भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.156.160

2.156.160.1

2.156
॥ पुष्कर उवाच ॥
इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि ॥
भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः

2.156.160.2

यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च ॥
मातृकायास्तथा भङ्गे परचक्रे भयं द्विज

2.156.160.3

दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा ॥
तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम्

2.156.160.4

निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज ॥
राजा वा म्रियते तत्र स वा देशो विनश्यति

2.156.160.5

इंद्रध्वजोपकरणं यत्किंचिद्द्विजसत्तम ॥
विनश्यति तदा ज्ञेया पीडा नगरवासिनाम्

2.156.160.6

इंद्रवाजिनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् ॥
इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना

2.156.160.7

राज्यं दत्त्वा च गुरुवे बन्धनानि प्रमोचयेत् ॥
सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु

2.156.160.8

शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः ॥
महाभोज्यानि कार्याणि ब्राह्मणानां दिनेदिने

2.156.160.9

गावश्च देया द्रिजपुङ्गवेभ्यो हिरण्यवासोरजतैः समेताः ॥
एवं कृते शान्तिमुपैति पाप वृद्धिस्तथा स्यान्मनुजाधिपस्य

2.156.160.156

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे इन्द्रध्वज निमित्तशमनवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः

2.156.160.1

2.157
राम उवाच ॥
शक्रोच्छ्राये तु यान्मन्त्रान्सोपवासो नृपः पठेत् ॥
तानहं श्रोतुमिच्छामि सर्वधर्मभृतां वर

2.156.160.2

पुष्कर उवाच ॥
शृणु मन्त्रानिमान्सम्यक्सर्वकिल्बिषनाशनान् ॥
प्राप्ते शक्रध्वजोच्छ्राये यः पठेत्प्रयतो नृपः

2.156.160.3

वरस्त्विन्द्रजिता मित्रवृत्रहन्पाकशासन ॥
देवदेव महाभाग त्वं हि वर्धिष्णुतां गतः

2.156.160.4

त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः॥
अनन्ततेजो विरजो यशोविजयवर्धनः ॥
अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित

2.156.160.5

ब्रह्मा स्वयंभूर्भगवान्सर्वलोकपितामहः ॥
रुद्रः पिनाकभृद्दृप्तश्चतसृद्वयसंस्तुतः

2.156.160.6

योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः ॥
तेजस्ते वर्धयन्त्वेते नित्यमेव महाबलाः

2.156.160.7

अनादिनिधनो देवो ब्रह्मा स्रष्टा सनातनः ॥
अग्निस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः

2.156.160.8

कार्तिकेयः शक्तिधरः षड्वक्त्रश्च गदाधरः ॥
शतं वरेण्यो वरदस्तेजो वर्धयतां विभुः

2.156.160.9

देवः सेनापतिः स्कन्दः सुरप्रवरपूजितः ॥
आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ

2.156.160.2.157.10

भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ॥
लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनलोऽनिलः

2.156.160.11

देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ॥
समुद्रा गिरयश्चैव नद्यो भूतानि यानि च

2.156.160.12

तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिरेव च ॥
प्रवर्धयतु तत्तेजो जय शक्र शचीपते

2.156.160.13

तव चापि जयान्नित्यं त्विह संपद्यते शुभम् ॥
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः

2.156.160.14

तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् ॥
शिवं भवतु निर्विघ्नं शम्यंतामीतयो भृशम्

2.156.160.15

नमस्ते देवदेवेश नमस्ते बलसूदन ॥
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते

2.156.160.16

सर्वेषामेव लोकानां त्वमेका परमा गतिः ॥
त्वमेव परमः प्राणः सर्वस्यास्य जगत्पते

2.156.160.17

पाशो ह्यसि पथः स्रष्टुं त्वमनल्पं पुरन्दर ॥
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोम्बरे

2.156.160.18

त्वमत्र मेधा विक्षिप्ता त्वम्मे बाहुः प्रतर्दनम्॥
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः

2.156.160.19

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ॥
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः

2.156.160.2.157.20

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ॥
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्॥।

2.156.160.21

त्वमेव चामृतं देवस्त्वं मोक्षः परमार्चितः ॥
त्वं मुहूर्तः स्थितिस्त्वं च लवस्त्वं च पुनः क्षणः

2.156.160.22

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ॥
संवत्सरर्तवो मासा रजन्यश्च दिनानि च

2.156.160.23

त्वमुत्तमा सगिरिचरा वसुंधरा सभास्करं तिमिरमम्बरं तथा ॥
सहोदधिः सतिमिङ्गिलस्तथा सहोर्मिवान्बहुमकरो झषाकुलः

2.156.160.24

महद्यशास्त्वमिह सदा च पूज्यसे महर्षिभिर्मुदितमना महर्षिभिः ॥
अभिष्टुतः पिबसि च सोममध्वरे हुतान्यपि च हवींषि भूतये

2.156.160.25

त्वं विप्रैः सततमिहेज्यसे फलार्थं भेदार्थेष्वष्टसु बलौघ गीयसे त्वम् ॥
त्वद्धेतोर्यजनपारायणा द्विजेन्द्रा वेदाङ्गान्यधिगमयन्ति सर्ववेदैः

2.156.160.26

वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता ॥
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके

2.156.160.27

यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति ॥
नमः सदाऽस्मै त्रिदिवेश्वराय लोकत्रयेशाय पुरन्दराय

2.156.160.28

।
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥
त्वमन्तकः सर्वहरः कृशानुः सहर्षशीर्षा शतमन्युरीड्यः

2.156.160.29

कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् ॥
हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु

2.156.160.2.157.30

त्रातारमिन्द्रेन्द्रियकारणात्मञ्जगत्प्रधानं च हिरण्यगर्भम् ॥
लोकेश्वरं देववरं वरेण्यं चानन्दरूपं प्रणतोस्मि नित्यम

2.156.160.31

इमं स्तवं देववरस्य कीर्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः ॥
अवाप्य कामान्मनसोभिरामान्स्वर्लोकमायाति च देहभेदे

2.156.160.157

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० शक्रस्तववर्णनो नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः

2.156.160.1

2.158
राम उवाच ॥
विधिना पूजयेत्केन भद्रकालीं नराधिपः ॥
नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम

2.156.160.2

पुष्कर उवाच ॥
पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे ॥
भद्रकालीगृहं कुर्याच्चित्रवस्त्रैरलंकृतम्

2.156.160.3

भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज॥
आश्विने शुक्लपक्षे तु अष्टम्यां प्रयतस्ततः

2.156.160.4

तत्रैवायुधवर्माद्यं छत्रं केतुं च पूजयेत् ॥
राजलिङ्गानि सर्वाणि तथास्त्राणि च पूजयेत

2.156.160.5

पुष्पैर्गन्धैः फलैर्भक्ष्येर्भोज्यैश्च सुमनोहरैः ॥
बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च

2.156.160.6

रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः ॥
एवं संपूजयेद्देवीं वरदां भक्तवत्सलाम्

2.156.160.7

कात्यायनीं कामगमां वररूपां वरप्रदाम्॥
पूजितां सर्वकामैश्च सा युङ्क्ते वसुधाधिपम्

2.156.160.8

एवं हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन ॥
प्राप्नोति सिद्धिं परमां महेशो जनस्तथान्योऽपि हि वित्तशक्त्या

2.156.160.158

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने भद्रकालीपूजा नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः

2.156.160.1

2.159
राम उवाच ॥
नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम ॥
कथं कार्या नरेन्द्रस्य शान्तिं नीराजने प्रभो

2.156.160.2

पुष्कर उवाच ॥
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ॥
विस्तीर्णं कारयेद्राजा मनोहरमाश्रयम्

2.156.160.3

कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम् ॥
तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम्

2.156.160.4

कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम् ॥
वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम

2.156.160.5

तोरणाद्दक्षिणे भागे तत्र कार्यं समाश्रयम् ॥
देवतार्चा भवेद्यत्र तथाग्निहवन क्रिया

2.156.160.6

अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः ॥
कार्यं भवति शुष्काणां कूटं भृगुकुलोद्वह

2.156.160.7

पञ्चरङ्कसूत्रेण शतग्रन्थिं मनोरमाम् ॥
मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम्

2.156.160.8

छादयित्वा कुशैस्तां तु मुदा संछादयेत्पुनः ॥
तस्याश्च लंघनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः

2.156.160.9

न लंघिता सा यावत्स्यात्प्रथमं राजहस्तिना ॥
चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते

2.156.160.2.159.10

।
ततः प्रभृति कर्तव्या यावत्स्वातौ रविः स्थितः ॥
आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम

2.156.160.11

ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ॥
विनायकः कुमारश्च वरुणो धनदो यमः

2.156.160.12

विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च ॥
अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु

2.156.160.13

कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ॥
सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ॥

2.156.160.14

पूजा कार्या ग्रहर्क्षाणां तथैव च पुरोधसा ॥
ततस्तु जुहुयाद्वह्नौ पुरोधा सुसमाहितः

2.156.160.15

यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकम्॥
तथा च मन्त्रहीनानां प्रणवेन महाभुज

2.156.160.17

समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च ॥
घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ॥ १६।
हुत्वा च कलशान्कुर्यात्सोदकान्गन्धसंयुतान् ॥
पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान्

2.156.160.18

पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा ॥
भल्लातशालिसिद्धार्था वचाकुष्ठप्रियङ्गवः

2.156.160.19

तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः ॥
ततः संस्नापनीयाः स्युर्मंत्रपूतैर्गजोत्तमैः

2.156.160.2.159.20

तुरगांश्च महाभाग चालङ्कृत्य ततस्तु तान् ॥
ततोभिषेकनागस्य तथा तत्तुरगस्य च

2.156.160.21

अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा ॥
तस्याभिनन्दने राज्ञो विनयः परिकीर्तितः

2.156.160.22

त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम् ॥
निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान्

2.156.160.23

तत्रापि प्रथमं राम अभिषिच्य गजोत्तमम् ॥
तस्यादौ शतपाशीं तु नरः पञ्चनखोऽपि वा

2.156.160.24

अथ ह्यन्यो लंघयेत्तां राज्ञो मरणमादिशेत् ॥
दुर्भिक्षं तत्र विज्ञेयं गोखरोष्ट्रैश्च लंघने

2.156.160.25

लंघयेद्वामपादेन यदि तां नृपकुञ्जरः ॥
राजा पुरोहितामात्यराजपुत्रहितं भवेत्

2.156.160.26

राज्ञस्तु मरणं बूयादाक्रमेत्तं यदापरः ॥
राज्ञोपि जयमाचष्टे लंघयेन्दक्षिणेन ताम्

2.156.160.27

राजहस्तिनि निष्क्रान्ते सा त्वया स्यात्तदा भवेत् ॥
निष्क्रामेयुस्ततः सर्वेः प्राङ्मुखास्तोरणैर्गजाः

2.156.160.28

ततोस्त्राः सुमहाभाग ततस्तु नरसत्तम ॥
ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च ॥

2.156.160.29

आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ॥
पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसरा कृताः

2.156.160.2.159.30

दूष्यादूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः ॥
सर्वेषां नृपनागानां तुरगाणां च भार्गव

2.156.160.31

स्वगृहेषु ततो नेया कुञ्जरास्तुरगैः सह ॥
स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान्

2.156.160.32

पूजयेत्सततं राम नाक्रोशेन्न च ताडयेत् ॥
राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा

2.156.160.33

पूजयेद्वरुणं नित्यं तथाप्सु विधिवद्द्विज ॥
भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः

2.156.160.34

आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः ॥
वसेतामाश्रमे नित्यं सांवत्सर पुरोहितौ

2.156.160.35

अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ॥
दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च

2.156.160.36

स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते॥
अलंकुर्याद्दिने तस्मिन्वाहनांश्च विशेषतः

2.156.160.37

पूजिता राजलिङ्गाश्च कर्तव्या नरहस्तगाः॥
हस्तिनं तुरगं छत्रं खड्गं वा पञ्चदुन्दुभिम्

2.156.160.38

ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमंत्रयेत् ॥
अभिमन्त्र्य ततः सर्वान्कुर्यात्कुञ्जरधूर्गताम

2.156.160.39

कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ॥
अश्ववैद्य प्रधानश्च तथा नागभिषग्वरः

2.156.160.2.159.40

ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम् ॥
निष्क्रम्य तोरणे नागमभिमन्त्र्य समारुहेत्

2.156.160.41

तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम् ॥
बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः

2.156.160.42

रत्नैरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः ॥
उल्मुकानां च निचयमादीपितमनन्तरम्

2.156.160.43

राजा प्रदक्षिणं कुर्यात्त्रीन्वारान्सुसमाहितः

2.156.160.44

चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः ॥
क्ष्वेडाकिलकिला शब्दैः सर्ववादित्रनिःस्वनैः

2.156.160.45

वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम ॥
एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः

2.156.160.46

जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत् ॥
शान्तिर्नीराजनाख्येयं कर्तव्या वसुधाधिपैः॥
क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम्

2.156.160.47

धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च ॥
कार्या नृपै राष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर

2.156.160.159

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने नीराजनशान्तिवर्णनो नामैकोनषष्ट्युत्तरशततमोऽध्यायः

2.156.160.1

2.160
॥ राम उवाच ॥
छत्राश्च केतुकरिणां पताका खड्गचर्मणाम् ॥
तथा दुन्दुभिचापानां ब्रूहि मन्त्रान्ममानघ

2.156.160.2

पुष्कर उवाच ॥
शृणु मन्त्रान्महाभाग भगवान्यत्पराशरः ॥
गालवाय पुरोवाच सर्वधर्मभृतां वरः

2.156.160.3

पराशर उवाच ॥
यथाम्बुदश्छादयति शिवायेमां वसुन्धराम ॥
तथाच्छादय राजानं विजयारोग्यवृद्धये

2.156.160.4

इति च्छत्रमन्त्रः ॥
पराशर उवाच ॥
गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः ॥
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च

2.156.160.5

प्रभावश्च हुताशस्य भवस्य त्वं तुरङ्गम ॥
तेजसा चैव सूर्यस्य मुनीनां तपसां तथा

2.156.160.6

रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ॥
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर

2.156.160.7

यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ॥
भूम्यर्थेऽनृतवादी च क्षत्त्रियश्च पराङ्मुखः

2.156.160.8

सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् ॥
व्रजेत्त्वेतां गतिं क्षिप्रं तच्च पापं भवेत्तव

2.156.160.9

विकृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम ॥
रिपून्विजित्य समरे सहभर्त्रा सुखी भव

2.156.160.2.160.10

इत्यश्वमन्त्रः ॥
पराशर उवाच ॥
शक्रकेतो महावीर सुपर्णस्तत्सुताश्रितः ॥
पतत्रिराट् वैनतेयस्तथा नारायणध्वजः

2.156.160.11

काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः ॥
अप्रमेयो दुराधर्षो रणे चैवारिसूदनः

2.156.160.12

।
गरुत्मान्मारुतगतिः त्वयि सन्निहितः स्थितः ॥
साश्ववर्मायुधान्योधान्रक्षास्माकं महद्रिपून्

2.156.160.13

इति ध्वजमन्त्रः ॥
पराशर उवाच ॥
कुमुदैरावणौ पद्मः पुष्पदन्तोथ वामनः ॥
सुप्रतीकोञ्जनो नील एतेष्टौ देवयोनयः

2.156.160.14

तेषां पुत्राश्च पौत्राश्च धनान्यष्टौ समाश्रिताः ॥
भद्रो मन्दो मृगश्चैव गजः संकीर्ण एव च

2.156.160.15

वनेवने प्रसृतास्ते स्मर योनिं महागज ॥
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः

2.156.160.16

भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ॥
अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज

2.156.160.17

श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ॥
स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात्

2.156.160.18

युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ॥
अश्विभ्यां सह गन्धर्वा पान्तु त्वां सर्वतः सदा

2.156.160.19

इति हस्तिमंत्रः ॥
पराशर उवाच ॥
हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ॥
नागकिन्नरगन्धर्वयज्ञभूतगणग्रहाः

2.156.160.2.160.20

प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सहः ॥
शक्रसेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि

2.156.160.21

प्रदहन्तु रिपून्सर्वान्राजा विजयमिच्छतु ॥
यानि प्रयुक्तान्यरिभिर्दूषणानि समन्ततः

2.156.160.22

पतन्तूपरि शत्रूणां हतानि तव तेजसा ॥
कालनेमिवधे यद्वद्यश्च त्रिपुरपातने

2.156.160.23

हिरण्यकशिपोर्यद्वद्वधे सर्वासुरेषु च ॥
शोभितासि तथैवाद्य शोभस्व समयं स्मर

2.156.160.24

नीलाञ्श्वेतानिमान्दृष्ट्वा नश्यंत्वाशु नृपारयः ॥
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः

2.156.160.25

पूतना रेवती नाम्ना कालरात्रीति पठ्यते ॥
दहत्वाशु रिपून्सर्वान्पताके त्वामुपाश्रिता

2.156.160.26

इति पताकामन्त्रः ॥
पराशर उवाच ॥
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ॥
श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च

2.156.160.27

इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ॥
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः

2.156.160.28

रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः ॥
पिता पितामहो देवः स त्वं पालय सर्वदा

2.156.160.29

इति खड्गमन्त्रः ॥
पराशर उवाच ॥
वर्मप्रदस्त्वं समरे धर्मसैन्याय मानद ॥
रक्ष मां रक्षणीयोऽहं तवानघ नमोस्तु ते

2.156.160.2.160.30

इति वर्ममन्त्रः ॥
पराशर उवाच ॥
दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकंपनः

2.156.160.31

तव भूमिपसैन्यानां तथा विजयवर्धनः ॥
यथा जीमूतघोषेण हृष्यन्ति शरवारणाः ॥
तथा च तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे

2.156.160.32

इति दुन्दुभिमंत्रः ॥
पराशर उवाच ॥
सर्वायुधमहामात्र सर्वदेवारिसूदन ॥
चापस्त्वं सर्वदा रक्ष साकं शरवरैः सदा

2.156.160.33

इति चापमन्त्रः ॥
पुष्कर उवाच ॥
मंत्रास्तवैतेऽभिहिता नृवीर सम्मंत्रणे वैजयिका यथावत् ॥
एतैस्तु मंत्रैरभिमन्त्रितानां चलत्यमोघं बलमप्रमृष्यम्

2.156.160.160

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने मन्त्राध्यायवर्णनो नाम षष्ट्युत्तरशततमोध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc