भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.151.155

2.151.155.1

2.151
॥ राम उवाच ॥ ॥
अजस्रं कर्म मे ब्रूहि राज्ञां राजीवलोचन ॥
यच्च कार्यं नरेन्द्राणां तधा च प्रतिवत्सरम्

2.151.155.2

॥ पुष्कर उवाच ॥ ॥।
द्विमुहूर्तावशेषायां रात्रौ निद्रां त्यजेन्नृपः ॥
वेणुवीणामृदङ्गानां पटहानां च निःस्वनैः

2.151.155.3

बन्दिनां निःस्वनैश्चैव तथा मङ्गलवादिनाम् ॥
ततः पश्येन्महीपालो गूढांश्च पुरुषान्निशि

2.151.155.4

विज्ञायन्ते न ये लोके तदीया इति केनचित् ॥
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि

2.151.155.5

वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत्॥
दत्ताभ्यङ्गः प्रदोषे तु कल्पमुत्सादितस्ततः

2.151.155.6

स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम्॥
सौषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः

2.151.155.7

सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः ॥
अग्न्यागारं प्रविश्याथ वह्नीन् पश्येत्पुरोधसा

2.151.155.8

हुतान् सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् ॥
दुःस्वप्नशमनं कर्म तत्र कुर्यात्पुरोहितः

2.151.155.9

स्वयं चौपसदे वह्नौ पवित्रां जुहुयान्नृपः ॥
तर्पयेदुदकैर्देवान्पितॄनथ यथाविधि

2.151.155.2.151.10

दद्याद्द्विजातये धेनुं सवत्सां च सकाञ्चनाम्।
शक्त्या धनैः पूजयित्वा दत्ताशीः सततं द्विजैः

2.151.155.11

।
अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलंकृतः ॥
दर्पणे च मुखं पश्येत्ससुवर्णे च सर्पिषि

2.151.155.12

आज्यं प्रसन्नं सुरभि यदि स्याद्विजयो भवेत् ॥ ।
दीयमाने च दुर्गन्धे पतिते च भयं भवेत्

2.151.155.13

विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ॥
सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत्

2.151.155.14

ततस्तु शृणुयाद्राजा सांवत्सरमुखोद्गतम् ॥
दिवसे तिथिनक्षत्रे सर्वाशुभविनाशनम्

2.151.155.15

भिषजां च वचः कुर्यात्ततस्त्वारोग्यवर्धनम् ॥
मङ्गलालम्भनं कृत्वा ततः पश्येद्गुरून्नृपः

2.151.155.16

कृत्वाशीर्गुरुभिः पश्चाद्राजा गच्छेत्समन्ततः ॥
तत्रस्थान्ब्राह्मणान्पश्येदमात्यान्मन्त्रिणस्तथा

2.151.155.17

प्रकृतीश्च महाभाग प्रतीहारनिबोधतः ॥
तत्रेतिहासश्रवणं कुर्यात्किञ्चिदतन्द्रितः

2.151.155.18

ततः कार्यार्थिनां कुर्याद्यथाधीः कार्यनिर्णयम्

2.151.155.19

व्यवहारांस्ततः पश्येत्समो भूत्वारिमित्रयोः ॥
त्यक्त्वा सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः

2.151.155.2.151.20

यत्रास्य कश्चित्तं मन्त्रं शृणुयान्न कथञ्चन॥
एकेन सह तं कुर्यान्न कुर्याद्बहुभिः सह

2.151.155.21

न च मूर्खैर्न चानामैस्तथा नाधार्मिकैर्नृपः ॥
मन्त्रं स्वधिष्ठितं कुर्याद्येन राष्ट्रं न धावति

2.151.155.22

राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः ॥
नाशहेतुर्भवेन्मन्त्रः कुप्रयुक्तस्त्वमन्त्रवत्

2.151.155.23

मंत्रे सुनिश्चिते सिद्धिः कथिता पृथिवीक्षिताम् ॥
क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन

2.151.155.24

कृतान्येव विजानाति स राजा पृथिवीपतिः ॥
पृथक् च मन्त्रिभिर्मन्त्रं कृतं वै संहितैः पुनः

2.151.155.25

विचार्यमात्मनः साधु पश्चात्तत्र समाश्रयेत् ॥
प्रज्ञाभिमानी नृपतिर्न मन्त्रिवचने रतः

2.151.155.26

क्षिप्रं विनाशमायाति तडागमिव काजलम् ॥
आकारगूहनै राज्ञो मन्त्ररक्षा परा मता

2.151.155.27

आकारैरिङ्गितैः प्राज्ञा मन्त्रं जानन्ति पण्डिताः ॥
सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः

2.151.155.28

राजा विभूतिमाप्नोति चिरं यशसि तिष्ठति ॥
त एनं मृगयासक्तं धारयन्ति विपश्चितः

2.151.155.29

स्त्रीषु माने तथाक्षेषु वृथा ज्यायांश्च भार्गव ॥
करप्रणयने सक्तं हिंसायां च नराधिपम्

2.151.155.2.151.30

तथा परोक्षनिन्दायां बलवद्विग्रहेऽपि च ॥
अन्येषु चाप्यनर्थेषु प्रसक्तं वारयन्ति तम्

2.151.155.31

मन्त्रं कृत्वा ततः कुर्याद्व्यायामं पृथिवीपतिः ॥
रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ

2.151.155.32

अन्येषु चैव शस्त्रेषु नियुद्धेषु ततः परम् ॥
पद्भ्यामुद्वर्तितः स्नातः पश्येद्विष्णुं सुपूजितम्

2.151.155.33

हुतं च पावकं पश्येद्विप्रान्पश्येत्सुपूजितान्॥
स्वामिनो दक्षिणाभिश्च पूजितान्भृगुनन्दन

2.151.155.34

ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ॥
सुवासा भोजनं कुर्याद्गीतं च शृणुयात्तदा

2.151.155.35

आप्तं परीक्षितं वह्नौ मृगपक्षीङ्गितैस्तथा॥
पूर्वं परीक्षितं चान्यैर्जांगुल्या चाभिमन्त्रितम्

2.151.155.36

विषघ्नांश्च मणीन्राजा धारयन्नौषधींस्तथा ॥
भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेषतः

2.151.155.37

शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत् ॥
कोष्ठागारायुधागारान्प्रति चाग्र्यं च वाहनम्

2.151.155.38

योधांश्च दृष्ट्वा चान्वास्या ततः सन्ध्या च पश्चिमा ॥
कार्याणि चिन्तयित्वा च प्रेषयित्वा ततश्चरान् ॥
अन्तःपुरचरो भूत्वा लघु भुक्त्वा तथा हितम्

2.151.155.39

सवेणुवीणापटहस्वनेन सेवेत निद्रां कृतपूर्वरक्षाम् ॥
एतद्यशस्यं हि नराधिपानामाजस्रिकं ते कथितं विधानम्

2.151.155.151

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने आजस्रिको नामैकपञ्चाशदुत्तरशततमोऽध्यायः

2.151.155.1

2.152
॥ पुष्कर उवाच ॥
राजा तु जन्मनक्षत्रे प्रति मासं समाचरेत् ॥
जन्मनः क्षालनं कर्म यत्तत्पूर्वं मयेरितम्

2.151.155.2

पुष्पस्नानं ततः कुर्यात्प्रतिमासं नराधिपः ॥
संक्रान्तौ पूजयेत्सूर्यं बालमिन्दुं तथैव च

2.151.155.3

ग्रहं सम्पूजयेद्राजा निर्गतं रविमण्डलात्॥
अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः

2.151.155.4

पूजयेच्चतुरो मासान्प्रसुप्तं मधुसूदनम् ॥
प्रोष्ठपादामले रक्षेत्पूजयेच्च शतक्रतुम्

2.151.155.5

नवम्यामाश्वयुच्छुक्ले भद्रकालीं च पूजयेत् ॥
रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा

2.151.155.7

संवत्सरात्कोटिहोमं कुर्याच्च घृतकेवलम्॥
राज्यसंवत्सरग्रन्थौ कुर्यात्तद्रुद्रपूजनम्॥
कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि ॥
एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समाग्रां वसुधां प्रशास्ति

2.151.155.152

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सांवत्सरिक वर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः

2.151.155.1

2.153
राम उवाच ॥
कथं हि चतुरो मासान्कार्यं केशवपूजनम् ॥
पार्थिवेन सुरश्रेष्ठ तन्ममाचक्ष्व पृच्छतः

2.151.155.2

पुष्कर उवाच ॥
उद्युक्तेन सदा भाव्यं राज्ञा भृगुकुलोद्वह ॥
आषाढशुक्लपक्षान्ते राजा स्थानमुपाश्रयेत्

2.151.155.3

अधृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम् ॥
तोयोपेतं विपङ्कं च प्रावृट्कालहतं तथा

2.151.155.4

यत्रस्थश्च स्वविषयं सर्वं शक्नोति रक्षितुम् ॥
तत्रस्थश्चतुरो मासानजांश्च पोषयेन्नृपः

2.151.155.5

स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव ॥
आषाढशुक्लपक्षान्ते दशम्यूर्द्ध्वं नराधिपः

2.151.155.6

उत्सवन्तु महत्कुर्याद्देवस्य चार्चने रतः ॥
अर्चायां वा पटे वापि कृतं देवमथार्चयेत

2.151.155.7

देवभोगमयं विष्णुं श्रीसहायमरिन्दमम् ॥
बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः

2.151.155.8

उत्सवं तु महत्कुर्यात्ततः पञ्चदिनं नृपः ॥
ततः प्रभृति नित्यं स्याद्वासुदेवस्य पूजनम्

2.151.155.9

सात्त्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः ॥
गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत्

2.151.155.2.153.10

अस्मिन्नेव तथा काले कोटिहोमं समाचरेत् ॥
कार्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव

2.151.155.11

शुक्लपक्षत्रिभागेन्त्ये कार्तिकस्य ततो नृपः ॥
उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा

2.151.155.12

वैकुण्ठं पूजयेद्देवमर्चायामथवा पटे ॥
महादानं ततो दद्यात्प्रेक्ष्यां दद्यात्तथैव च

2.151.155.13

मल्लानामथ झल्लानां नटानां नर्तकैः सह ॥
यात्राविधानं सकलं तथा कुर्यान्महीपतिः

2.151.155.14

एतत्कृत्वा ततो यात्रा देया भवति पार्थिवैः ॥
शरत्काले गतातंकैः पुष्टाश्वरथकुञ्जरैः

2.151.155.15

एवं च राज्ञा चतुरो हि मासान्पूज्यो भवेद्देववरो हि हर्ता ॥
सन्त्यक्तचिह्नं मधुसूदनं च संपूज्य यात्राभिमतप्रदा स्यात्

2.151.155.153

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चातुर्मास्यविधिकथनो नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः

2.151.155.1

2.154
॥ राम उवाच॥
शक्रसम्पूजनं कार्यं कथं राज्ञा सुरोत्तम ॥
सम्यग्भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः

2.151.155.2

पुष्कर उवाच ॥
असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम ॥
ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम्

2.151.155.3

ते तु मूढाः सुराः सर्वे निर्जिता दानवैर्वधम् ॥
तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम्

2.151.155.4

गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति ॥
एवमुक्त्वा सुराः सर्वे क्षीरोदे केशवं ययुः

2.151.155.5

ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् ॥
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम्

2.151.155.6

तुष्टुवुश्च महाभागं त्रिदशास्तं पुनःपुनः ॥
सर्वेषामीश्वरं देवं भुवनस्यैककारणम्

2.151.155.7

देवा ऊचुः ॥
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ॥
देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद

2.151.155.8

चामीकराभवसन तार्क्ष्यप्रवरकेतन ॥
शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ

2.151.155.9

सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज ॥
उन्निद्रचारुकमलविराजितकराम्बुज

2.151.155.2.154.10

स चैकदैव भग्नानामस्माकमसुरैर्भवान् ॥
गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम्

2.151.155.11

प्रसीद देवदेवेश जहि तानसुराधमान् ॥
येऽस्माकं देवदेवेश पीडयन्ति सदैव तु

2.151.155.12

भगवानुवाच ॥
ध्वजमेतं प्रदास्यामि भवतामरिनाशनम् ॥
दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः

2.151.155.13

श्रीपुष्कर उवाच ॥
एवमुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम् ॥
सौवर्णमुच्छ्रितं दिव्यं शक्रध्वजमिति श्रुतम्

2.151.155.14

तमादाय सुराः सर्वे प्रययुर्दानवालयम्॥
देवानुपगताञ्छ्रुत्वा दानवा निर्ययुस्ततः

2.151.155.15

सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्तथा ॥
दृष्ट्वा देवबलं ते च शक्रकेतुविराजितम्

2.151.155.16

तत्तेजसा महाभाग मूर्च्छीभूताः क्षणेन तु ॥
मूर्च्छितास्तु ततो दैत्यास्त्रिदशैर्विनिपातिताः

2.151.155.17

केचिद्भग्ना दिशो जग्मुस्समुद्रं विविशुस्ततः ॥
ततो लब्धजयः शक्रः पूजयामास तं ध्वजम्

2.151.155.18

पूजयित्वा नृपतये वसवे प्रददौ तदा ॥
गर्गोक्तेन विधानेन तं च पूजितवान्वसुः

2.151.155.19

तेनास्य तुष्टो मघवानिदं वचनमब्रवीत् ॥
इन्द्र उवाच ॥
येप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम्

2.151.155.2.154.20

अद्य प्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥
तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज

2.151.155.21

दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा ॥
सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ॥

2.151.155.22

पुष्कर उवाच ॥
ततः प्रभृति राजानो राम शक्रमहोत्सवम् ॥
कुर्वन्ति गर्गकथितं सर्वाभयविनाशनम्

2.151.155.23

धन्यं यशस्यं रिपुनाशकारि कीर्तिप्रदं धर्मफलप्रदं च ॥
कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम्

2.151.155.154

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्पत्तिवर्णनो नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः

2.151.155.1

2.155
पुष्कर उवाच ॥
शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे ॥
प्रागुदक्प्रवणे देशे शक्रार्थं भवनं शुभम्

2.151.155.1

वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च ॥
ततः शक्रध्वजस्थानं मध्ये संस्थाप्य यत्नतः

2.151.155.3

मघवन्तं पटं कुर्यात्तस्य भागे तु दक्षिणे

2.151.155.4

वामभागे पटे कुर्याच्छचीं देवीं तथैव च ॥
प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात्

2.151.155.5

तयोस्तु पूजा कर्तव्या सततं वसुधाधिपैः ॥
वनप्रवेशविधिना शक्रयष्टिं ततो नृप

2.151.155.6

आनयेद्गोरथेनाथ वायवैः पुरुषैरथ ॥
अर्जुनस्याजकर्णस्य प्रियकस्य वचस्य च

2.151.155.7

सुरदारुणश्च तथा तथैवोदुम्बरस्य च ॥
चन्दनस्याथ वा राम पद्मकस्याथ वा यदि

2.151.155.8

अलाभे सर्वकाष्ठानां यष्टिं कुर्वीत वैणवीम् ॥
सुवर्णनद्धां धर्मज्ञ तां च सम्यक्प्रवेशयेत्

2.151.155.9

प्रोष्ठपादसिते पक्षे अष्टम्यां रिपुसूदन ॥
क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप

2.151.155.2.155.10

चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा ॥
अष्टाभिश्च तथा मूले छित्त्वा तोये यथा क्षिपेत्

2.151.155.11

यायादुद्धृत्य नगरं सम्यगेव प्रवर्तते ॥
तस्याः प्रवेशे नगरं पताकाध्वजमालि च

2.151.155.12

सिक्तराजपथं कुर्यात्तथालंकृतबालकम् ॥
नटनर्तकसङ्कीर्णं तथा पूजितदैवतम्

2.151.155.13

सम्पूजितगृहं राम तथा पूजितवानयम् ॥
पौरैरनुगतो राजा सुवंशैः फलपाणिभिः

2.151.155.14

अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ॥
प्राक्छिरास्तां ततः कुर्याद्वस्त्रैः संच्छादितां शुभैः

2.151.155.15

पूजितां पूजयेत्तान्तु यावत्सा द्वादशीफलम् ॥
एकादश्यां सोपवासो नृपः कुर्यात्प्रजागरम्

2.151.155.16

सांवत्सरेण सहितो मन्त्रिणा सपुरोधसा ॥
रात्रौ जागरणं कार्यं नागरेण जनेन तु

2.151.155.17

स्थानेस्थाने महाभाग देया प्रेक्ष्या तथा मधु ॥
पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः

2.151.155.18

द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः ॥
यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः

2.151.155.19

सुयंत्रितं तु तं कुर्याद्गृहं स्तम्भचतुष्टयम् ॥
पूजयेत्तन्महाभाग गन्धमाल्यान्नसम्पदा

2.151.155.2.155.20

नित्यं च पटयोः पूजा यष्टिपूजां च कारयेत् ॥
बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः

2.151.155.21

नित्यं च जुहुयान्मन्त्रान्पुरोधाः शाक्रवैष्णवान् ॥
नित्यं नृत्येन गीतेन तथा शक्रं च पूजयेत्

2.151.155.22

द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः ॥
विशेषेण च धर्मज्ञ सांवत्सर पुरोहितौ

2.151.155.23

उत्थाने च प्रवेशे च शक्रभूयान्नराधिपः ॥
वक्ष्यमाणेन मन्त्रेण कालवित्सपुरोहितः

2.151.155.24

पूजयेदुत्थितं केतुं भूषणैर्विविधैरपि ॥
छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च

2.151.155.25

एवं सम्पूजयेद्राम तदा दिनचतुष्टयम् ॥
पञ्चमे दिवसे प्राप्ते शुक्रकेतुं विसर्जयेत्

2.151.155.26

पूजयित्वा महाभाग बलेन चतुरङ्गिणा ॥
नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत्

2.151.155.27

वाद्यघोषेण महता संगीतं तत्र कीर्तितम् ॥
पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि ॥
उत्सवं च तथा कार्यं जलतीरगतैर्महत्

2.151.155.28

एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् ॥
नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथम्

2.151.155.155

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्सववर्णनो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc