विष्णुधर्मोत्तरपुराणम् · अध्याय 2.161.165
2.161
परशुराम उवाच ॥
शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम् ॥
कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा
पुष्कर उवाच ॥
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ॥
प्रागुदक्प्रवणे देशे शान्त्यागारं तु कारयेत्
तं तमत्यन्तविस्तीर्णं नानावस्त्रविभूषितम् ॥
पुनर्वसौ गते चन्द्रे तत्र यायान्नराधिपः
पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ ॥
अभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा
देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् ॥
गन्धमण्डलकैर्मुख्यैर्यथास्थानं पुरोहितः
आवाहनं ततः कुर्यात्स्नातास्तत्र च येऽपि ते ॥
देवादीनां तु सर्वेषां ब्राह्मणैः सहिता द्विज
आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा ॥
देववत्पूजनं कुर्यात्तथा नृपपुरोहितौ
एवं संपूजनं कृत्वा सोपवासास्तु ते त्रयः ॥
स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः
ततो नैरृतकं कर्म प्रदेशे तु पुरोहितः ॥
कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम्
श्रुत्वा दशगुणानत्र स्नापयेत्तं नराधिपम् ॥
पूर्वमेव तथा स्नानं सिद्धार्थोत्साधितं तथा
पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित् ॥
आज्यं तेजः समुद्दिष्टमाज्यं तेजोहरं परम्
आज्यं सुराणामाहारमाज्ये लोकः प्रतिष्ठितः ॥
तेनान्तरिक्षं दिव्यं वा धत्ते कल्मषनाशनम्
सर्वे तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु ॥
ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम्
गच्छेत्तं तु पुरस्कृत्य सांवत्सरपुरोहितौ ॥
स्नानवेदी तु कर्तव्या लाजाकुसुममण्डिता
चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता ॥
चत्वारि तस्याश्चर्माणि प्राग्ग्रीवाणि समास्तरेत्
वृषस्य द्वीपिनश्चैव सिंहशार्दूलयोस्तथा ॥
भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम्
स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नृपैः ॥
कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः
ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत् ॥
कुम्भाष्टकं तु कर्तव्यमष्टाविंशतिरेव वा
अथवाष्टशतं राम वृद्धिरेषा गुणोत्तरा ॥
ततोपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः
शूलेन मृन्मयं भिंद्याच्छत्रुं क्रोधसमन्वितः ॥
राज्ञस्तु कलशं दत्त्वा स्वयं सांवत्सरस्ततः
अभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम् ॥।
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम्
जीवां विश्वेश्वरीं पाठां समंगामभयां तथा ॥
सहां च सहदेवां च पूर्णकोशां शतावरीम्
अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत् ॥
ब्राह्मी क्षेमामजां चैव सर्वबीजानि काञ्चनम्
मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा ॥
रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम्
एवं स्नातो घृते दृष्ट्वा वदनं तर्पणं तथा ॥
मङ्गलालभनं कृत्वा धौतवासाः समाहितः
अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् ॥
तेषामेव ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः
ओङ्कारपूतं जुहुयाद् घृतं बहु पुरोहितः ॥
आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं ततः
राजचिह्नार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् ॥
अनुलेपनमादद्याद्गन्धद्वारेति मन्त्रतः
शुभं वसनमादद्याच्छ्रीसूक्तेनाभिमंत्रितम् ॥
श्रियं धातर्मयि देहि मंत्रः सुमनसां भवेत
रायस्पोषेति च तथा मन्त्रेलङ्करणे स्मृतः ॥
ततोनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः
केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् ॥
वह्नेरुत्तरदिग्भागे ततः प्रागुक्तकर्मणाम्
सिंहासनं न्यसेत्पृष्ठे भव्यास्तरणसंयुतम् ॥
ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत्
वृषस्य वृषदंशस्य करेश्च पृषतस्य च ॥
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम्
ध्रुवा द्यौरिति मन्त्रेण नृपं तत्रोपवेशयेत ॥
दर्भपाणिस्ततो राजा तथैव च पुरोहितः
तयोर्हस्तगतावग्रे दर्भौ संग्रथयेद्द्विजः ॥
ततः पुरोधा जुहुयाद्ब्राह्मैर्मन्त्रैर्घृतं शुचिः
रौद्रवैष्णव वायव्यशाक्रसौम्यैः सवारुणैः ॥
बार्हस्पत्यैस्ततः कुर्यात्तंत्रमुत्तरसंजकम्
दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम् ॥
यान्तु देवगणाः सर्वे सानुगाः सपरिच्छदाः
आदाय पार्थिवात्पूजां नगरागमनाय च ॥
ततस्तु पूजयेद्राजा सांवत्सरपुरोहितौ
धनेन ब्राह्मणानां च ततो दद्याच्च दक्षिणाम् ॥
मङ्गलालभनं कृत्वा खड्गपाणिर्गृहाद्व्रजेत् ॥
शान्तिघोषेण महता राजा कुञ्जरगस्ततः
शांतिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशनी च ॥
सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविवृद्धिदा च
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने घृतकम्बलशान्तिकथनो नामैकषष्ट्युत्तरशततमोऽध्यायः
2.162
॥राम उवाच ॥ ॥
संवत्सराभिषेकं च कथयस्व महीभृतः ॥
तत्र मे संशयं देव त्वं हि सर्वं विपश्यसि
पुष्कर उवाच ॥
राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजः ॥
पूर्वाभिषेकविधिना कर्तव्यमभिषेचनम्
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्धनं च ॥
वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्यविवृद्धिदं च
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने संवत्सराभिषेकाध्यायो नाम द्विषष्ट्युत्तरशततमोऽध्यायः
2.163
राम उवाच ॥ भगवन्सर्वधर्मज्ञ सर्वशास्त्रविदां वर ॥
यात्राकालविधानं मे कथयस्व महीक्षिताम्
पुष्कर उवाच ॥
यदा मन्येत नृपतिराक्रन्देन बलीयसा ॥
पार्ष्णिग्राहेभिभूणा तं तदा यात्रां प्रयोजयेत॥
पुष्टा मेद्य भृता भृत्या प्रभूतञ्च बलं मम ॥
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत्
पार्ष्णिग्राहाधिकं सैन्यं मूले निक्षिप्य वा व्रजेत्॥
चैत्रं वा मार्गशीर्षं वा यात्रां यायान्नराधिपः
चैत्र्यां सस्यं हि नंदाद्यं हन्ति पुष्टिं च शारदम् ॥
एतदेव विपर्यस्तं मार्गशीर्ष्यां नराधिपः ॥
शत्रोर्वा व्यसने यायात्काल एव सुदुर्लभः ॥
दिव्यान्तरिक्षक्षितिजैरुत्पातैः पीडितं भृशम्
षडृक्षपीडनात्तृप्तं पीडितं च तथा ग्रहैः ॥
प्रज्वलन्ति तथैवोल्का दिशं यस्य प्रपद्यते
भूकम्पो यां दिशं याति यां च केतुः प्रधूमयेत् ॥
निर्घातः श्रूयते यत्र तां यायाद्वसुधाधिपः
स्वबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥
सम्भूतान्तरकोपं च क्षिप्रं यायादरिं नृपः
यूकामक्षिकबहुलं बहुविघ्नं तथा बिलम् ॥
नास्तिकं भिन्नमर्यादं तथा मङ्गलवादि च
अपेतप्रकृतिं चैव निराशं च तथा जयेत् ॥
विष्टिनायककं सैन्यं तथा भिन्नपरस्परम्
व्यसनासक्तनृपतिं बलं राजा नियोजयेत् ॥
गच्छेत्तु पश्चाद्धर्मज्ञ पुरस्तात्तु विगर्हितैः
क्व यासि तिष्ठ मागच्छ किं तत्र गमनस्य च ॥
अन्ये शब्दाश्च ये दृष्टास्ते विपत्तिकरा अपि
ध्वाजादिषु तथा स्नानं क्रव्यादानां विगर्हितम् ॥
स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च
विनिर्गतश्च द्वाराद्यैः शिरसश्चाभिघातनम् ॥
छत्रध्वजादिवस्त्राणां पतनं च तथाशुभम्
दृष्ट्वा निमित्तं प्रथमममङ्गल्यं विनाशनम् ॥
केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम्
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् ॥
अथेष्टानि प्रवक्ष्यामि मङ्गल्यानि तथानघ
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भं तथैव च ॥
जलजानि च मत्स्यानि मांसं मत्स्याश्च भार्गव
गावस्तुरङ्गमा नागा बद्ध एकः पशुस्ततः ॥
त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः
गणिकाश्च महाभागाः पूर्वाचार्यादिगोमयम् ॥
रुक्मं रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ
औषधानि च सर्वज्ञ वचासिद्धार्थके तथा ॥
नृवर्धमानं यानं च भद्रपीठं तथैव च
खड्गं छत्रं पताकां च मृदमायुधमेव च ॥
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम्
घृतं दधि पयश्चैव फलानि विविधानि च ॥
स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम्
नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि च॥
अक्षताश्च तथा मुख्यास्तथा दर्पणमेव च
अञ्जनं रोचनं चैव शृङ्गारो माक्षिकं तथा ॥
शङ्ख इक्षुस्तथा भक्ष्या वाचश्चैव तथा शुभाः
वादित्राणां मुखः शब्दो गम्भीरश्च मनोहरः ॥
गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः
वायुः सशर्करो रूक्षः स च दिग्भ्यः समर्थितः॥
प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्द्विज
अनुकूलो मृदुस्निग्धः सुखस्पर्शः सुखावहः ॥
ऋक्षा ऋक्षस्वराः खङ्गाः क्रव्यादाश्च विगर्हिताः
मेघाः शस्ता घनाः स्निग्धा गजबृंहितसन्निभाः ॥
अनुलोमा तडिच्छस्ता शक्रश्चापं तथैव च
अप्रशस्ते तथाज्ञेये पीरवेशप्रवर्षणे ॥
अनुलोमा ग्रहः शस्ता दिक्पतिस्तु विशेषतः
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम् ॥
शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम्
मनसस्तुष्टिरेवात्र परमं जयलक्षणम् ॥
एकतः सर्वलिङ्गानि मनस्तुष्टिरथैकतः
यानोत्सुकत्वं मनसः प्रहर्षः सुस्वप्नलाभो मनसः प्रसादः ॥
माङ्गल्यलब्धिश्रवणं च राम ज्ञेयानि नित्यं विजयावहानि
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० यात्राशकुनवर्णनं नाम त्रिषष्ट्युत्तरशततमोध्यायः
2.164
पुष्कर उवाच ॥
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभम् ॥
निवेदयन्ति शकुना देशस्य नगरस्य च
पथि पान्थो नृपः सैन्ये मरीचोद्दिश्य देवताम् ॥
सार्थे प्रधानः साम्ये च ज्ञातिविद्यावयोधिकः
सर्वपापफलो दीप्तः शान्तः शुभफलो मतः ॥
षट्प्रकारा विनिर्दिष्टाः शकुनानां च दीप्तता
वेला दिग्देशकरणं स तु जातिविभेदकः ॥
पूर्वापूर्वा च विज्ञेया सा तेषां बलवत्तरा
दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ॥
क्रूरस्य वेलादीप्तस्य खलर्क्षनिग्रहादिषु
धूमितासा तु विज्ञेया यां गमिष्यति भास्करः ॥
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता
एतास्तिस्रः स्मृता दीप्ताः पञ्च शन्तास्तथा पराः ॥
दीप्तायां दिशि दिग्दीप्तः शकुनः परिकीर्तितः
ग्राम्ये वन्यो वने ग्राम्यस्तथा निन्दितपादपे ॥
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तम
क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः॥
ततो दीप्तश्च कथितो भिन्नभैरवनिःस्वनः
प्रतिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ॥
दीप्तशान्तो विनिर्दिष्टः सर्वैभेदैः प्रकीर्तितः
मिश्रांमिश्रो विनिर्दिष्टस्ततो वाच्यं बलात्फलम् ॥
गोश्वोष्ट्रगर्दभश्वानः शारिकागृहगोधिके ॥
नटिकेषां सचर्माद्ये कथिता ग्रामवासिनः
अजाविशुक्रनागेन्द्रखरा महिषवायसौ ॥
ग्राम्यारण्या विनिर्दिष्टाः सर्वेऽन्ये वनगोचराः
मार्जरक्तकृषो ग्राम्यस्तथान्यो वनगोचरे ॥
सर्वेऽप्येवेति विज्ञेया नित्यं रूपविभेदतः
श्रीकण्ठशिखिचक्राह्वा ये च हारीतवायसाः ॥
कुलालकुक्कुटश्येनफांटवं जलवानराः
शशघ्नचटकश्यामाश्चाषभास कपिञ्जलाः ॥
तित्तिरिः शतपत्रश्च कपोताश्च तथा त्रयः
खञ्जरीटकदात्यूह शुकाण्डीवहतिक्तकाः ॥
भारद्वाजश्च सारङ्गः इति ज्ञेया दिवाचराः
वल्गुल्युलूकः शशका शरभोत्क्रोशपिच्छलौ ॥
माषिका पिङ्गली काकः कथिता रात्रिचारिणः
हंसाजमृगमार्जारनकुलर्क्ष भुजङ्गमाः ॥
वृकश्च सिंहव्याघ्रोष्ट्रश्वसूकरतुरङ्गमाः
श्वावित्पृथुतगोमायुघृतकोकिलसारसाः ॥
तुरङ्गमो द्वीपिनराश्चोरा उभयचारिणः
रणप्रस्थानयोः सर्वे पुरस्तात्सङ्गचारिणः ॥
जयावहा विनिर्दिष्टाः पश्चाद्विजयकारिणः
गृहे गम्यो यदा चायं व्याहरेत्पुरतः स्थितः ॥
नृपावमानं वदति वामः कलहभोजने
याने तद्दर्शनं धन्यं सपतङ्गस्य चाप्यथ ॥
चौरैर्दोषमथाख्याति मयूरो भिन्ननिःस्वनः ॥
वमते कपिलः श्रेष्ठः तथा दक्षिणसंस्थितः ॥
पृष्ठतो निन्दितफलः तित्तिरिस्तत्र शस्यते
एणा वराहाः पृषतो वामा भूत्वा तु दक्षिणाः॥
भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः
वृकाश्च जम्बुकव्याघ्र सिंहमार्जारगर्दभाः ॥
वाच्छितार्थकरा ज्ञेया दक्षिणाद्वामभागगाः
शिवा श्यामा रला च्छुच्छः पिङ्गला गृहगोधिकाः ॥
सूकरी परपुष्टा च पुंनामानश्च वामतः
श्रीसंज्ञा चाषभषककपिश्रीकर्णछिक्कराः ॥
कपिश्रीकर्णपिप्पीका रुरुश्येनाश्च दक्षिणाः
जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् ॥
ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः
फलकृत्पूर्वशकुनः प्रस्थितस्य च योन्वहम् ॥
भवेत्तस्य फलं वान्यत्तदेव दिवसं बुधैः
मत्ता भिक्षार्थिनो बाला विरक्ताभास्तथैव च ॥
सीमान्तनद्यन्तरिता विज्ञेया निष्फला द्विज
एकद्वित्रिचतुर्भिस्तु शिवा धन्या ततो भवेत् ॥
पञ्चभिश्च तथा षड्भिरधन्याः परिकीर्तिताः
सप्तभिश्च तथा धन्या निष्फला परतो भवेत् ॥
नृणां रोमाञ्चजननी वाहनानां भयप्रदा
ज्वालानना सूर्यमुखी विज्ञेया भयवर्धिनी ॥
प्रथमं शार्ङ्गके दृष्टे शुभे देशे शुभं वदेत्
संवत्सरं मनुष्यस्य ह्यशुभे चाशुभं तथा ॥
यथाविधि नरः पश्यञ्छकुनं प्रथमेहनि
आत्मनश्च तथा तेन ज्ञातव्यं वत्सरं फलम् ॥
शार्ङ्गक च नरो दृष्ट्वा भुजङ्गमशिरोगतः
अवश्यं तदवाप्नोति यत्किञ्चिन्मनसेच्छति ॥
विशन्ति येन मार्गेण वायसा बहवः परम्
तेन मार्गेण वै तस्य पुरस्य ग्रहणं भवेत् ॥
सेनायां यदि वासार्थे विनिष्टो वायसो भवेत्
वासो भयाय रात्रस्थो भयं वदति दुस्तरम् ॥
छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुण्ठनैः
मृत्युस्तत्पूजने पूजा तद्विष्ठाकरणे शुभम् ॥
प्रोषितागमकृत्काकः कुर्वन्द्वारि गतागतम्
रक्तं दग्धं गृहे द्रव्यं विक्षपन्वह्निवेदकः ॥
न्यसेद्रजं पुरस्ताच्चेन्निवेदयति बन्धनम्
पीतद्रव्यं तथा रुक्मं रूप्यं श्वेतं तु भार्गव ॥
यश्चैवोपलभेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत्
द्रव्यं चोपनयेद्यत्तु तस्य हानिं द्विजोत्तम ॥
परतो धनलब्धिः स्याद्राम मांसस्य भक्षणे
श्रीलब्धिः स्यान्मृगक्षेपे राज्यं रत्नार्पणे महत् ॥
यातुः काकोनुकूलस्थः क्षेप्यः कर्णसमो भवेत्
नन्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः
समुखोऽभ्येति विततः यात्राघातकरो भवेत् ॥
वामः काकः स्मृतो धन्यो दक्षिणस्तु विनाशकृत्
वामोऽनुलोमगः प्रेष्ठो मध्यमो दक्षिणः स्मृतः ॥
प्रतिलोमकृतिर्वामो गमनप्रतिषेधकृत् ॥
निवेदयति यात्रार्थमभिप्रेतं गृहे रतः ॥
एकाक्षिचरणस्त्वर्क वक्ष्यमाणो भयावहः
कोटरे वासमानस्तु महानर्थकरो भवेत् ॥
न शुभः सूकरे काकः पङ्कान्तः स तु दृश्यते
अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः ॥
ज्ञेयाः पतत्रिणोऽन्येमी काकवद्भृगुनन्दन ॥
स्कन्दादौ राम सव्यस्थाः श्वानो रिपुविनाशकाः ॥
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे
अन्तर्गृहे गृहेशस्य मरणाय भवेद्भृशम् ॥
यस्य व्रजति वामाङ्गं तस्य स्याद्दीर्घसिद्धये
भयाय दक्षिणं चांगं तथा भुजमदक्षिणम् ॥
यात्राघातकरो यस्तु हर्षं प्रति मुखागतः
मार्गावरोधको मार्गे चौरस्तुदति भार्गव ॥
अलातास्थिमुखः पापो रज्जुमीरमुखस्तथा
सोपानत्कमुखो धन्यो मांसपूर्णमुखोऽपि च ॥
अमङ्गल्यमथ द्रव्यं देशं चैवाशुभं तथा
अवमूल्याग्रतो याति यातस्य न भयं भवेत् ॥
तथावमूत्त्यां व्रजति शुभं देशं तथा क्रमम्
मङ्गल्यं च तथा द्रव्यं तस्य स्यादर्थसिद्धये ॥
एवञ्च राम विज्ञेयास्तथा वै जम्बुकादयः
भयाय स्वामिनो ज्ञेया अनिमित्तभयं गवाम् ॥
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा
शिवाय स्वामिनो रात्रौ बलीवर्दो नदन्भवेत् ॥
उत्सृष्टवृषभो राज्ञो विजयं संप्रयच्छति
अभक्ष्यं भक्ष्ययन्तश्च गावो न्यासस्तथाम्बकान् ॥
त्यक्तस्नेहाश्च वत्सेषु गवां क्षयकरो मतः
भूमिं पादैर्विनिर्हत्य दीना भूता विकारणात् ॥
अन्योन्यलग्नपुच्छाश्च गावो भयकरा मताः
आर्द्राङ्गा हृष्टरोमाश्च प्रविशन्त्यस्तथा गृहम् ॥
शृङ्गलग्नमृदो वापि विज्ञेयाः स्वामिवृद्धये
महिष्यादिषु चाप्येतत्सर्वं वाच्यं विजानता ॥
नेत्रनासापुटप्रोथस्कंधस्यासनमूर्धसु
हयानां ज्वलनं शस्तमतोन्यत्र प्रशस्यते ॥
सर्वाङ्गज्वलनं नेष्टं तथा धूमसमुद्धवः
विस्फुलिङ्गोद्भवश्चैव शकृत्यां स्वशनं तथा ॥
आरोहणं तथान्येन सपर्याणस्य वाजिनः
जलोपवेशनं नेष्टं भूमौ च परिवर्तनम् ॥
विपत्कल्पतरङ्गस्य स्वतो वाप्यनिमित्ततः
यवसोदकयोर्द्वेषस्त्वकस्माच्चैव शस्यते ॥
क्रीतः काकैः कपोतैर्वा शारिकाभिस्तुरङ्गमः
आत्मनः स्वामिनो वापि तदा मरणवेदकः ॥
दुःखार्तध्यानशीलश्च साश्रुनेत्रो भयावहः
जिह्वया लेढि चरणमसावपि भयङ्करः ॥
निर्निमित्तं पतति वा तदा स्यान्नृषु वृद्धये
वामपादेन च तथा विलिखंश्च वसुन्धराम् ॥
स्वेनैव वामपार्श्वेन दिवा वा न शुभप्रदः
प्रवेपमाना ह्रेषन्ते रोदन्ते च मुहुर्मुहुः ॥
शकृन्मूत्रे विमुञ्चन्तो वेदयन्ति महद्भयम्
उत्तिष्ठन्तो निषीदन्तः सन्ध्यायां दीनमानसाः ॥
स्रस्ताः सास्राश्च दीनाश्च ह्रेषमाणा भयावहाः
ह्रेषतस्तु यदा ज्वाला ज्योत्स्ना वा मुखतो भवेत् ॥
तदा विजयमाख्याति स्वामिनो ध्रुवमेव हि
दक्षिणेन पदा भूमिं विकिरञ्जयवर्धनः ॥
रात्रौ दक्षिणपार्श्वेन प्रस्वपंश्च नरोत्तम
आरोहणं नवे दद्यात्प्रतीपं वा गृहं व्रजेत् ॥
यात्राविघातमाचष्टे वामं पादं तथा स्पृशन्
अनुलोमं यदा याति पुरस्तात्प्रतिह्रेषिते ॥
दक्षिणं वा तथा पार्श्वं मुखेनोपरि मार्जति
,प्रेरितस्त्वनुकूलेन पवनेन रणे हयः ॥
ह्रेषमाणः परान्याति तदा स्याद्विजयावहः
ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ॥
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः
दन्तभङ्गे शुभे देशे द्रुमे वा भयवर्धनः ॥
क्रूरेषु वेलालग्नेषु तथा राम विशेषतः
।
गण्डूषधारणं कृत्वा वक्त्रभागे तु दक्षिणे ॥
हस्तं गृहीत्वा हस्तेन नागस्यान्यस्य वा पुनः
उच्चैर्वा करमुन्नम्य विषाणे वाथ दक्षिणे ॥
गम्भीरं श्रोत्रमधुरं राज्ञस्तद्विजयावहम्
अतोन्यथा विपर्यस्तं त्वशुभं परिकीर्तितम् ॥
अरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत्
मदं वा वारणो जह्याद्यात्राघातकरो भवेत् ॥
ग्राहगृहीतो द्विरदः सग्राहः सलिलाशयात्
उत्तरन्विजयाय स्यात्सग्राहो भयवर्धनः ॥
शस्त्राङ्कुशपताकानां भूमौ निपतनं गजात्
लोष्टकाष्ठकरीषाणां क्षेपणे चापि यद्भवेत् ॥
अनुयात्रं जयायैतत्प्रतियात्रं न शस्यते ॥
वार्यमाणो यदा नागः शत्रुणाभिमुखो व्रजेत् ॥
तन्प्रसुप्ततारं च तदा तेजः प्रशङ्कितः
इष्टांस्तु यस्तु भक्ष्यांश्च तथा स्पृशति हस्तिनीम् ॥
राम बृंहितघण्टानां प्रतिशब्देन कुप्यते
कक्षायां बद्ध्यमानायां यदा वोच्चैर्नदत्यपि ॥
यात्रानुगश्च भवति प्रहृष्टश्चैव वारणः
वामं दक्षिणपादेन पादमाक्रमते तथा ॥
दक्षिणं च तथा दन्ते परिमार्ष्टि करेण चेत्
वेष्टयत्यथ वा कर्णौ तथा स्तब्धौ करोति च ॥
जयाय राज्ञो भवति जनयन्नपि शीकरम्
वामं तु वेष्टयेद्दन्त पादं वामेन दक्षिणम् ॥
पादमाक्रममाणश्च प्रस्खलन्निपतन्नपि
अग्रहस्तं नोद्धरति यदा च वसुधातलात् ॥
सासुश्च कवलद्वेषी दीनो भयविवर्धनः
निःश्वासं परमं कुर्वञ्छान्तं विकृतमेव च ॥
भयावहो विनिर्दिष्टः प्रतिलोमगतिस्तथा
क्षीरपादपगुल्मानां निहन्ता विजयावहः ॥
तथा विकासिताक्षश्च राम लब्धपदोऽपि च
वृषोश्वः कुञ्जरो वापि रिपुसैन्यं यदा व्रजेत् ॥
पराजयस्ततो ज्ञेयं लक्षणं भृगुनन्दन
खण्डमेघाभिदृष्ट्या च सेनानाशमवाप्नुवान् ॥
प्रतिकूलग्रहर्क्षा च तथा संमुखमासता
यात्राकाले रणे वापि च्छत्रादिपतनाद्भयम् ॥
विज्ञेयं भूमिपालस्य घोराणां दीनता तथा
नराश्वनागा हृष्टाश्च विधूमोग्निस्तथा ज्वलन् ॥
अनुलोमा ग्रहाश्चैव विज्ञेयञ्जयलक्षणम् ९७ ॥
आयुधानां प्रज्वलनं कोशादपि विनिर्गमः ॥
संग्रामकाले विज्ञेयं विजयस्य तु लक्षणम्
काकैर्योधाभिभवनं क्रव्यादैर्मण्डलक्रिया ॥
सैन्योपर्युपसैन्येन विज्ञेयं भयलक्षणम्
कण्डूतिर्दक्षिणे हस्ते छाया च शुभलक्षणा ॥
शोभा मनुजशार्दूल तत्कालं विजयावहा
सेनाङ्गसंस्थो भयकृद्द्विजेन्द्र क्रव्याद्भवेद्वाप्यथ मक्षिका च ॥
शुभावहाः स्युः शतपत्रचाषमयूरहंसाश्च सजीवजीवाः
॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शकुनवर्णनो नाम चतुःषष्ट्युत्तरशततमोऽध्यायः
2.165
॥ पुष्कर उवाच ॥
प्रष्टुर्देशे शुभे वेद्यं शुभं भवति भार्गव ॥
अशुभे वाशुभं राम तन्मे निगदतः शृणु
श्मशानसूनाभवनबन्धनागारवेश्मसु ॥
रथ्याकर्दमदुर्गेषु शून्येषु भवनेषु च
कण्टकिद्रुमयुक्तेषु शीर्णप्राकारवेश्मसु ॥
वल्मीकमूषिकासर्पसकीटेष्वशुभं वदेत्
मांसस्पृष्टोपलिप्तेषु सुपुष्पेषु विशेषतः ॥
प्रशस्तद्रुमयुक्तेषु विद्याद्विजयलक्षणम्
सशाद्वलेषु तीरेषु सरितां सरसामपि ॥
भवनेषु विचित्रेषु शुभं वाच्यं विजानता
अभ्यक्तं शोच्यमानं च मुक्तकेशं तथैव च ॥
भूमिष्ठमुपसर्पन्ति तेषां विद्यादशोभनम्
हृष्टशुक्लाम्बरोपेता सुमनस्कास्तथैव च ॥
दैवज्ञमुपसर्पन्ति तेषां विद्याच्छुभं द्विजाः
बहवो दण्डहस्ताश्च काषायवसनास्तथा ॥
अभ्यक्तमुण्डपतितास्तथा क्लीबाश्च योषितः
शृङ्खलारज्जुहस्ताश्च संक्लिन्नफलपाणयः ॥
पृच्छन्तस्ते तु विज्ञेया नृष्वशेषभयावहाः
शुक्लाम्बरा सपुष्पाश्च तथैव फलपाणयः॥
रत्नहस्ताः शुभा ज्ञेयास्तथा मङ्गलवादिनः
वेलाः सर्वाः प्रपश्येत पूर्वाह्णे परिपृच्छतः ॥
सन्ध्ययोरपराह्णे च निशायां च विगर्हिताः
शान्तां दिशमथास्थाय पृच्छतः सिद्धिमादिशेत ॥
उदीचीं प्रागुदीचीं च पूर्वां चैव विशेषतः
अङ्गुष्ठनखपादोरुगुल्फमुष्कमुरस्तनाः ॥
गण्डशृङ्गाक्षिकौ कर्णौ दन्तोष्ठभुजमस्तकम्
गुरुलुर्गुरुवस्तिश्च वक्षः कक्षोरुसन्धयः ॥
पुन्नामान्येवमादीनि स्पृशतः पृच्छतः शुभम्
कर्णपालिर्भ्रुवौ नासाजिह्वाग्रीवाकृकाटिकाः ॥
नाभिश्रोणी स्फिचे जंघे पिण्डिकाङ्गुलयोऽपि च
पाणिपादाश्रया रेखा वलयः सर्वसन्धिषु ॥
पार्ष्णिरित्येवमादीनि स्त्रीनामान्यभिनिर्दिशेत्
शिरो ललाटं चिबुकं मुखं पृष्ठोदरं त्रिकम् ॥
जठरं वस्तिशीर्षं च मेहनं जानुनी तथा
कर्णपीठेऽक्षिकूटे च पार्श्वे च हृदयं तथा ॥
नपुंसकानि जानीयुरंगविद्याविशारदाः
पुंनामानं दृढं स्निग्धमविभग्नमपीडितम् ॥
समं समाहितं चांगं वीरुजं च यदा स्पृशेत्
यमर्थमभिपृच्छेत तस्य सिद्धिं विनिर्दिशेत् ॥
शत्रुणाप्युदये प्रष्टुस्तल्लग्नस्य तथोदये
शत्रुराश्युदये प्रष्टुस्तेषां वाप्यधिपोदये ॥
पराजयं तु वक्तव्यं स्वलग्नस्याष्टमोदये
स्वराशेश्च महाभाग तथा विद्यादशोभनम् ॥
स्वलग्नस्योदये राम शत्रुराश्युदये तथा
लग्नाद्वा राशितो वापि त्रिषष्टदशमोदये ॥
एकादशोदये वापि तेषां वाप्यधिपोदये
प्रष्टुः सर्वार्थसंपत्तिर्विज्ञेया भृगुनन्दन ॥
लग्ने वा तच्चतुर्थे वा सप्तमे दशमेऽपि वा
पञ्चमे नवमे वापि शस्ताः सौम्यग्रहाः स्मृताः ॥
त्रिषड्दशसमं स्थाने पापाश्चैकादशे शुभाः
सर्वार्थसाधका ज्ञेयाः प्रष्टुर्भृगुकुलोद्वह ॥
सौम्या बलाधिका ज्ञेयाः पापा हीनबलास्तथा
बलवच्च तथा लग्नं प्रश्नकाले शुभप्रदम् ॥
एवं तु प्रश्रकालेन शुभं विज्ञाय भूपतिः
यात्रा राम शुभा ज्ञेया नान्यथा तु कदाचन ॥
जातकं चाथ विज्ञाय दशाकाले सुशोभने ॥
अष्टवर्गबले शुद्धे यात्राकालः प्रशस्यते
परस्य देवे त्वशुभे द्विजेन्द्र यात्रा च देया स्वशुभाय नित्यम् ॥
ग्रहादिपाकेषु शुभेषु चैव दत्ता भवेत्कार्यकरी यथावत्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्रसंवादे श्रीपरशुरामं प्रति पुष्करोपाख्याने अंगविद्यायोगो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0