वनाहार्यः शुचिस्सदा ॥
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः
आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः ॥
व्ययद्वारेषु सर्वेषु कर्तव्याः पृथिवीक्षिता
परं पारं गतो यः स्यादष्टाङ्गेषु चिकित्सिते ॥
अनाहार्यस्स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः
प्राणाचार्यस्स विज्ञेयो वचनं तस्य भूभुजा ॥
राम स्नेहात्सदा कार्यं यथा कार्यं पृथग्जनैः
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ॥
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते
एतैरेव गुणैर्युक्तो स्वाधीनश्च विशेषतः ॥
गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते
हयशिक्षाविधानज्ञ स्तच्चिकित्सितपारगः ॥
अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ॥
दुर्गाध्यक्षः स्मृतो राम उद्युक्तः सर्वकर्मसु
वास्तुविद्याविधानज्ञो लग्नहस्तो जितश्रमः ॥
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः
यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ॥
अस्त्राचार्यो नियुद्धे च कुशलश्च तथेष्यते
पञ्चाशदधिका नार्यः पुरुषाः सप्ततिस्तथा ॥
अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु
स्थविरा जातितत्त्वज्ञाः सततं प्रतिजाग्रतः ॥
राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः
कर्माण्यपरिमेयानि राज्ञां भृगुकुलोद्वह ॥
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिव
उत्तमाधममध्याँस्तु पुरुषान्विनियोजयेत ॥
न कर्मणि विपर्यासाद्राजा नाशमवाप्नुयात्
नियुक्तपुरुषे भक्तिं श्रुतं शौर्यं बलं कुलम् ॥
ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता
पुरुषान्तरविज्ञाने तत्त्वमात्रनिबन्धनाः ॥
नरेन्द्रलक्ष्या धर्मज्ञास्तत्रायत्तो भवेन्नृपः
स्वभृत्याश्च तथा पुष्टास्सततं प्रतिमानिताः ॥
राज्ञा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता
यथार्हं चाथ सुभृतान्राजा कर्मसु योजयेत ॥
धर्मिष्ठान्धर्मकार्येषु शूरान्संग्रामकर्मणि
निपुणानर्थकृत्येषु सर्वत्र च तथा शुचीन् ॥
स्त्रीषु षण्ढान्नियुञ्जीत तीक्ष्णान्दारुणकर्मसु
धर्मे चार्थे च कामे च भये च भृगुनन्दन ॥
राजा यथार्हं कुर्यात्तान्ह्युपधाभिः परीक्षितान्
समतीतो यथार्हायां कुर्याद्धस्तिवने चरान् ॥
उत्पादान्वेषणं यत्तानध्यक्षाँस्तत्र कारयेत्
एवमादीनि कर्माणि यत्नैः कार्याणि भार्गव ॥
सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः
पापसाध्यानि कर्माणि यानि राज्ञां भृगूत्तम ॥
सन्तस्तानि न कुर्वन्ति तस्मात्तान्बिभृयान्नृपः
नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्षयः ॥
यस्मिन्कर्मणि यस्य स्याद्विशेषेण च कौशलम्
तस्मिन्कर्मणि तं राजा परीक्ष्य विनियोजयेत् ॥
पितृपैतामहान्भृत्यान्सर्वकर्मसु योजयेत्
विना दायादकृत्येषु तत्र ते हि समासतः ॥
राजा दायादकृत्येषु परीक्ष्य स्वकृतान्नरान्
नियुञ्जीत महाभागः तस्य ते हितकारिणः ॥
परराजगृहान्प्राप्ताञ्जनसंग्रहकाम्यया
उष्टान्वाप्यथ वा दुष्टान्संश्रयेत प्रयत्नतः ॥
दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः
वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरप्राप्तं पुरुषं पूजयेद्भृशम्
सहायं देशसंप्राप्तं बहुमानेन चिन्तयेत ॥
कामं भृत्यार्जनं राजा नैव कुर्याद्भृगूत्तम
न वै वासं विभक्तं तु भृत्यं कुर्यात्कथञ्चन ॥
शस्त्रमग्निं विषं सर्पान्निस्त्रिंशमपि चैकतः
भृत्या मनुजशार्दूल कुभृत्याश्च तथैकतः ॥
तेषां चारेण विज्ञानं राज्ञा विज्ञाय नित्यशः
गुणिनां पूजनं कुर्यान्निर्गुणानां च शासनम् ॥
कथिताः सततं राम राजानश्चारचक्षुषः ॥
स्वदेशे परदेशे च जातिशीलान्विचक्षणान् ॥
अनाहार्यान्क्लेशसहान्नियुञ्जीत सदा चरान्
जनस्याविततान्सौम्यांस्तथा ज्ञातान्परस्परम् ॥
वणिजो मन्त्रकुशलान्सांवत्सरचिकित्सितान्
तथा प्रव्रजिताकारान्राजा चारान्नियोजयेत ॥
नैकस्य राजा श्रद्दध्याच्चारस्यापि च भाषितम्
द्वयोस्संवादमाज्ञाय सन्दध्यान्नृपतिस्ततः ॥
परस्परस्याविदितौ यदि स्यातां न तावुभौ
तस्माद्राजा प्रयत्नेन गूढांश्चारान्प्रयोजयेत ॥
राज्यस्य मूलमेतावद्यद्राज्ञश्चारदृष्टिता
चाराणामपि यत्नेन राज्ञा कार्यं परीक्षणम् ॥
रागापरागौ भृत्यानां जनस्य च गुणागुणान्
शुभानामशुभानां च विज्ञानं राम कर्मणाम् ॥
सर्वं राज्ञां चरायत्तं तेष्वायत्तस्सदा भवेत्
कर्मणा केन मे लोके जनस्सर्वोऽनुरज्यते ॥
विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ॥
विरागजननं सर्वं वर्जनीयं प्रयत्नतः
जनानुरागप्रभवो हि लक्ष्यो राज्ञां यतो भार्गववंशचन्द्र ॥
तस्मात्प्रयत्नेन नरेन्द्रमुख्यैः कार्योऽनुरागो भुवि मानवेषु
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सहायसम्पत्तिर्नाम चतुर्विंशोऽध्यायः
2.25
॥ पुष्कर उवाच॥
यथानुवर्तितव्यं स्याद्राम राजोपजीविभिः ॥
तथा ते कथयिष्यामि निबोध गदतो मम
आज्ञा सर्वात्मना कार्या स्वशक्त्या भृगुनन्दन ॥
आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः
अनुकूलं प्रियं तस्य वक्तव्यं जनसन्निधौ ॥
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत्
परार्थमथ वक्तव्यं स्वस्थे चेतसि भार्गव ॥
स्वास्थ्यं सुहृद्भिर्वक्तव्यं न स्वयं तु कथंचन
कार्यातिपातकं कार्यै रक्षितव्यं प्रयत्नतः ॥
न च हिंस्यधनं किञ्चिन्नियुक्तेन च कर्मणि
नोपेक्ष्यं तस्य मानं च तथा राज्ञा प्रियो भवेत् ॥
राज्ञश्च न तथा कार्यं वेशभाषितचेष्टितम्
राजलीला न कर्तव्या तद्दिष्टं च विवर्जयेत् ॥
राज्ञस्समाधिकौ वेशौ न तु कार्यौ विजानता
द्यूतादिषु तथैवास्य कौशलं तु प्रदर्शयेत् ॥
प्रदर्श्य कौशलं चास्य राजानं न विशेषयेत्
अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ॥
संसर्गं न व्रजेद्राम विना पार्थिवशासनम्
निम्नेहतां चावमानं तत्प्रयुक्तं च गोपयेत् ॥
यच्च गुह्यं भवेद्राज्ञस्तन्न लोके प्रकाशयेत्
नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं भृगूत्तम ॥
न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत्
आज्ञप्यमाने चान्यस्मिन्समुत्थाय त्वरान्वितः ॥
अहं किङ्करवाणीति वाच्यो राजा विजानता
कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत् ॥
सततं क्रियमाणेस्मिँल्लाघवं तु व्रजेद्बुधः
राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनःपुनः ॥
न हास्यशीलश्च भवेन्न चापि भृकुटीमुखः॥
नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ॥
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन
दुष्कृतानि नरेन्द्रस्य न च संकीर्तयेत्क्वचित् ॥
वस्त्रं पत्रमलङ्कारं राज्ञा दत्तं तु धारयेत्
औदार्येण न तद्देयमन्यस्मिन्भूतिमिच्छता ॥
न चैवाध्यशनं राज्ञः स्वपनं चापि कारयेत्
नानिर्दिष्टे तथा द्वारे प्रविशेत कथञ्चन ॥
न च पश्येत राजानमयोग्यासु च भूमिषु
राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तदा ॥
पुरस्तात्तु यथा पश्चादासनं तु विगर्हितम्
जृम्भा निष्ठीवनं कामं कोपं पर्यंकिकाश्रयम्॥
मुकुटं वातमुद्गारं तत्समीपे विवर्जयेत्॥
स्वयं तथा न कुर्वीत स्वगुणाख्यापनं बुधः॥
स्वगुणाख्यापने कुर्यात्परानेव प्रयोजकान्
हृदयं निर्मलं कृत्वा परं भक्तिमुपाश्रितैः ॥
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः
शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा ॥
चापल्यं च परित्याज्यं नित्यं राजानुजीविना
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥
राजसेवां ततः कुर्याद्भूतये भीतिवर्धनः
नमस्कार्यास्सदा चास्य पुत्रवल्लभमन्त्रिणः ॥
सचिवैश्चास्य विश्वासं न तु कार्यं कथञ्चन
अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि ॥
हितं पथ्यं च वचनं हितैस्सह सुनिश्चितम्
चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ॥
भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम्
।
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ॥
त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कामयेत्
कर्मोपकारयोर्नाशं विपक्षाभ्युदयं तथा ॥
आशासंवर्धनं कृत्वा फलनाशं करोति च
अकोपोपि प्रकोपाभः प्रसन्नोपि च निष्फलः ॥
वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ॥ ।
प्रवेशवाक्यानुदितौ न संभावयतीत्यथ ॥
आराधनासु सर्वासु सुप्तवच्च विचेष्टते
कथासु दोषैः क्षिपति वाक्यच्छेदं करोति च ॥
लक्ष्यते विमुखश्चैव गुणसङ्कीर्तने कृते
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ॥
विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम्
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ॥
कुशलादिपरिप्रश्ने संप्रयच्छति चासनम्
विविक्तदर्शने चास्य रहस्ये न च शङ्कते ॥
जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम्
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ॥
उपायनं च गृह्णाति स्तोकमप्यादरात्तथा
कथान्तरेषु सरति प्रहष्टवदनस्तथा ॥
इति रक्तस्य कर्तव्या सेवा भृगुकुलोद्वह ॥
आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम्
मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम् ॥
प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द जुष्टम्
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0