विष्णुधर्मोत्तरपुराणम् · अध्याय 2.16.20
2.16
॥ पुष्कर उवाच ॥ ॥
धनुर्द्रव्यत्रयं लोहं शृङ्गं चारु च भार्गव ॥
ज्याद्रव्यत्रितयं चर्म वंशभंगं त्वचस्तथा
वंशत्वग्वंशचापं तु कर्तव्यं भृगुनन्दन ॥
अन्येषु राम चापेषु शेषद्रव्यमिदं भवेत
प्रमाणं नात्र निर्दिष्टं चापयोः शार्ङ्गलोहयोः ॥
दारुचापप्रमाणं तु श्रेष्ठं हस्तचतुष्टयम्
तदर्धसमहीने तु प्रोक्ते मध्यकनीयसी ॥
मुष्टिग्राह्याणि वृत्तानि मध्ये सर्वाणि कारयेत्
स्वल्पा कोटिस्तु वार्क्षाणां शार्ङ्गलौहमयी द्विज ॥
कामिनीभ्रूलताकारा कोटिः कार्या सुसंस्कृता
पृथग्वा दारुमिश्रो वा लोहशार्ङ्गे तु कारयेत् ॥
शार्ङ्गं स्नायुचितं कार्यं रुक्मबिन्दुविभूषितम्
कुटिलस्फुटितं चापं सच्छिद्रं च न शस्यते ॥
हस्तिभग्ना द्रुमा ये च विद्युद्दग्धास्तथा च ये
आरामदेवतावेश्मतापसाश्रमसंभवाः ॥
श्मशानसंभवा ये च न ते कार्याः कथंचन
प्राणिनां यः सजात्येन शृङ्गी युधि निपातितः ॥
तच्छृङ्गं वर्जयेच्चापं नित्यं शार्ङ्गे विचक्षणः
लोहानि राम चत्वारि शस्यन्ते चापकर्मणि ॥
सुवर्णं रजतं ताम्रं तथा कृष्णायसं द्विज
काञ्चनं चापरत्नं तु सरत्नमपि कारयेत् ॥
माहिषं शारभं शार्ङ्गं रौहीजं चापि कारयेत्
वार्क्षं चन्दनजं श्रेष्ठं वैतसं धान्वतं तथा ॥
सालशाल्मलिकाशानां ककुभस्याञ्जनस्य च
वंशस्य च महाभाग सर्वश्रेष्ठतमं विदुः ॥
शरद्गृहीतैः काष्ठैस्तु चापं कार्यं प्रयत्नतः
वंशानामपि तच्छ्रेष्ठं यत्र गङ्गा महानदी ॥
सालानामपि तच्छ्रेष्ठं गोमती यत्र भार्गव
वितस्ताकूलजं श्रेष्ठं वेतसीनां तथैव व ॥
एवं द्रव्यमयं कार्यं चापं लक्षणसंयुतम्
ग्रहण लक्षणं चास्य भविष्यति च खड्गवत् ॥
सुखग्राहं दृष्टिकान्तं शरमोक्षमुखं तथा
श्लक्ष्णं श्लिष्टं सुसंस्थानं सारवन्तं सुसंहतम् ॥
अवनामसुखं नित्यं पुंनामनवलोत्कटम्
एतदीदृशकं श्रेष्ठं चापरत्नं विदुर्बुधाः ॥
राज्ञा चापस्य कर्तव्या पूजा बाणवरस्य च
नित्यं देवकुले राम खड्गस्य च विशेषतः ॥
अयसश्चाथ वंशस्य शरस्याथ शरो भवेत्
शरवंशौ ग्रहीतव्यौ शरत्काले भृगूत्तम ॥
शराः किरातजाः श्रेष्ठाः काञ्चीपुरसमीपतः
तेभ्योऽपि ते श्रेष्ठतमाः स्कन्दजन्ममहीभवाः ॥
स्निग्धा निमग्नपर्वाणः सारवन्तः समाहिताः
ऋजवो मधुवर्णाभाः सुजाताः शारदा दृढाः ॥
स्नायुश्लिष्टाः सुनेत्राश्च सुपुङ्खाः कलवाससः
तैलधौताश्च कर्तव्या रुक्मपुङ्खविभूषणाः ॥
तथा विषमपर्वाणः फलैश्च व्रणवर्जितैः
एक त्रिपुङ्खं कर्तव्यं राजहंसच्छदोत्तरम् ॥
रुक्मपुङ्खसुवर्णाग्रमयःफलमनुत्तमम्
स्नायुबद्धं बलं तस्य रुक्मबन्धं तु कारयेत् ॥
वज्रैश्च लक्षणोपेतैश्चित्रितं तं तु कारयेत्
ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नृपैः ॥
तस्य पूजा सदा कार्या साभिषेकसमा भवेत्
यात्रायामभिषेके च मङ्गलेषु च कर्मसु ॥
सपताके तु तं चापं सपताकं तु कारयेत् ॥
मङ्गल्यं तन्नरेन्द्राणां कथितं भृगुनन्दन
ये चापरत्नं विनतं तु भूपाः सुवर्णरत्नोपचितं सदैव ॥
बाणेन साकं परिपूजयन्ति भवन्ति ते राम विपन्नदुःखाः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे चापशरलक्षणं नाम षोडशोऽध्यायः
2.17
॥ पुष्कर उवाच ॥
पुरा सुमेरुशिखरे काञ्चने रत्नपर्वते ॥
स्वर्गङ्गायास्तटे ब्रह्मा यज्ञं यजति भार्गव
तस्मिन्यज्ञे स ददृशे विघ्नं खे लोहदानवम् ॥
विघ्नस्य शमनं तस्य चिन्तयामास तत्त्ववित्
तदा चिन्तयतस्तस्य पुरुषः पावकाद्बभौ ॥
नीलोत्पलदलश्यामः स्वरुचा वञ्चितेक्षणः
प्रांशुः सुवदनः श्रीमान्बलेनाप्रतिमो भुवि ॥
स ववन्दे तदा गत्वा देवं कमलसम्भवम्
अभ्यनन्दन्त जातेन तेन देवास्सवासवाः ॥
तस्मात्स नन्दको नाम खङ्गरत्नमभूत्तदा
तं दृष्ट्वा भगवान्ब्रह्मा केशवं वाक्यमब्रवीत् ॥
खड्गं गृह्णीष्व गोप्तारं धर्मस्य जगतां पते
यज्ञविघ्नकरं हत्वा खड्गेनानेन केशव ॥
निपातय महाबाहो बलिनं लोहदानवम्
इत्येवमुक्तो जग्राह ग्रीवया तं जनार्दनः ॥
गृहीतमात्रे देवेन विकोशः समपद्यत
खड्गः कमलपत्राक्षो नीलोत्पलसमद्युतिः ॥
रत्नमुष्टिर्महान्राम निर्मलाकाशसन्निभः
एतस्मिन्नन्तरे तत्र व्यदृश्यत तदा महान् ॥
करालः कृष्णवदनः शतबाहुर्महोदरः
प्रांशुः सुवृत्तदंष्ट्राग्रो बलवाँल्लौहदानवः ॥
यज्ञविघ्नार्थिनं प्राप्तं स दृष्ट्वा लोहदानवम्
खड्गमादाय वेगेन ययौ तं प्रति केशवः ॥
स केशवमनादृत्य देवाञ्छक्रपुरोगमान्
विद्रावयामास तदा गदया भीमवेगया ॥
तदा भग्नेषु देवेषु युद्धं कृत्वा हरिश्चिरम्
खड्गेन तस्य गात्राणि चिच्छेद मधुहा रणे ॥
खड्गच्छिन्नानि गात्राणि नानादेशेषु भूतले
निपेतुस्तस्य धर्मज्ञ शतशोऽथ सहस्रशः ॥
नन्दकस्य तु संस्पर्शात्तानि गात्राणि भार्गव
लोहीभूतानि सर्वाणि प्रसादात्केशवस्य तु ॥
हतायास्मै वरं प्रादाद्भगवान्मधुसूदनः
त्वदङ्गानि पवित्राणि भविष्यन्ति महीतले ॥
आयुधानि च तैर्लोके करिष्यन्तीह मानवाः
एवमुक्त्वा हरिर्देवो ब्राह्मणं वाक्यमब्रवीत् ॥
विना विघ्नं मखमिदं कुरु शीघ्रं जगद्गुरो
एवमुक्तस्तदा ब्रह्मा यज्ञेन मधुसूदनम् ॥
आत्मना पूजयामास सुसमिद्धमनोरथः
उत्पत्तिरुक्ता खड्गस्य लोहस्य च मया तव ॥
अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम्
प्रधानदेहसंभूतैर्दैत्यास्थिभिररिन्दम ॥
लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः
कटीकदूरऋषिकं वङ्गे शूर्पाकरेषु च ॥
विदेहेषु तथाङ्गेषु मध्यमं ग्रामचेदिषु
सहग्रामेषु नीपेषु तथा कालञ्जरेपि च ॥
लौहं प्रधानं तज्जानां खड्गानां शृणु लक्षणम्
कटीकदूरजाता ये दर्शनीयास्तु ते स्मृताः ॥
कायच्छिन्नास्तु ऋषिका मर्मघ्ना गुरवस्तथा
तीक्ष्णाश्छेदसहा वाङ्गा दृढा शूर्पारिकोद्भवाः ॥
सुहस्ताश्चैव विज्ञेया प्रभावन्तो विदेहजाः
अंगदेशोद्भवास्तीक्ष्णाश्चेदि देशसमुद्भवाः ॥
कालिञ्जरा भारसहास्तथा वक्ष्यामि लक्षणम्
सुप्रमाणांगुलास्ते तु श्रेष्ठा खड्गाः प्रमाणतः ॥
प्रमाणं तत्र विज्ञाय ततो हीनं न धारयेत्
प्रमाणाभ्यधिकं चैव च्छिन्नवंशं तथैव च ॥
शीघ्रः सुमधुरः शब्दो यस्य खड्गस्य भार्गव
किङ्किणी सदृशस्तस्य धारणं श्रेष्ठमुच्यते ॥
खड्गः पद्मपलाशाग्रो मण्डलाग्रश्च शस्यते
करवीरपलाशाग्रसदृशस्य विशेषतः ॥
महीघृतसुगन्धश्च पद्मोत्पलसुगन्धिकः
वर्णतश्चोत्पलाकारः सवर्णो णगनस्य च ॥
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव
श्रीवृक्षपर्वता कारवंशपद्मनिभाश्च ये ॥
मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव
काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः ॥
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन
न खड्गे वदनं पश्येद्वृथा विवृणुयान्न च ।
उच्छिष्टो न स्पृशेत्खड्गं निशि कुर्याच्च शीर्षके ॥
दिवा च पूजयेदेनं गन्धमाल्यानुसंपदा
खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दनचूर्णयुक्ते ॥
संस्थापयेद्भूमिपतिः प्रयत्नाद्रक्षेत्तथैनं स्वशरीरवच्च
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे खड्गलक्षणं नाम सप्तदशोऽध्यायः
2.18
पुष्कर उवाच ॥
इति सम्भृतसम्भारो राज्ञस्सांवत्सरस्तथा ॥
कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते
मृते राज्ञि न कालस्य नियमोऽत्र विधीयते ॥
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ ॥
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः
स सान्त्वयित्वा स्वजनं भुक्त्वा बन्धनगांस्तथा ॥
अभयं घोषयित्वा च कालाकांक्षी तथा भवेत्
नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव ॥
न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज
न च भौमदिने राम चतुर्थ्यां न तथैव च ॥
नवम्यां नाभिषेक्तव्यः चतुर्दश्यां च भार्गव
ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्ये तथैव च ॥
नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने
नागश्चतुष्पदं विष्टिः किंस्तुघ्नः शकुनिस्तथा ॥
करणानि न शस्यन्ते व्यतीपातदिनं तधा
नक्षत्रमुल्काभिहतमुत्पाताभिहतं तथा ॥
सौरसूर्यकुजाक्रान्तं परिविष्टिञ्च भार्गव
मुहूर्ताश्चोक्तनक्षत्राः सतां मानहितप्रदाः ॥
कुजहोरा तथा नेष्टा सर्वत्र कुलिकस्तथा
वृषोऽथ कीटसिंहौ च कुम्भो लग्ने च शस्यते ॥
एतेषां जन्मलग्नाभ्यां यः स्यादुपचयस्थितः
तारा द्वितीया षष्ठी च चतुर्थी चाष्टमी च या ॥
नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः
सौम्याः केन्द्रगता लग्ना शुभाश्चैव त्रिकोणयोः ॥
पापाश्चोपचय स्थाने शस्तो लग्ने दिवाकरः
लग्ने नवांशः क्षितिजस्य वर्ज्यो वर्गस्तथा तस्य महानुभाव ॥
सूर्यस्य वर्गः सकलः प्रशस्तो राज्ञोऽभिषेके सग्रहो नृपाणाम्
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादेऽअभिषेककालनिर्णयं नामाष्टादशो ऽध्यायः
2.19
पुष्कर उवाच ॥
कार्या पौरन्दरी शांतिः प्रागेवास्य पुरोधसा ॥
प्राप्तेभिषेकदिवसे सोपवासः पुरोहितः
सोष्णीषः श्वेतवसनः सितचन्दनभूषितः ॥
सितमाल्योपवीतश्च सर्वाभरणभूषितः
वेदिमुल्लिख्य यत्नेन कृत्वा च विधिवत्ततः ॥
जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान्विचक्षणः
सावित्रान्वैश्वदेवांश्च सौम्यां च विधिवत्ततः ॥
शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम्
आयुष्यमभयं चैव तथा चैवापराजितम् ॥
सपातवन्तं कलशं तथा कुर्याच्च काञ्चनम्
वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः ॥
श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः
आसनस्थमुखं पश्येन्निमित्तानि हुताशने
पश्येयुरन्ये च तथा नृसिंह दैवज्ञवाक्यान्निपुणं स्वरूपम् ॥
सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्याश्च पुरोहितस्य
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे पुरंदरशांतिर्नामैकोनविंशतितमोऽध्यायः
2.20
पुष्कर उवाच ॥
प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ॥
रथौघमेवनिर्घोषो विधूमश्च हुताशनः
अनुलोमसुगन्धश्च स्वस्तिकाकारसन्निभः ॥
वर्धमानाकृतिश्चैव नन्द्यावर्तनिभस्तथा
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥
स्वाहावमाने ज्वलनः स्वयं देवमुखं हविः
यदा भुङ्क्ते महाभाग तदा राज्ञो हितं भवेत् ॥
हविषस्तु यदा वह्नेर्नस्यात्सिमिसिमायितम्
न वर्जेयुश्च मध्येन मार्जारमृगपक्षिणः ॥
पिपीलकाश्च धर्मज्ञ तदा भूयाज्जयी नृपः
मुक्ताहारमृणालाभे वह्नौ राज्ञां जयो भवेत् ॥
तथैव च जयं ब्रूयात्प्रस्तरस्य प्रदायिनि
संक्षेपतस्तेऽभिहितं मयाद्य यल्लक्षणं चारु हुताशनस्य ॥
सर्वाग्निकर्मस्वथ तेन विद्वान्भूयात्त्रिलोके तु जयी द्विजेन्द्र
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे वह्निलक्षणं नाम विंशतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0